संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १०६ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १०६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १०६ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-यथा पत्नी तथा पुत्रो धर्माश्रयः पितुर्मतः ।पिता पुत्रस्वरूपोऽस्ति पितृधर्मः सुते स्थितः ॥१॥प्रच्छन्नो वा प्रकाशो वा पुत्रः पिता प्रकीर्तितः ।आर्यत्वं धर्मशीलत्वं मार्दवं व्यवसायिता ॥२॥भक्तिर्विवेक एते व्यञ्जयन्ति पुत्रमुत्तमम् ।अनार्यत्वमनाचारः क्रूरता निष्क्रियात्मता ॥३॥अभक्तिश्चाऽविवेकश्च कालुष्यं व्यञ्जयन्ति वै ।पित्र्यं वै भजते शीलं मातृजं वोभयं तथा ॥४॥शुद्धयोनिप्रजन्मा वै सांकर्यं भजते नहि ।ज्यायानपि तु शीलेन हीनो मानं न चार्हति ॥५॥अपि शूद्रोऽपि शीलाढ्यः सद्वृत्तः पूज्यते जनैः ।आख्यात्मानमेवाऽत्र शीलचारित्रकर्मभिः ॥६॥आत्मा पुत्र औरसः स्वः पिता स्वयं स कथ्यते ।स्वक्षेत्रे तु नियोगेन परजन्यो द्वितीयकः ॥७॥स्वक्षेत्रे चाऽनियोगेन प्रच्छन्नजस्तृतीयकः ।ऊढा गर्भवती भार्या तज्जातस्तु चतुर्थकः ॥८॥जन्मतः केनचिद्दत्तः पञ्चमः सः प्रवर्धितः ।यौवने दत्तकतया गृहीतः षष्ठ इत्यपि ॥९॥शिष्यरूपेण सम्प्राप्तः सप्तमः पुत्र इत्यपि ।क्रीतः प्रोक्तस्त्वष्टमश्चाऽनूढाजो नवमः सुतः ॥१०॥मनोजन्यो दशमश्च कथितो मानसः सुतः ।पथि त्यक्तो जातमात्रो गृहीतः कृत्रिमः सुतः ॥११॥एकादशः स विज्ञेयः दौहित्रो द्वादशः स्मृतः ।पुत्र्यश्चापि तथा बोध्या द्वादशधा तु वंशजाः ॥१२॥संस्काराश्चात्मवत्तेषां स्वामिवत् संभवन्ति हि ।कानीनको ह्यनूढाजो मातृवर्णं प्रपद्यते ॥१३॥गणिकानामपत्यानि मातृवर्णानि तानि वै ।दासीनां पतिहीनानामपत्यानि तु यानि वै ॥१४॥मातृवर्णानि बोध्यानि स्वामिवर्णानि वा तथा ।भिक्षादीक्षालभ्यबाला अच्युतगोत्रका हि ते ॥१५॥साध्व्यश्च साधवः सर्वे भवन्त्यच्युतगोत्रकाः ।त्यागिवर्गाश्च वै पुत्राः पुत्र्यो नारायणस्य ह ॥१६॥एवं वै भूतले लोके व्यवस्थाऽस्ति तु पद्मजे ।ऐच्छिकी त्वन्यलोकेषु तथैषाऽपि प्रवर्तते ॥१७॥भार्या चतुर्विधा लक्ष्मि प्रायशः संभवन्ति हि ।पत्नी विवाहिता प्रोक्ता दासी या तु सहागता ॥१८॥उपकुर्वाणिका या तु कञ्चित्कालं गृहे स्थिता ।प्रच्छन्नयोगमापन्ना रक्षिता सा तु कीर्तिता ॥१९॥स्वामिनोऽपि तथा सन्ति चतुर्धा पद्मजे! शृणु ।विवाहितः पतिः प्रोक्तो लग्नितः श्रेष्ठ एव सः ॥२०॥देवरादिर्गौणकान्तो द्वितीयः स प्रकीर्तितः ।नियोगमाप्तस्तृतीयश्चोपकुर्वाणकः स हि ॥२१॥प्रच्छन्नयोगमापन्नो रक्षितः स प्रकीर्तितः ।प्रजास्तयोर्यथायोगं नार्या वा च नरस्य वा ॥२२॥विवादेऽपत्यमेवाऽत्र यमिच्छेत् तस्य वै हि तत् ।देशभेदात् कालभेदाद् रीतिभेदात् पृथग्वृषः ॥२३॥दत्ता कन्या दानरूपा पुत्री कथं न कल्प्यते ।कल्प्यते भोग्यरूपा सा तस्माद् रीतिर्हि कारणम् ॥२४॥भावना यादृशी यत्र व्यवहारश्च तादृशः ।भुक्त्वा क्रोधेन वै त्यक्ता वैराग्येण तथा च वा ॥२५॥त्यागेनाऽपि विवेकेन त्यक्ता मातृसमा हि सा ।तस्माल्लक्ष्मि! महामायाप्रवाहो मूर्छनात्मकः ॥२६॥मूर्छनासु विविधासु नयन्ति देहिनः सदा ।यथाविधः प्रवाहोऽस्ति यदा यत्र युगे स्थले ॥२७॥तथारीतिकृतो धर्मः सुखदः शान्तिदो भवेत् ।देवानां रीतयश्चान्या योगिनामितराश्च ताः ॥२८॥मानवानां विभिन्नाश्च पश्वादीनां तथेतराः ।यथारीतिः स वै धर्मो यद्यनर्थं न चाऽऽवहेत् ॥२९॥अनर्थं प्रापयन्पन्था धर्मात्मा नैव गण्यते ।दुःखदो नैव धर्मोऽस्ति सुखदः सर्वथा वृषः ॥३०॥अर्थो वृषानुसञ्जुष्टोऽनर्थोऽधर्मानुयोजितः ।कामो धर्मार्थसहितस्तद्धीनो न पुमर्थकः ॥३१॥धर्मार्थकामपारं यो यातः स विन्दतेऽक्षरम् ।अधर्म्यनर्थी विषयी विन्दते यमयातनाम् ॥३२॥कुटुम्बादिव्यवस्थाऽपि पुरुषार्थपरायणा ।अपुमर्थयुता रीतिः पाशवी न तु मानुषी ॥३३॥शास्त्रं शासनधर्मं वै मानुषादौ प्रवर्तते ।तिर्यग्योनौ न वै शास्त्रं विद्याशून्यतया खलु ॥३४॥बलं रीतिः पशूनां तु मोहश्चेति निबन्धनम् ।तदाधाराणि तिर्यञ्चि यादांसि कीटयोनयः ॥३५॥अथैवं वर्तमानानां भवपारो न विद्यते ।यदृच्छया सतां योगे भवपारो भवेत् क्वचित् ॥३६॥नह्यात्मा शक्यते हन्तुं तस्मादुद्धारमाचरेत् ।स्नेहेन दर्शनं साधोः संवासं सेवयाऽऽचरेत् ॥३७॥ब्रह्मवासकृतारम्भं साधुं सेवेत मानवः ।निहत्य मानं शोकं च क्रोधं हर्षं च वासनाम् ॥३८॥विश्रम्भपात्रं भूतानां शुचिं श्रीकृष्णदैवतम् ।ऊर्ध्वब्रह्मस्थितिं शान्तं सर्वेषां प्रियदर्शनम् ॥३९॥निःशेषितसमारंभं ध्याननिष्ठं वशेन्द्रियम् ।निष्णातं ब्रह्मविद्यायां समनेत्रं दयापरम् ॥४०॥एतादृशं साधुजनं चाश्रयेत् प्रार्थयेत्तथा ।अज्ञानाद् यत्कृतं पापं प्रक्षालय जगद्गुरो ॥४१॥मोक्षमार्गस्य सोपानं प्रदर्शय जगद्गुरो ।वासनाग्रन्थिमुज्ज्वाल्य पावय स्वान् जगद्गुरो ॥४२॥भक्तिं प्रदर्श्य परमां प्रमोक्षय जगद्गुरो ।एवं वै प्रार्थनां कुर्याद् यथा कुर्यात् कृपां तथा ॥४३॥वक्तव्यं च सतामग्रे तवाऽस्मीति पुनः पुनः ।करवाणि यदाऽऽज्ञा स्यात् सर्वं कर्ताऽस्मि दुष्करम् ॥४४॥यदि राज्यं यदि धनं यदि गा यदि स्वं गृहम् ।यज्ञं दानं सुतं वाटीं ब्रूहि सर्वं ददामि ते ॥४५॥इत्येवमर्थयेत् साधुं प्रतोषयेत् समर्पणैः ।अशंकयाऽर्पयेत् सर्वं मुक्तिभाक् स भवेत् खलु ॥४६॥माया हि संशयः प्रोक्तो ब्रह्मणि नास्ति संशयः ।संशयश्चेत् सतां योगे सेवायां वचने कृतौ ॥४७॥कदा मुक्तिः कदा शुद्धिः कथं सेवा भवेदिह ।कदा शुद्धस्वरूपस्य निष्ठा वापि भवेदिह ॥४८॥तस्मान्निःसंशयो भूत्वा सेवेत साधुमुत्तमम् ।पापक्षालनशक्तं च मोक्षदं दिव्यवर्तनम् ॥४९॥सन्तुष्टं ज्ञानकोशं च ब्रह्माधानं निराश्रयम्।निरालम्बं मदालम्बं मन्मूर्तिं सेवयेत् सदा ॥५०॥शृणु लक्ष्मि कथयामि साधुसेवाफलं परम् ।सस्वामिपशुपक्ष्याप्तसुहृदां मोक्षणं यतः ॥५१॥आसीत् कर्णाटके देशे भक्तिमान् तापसो मुनिः ।नाम्ना शंभलवारश्च जात्या सूतीयसंभवः ॥५२॥स तु नद्यास्तटे वासं चकारैकल एव ह ।युवाऽपि स्त्रीं विनाऽनंगभोगेच्छुः समधारयत् ॥५३॥तपः श्रेष्ठं परं कृत्वा भुक्त्वा भोगान् हि धर्मतः ।यास्याम्यहं ततः स्वर्गं शाश्वतं परमं पदम् ॥५४॥विचार्येत्थं तीर्थयात्रां कर्तुं गृहाद्विनिर्गतः ।गोदावर्यास्तटे रम्ये समुत्सेधस्थले शुभे ॥५५॥ग्रामे सत्राशयाख्ये वै निजावासं व्यधात् ततः ।उच्छ्रये स तपः कर्तुं वीक्ष्यानुकूलभूतलम् ॥५६॥मानवैः कृतसम्मानोऽन्नादिभिः स मनो दधे ।पञ्चाग्निषु निषसाद षण्मासानथ तत्परम् ॥५७॥उत्थितोऽभूद् वर्षमात्रं त्वेकपादेन तापसः ।तपश्चचार परमं भजन् विष्णुं नरायणम् ॥५८॥वर्षान्ते निजपादौ स बद्ध्वा वल्ल्या वटद्रमे ।शाखायां निम्नमूर्द्धाऽसौ व्यलम्बत समान्तरम् ॥५९॥एवं कृत्वा तपः पश्चाद् वर्षान्ते मस्तकं भुवि ।निधायोर्ध्वपदो भूत्वा तपश्चचार दारुणम् ॥६०॥वर्षान्ते चोर्ध्वहस्तोऽभूदंगुष्ठमात्रतोलनः ।अनिमेषोऽर्कदृष्टिश्च तपश्चचार दारुणम् ॥६१॥षण्मासान् तत्परं नद्यां जलान्तरेऽवसत्ततः ।पञ्चमे वत्सरे विष्णुर्जले मत्स्यस्वरूपधृक् ॥६२॥आययौ चक्रचिह्नाढ्यश्चखाद चर्म तन्मुनेः ।मांसं चखाद च तथापि न कम्पं ययौ मुनिः ॥६३॥विष्णुर्मत्स्यस्य वाचा तं प्राह जलेऽत्र वर्तसे ।कस्त्वं कथं स्थितस्त्वत्र वद कोऽर्थोऽत्र ते मतः ॥६४॥श्रुत्वा शंभलवारस्तं मत्स्यमाह शुभाशयम् ।तपः करोमि सौख्यार्थं सुखं धर्मफलं यतः ॥६५॥राज्यं गृहं धनं भार्याः सुताः पुत्र्यश्च धेनवः ।दासा दास्यो वाहनानि लभ्यन्ते तपसा सदा ॥६६॥धर्मार्थकाममोक्षाश्च लभ्यन्ते गृहयोगतः ।भूत्वा गृही प्रयास्यामि तपः कृत्वा परं पदम् ॥६७॥इत्युक्तो मत्स्य आहाऽपि किं ते भोगेषु वासना ।तपः कृत्वा फलं भुंक्ष्व मोक्षपदे परे पदे ॥६८॥अनित्याः सन्ति भोगा वै दुःखदा बन्धनात्मकाः ।तान् विहाय पदं याहि नारायणस्य शाश्वतम् ॥६९॥श्रुत्वा शंभलवारश्च प्राह मत्स्यं तदा पुनः ।भवान् मत्स्यो यथा ज्ञानी वर्तसे विषयेष्वपि ॥७०॥तथा ज्ञात्वाऽपि विषयानभुक्त्वा न निवर्तनम् ।भुक्त्वा विविधान् विषयान् तृप्तिमासाद्य सर्वथा ॥७१॥वासनायाः क्षयं कृत्वा ततो यायात्परं पदम् ।इत्येवं सुलभः पन्थास्तदन्यः संशयात्मकः ॥७२॥सरागस्य गतिर्नास्ति रागं प्रशामयेत्ततः ।अतोऽहं तपसाऽऽराध्य विष्णुं प्रसाद्य माधवम् ॥७३॥वृत्त्वा भोगान् प्रभुक्त्वा तान् भक्त्या यास्यामि तत्पदम् ।श्रुत्वा मत्स्यस्तदा प्राह पश्य मे रूपमैश्वरम् ॥७४॥तपसा ते प्रतुष्टोऽस्मि नारायणोऽस्मि चागतः ।वृणु यत्ते यथेष्टं तद् ददामि सर्वथा चिरम् ॥७५॥मुनिर्वव्रे धनं राज्यं नारीः पुत्रान् पशून् सुताः ।गजाश्ववृषभान् गाश्च पुरुषार्थचतुष्टयम् ॥७६॥तथाऽस्त्विति हरिः प्राह दत्वा वरं तिरोऽभवत् ।अथ शंभलवारोऽपि जलाद् बहिर्विनिर्ययौ ॥७७॥मालामावर्तयन्नाम्ना नारायणस्य वै हरेः ।उवासोत्सेधभागे च नद्यास्तटे मनोहरे ॥७८॥अथ सत्राशयो ग्रामो दशसाहस्रमानवः ।वर्षायां सरितः पूरैः समावृणोत् समन्ततः ॥७९॥जलमग्नोऽभवच्चापि तद्राजा मरणं ययौ ।अन्येऽपि बहवो लोका नरा नार्यो जनाः प्रजाः ॥८०॥जलप्लवेन निधनं याताः पञ्चसहस्रिणः ।ततः परे ययुर्देशान्तरे वासार्थमेव च ॥८१॥सहस्रं मानवास्तत्र न्यूषुर्धैर्यप्रपालिताः ।भक्ताः सर्वे तापसाश्च नारायणपरायणाः ॥८२॥अथ शंभलवारोऽपि मानपात्रं परं शुभम् ।तद्ग्रामवासिनां तत्र चाभवत्तापसो यतः ॥८३॥ग्रामराज्यं प्रचकार प्रजाभिर्मानितस्ततः ।एवं राजाऽभवत्तत्र सहस्रमानवार्चितः ॥८४॥ग्रामप्रजा ददुस्तस्मै कन्यकाश्चैकविंशतिम् ।गावः पशवो दासाश्च दास्यः प्रजाजनास्तथा ॥८५॥अजावयोऽश्ववृषभाः सर्वे तस्याऽभवँस्ततः ।एवं स तपसा राज्यं भोगान् स्त्रीश्च सुतादिकान् ॥८६॥प्राप नारायणभक्तिं चक्रे सतां प्रसेवनम् ।अस्य भक्त्या धर्मभृत्या व्यवर्धन्त प्रजाः पुनः ॥८७॥दशसाहस्रसंख्योर्ध्वा अभवन् सत्रनागराः ।सर्वा अनेन मुनिना वैष्ण्व्यस्ता कृतास्तथा ॥८८॥नामसंकीर्तनं चापि पूजनं श्रीहरेस्तथा ।अकारयद् यथायोग्यं मन्दिरं चाप्यकारयत् ॥८९॥साधवोऽस्य गृहे नित्यं निवसन्ति सहस्रशः ।भक्तिं च नवधा नित्यमकारयत् सुमन्दिरे ॥९०॥अथाऽयं विगते काले प्रजाः प्राह विवेकवान् ।पुत्रा मे चासते दैवाच्छतं पञ्च तथा स्त्रियः ॥९१॥एकविंशतिसंख्याश्च पुत्र्यो मे द्वे शते तथा ।गावः सन्ति सहस्राणि वृषभा वाजिनस्तथा ।शुकाश्च सारिकाश्चापि हस्तिनः सरमासुताः ॥९२॥दासा दास्यो भवन्त्यत्र प्रजा यूयं सुखास्तथा ।धर्मः कृतस्तथा चार्थः कामो दृष्टोऽथ मोक्षणम् ॥ ९३॥कर्तुमिच्छामि सहसा दत्वा राज्यं सुताय मे ।ज्येष्ठाय च ततो यास्ये नारायणाक्षरं पदम् ॥९४॥प्रजास्तथास्त्विति प्राहुः प्राहुश्चान्यच्छुभाऽऽस्पदम् ।वयं सर्वाः प्रयास्यामः सहैव परमं पदम् ॥९५॥स्वस्वसुतान् प्रसंस्थाप्य यथाधिकारकर्मसु ।एवं सम्मन्त्र्य राजाऽसौ समाधौ योगमाप्तवान् ॥९६॥सर्वं पुत्रे सन्निधाय मोक्षे वृत्तिं समादधत् ।राज्ञ्यः सर्वाः प्रजाः सर्वास्तत्स्थले श्रीहरौ तदा ॥९७॥योजयित्वेन्द्रियप्राणान् लग्ना आसन् निजात्मसु ।भजन्तः श्रीपतिं नारायणं प्रियं प्रभुं पतिम् ॥९८॥आययौ तत्र वै विष्णुर्विमानैः सह पार्षदैः ।प्रभासयन् दिशः सर्वा गर्जयद्भिर्दिगन्तरान् ॥९९॥प्राह भक्तं शंभलं तं समागच्छ विमानके ।नत्वाऽऽर्च्य भगवन्तं तं प्राह शंभलवारकः ॥१००॥भगवन् कृपया सर्वाः प्रजा यास्तु समुत्सुकाः ।आगन्तुं मोक्षमेवाऽत्र सज्जास्ता नय वै सह ॥१०१॥गवाऽश्ववृषभाऽजाश्चावयो गावः शुकादयः ।तथाऽन्ये ये भवन्त्यत्र तव प्रसादपाविताः ॥१०२॥मम पुत्राश्च पुत्र्यश्च राज्ञ्यश्चापि कुटुम्बिनः ।सज्जा ये ये भवन्त्यत्र तांस्तान् नय निजं पदम् ॥१०३॥इतीच्छां मे हरे कृष्ण प्रपूरय कृपां कुरु ।हरिः प्राह तथास्त्वेवं तव भक्त्या करोम्यहम् ॥१०४॥पुत्रास्ते भिन्नजातीया भिन्ननारीसमुद्भवाः ।ब्राह्मणाः क्षत्रियाश्चान्ये वैश्याः शूद्रास्तथाऽपरे ॥१०५॥भिन्नजातीयराज्ञीनां सुताः पुत्रास्तथाऽनुगाः ।दासा भृत्याश्च दास्यश्च येऽन्येऽन्या भक्तिमार्गगाः ॥१०६॥आरोहन्तु विमानं मे नयामि मम धाम तान् ।इत्युक्ताः सर्व एवैते ये ये मुमुक्षवोऽभवन् ॥१०७॥आरुरुहुर्विमानं ते नवसाहस्रसंख्यकाः ।पशवः पक्षिणः सर्वे कृपया श्रीहरेस्तदा ॥१०८॥आरुरुहुर्विमानं तद् दिव्यदेहाश्चतुर्भुजाः ।चतुर्भुज्यश्च कमला नार्यः शर्वास्तदाऽभवन् ॥१०९॥प्रजाः सर्वा आरुरुहुर्विमानं दिव्यभास्वराः ।एकैकपुत्रं सन्त्यज्य वंशबीजं यथायथम् ॥११०॥सर्वाः प्रजास्तथा राजा राजकुटुम्बसंयुतः ।सर्वे ययुर्विमानेन वैकुण्ठं परमं पदम् ॥१११॥एवं शंभलवारो वै साधुर्गृहे स्थितोऽपि सन् ।तापसोऽपि भुवो भोगान् भुक्त्वा प्रपूज्य केशवम् ॥११२॥ययौ पदं तु परमं भक्त्या नारायणाश्रितः ।भिन्नजातीयपत्नीनां पतिः पुत्रादिसंयुतः ॥११३॥एवं साधुप्रसंगेन कुटुम्बं सर्वथा रमे! ।प्रयाति परमं धाम योग्यायोग्ये न तत्र वै ॥११४॥पठनाच्छ्रवणादस्य भोगवैराग्यवान् भवेत् ।भक्त्या भुक्तिं समालभ्य मुक्तिं व्रजेद् बलाद्धरेः ॥११५॥साधुवृत्त्या व्रजेन्मुक्तिं नयेन्मुक्तिं सहस्रशः ।यया शंभलवारोऽसौ ययौ मुक्तिं प्रजायुतः ॥११६॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने विविधपुत्राः, विविधपत्न्यो विविधपतयः, साधुयोगे मुक्तिः, सूतजातीयस्य शंभलवारस्य साधुभक्तस्य भक्त्या तपसा राज्यसुतपशुपक्ष्यादिप्राप्त्युत्तरं सप्रजस्य मुक्तिरित्यादिनिरूपणनामा षडधिकशततमोऽध्यायः ॥१०६॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP