संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः २०१ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः २०१ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २०१ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं भक्तस्य नर्तकस्य वै ।नाम्ना रायणदेवस्य कथां भक्तिविधायिनीम् ॥१॥आखोटके महाग्रामे भक्तो रायणदेवकः ।न्यवसत् सकुटुम्बो वै भजते स्म च मां सदा ॥२॥पूर्वजन्मकृतं पुण्यं सर्वत्रैवोपतिष्ठते ।प्राग्जन्मनि मयूरोऽभूद् ग्रामगोपुरसन्निधौ ॥३॥उपशल्यतरौ नित्यनिवासश्चरतेऽभितः ।साधवो ये समायान्ति तैर्थिका यात्रिकाश्च वै ॥४॥विहारिणः पृथिव्यां ये ते वाटे ग्राममाप्य च ।तरुषण्डेऽवतिष्ठन्त्यासते दिनद्वयं च वा ॥५॥भजनं तत्र कुर्वन्ति पाचयन्ति च भुञ्जते ।निवेदितं हरये ते जलं पिबन्ति सर्वथा ॥६॥उच्छिष्टानि च पात्राणि पत्राणि च जलान्नकम् ।क्षिपन्ति तरुषण्डेषु स्थितपक्ष्यर्थमित्यपि ॥७॥उच्छिष्टान्नानि पानीयं पशवः पक्षिणस्तथा ।कीटाद्या भक्षयन्त्यापः पिबन्ति च वियन्ति च ॥८॥हरेः प्रसादाऽन्नवारि मयूरोऽत्ति पिबत्यपि ।साधोः प्रासादिकं चापि सम्यक् पिबति चात्ति च ॥९॥एवं प्रसादमाप्तस्य तस्य सुपुण्यमूर्जितम् ।पापं तु प्रलयं प्राप्तं मृतः कालेन सोऽभवत् ॥१०॥हारीतकाख्यशूद्रस्य पत्न्यां कस्तूरिकास्त्रियाम् ।गर्भे विवेश पुण्येन पक्षी मानवजन्मवान् ॥११॥गर्भे वासोत्तरं तत्राऽष्टमे मासि सुभक्तिमान् ।बोधायनो महर्षिश्च साधुधर्मा समाययौ ॥१२॥विप्रो भिक्षाकृतेऽगाच्च हारीतकगृहं तदा ।हारीतकः प्रार्थयच्च ज्ञात्वा दैवज्ञभूसुरम् ॥१३॥गृह्ण भिक्षां पायसान्नं घृतं च शर्करास्तथा ।स्थिरो भवाऽत्र दिवसे संशयान्मे निराकुरु ॥१४॥इत्युक्त्वा प्रददौ भिक्षां मिष्टमन्नं घृतं पयः ।पिष्टं फलानि मधूनि चासनं जलमुत्तमम् ॥१५॥बोधायनः पाचयित्वा निवेद्य परमात्मने ।बुभुजेऽथ प्रसादं च शेषं सर्वं ददौ तदा ॥१६॥हारीतककुटुम्बाय बुभुजेऽपि कुटुम्बकम् ।सायं स्वास्थ्ये स्थिरवृत्तौ पप्रच्छ तं महामुनिम् ॥१७॥पत्न्या गर्भे बालको वा बाला वा किं भवेदिति ।कथंगुणं मदपत्यं भविष्यतीति मे वद् ॥१८॥चिरायुर्वापि वै स्वल्पायुश्च भक्तो भवेन्न वा ।कथं नारायणे देवे भक्तिः श्रद्धा भवेदपि ॥१९॥कथं मोक्षो दिव्यता च कथं नारायणाश्रयः ।कथं साधोः प्रसंगश्च सेवा धर्मावलम्बनम् ॥२०॥कथं मुक्तिः कथं त्यागः कथं संसारनाशनम् ।कथं चैश्वरता स्याच्च मुक्तता गृहमेधिनः ॥२१॥इत्येतानि समस्तान्यमृतानि मे प्रपायय ।इत्युक्तः साधुवर्यस्तु बोधायनो हि भक्तराट् ॥२२॥प्रत्युवाच कुटुम्बस्य सन्निधौ यत्र गर्भिणी ।वर्तते सा शृणोत्येव कथां परमपावनीम् ॥२३॥शृणु हारीतक! त्वं वै पत्नी ते च शृणोत्वपि ।कुटुम्बं ते शृणोत्वत्र हितं वच्मि हितोत्तमम् ॥२४॥बालकस्ते हि भविता पुत्रश्चोद्धारकृच्छुभः ।साधुभक्तो हरेर्भक्तः पूर्वसंस्कारवानिह ॥२५॥मयूरवत् समस्तानि नृत्यानि प्रकरिष्यति ।साधुप्रसादभोक्ता च चिरायुर्भक्तिमान् सदा ॥२६॥मुक्तिं तव कुटुम्बस्य भक्त्या स वै करिष्यति ।लक्ष्मीप्रदस्ते सततं भाग्यशाली भविष्यति ॥२७॥नारायणप्रदश्चापि वैष्णवः स भविष्यति ।परात्परतरे कृष्णे महानन्दनिधौ प्रभौ ॥२८॥लग्नवृत्तिर्हि भविता चाऽऽबाल्यात्तव बालकः ।प्राग्जन्माऽस्य मयूरस्य ततो नृत्यकलाविदाम् ॥२९॥मूर्धन्योऽयं तव पुत्रो भविष्यति प्रभक्तराट् ।तस्य नृत्ये च ये नृत्यविदो जनास्तथाऽपरे ॥३०॥नर्तक्यश्चापि सर्वाश्च मिलिष्यन्ति कलाविदः ।सर्वे त्वत्पुत्रसंगेन भविष्यन्त्यपि वैष्णवाः ॥३१॥मोक्षमार्गे श्रयिष्यन्ति यास्यन्ति परमं पदम् ।अपि जीवा मायिका वै मायासृष्टे जगत्यपि ॥२॥वर्तन्ते बहवो नित्यं नृत्यगीतिविलासिनः ।पूर्वं नारायणेनेदं सृष्टं जगद् यदा तदा ॥३३॥जगत्प्रवाहसिद्ध्यर्थं स्नेहपाशोऽपि निर्मितः ।स्नेहबद्धमिदं सर्वं कलया भ्रमते जगत् ॥३४॥नराणां योषितां प्रीतिः साहजिकी तया भवेत् ।स्नेहस्य कलया पुत्रे पत्यौ वित्ते गृहे स्त्रियाम् ॥३५॥वाट्यां क्षेत्रे पशौ लाभे कुटुम्बे जायते हि सा ।प्रस्वां पितरि मायैव निहिता विश्ववर्द्धिनी ॥३६॥तादृश्या मायया बद्धा जीवाः कलाविदोऽपि ये ।तव पुत्रं मिलिष्यन्ति ते भविष्यन्ति वैष्णवाः ॥३७॥तव पुत्रस्य योगेन भक्तिं मोक्षप्रदायिनीम् ।करिष्यन्ति हरेर्योगं प्रलप्स्यन्ति च नर्तने ॥३८॥मायापरो यो भगवान् जनानां श्रेयसे भुवि ।आविर्भूय सदा चास्ते तं ते बालो भजिष्यति ॥३९॥पूर्वपुण्ययुता लोका भजिष्यन्ति हरिं तदा ।तरुषण्डे च ये पक्षिपशवश्च तरुमृगाः ॥४०॥मृता ये तेऽभितश्चात्र साधुप्रसादभोजिनः ।मानुष्यं प्राप्य वर्तन्ते पावनाः पुण्ययोगिनः ॥४१॥सर्वे ते वै नर्तकाश्च गायका वादका अपि ।ग्रामेऽत्र परग्रामे वा जातास्ते वैष्णवोत्तमाः ॥४२॥प्राक्श्रीकृष्णतदीयेक्षाप्रसादादिप्रभोगिनः ।संस्कारिणः प्रजातास्ते ग्रामेऽत्र बालकाः शुभाः ॥४३॥तेषां सतां प्रसंगेन हरेर्वार्ताश्रवेण च ।कृष्णभक्तिर्वर्तते च वर्तिष्यते दृढाऽधिका ॥४४॥ते च सर्वे मिलित्वैव करिष्यन्ति सतां हरेः ।सेवां भक्तिं भृत्यतां च परिचर्यां प्रमोक्षदाम् ॥४५॥श्रद्धावन्तो भविष्यन्ति सर्वे ते कृपया सताम् ।अतिप्रीतिं गमिष्यन्ति साधौ च परमेश्वरे ॥४६॥समर्थाश्च भविष्यन्ति स्वीयस्निग्धान् परानपि ।भवपाशान्मोचयितुं प्रीतिं कारयितुं हरौ ॥४७॥तेन सङ्क्ष्यन्ति वै तुच्छसुखे सुसाधुयोगिनः ।दृढाः सर्वे सतां संगे हरेः संगेऽतिनिष्ठिताः ॥४८॥मायानाशकराः सर्वे भविष्यन्ति विरागिणः ।भक्त्यन्तरायकृत्सर्वं त्यक्ष्यन्ति ब्रह्मनिष्ठिताः ॥४९॥चिरेण मां प्रसाद्यैव फलमाप्स्यन्ति शाश्वतम् ।अक्षरं ब्रह्म परमं दिव्यं दिव्यस्वरूपिणः ॥५०॥सतां प्रसंगतो भक्तिर्वर्धते परमात्मनि ।सतां प्रसंगतो ज्ञानं जायते परमात्मनः ॥५१॥हरेर्माहात्म्यविज्ञानैः श्रद्धा नित्यं प्रवर्धते ।विवेकेन हरौ नित्यं दिव्यता भासते न वा ॥५२॥सत्सु प्रकाशते चापि दिव्यता भगवन्निभा ।विवेकेन भवेत् कृष्णनारायणे दृढाश्रयः ॥५३॥तस्याश्रयेणाश्रयिणामाश्रयो जायते सताम् ।सदाचाररतस्यैव सत्सेवां कुर्वतो भवेत् ॥५४॥महाभागवतधर्मालम्बनं सेवनादि च ।सेवया सततं प्रवर्तते कृपा सतां हरेः ॥५५॥कृपया मुक्तता त्यागः संसारविलयस्तथा ।नारायणेन तादात्म्यं जायते ध्यानतो हरेः ॥५६॥ऐकाग्र्यं च निरोधश्च समाधिर्जायते हरौ ।सर्वानन्दमहानन्दभोगोऽस्य जायतेऽनिशम् ॥५७॥तस्मात् सन्तो भोजनीयाः सेवनीया जलान्नकैः ।कार्या च दासवत् सेवा दासीवद् भृत्यवत्तथा ॥५८॥पत्नीवत् पुत्रवच्चापि सेवा कार्या सतां सदा ।पितृवन्मातृवच्चापि माननीयाश्च राजवत् ॥५६॥स्वामिवत् पतिवद् भ्रातृवच्च रक्षकवत्तथा ।सेवनीयाः सदा सन्तो हरिप्रसंगयोगिनः ॥६०॥प्रसादनीयाः ततोऽत्र वन्दनीया मुहुर्मुहुः ।क्षमापनीयाः सततं तोषणीयास्तु देववत् ॥६१॥पूजनीया हि सन्तोऽत्र रक्षणीयास्तु पुत्रवत् ।सतां प्रसन्नतां प्राप्य भुक्तिर्मुक्तिर्भवेदिह ॥६२॥सतामाज्ञां समालम्ब्य वर्तनीयं हि सत्पथे ।सर्वतोऽपि समाकृष्येन्द्रियाऽन्तःकरणानि च ॥६३॥निधातव्यानि कृष्णे वै व्रजेयुः कुपथं न यत् ।कुपथं चेद् व्रजेयुश्च समाकृष्य द्रुतं तदा ॥६४॥हठात् कृष्णे प्रयोज्यानि सुखदे परमेश्वरे ।यादृङ्मानं न्यूनभावं माहात्म्यं श्रीहरेर्भवेत् ॥६५॥तादृग्बलं तु विषये यात्यन्तःकरणं बहिः ।न्यूनतापरिहारार्थं कार्यः संगः सतां सदा ॥६६॥कृष्णे एव रुचिः साध्या हेयः संगस्तु चापरः ।कुपथे व्रजतो भीतिः कृष्णपथे तु निर्भयम् ॥६७॥कृष्णप्राप्तौ देहिनां तु प्राप्तव्यं नाऽवशिष्यते ।कृष्णानन्दपरः कश्चिदानन्दो नावशिष्यते ॥६८॥तं हरिं चेद् विहायाऽत्र तुच्छसौख्यस्य लब्धये ।यतन्ते चेत्तदा बोध्या ते जनास्तु बुभुक्षवः ॥६९॥संसारिणस्त एवोक्ता निरयार्थं प्रजन्मिनः ।लुम्पन्ति भगवद्वाणीं सतामाज्ञां वहन्ति न ॥७०॥ते प्राप्नुवन्ति सततं क्लेशं तुच्छार्थधाविनः ।यद्यपि स्युर्बुद्धिमन्तो बहुश्रुताः प्रतर्किणः ॥७१॥अथ यः स्वल्पधीश्चापि सेवते श्रीहरिं सतः ।श्रेयोऽध्वानं श्रयतेऽत्र वर्तते सत्पुमर्थके ॥९२॥सद्गुणान् गृह्णते नित्यं साधूनां भक्तियोगिनाम् ।भागवतं महाध्वानं दिव्यं समधितिष्ठति ॥७३॥स एव बुद्धिमान् प्रोक्तः स्वर्थमोक्षपरायणः ।स एव साधुरेवोक्तो मोक्षार्थकृतनिश्चयः ॥७४॥बहुबुद्धिस्तु निरयं गमिष्यति प्रभोगवान् ।तुच्छार्थधावनपरः साधुमार्गविनिन्दकः ॥७५॥हरेः सतां गुणानां स दूषको नास्तिकः खलः ।धिया दूषितया प्राप्नोत्येव पापं यमालयम् ॥७६॥क्षीरं शर्करया युक्तं विषाक्तं चेद् विनाशकृत् ।तथा धीर्दूषिता श्रेयोविघातिनी महत्यपि ॥७७॥तया युक्तः पतत्येव द्रोग्धा जन्मान्तरे भवेत् ।सद्गतिर्न भवेत्तस्य तत्संगिनोऽपि नैव च ॥७८॥न चायं भाषणयोग्यः पातयत्येव भाषणात् ।अवगुणान् दर्शयित्वा मालिन्यं निदधात्यतः ॥७९॥अल्पमतिर्भावयुक्तः सेवकः संगमोचितः ।गृह्णन्नाशीर्वचांस्येव श्रेयोमार्गे स्थितो हि सः ॥८०॥मानं कपटं क्रोधं च तथेर्ष्यां प्रजहाति यः ।साधूनां दासभावेन सेवको वर्तते तु यः ॥८१॥दिव्यभावं विदन् सत्सु सतां क्रियासु सर्वथा ।स एवं साधुरत्रोक्तः सर्वथा सेवनोचितः ॥८२॥स एकोऽनुग्रहपात्रं सता हरेश्च सर्वथा ।आश्रितानां समुद्धारकर्ता ह्यपि प्रतापवान् ॥८३॥स एव मोक्षदः स्याद्वै यथा सन्तो हरिर्यथा ।अन्यस्त्वासुरबुद्धिर्वै भूतः प्रेतो भवेदिह ॥८४॥राक्षसो द्रोहकर्ता वा भवेद् दैत्यो हि पापकृत्॥नैव मुक्तिर्भवेत्तस्य द्रोहिणो वै हरेः सताम् ॥८५॥वैरभावेन कृष्णे स युज्यते च चिरेण वा ।अनुग्रहेण कृष्णस्य क्वचिज्जहाति दैत्यताम् ॥८६॥ततः कालान्तरे कृष्णकृपया वैति सद्गतिम् ।तस्मात्तुच्छे पदार्थे तु प्रीतिः कार्या न सर्वथा ॥८७॥हरौ सत्सु सदा कार्या प्रीतिः सेवाऽनुवृत्तिता ।यस्य सर्वं जगत् स्वर्णं लोष्ठं समं दिवं च भूः ॥८८॥सर्वं ब्रह्ममयं यस्य तं प्रसेवेत दासवत् ।दासीवत् सम्प्रसेवेत साध्वी नारायणी भवेत् ॥८९॥इत्येवमुपदिश्याऽथ लक्ष्मि बोधायनो मुनिः ।ययौ देशान्तरं प्राप्य पूजां कालेन वै ततः ॥९०॥कस्तूरिका सुतं दिव्यं सुषुवे भक्तयोगिनम् ।बोधायनोक्तं विज्ञानं गर्भे यः श्रुतवान् परम् ॥९१॥सर्वज्ञानेन सहितो जज्ञे पुत्रः प्रतापवान् ।भक्तिं चक्रे हि बाल्यात् स नर्तनं गायनं तथा ॥९२॥कथां चक्रे विवेकाढ्यां पूजां करोति नित्यदा ।भजनं कीर्तनं चक्रे सर्वां कृष्णमयीं क्रियाम् ॥९३॥अथ बोधायनो द्रष्टुं समायातः पुनस्त्विमम् ।भक्तं विलोक्य शिष्यं तं नाम्ना रायणदेवकम् ॥९४॥मुमुदे दीक्षयामास शतशिष्यैर्युतं च तम् ।शतशिष्याभिरेवाऽपि सहितं रायणं मुनिः ॥९५॥ 'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।दीक्षां भागवतीं मन्त्रं दत्वा मुनिर्ययौ वनम् ॥९६॥सर्वे रायणदेवाद्या नर्तकाः साधवस्तथा ।गायकाश्चापि साध्व्यश्च भेजुर्मां नृत्यकीर्तनैः ॥९७॥सहस्रशो जनाश्चैषां शिष्याश्च पुरुषाः स्त्रियः ।सञ्जाता वैष्णवा लक्ष्मि मम भक्तिपरायणाः ॥९८॥समाजे त्वेकदा तेभ्यो दर्शनं परमं ददौ ।अहं साकं श्रिया लक्ष्म्या नारायणश्चतुर्भुजः ॥९९॥तैश्च सम्पूजितश्चाहं पाययामास पज्जलम् ।तेभ्यो मुक्तिं दिव्यगतिं ददौ ब्रह्ममयीं पराम् ॥१००॥तच्छिष्याश्च प्रशिष्याश्च वर्तन्ते भूतलेऽपरे ।ते भजन्तेऽनादिकृष्णनारायणं प्रभुं च माम् ॥१०१॥एवं मया साघुयोगान्नर्तकश्चोद्धृतो रमे ।उद्धृताश्चापि नर्तक्यो मोक्षमार्गं प्रणोदिताः ॥१०२॥एवं मम बलं भक्तेः साधोः सेवाबलं तथा ।पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिर्भवेदिह ॥१०३॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने रायणदेवस्य नर्तकस्य बोधायनोपदेशेन गर्भस्थस्य विज्ञानं भक्तिश्च हरिदर्शनं मोक्षश्चेत्यादिनिरूपणनामा एकाधिकद्विशततमोऽध्यायः ॥२०१॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP