संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ३४ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ३४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ३४ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि! त्वं प्राकट्यं मम चेतरत् ।ब्रह्मणो राजते वर्षे त्रिचत्वारिंशके पुरा ॥१॥कल्पे द्वाषष्टियुक्सप्तशते मनौ त्रयोदशे ।भक्तो विष्णोर्नैष्ठिकश्चाऽभवन्नाम्ना निरञ्जनः ॥२॥विप्रो द्रुमनिवासश्च मूलपत्रफलाशनः ।सत्यधर्मपरो नित्यं हरेर्मे जपतत्परः ॥३॥प्राणायामपरश्चापि सिद्धासनपरायणः ।प्रत्याहारपरश्चापि धारणाध्यानतत्परः ॥४॥कायेन मनसा वाचाऽऽत्मना विष्णुपरायणः ।संयमी ब्रह्मविद्वाँश्च रागद्वेषादिवर्जितः ॥५॥शुद्धस्फाटिकवद्भास्वान् व्योमवन्निर्मलान्तरः ।सत्संगस्नेहपूर्णश्च सतां सेवापरायणः ॥६॥ब्रह्मदृष्टिर्ब्रह्मयत्नो ब्रह्मवत् सिद्धिशेवधिः ।यथा ब्रह्मा यथा विष्णुर्यथा शंभुस्तथा ह्यहम् ॥७॥उपासनाबलात् सर्वैश्वर्याब्धिः समजायत ।नैकरूपधरश्चापि परकायप्रवेशवान् ॥८॥देवेश्वरादिलोकेषु चाऽव्याहतगतिस्तथा ।समाधिसिद्धिमान् भक्तो मम भक्तिपरायणः ॥९॥स त्वेकदा स्थितो वृक्षमूलेऽविचारयद् यथा ।विष्णुं चतुर्भुजं त्वद्य पृच्छामि हृदयस्थितम् ॥१०॥नारायणस्य वै दिव्यं दर्शनं कीदृशं त्विति ।विचार्येत्थं प्रगे स्नात्वा पूजायां निषसाद सः ॥११॥विष्णुं चतुर्भुजं न्यस्याऽऽर्चयत् सर्वोपचारकैः ।ततः समाधिमासाद्याऽऽह्वयद् विष्णुं पुरःस्थितम् ॥१२॥दिव्यरूपं च विष्णुं स पप्रच्छ विनयान्वितः ।नारायणस्य वै दिव्यं दर्शनं कीदृशं त्विति ॥१३॥विष्णुः प्राहाऽहमस्म्येव नारायणः प्रपश्य माम् ।चतुर्भुजः श्रीनिवासः शंखचक्रगदाऽब्जवान् ॥१४॥निरञ्जनश्च तं प्राह भवान्नारायणोऽपरः ।परनारायणो नास्ति परं दर्शय मे त्विह ॥१५॥विष्णुः श्रुत्वाऽभवत्तत्र सहस्रभुजवाँस्तदा ।सहस्रविष्णुसदृशस्तेजसा वयसा गुणैः ॥१६॥प्राह निरञ्जनं पश्य नारायणं हि मत्परम् ।मादृशा विष्णवश्चास्मादुत्पद्यन्ते दिने दिने ॥१७॥वर्षे वर्षे सहस्राणि विलीयन्ते पुनः पुनः ।श्रुत्वा दृष्ट्वा च सम्पूज्य नत्वा प्राह निरञ्जनः ॥१८॥यद्यप्ययं सहस्राक्षः सहस्रभुजवान् प्रभुः ।परनारायणश्चास्ति तथाप्यस्मात्परोऽपरः ॥१९॥नारायणो भवत्येव यस्य मे दर्शनं प्रियम् ।भक्ताभिलाषां संवीक्ष्य ज्ञात्वा विष्णुस्ततः परम् ॥२०॥रूपं विवर्तयामास महाविष्णवात्मकं द्रुतम् ।महालक्ष्मीसेवितं च कोटिवैराजसदृशम् ॥२१॥तेजसा वयसैश्वर्यैर्गुणैर्विभूतिवैभवैः ।दर्शयामास तद्रूपं चाह भक्तं प्रपश्य माम् ॥२२॥अयुताऽयुतबाहुं चाऽयुताऽक्षिपत्कजम् ।इदं मे परमं रूपं कोटिवैराजकारणम् ॥२३॥श्रुत्वा ज्ञात्वा वीक्ष्य नत्वा प्रपूज्य च निरञ्जनः ।प्राह विष्णुं न चाप्येतत्परमं रूपमैश्वरम् ॥२४॥इतोऽप्यन्यद् वर्तते तद् रूपस्याऽस्याऽपि कारणम् ।मे तद् दर्शय रूपं वै परमोर्ध्वमितोऽपि यत् ॥२५॥श्रुत्वा भक्तस्य भावं च ज्ञात्वा विष्णुस्ततः परम् ।विवर्तयामास रूपं तत् ततोऽपि महत्तरम् ॥२६॥महाविष्णुकोटितुल्यं कोट्यैश्वर्याधिकं परम् ।रूपलावण्यमाधुर्यतेजआदिभिरुद्गतम् ॥२७॥कोट्ययुताक्षिबाहुं कोट्ययुतपदाम्बुजम् ।कोटिकोटिगुणोर्ध्वं च प्राह पश्य ततोऽधिकम् ॥२८॥निरञ्जनस्तु तं वीक्ष्य नत्वा प्रपूज्य भाववान् ।कृत्वा च दण्डवत् पुष्पाञ्जलिं दत्त्वा जगाद ह ॥२९॥एतद्रूपं मया दृष्टं कृपया तव सद्गुरो ।सर्वैश्वर्यभृतं सर्वेश्वराणां च नियामकम् ॥३०॥ईश्वराणां च या सृष्टिस्तस्यास्तेषां च शासकम् ।तृप्तोऽस्मि वीक्ष्य परमं रूपं ते परमप्रभो ॥३१॥किन्तु नात्यन्ततृप्तोऽस्मि चाग्रे धावति मे मनः ।द्रष्टं ते परमं रूपं ततोऽपि पारमेश्वरम् ॥३२॥श्रुत्वा दृष्ट्वा भक्तभावं विष्णुर्भूमस्वरूपकम् ।द्रुतं विवर्तयामास ततोऽब्जाऽर्बुदनेत्रकम् ॥३३॥अब्जाऽर्बुदादिचरणं ततो कोट्यब्जसद्गुणम् ।कोटिभूमोत्पादकं च कोटिसंकर्षणादिकृत् ॥३४॥वासुदेवात्मकं दिव्यं कोटिप्रद्युम्नसेवितम् ।कोटितेजोमहैश्वर्याऽनिरुद्धादिसमन्वितम् ॥३५॥वासुदेवं प्रभुं वीक्ष्य संहृष्टमानसो ह्यति ।बभूव भक्तराट् तूर्णं नेमे तं दण्डवन्मुदा ॥३६॥तुष्टाव च हृदा पश्चाद् विष्णुं प्राह पुनः स च ।नात्र तृप्तिं मनश्चेति प्रदर्शय ततोऽधिकम् ॥३७॥यावत् चतुष्टयं तावत्परं रूपं न तद् भवेत् ।एक एवाऽद्वितीयः सः परमेशः परात्परः ॥३८॥श्रुत्वा ज्ञात्वा भक्तभावं विष्णुस्ततः पुनर्निजम् ।लक्ष्मीनारायणरूपं दर्शयामास शोभनम् ॥३९॥भक्तस्तं चापि नत्वैव प्रपूज्य दण्डवद् व्यधात् ।नैतद्रूपं च तत्प्राह ततो विष्णुः पुनश्च तम् ॥४०॥राधाकृष्णस्वरूपं स्वं दर्शयामास वै तदा ।नत्वाऽभ्यर्च्य स्तुतिं कृत्वा भक्तः प्राह पुनस्तथा ॥४१॥इतोऽप्यूर्ध्वं परब्रह्म नारायणेश्वरेश्वरः ।सर्वान्तर्यामिकः श्रीमान् परेशः पुरुषोत्तमः ॥४२॥अनादिश्रीकृष्णनारायणः श्रीपरमेश्वरः ।अक्षराधिपतिर्नाथो मुक्तकोट्यादिसेवितः ॥४३॥यस्तं निरञ्जनं यावदवताराऽवतारिणम् ।द्रष्टुमिच्छामि वै विष्णो कृपा चेन्मयि दर्शय ॥४४॥विष्णुर्निरञ्जनं प्राह मेऽधिकारो न तत्र वै ।तद्रूपं केऽपि शक्ता नो धर्तुं तस्याऽवतारिणः ॥४५॥अवतारा ईश्वरा वा सगुणा निर्गुणा अपि ।अंशा विभूतयश्चापि कलाऽऽवेशा महेश्वराः ॥४६॥विभवाश्चापि वा व्यूहा धर्तुं शक्ताः कदापि न ।अवतारी स्वयं धर्तुं शक्तो रूपाणि तानि वै ॥४७॥तस्मान्नाऽहं समर्थोऽस्मि प्रदर्शयितुमेव तम् ।यदि त्वं वीक्षितुं तं चेद् समिच्छसि निरञ्जन! ॥४८॥मदन्तर्यामिणं तं त्वं पूजयस्व परेश्वरम् ।अनादिश्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ॥४९॥यस्त्वदात्मा स एवाऽपि ममात्मा हृदये स्थितः ।अक्षरे परमे धाम्नि स एवाऽत्मा सदा स्थितः ॥५०॥परब्रह्म स्वयं तुष्टस्तव ध्यानेन सेवया ।तीव्रयोपासनयाऽपि स्नेहभक्त्याऽतिमात्रया ॥५१॥स्वयं दृष्टिपथं चात्राऽऽगमिष्यति कृपावशः ।भज तं श्रीपतिं सर्वपतिं ह्येकं परेश्वरम् ॥५२॥सर्वमुक्तपतिं सर्वशक्तिपतिं रमापतिम् ।माणिकीवाहिनं तं सं भज द्रक्ष्यसि केशवम् ॥५३॥द्विभुजं सर्वशोभाढ्यं सर्वान्तर्यामिणं च तम् ।इत्युक्त्वा सहसा विष्णुस्तिरोऽभवत् ततः परम् ॥५४॥निरञ्जनो व्यधाद् ध्यानं मम सर्वावतारिणः ।धारणां च व्यधाच्चापि ध्यानं पुनर्व्यधात्तथा ॥५५॥समाधिं च ततो लेभे मयि श्रीपुरुषोत्तमे ।अक्षरे परमे धाम्नि समाययौ समाधिना ॥५६॥ददर्श मम रूपं च त्वया साकं परात्परम् ।दिव्यं मुक्तजुषं सर्वावतारादिविलक्षणम् ॥५७॥एकमेवाऽद्वितीयं तत् सर्वोदग्रं परात्मकम् ।यत्र सर्वावताराश्च सर्वधामानि यानि च ॥५८॥सर्वेश्वराश्च तल्लोकाः सृष्टयश्च समस्तिकाः ।निरञ्जनो ददर्शैव मूलं रूपं ददर्श च ॥५९॥प्रार्थयामास भक्तो मां गन्तुं लोके निजे सह ।आत्यन्तिकविमुक्त्यर्थं जीवानां गोचरो भव ॥६०॥भक्तवश्योऽप्यहं तस्मै तथास्त्वेवं तदाऽवदम् ।त्वया साकं श्रिया चाऽहं भक्तेन सह भूतले ॥६१॥समाययौ तदा लक्ष्मि! साक्षाच्छ्रीपुरुषोत्तमः ।भक्तेच्छापूरकश्चाऽहं भूलोके मानवोऽभवम् ॥६२॥निरञ्जनस्य वै गेहे प्राकट्यं मे ह्यजायत ।त्वं तदा पार्श्ववासस्य तापसस्य द्विजस्य च ॥६३॥नाम्ना निष्किञ्चनस्यापि पुत्री व्यजायथाः प्रिये ।स च कालेनाऽऽर्पयन्मे ज्ञात्वा मामवतारिणम् ॥६४॥अनादिश्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ।परब्रह्माऽक्षरातीतं परमेशं सनातनम् ॥६५॥ततश्चाहमनादिश्रीनैरञ्जनिनरायणः ।ख्यातिमाप्तस्त्वया साकं नैष्किञ्चनीश्रिया प्रिये ॥६६॥मन्वन्तरं न्यवसं च मोचयन् मानवान् श्रितान् ।स्मर लक्ष्मि! तदा मां त्वां प्राकट्यं स्मर शोभनम् ॥६७॥अन्येऽवतारास्तत्रापि कल्पेऽभवन् मम प्रिये! ।सर्वान् जानाम्यहं नान्ये जानन्ति तान्नरायणि ॥६८॥असंख्यजीवा मोक्षे वै तदा सम्प्रेषिता मया ।त्वया चासंख्यजीवाश्च साध्व्यश्चापि विमोचिताः ॥६९॥पठनाच्छ्रवणाच्चास्य स्मरणाद्धारणादपि ।भुक्तिर्मुक्तिर्भवेच्चापि यथेष्टानन्दवान् भवेत् ॥७०॥अग्रहा नाम ते माता मम माताऽऽशुतोषिणी ।प्राप्य पुत्रीं श्रियं पुत्रं परमेशं हरिं प्रभुम् ॥७१॥मेनाते जन्मसाफल्यं मुक्तान्यौ ते ह्युभे सदा ।आचार्याण्यौ तु ते जाते लोकानां मातरावुभे ॥७२॥यशस्विन्यौ मोक्षदात्र्यौ सर्वपूज्ये पराऽऽस्पदे ।वंशौ तौ सर्वदा पूज्यौ बभूवतुस्तदा प्रिये ॥७३॥अथेतरच्च लक्ष्मि! त्वं शृणु प्राकट्यमेव मे ।वेधसो वत्सरे चतुश्चत्वारिंशे कपालके ॥७४॥नवनवत्यूर्ध्वनवशते कल्पेऽद्वये मनौ ।पतिव्रता मम भक्ता नाम्ना पुण्यवती सती ॥७५॥विप्राणी देवपुष्पस्य विप्रस्याऽभूद् विवाहिता ।शीलपरा धर्मपरा देवपूजापरायणा ॥७६॥पतिसेवापरा चापि सत्यधर्मपरायणा ।तीर्थकर्त्री व्रतकर्त्री ध्यानयोगपरायणा ॥७७॥विप्रोऽपि धार्मिकश्चासीत् साधुसेवापरायणः ।युगलं निरपत्यं वै वार्धक्याऽभिभवाऽन्वितम् ॥७८॥अजायत सुतो नैव सुता नापि व्यजायत ।सती पुत्रेषणाखिन्ना भाग्यं शुशोच वै मुहुः ॥७९॥एकदा भाग्यकर्तारं वेधसं सा शशाप ह ।जडो भव प्रजाहीनो यथा चावां तथा भव ॥८०॥द्रुतं तदा सत्यलोके वेधसो हस्ततस्तदा ।निर्माणदण्डोऽप्यपतत् कुलालस्य कराद् यथा ॥८१॥संसारचक्रं न्यपतत् कीलकात् पार्श्वभूतले ।ब्रह्माण्डघटपिण्डश्च विशीर्णो वेगशातितः ॥८२॥तन्तुर्दूरं तथाऽऽक्षिप्तं क्षिप्तान्युपकराण्यपि ।ब्रह्मा तु जडतां प्राप्तः शववन्मूर्छितोऽभवत् ॥८३॥घटशाला सकम्पा च व्यजायत विमर्दनात् ।कृतान्यन्यानि चाण्डानि भग्नानि चक्रतोऽभवन् ॥८४॥हाहाकारो महान् जातो घटशालाभितस्तदा ।ब्रह्मा स्रष्टा मृतश्चेति मृतप्रायो हि मूर्छितः ॥८५॥कारणं किं न वै विद्मो जगुः कार्यकरास्तथा ।सावित्र्याद्याश्चाययुर्वै रुरुदुर्वीक्ष्य मूर्छितम् ॥८६॥सिद्धा महर्षयश्चाप्याययुस्तत्र प्रजेश्वराः ।ब्रह्मपुत्राः कार्यकराः शालायां समुपाययुः ॥८७॥दिक्पालाश्चाययुः सर्वे ब्रह्माणश्चापरेऽपि च ।शापजडं तथा वीक्ष्य वीक्ष्य सृष्टिविहीनकम् ॥८८॥विलापं बहुधा चक्रुस्ते सर्वे तत्र संहताः ।अथ ये ये ब्रह्मपुत्रो ब्रह्मपुत्र्यस्तथा च याः ॥८९॥ब्रह्मणश्चानपत्यत्वशापेनापि समावृताः ।मृत्यवे समजायन्त रुग्णाश्च मूर्छिता द्रुतम् ॥९०॥यथा द्वौ पुत्रहीनौ तौ पुत्रीहीनौ तथा यथा ।तथा ब्रह्माऽपि पुत्र्यादिहीनो सावित्रिका तथा ॥९१॥पुत्रपुत्र्यादिहीना च भवितुं दैवयोजिता ।निजपुत्रान्निजपुत्रीर्ददर्श जडरोगिणः ॥९२॥मुमूर्षून् सहसा तत्र यतः शापो भयंकरः ।द्वयोरेवावशेषार्थं शापः सत्याः प्रवर्तितः ॥९३॥तदा सर्वैः स्मृतो विष्णुः शंभुर्विराट् नरायणः ।सर्वे क्षणादाययुश्च शापरोधनहेतवे ॥९४॥मिलित्वा कारणं मार्गयित्वा ययुर्द्रुतं सतीम् ।पुण्यवतीं प्रति क्ष्मायां सान्त्वयामासुरेव ताम् ॥९५॥सा प्रपूज्य भगवतः सर्वान् प्राह हृदि स्थितम् ।भाग्यं मम कथं पुत्रपुत्रीहीनं कृतं यतः ॥९६॥नाऽहं शापं प्रदत्तं निवर्तयिष्ये सुरेश्वराः ।यथागता गृहं यान्त्वन्यथा शप्ता भविष्यथ ॥९७॥ज्ञात्वा श्रुत्वा च भक्ताया वचनं बलवत्तदा ।भीताः सर्वे सस्मरुश्च श्रीपतिं पुरुषोत्तमम् ॥९८॥तैः स्मृतोऽहं भगवानागतस्तत्र तु पद्मजे ।त्वया साकं ह्यनादिश्रीकृष्णनारायणो हरिः ॥९९॥पुण्यवती प्रभुं वीक्ष्य लज्जानम्रा बभूव ह ।इष्टदेवं परमेशं वीक्ष्य मच्छरणं गता ॥१००॥पपात पादयोस्तूर्णं पत्या सह च मे च ते ।मयोक्ता सान्त्विता सा तु ययाचे युगलं तदा ॥१०१॥पुत्रं मां च तथा पुत्रवधूं त्वां च ततः परम् ।वेधसश्च भवेच्छापनिवृत्तिर्भाग्यरोहणात् ॥१०२॥तथाऽस्त्विति मया प्रोक्ता सा जगाद च वेधसः ।जडत्वं यातु चावाभ्यां तुल्यता चापि माऽस्तु च ॥१०३॥सप्रजत्वं बहुपुत्रपुत्रीमत्वं भवत्वपि ।इत्युक्तमात्रे तूर्णं सा घटशाला सुचेतना ॥१०४॥ब्रह्मा च ब्रह्मणश्चाप्यपत्यानि चेतनानि वै ।जिजीविषवोऽजायन्त सतीवाक्यप्रणोदिताः ॥१०५॥अहं तस्याः सुतो जातस्तत्रैव परमेश्वरः ।अनादिश्रीपुण्यनारायणः श्रीपुरुषोत्तमः ॥१०६॥त्वं च कल्याणिकानाम्न्या भक्ताया मम पुत्रिका ।अभवश्चाग्निहोत्रस्य द्विजस्याऽपत्यरूपिणी ॥१०७॥तेन मह्यं प्रदत्ता त्वं विधिना मद्विवाहिता ।अभवस्त्वं तदा लक्ष्मि! कल्याणीश्रीरितिश्रुता ॥१०८॥स्मर सर्वं जनुस्ते मे सर्वसौभाग्यकारकम् ।पठनाच्छ्रवणाच्चापि स्मरणाद् भुक्तिमुक्तिदम् ॥१०९॥अन्ये तथाऽवतारा मे तदाऽभवन् सहस्रशः ।भुक्तिमुक्तिप्रदाश्चापि लोकरक्षाकराः प्रिये ॥११०॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसस्त्रिचत्वारिंशे वत्सरे भक्तार्थम् अनादिश्रीनैरञ्जनीनारायणस्य नैष्किञ्चनीश्रीसहितस्य, चतुश्चत्वारिंशे वत्सरे च ब्रह्मणः पुण्यवतीशापनिवृत्त्यर्थम् अनादिश्रीपुण्यनारायणस्य कल्याणिकाश्रीसहितस्य च प्राकट्यमित्यादिनिरूपणनामा चतुस्त्रिंशोऽध्यायः ॥३४॥ N/A References : N/A Last Updated : May 03, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP