संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ३७ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ३७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ३७ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि! त्वं प्राकट्यं मेऽवतारिणः ।वेधसो वैष्णवे चैकपञ्चाशत्तमवत्सरे ॥१॥आद्ये कल्पे चाद्यमनौ कृते युगे हि वेधसः ।आयुष्यार्धोत्सवं स्वर्णोत्सवं देवादयोऽर्जयन् ॥२॥सत्यलोकेऽभवत्तत्र समाजो द्युनिवासिनाम् ।तलवासाः स्वर्गवासा जनतपोनिवासिनः ॥३॥मेरुवासा मानसस्था लोकालोकनिवासिनः ।वैराजवासाश्चैवाऽन्ये सत्यलोकं समाययुः ॥४॥सिद्धाः साध्या ब्रह्मशीला ब्रह्मचारिण आययुः ।महर्षयश्च ऋषयः पितरश्च समाययुः ॥५॥लोकपाला देवपाला लोकेश्वराः समाययुः ।आदित्या वसवो रुद्रा मनवोऽश्विनीपुत्रकौ ॥६॥इन्द्रा ग्रहाश्च ताराश्च नक्षत्राणि समाययुः ।यक्षाश्च चारणा याम्या गन्धर्वाश्च समाययुः ॥७॥किंपुंसः किन्नराः सर्पा नागा रक्षांसि चाययुः ।कैलासस्थाः क्षीरवारिधिस्थाश्चापि समाययुः ॥८॥मानवाश्च नदा नद्यो वृक्षा वल्ल्यः समाययुः ।तीर्थानि ऋतवः कालाः पक्षाद्याश्च समाययुः ॥९॥युगाश्च वत्सराश्चापि भूततत्त्वानि चाययुः ।धर्मवंशाः सतीसाध्व्यो योगिन्यश्च तथाऽऽययुः ॥१०॥अण्डजाः पशवश्चापि जातिस्मराः समाययुः।सुताश्च मागधाश्चापि बन्दिनः पण्डिता ययुः ॥११॥वेदा रुद्राश्च राजानो यादांसि च समाययुः ।खाताऽखातसमुद्राश्च पर्वताद्याः समाययुः ॥१२ब्रह्मसरसोऽप्सरसो दासा दास्यः समाययुः ।वाहनानि विचित्राणि शस्त्राऽस्त्राणि समाययुः ॥१३॥स्वराः शास्त्राणि विद्याश्च विद्यापुत्र्यश्च समाययुः ।देशाः खण्डा मूर्तिमन्तः स्वेदजाश्चापि चाययुः ॥१४॥मनोजा देहजा स्पर्शजन्याश्च दृष्टिजा ययुः ।जडाश्च चेतनाश्चापि कामरूपाः समाययुः ॥१५॥कामाद्याश्च वसन्ताद्या गणाश्च पार्षदा ययुः ।भक्ता मुक्ता ईश्वराश्चेशान्यश्चापि समाययुः ॥१६॥सर्वेषां वै समाजोऽभूदसंख्यानन्दसंप्लुतः ।प्रातर्वै ब्रह्मणस्तत्राभिषेकं ते प्रचक्रिरे ॥१७॥ततः शृंगारितं चाऽजं पुपूजुस्ते विधानतः ।भूदेवाः स्वर्गदेवाः सत्यदेवा वनदेवताः ॥१८॥सर्वज्ञातिप्रदेवाश्च पुपूजुः परमेष्ठिनम् ।आशीर्वादान् ददुश्चापि ददुश्चाप्युपदाः शुभाः ॥१९॥बृहस्पत्यादिदेवानां वाचकानां शुभान्यपि ।ब्रह्मशंसीन्यभवँश्च व्याख्यानानि सभास्थले ॥२०॥नर्तनं गायनं चापि बहुधा च ततोऽभवत् ।संगीतानि विचित्राणि भोजनानि तथाऽभवन् ॥२१॥पारितोषिकदानानि श्रेष्ठान्यपि तदाऽभवन् ।अथ तत्र सुधापानं चाऽमृताऽन्नादिभोजनम् ॥२२॥कृत्वा सर्वे प्रचक्रुश्च मम भक्तिमहोत्सवम् ।अनादिश्रीकृष्णनारायणस्य भजनं मम ॥२३॥परब्रह्माऽक्षरातीत परेश पुरुषोत्तम ।जय ब्रह्मेश सर्वेश श्रीहरे परमेश्वर ॥२४॥जयाऽवतारधर्तस्त्वं जय व्यूहविभावन ।जयेश्वरेश देवेश जयाऽन्तर्यामिनीश्वर ॥२५॥इत्येवं भजनं चक्रुः सवाद्याः सर्वदेहिनः ।ततो वै तुष्टुवुः सर्वे ब्रह्माद्या मां समाहिताः ॥२६॥आगच्छ भगवन् भर्तः सर्वसृष्टिविभावन ।परमेश कृपां कृत्वा नो गृहाण्यद्य पावय ॥२७॥अवतारेश धामेश मुक्तेश यावदीश्वर ।निर्गुणेश सगुणेश नो गृहाण्यद्य पावय ॥२८॥त्वमायुस्त्वं परा सत्ता त्वं धिष्ण्यं त्वं प्रराजता ।त्व प्रकाशश्च विज्ञानं त्वमिच्छा त्वं प्रयत्नकः ॥२९॥त्वं क्रिया त्वं विनियोगस्त्वं फलं त्वं फलप्रदः ।त्वं भोक्ता त्वं भोग्यवासस्त्वं भोगाधिस्थदेवता ॥३०॥त्वं चात्मा त्वं परात्मा च त्वं सर्वं त्वयि सर्वकम् ।सर्वेषु त्वं महाराज नो गृहाण्यद्य पावय ॥३१॥इत्यर्थितस्तदा लक्ष्मि! त्वया साकं हरिः स्वयम् ।अहं विचार्य सहसा सत्यलोके समागमम् ॥३२॥गोचरो वै सभामध्ये भक्तानां भजनक्षणे ।सर्वतेजोऽभिसम्पन्नो दिव्यरूपो महाप्रभुः ॥३३॥व्यराजं सर्वदेवाद्यर्पितस्वर्णशुभासने ।ब्रह्मा ननाम च विष्णुः शंभुर्ननाम मां ततः ॥३४॥सुराद्याश्च समानर्चुर्मां प्रचक्रुश्च दण्डवत् ।त्वां तथा मानयामासुः सावित्र्याद्याः सतीस्त्रियः ॥३५॥आवाभ्यां चाशिषा ब्रह्मा वर्धितोऽद्भिः प्रषेचितः ।ब्रह्माद्याश्च ततो नौ वै नैवेद्यं भोजनं शुभम् ॥३६॥आर्पयन् ताम्बूलकादि जलं चामृतमित्यपि ।पादसंवाहनं चक्रुः प्रार्थयामासुरुत्सुकाः ॥३७॥कृपया पाविताः कृष्णनारायण परेश्वर ।दिष्टा ते दर्शनं लब्धं सर्वेश्वरस्य वै प्रभो ॥३८॥अनुग्रहेण ते चैतद् ब्रह्माण्डं पुण्यतां गतम् ।,पावनोऽद्य समाजश्च दिवसश्च वयं ह्यपि ॥३९॥यथा कृत्वा कृपां दत्तं दर्शनं सत्यलोकके ।तथा कृत्वा कृपां देहि दर्शनं सर्वलोकके ॥४०॥वस सत्ये तपस्यपि जने महरि भूतले ।अतत्वादौ वस शीश! परब्रह्म कृपां कुरु ॥४१॥इत्येवमर्थितश्चाऽहं त्वया साकं हि पद्मजे! ।सर्वैस्तदा तथाऽस्त्वेवं मया तत्र प्रतिश्रुतम् ॥४२॥अनादिश्रीकृष्णनारायणोऽहं । पुरुषोत्तमः ।परब्रह्म स्वयं सत्ये जने तपसि भूतले ॥४३॥महर्लोके तथा स्वर्गे गमनाय मनो दधे ।ब्रह्मणश्चोत्सवान्ते वै विदायं प्राप्य मानवाः ॥४४॥सुरा देवेश्वराश्चापि पितरश्च महर्षयः ।निन्युर्मां स्वस्वलोकेषु नानारूपधरं विभुम् ॥४५॥अनादिश्रीविभुनारायणं श्रीपुरुषोत्तमम् ।विभ्वीश्रीसहितं चाहं भूतलादौ तदाऽवसम् ॥४६॥एकमन्वन्तरं तत्र कृपया तत्र तत्र च ।स्मर लक्ष्मि! तव मेऽपि प्राकट्यं पारमेश्वरम् ॥४७॥विष्णोश्चापि च पञ्चाशद्वर्षान्ते स्वर्णकोत्सवे ।श्वेतद्वीपे ययौ चापि त्वया साकं ततः परम् ॥४८॥शंभोश्चापि च पञ्चाशद्वर्षान्ते स्वर्णकोत्सवे ।कैलासे च ययौ चापि त्वया साकं परेश्वरि ॥४९॥ब्रह्मा ज्येष्ठो मध्यमश्च विष्णुः शंभुः कनिष्ठकः ।भ्रातरस्ते त्रयो वैराजाद् दिनैक्ये प्रजज्ञिरे ॥५०॥एकपञ्चाशत्तमस्य वर्षस्याऽऽद्यदिने ततः ।महोत्सवेषु तेषां वै तत्रोपस्थितवानहम् ॥५१॥चतुर्दशसु लोकेषु मद्योगान्मानसीप्रजाः ।पार्शनी दार्शनी चापि संगिनी च प्रजा तथा ॥५२॥सर्वास्ता अभवँल्लक्ष्मि! नारायण्यो ममाऽऽश्रिताः ।वैष्णव्यः सर्वथा जाता मन्वन्तरेषु तास्तथा ॥५३॥भक्तान्यः सत्प्रजाः सर्वा मम योगेन वै तदा ।आकल्पान्तं च ताः सर्वा नारायण्योऽभवन् प्रजाः ॥५४॥असंख्या मेऽवताराश्च तेऽवतारा ह्यसंख्यकाः ।स्मर तान् श्रि! त्वया साकं जानाम्यहं यथायथम् ॥५५॥इत्येवं कथितं ते ये प्राकट्यं परमोत्तमम् ।अथाऽन्यत्ते कथयामि वेधसः सोमवत्सरे ॥५६॥द्वापञ्चाशत्तमे षष्टिकल्पे चतुर्थके मनौ ।ब्रह्मैकदा सभायां स्वपुत्रानृषींश्च देवताः ॥५७॥पितॄनुपादिदेशापि कर्मकाण्डान् सुखप्रदान् ।ध्यानं कुरुत प्रातर्वै स्नानं कुरुत वै ततः ।पूजां कुरुत देवानां ब्रह्मांशानां विशेषतः ॥५८॥वैश्वदेवं च कुरुत नैवेद्यं कुरुतापि च ।अतिथेयादियज्ञाँश्च कुरुत व्यावहारिकम् ॥५९॥सन्ध्यां च वन्दनं भक्तिं श्रवणं कीर्तनादिकम् ।कुरुताऽपि च विश्रान्तिं निद्रां शुद्धिं च भोजनम् ॥६०॥दैवं पैत्र्यं पुण्यकार्यं दानं कुरुत सेवनम् ।सतां सेवां च सत्संगं धर्मं कुरुत सत्क्रियाम् ॥६१॥दारान् पुत्रान् दुहितॄश्च पतिं सम्बन्धिबान्धवान् ।पोषयत पशून् गाश्च पक्षिणो जन्तुदेहिनः ॥६२॥परोपकारं कुरुत गृहाणि वाटिकास्तथा ।क्षेत्राणि सस्यजातानि पोषयत समाश्रितान् ॥६३॥धर्ममर्थं च कामं चोपार्जयत यथोचितान् ।सुखं स्वर्गं लभध्वं च पुनः पुनर्दिने दिने ॥६४॥सृष्टिप्रवाहं कुरुत चाखण्डितं हि पुत्रकाः ।कल्पान्ते सत्यलोकं वै समायात ततः पुनः ॥६५॥कल्पारंभे संभवत महार्षयः सुराः पुनः ।पितरश्च लोकपालाः सृष्टिसञ्चालनार्थकाः ॥६६॥श्रुत्वैव ब्रह्मणः पुत्रा ये चासन् सिद्धयोगिनः ।ब्रह्मशीला ब्रह्मव्रतास्ते पप्रच्छुः पितामहम् ॥६७॥रुचिर्येषां न वै तत्र तेषां कर्म पितामह ।यद्युक्तं वाऽपरं चास्ते पृथक् कृत्वा प्रबोधय ॥६८॥श्रुत्वैवमाह वेधास्तान् कर्म द्वेधा भवेदिह ।प्रवृत्तं च निवृत्तं च फलं द्वेधाऽपि वै तयोः ॥६९॥उक्तं सर्वं प्रवृत्तं तद् दारपुत्रधनादिजम् ।रागद्वेषादियुक्तं च कामक्रोधादिसंभृतम् ॥७०॥वासनामोहयुक्तं च सम्बन्धं गृहलोभजम् ।अत्यागो यत्र दाराणां तया लोकैषणाकृताम् ॥७१॥द्वन्द्वानां सुखदुःखानां जन्ममरणयोस्तथा ।आवर्त्तानां न वै त्यागो संसारान्तो न यत्र च ॥७२॥पुनरावर्तनं यत्र जरामृत्युसमन्वितम् ।विषयेच्छासमावाप्तिर्भोगतृष्णामयं तथा ॥७३॥शीतोष्णादिसुसंयुक्तं शोकोद्वेगादियोजितम् ।उत्सवाऽनुत्सवाऽऽक्रान्तं वंशविस्तारलम्बितम् ॥७४॥प्रवृत्तं सर्वमेवैतन्मयोक्तं सृष्टिहेतुकम् ।पूर्वे सप्तर्षयश्चापि तथा दश महर्षयः ॥७५॥प्रजापतयो मनवः कृत्वा प्रवृत्तिकर्म तत् ।पुनरावृत्तिरूपाणि श्मशानानि हि भेजिरे ॥७६॥रागद्वेषयुतं शोकोद्वेगदुःखादिसंभृतम् ।अशुद्धिकर्ममिथुनं यद्गृहे तच्छ्मशानकम् ॥७७॥तापत्रयोद्भवो यत्र पुण्यापुण्योदयस्तथा ।इषणात्रयसम्बन्धस्तद्गृहं वै श्मशानकम् ॥७८॥म्रियन्ते चापि च प्रेता जायन्ते यत्र दुःखिनः ।गर्भवासाश्च सूयन्ते तद्गृहं वै श्मशानकम् ॥७९॥अशुद्धदेहयोर्योगो यत्र वै कामितोऽस्ति तत् ।मृतानां मरणायैव जन्मगृहं श्मशानकम् ॥८०॥संसारः सर्व एवास्ति श्मशानं वै प्रवर्तकम् ।ततो भिन्नं तु यत्कर्म निवृत्तिः सा तु मोक्षदा ॥८१॥यत्र दारग्रहो नास्ति नास्ति कामस्य वासना ।रागद्वेषौ कामरोषौ गृहलोभो न यत्र च ॥८२॥मोहो नास्ति नेषणा च द्वन्द्वानि सन्ति यत्र न ।सा स्थितिः ब्रह्मशालाऽस्ति ब्रह्मविद्याप्रदायिनी ॥८३॥ब्रह्मचर्यं यत्र चास्ति ब्रह्मार्पणं च यत्र वै ।विषयेच्छालयश्चापि भोगतृष्णालयस्तथा ॥८४॥आत्मतृप्तिश्चात्मरतिः परब्रह्मप्रसंगिता ।शोकोद्वेगोष्णशीतादिस्पर्शाऽपि यत्र नास्ति वै ॥८५॥ब्रह्मोत्सवः सदा यत्राऽच्युतगोत्रत्वमित्यपि ।सतां सत्संग एवापि ब्रह्मार्पणपरस्थितिः ॥८६॥निवृत्तं तद्धरौ प्रेमभक्त्यात्मकं हि कर्म यत् ।सर्वं मोक्षप्रदं तद्वै समनुष्ठाय साधवः ॥८७॥सन्न्यासिनस्तथा सिद्धा यतयश्चोर्ध्वरेतसः ।ब्रह्मशीला ब्रह्मपरा सत्यः साध्व्यस्तथाविधाः ॥८८॥त्यागमार्गाश्रिताः पूर्वे ध्रुवस्वर्गाणि भेजिरे ।यन्न दुःखादिसंभिन्नं न च ग्रस्तं तथोत्तरे ॥८९॥अपुनरावृत्ति सुखं चाहतं स्वर्गमुत्तमम् ।तत्स्वर्गं श्रीभागवताः पूर्वे वै प्रतिपेदिरे ॥९०॥भगवन्तं हरिं नारायणनारायणं प्रभुम् ।परब्रह्माऽक्षरातीतं भजित्वा पुरुषोत्तमम् ॥९१॥अनादिश्रीकृष्णनारायणं सर्वावतारिणम् ।भजित्वा श्रीपतिं मुक्तपतिं धाम प्रपेदिरे ॥९२॥तत्सेवां तद्भजनं च तद्दर्शनं तद्दास्यकम् ।तदर्चनं च तत्सख्यं तस्मै चात्मनिवेदनम् ॥९३॥तद्योगं तत्र सर्वस्वं समर्प्य धाम पेदिरे ।अक्षरं परमं धाम परामुक्तिस्थलं ध्रुवम् ॥९४॥शाश्वतानन्दसन्दोहं निवृत्तास्तत् प्रपेदिरे ।पुरुषोत्तमयोगेन धामोत्तमं प्रपेदिरे ॥९५॥भवन्तः साधवः सिद्धा ब्रह्मधर्मपरायणाः ।निवृत्तिकर्म सम्पाद्य प्रयान्तु परमाऽक्षरम् ॥९६॥इत्युक्तास्ते यतयो वै सन्तुष्टाश्चनिवर्तनम् ।सर्वार्पणं च भजनं कृत्वाऽऽप्ताः कृतकृत्यताम् ॥९७॥ब्रह्मा चाथ ततोऽप्याहोभयान् ऋषीन् यतीन् पुनः ।प्रवृत्तं वा निवृत्तं वा ब्रह्मार्पणं निवर्तनम् ॥९८॥दैह्यं वा दैहिकोत्थं वा कर्मोभयं कृतं ह्यपि ।परमेशे च सर्वेशे प्रत्यक्षेऽर्पितमेव चेत् ॥९९॥निवृत्तं तत् प्रजायेत मोक्षदं हरियोगतः ।अनलस्याऽतिवेगेन सर्वं भस्मीभवेद् यथा ॥१००॥हरेः साक्षात् सुयोगेन सर्वं भस्मीभवेत्तथा ।श्रुत्वैवं हर्षिताश्चापि कर्मठाः ऋषयो ह्यति ॥१०१॥निवृत्ता हर्षिताश्चापि सर्वे पप्रच्छुरेव तम् ।पितामहं प्रणम्यैव स्मृत्वा श्रीपुरुषोत्तम् ॥१०२॥हरेः साक्षादत्र लोके योगो भवेत् कथं हि नः ।येनाऽर्पणात्मिकां सेवां कुर्मो दर्शय तद्विधिम् ॥१०३॥कृत्वाऽपि प्रवृत्तिकर्म चार्पणेन च गोचरे ।हरौ प्राप्स्याम ऊर्ध्वोर्ध्वं धामाक्षरं परं यतः ॥१०४॥ब्रह्मोवाच तदा लक्ष्मि! तान् सर्वान् त्वरित वचः ।सत्रं कुर्वन्तु चात्रैवाऽऽराधनात्मकमेव ह ॥१०५॥तेनाऽऽकृष्टो हरिस्तूर्णं भक्त्यधीनो भविष्यति ।आगमिष्यति प्रत्यक्षः सेवां वश्च ग्रहीष्यति ॥१०६॥श्रुत्वैवं सर्वदेवाद्याश्चोभये च प्रचक्रिरे ।नामसंकीर्तनसत्रं सत्यलोके समाहिताः ॥१०७॥श्रुत्वाहं तापसानां वै तेषां भक्तिसुकीर्तनम् ।आययौ च त्वया साकं लक्ष्मि! चाक्षरदेशतः ॥१०८॥गोचरस्तत्सभामध्ये नेमुस्ते मां परेश्वरम् ।पुपूजुश्चार्थनां चक्रुर्नित्यवासार्थमेव तु ॥१०९॥ऋषिमध्ये सत्यलोके सिद्धमध्ये तथा पुनः ।पितृमध्ये जनलोके मानवेषु क्षितौ तथा ॥११०॥तथाऽस्त्वेवमहं प्राह त्वया साकं सदा स्थितः ।अनादिश्रीमोक्षनारायणः श्रीपुरुषोत्तमः ॥१११॥मुक्तिश्रीरितिनाम्ना त्वं श्रीमती पुरुषोत्तमी ।अवसतं सर्वलोकेष्वनेकरूपधारिणौ ॥११२॥ततस्ते सत्रमापूर्णं कृत्वा ययुर्निजान् गृहान् ।प्रवृत्ताः प्रवृत्तिमाप्ता निवृत्तिं निवृत्ता अपि ॥११३॥मदर्पणेन नैर्गुण्यं चाप्ता धाम प्रपेदिरे ।अन्ये महर्षयो जाताः पुण्यात्मानश्च तत्स्थले ॥११४॥एवं मया त्वया साकं प्राकट्यं मोक्षदं कृतम् ।स्मर मन्वन्तरकालं पृथ्व्यामासमहं स्वयम् ॥११५॥एवमन्येऽप्यवतारा मम जाताः सहस्रशः ।लक्शोऽपि च तान् सर्वान् जानाम्यहं न चेतरे ॥११६॥पठनाच्छ्रवणाच्चाऽस्य भुक्तिं मुक्तिं लभेद् ध्रुवाम् ।दिव्यां च सुखसम्पत्तिमैहिकीं पारलौकिकीम् ॥११७॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसः एकपञ्चाशत्तमे वत्सरे स्वर्णोत्सवेऽनादिश्रीविष्णुनारायणस्य विभ्वीश्रीसहितस्य, द्वापञ्चाशत्तमे च वत्सरेऽनादिश्रीमोक्षनारायणस्य मुक्तिश्रीसहितस्य, प्राकट्यमित्यादिनिरूपणनामा सप्तत्रिंशोऽध्यायः ॥३७॥ N/A References : N/A Last Updated : May 03, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP