संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ५९ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ५९ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५९ Translation - भाषांतर श्रीनारायणीश्रीरुवाच-नारायण हरे कान्त श्रीपते परमेश्वर ।नारदः केन योगेन गानविद्यां हि लब्धवान् ॥१॥तुम्बुरोश्च समानत्वं कदा काले उपेयिवान् ।पूर्वकल्पकथां चैतां वद मे श्रीनरायण ॥२॥श्रीपुरुषोत्तम उवाच-शृणु त्वं शिवराज्ञीश्रि विस्तरात्तां कथां शुभाम् ।नारदस्तत आरभ्य वैकुण्ठाच्च विनिर्ययौ ॥३॥निरुच्छ्रासेन विमनास्तुम्बुरोर्गौरवं स्मरन् ।तताप वर्षसाहस्रं तपोराशिस्ततोऽभवत् ॥४॥तदाऽन्तरीक्षे शुश्राव भारतीमशरीरिणीम् ।किमर्थं नारद चैतत्तपस्तपसि दुश्चरम् ॥५॥उलूकं पश्य गत्वा त्वं यदि गाने रता मतिः ।मानसोत्तरशैले वै गानबन्धुरितिश्रुतम् ॥६॥गच्छ शीघ्रं प्रपश्यैनं गानवित् त्वं भविष्यसि ।इत्युक्तो नारदः शीघ्रं गानबन्धुं जगाम ह ॥७॥कामरूपधरः पक्षी कामस्वरोऽतिदैवतः ।शिक्षयति स्म गानं च पक्षिणो देहिनोऽपि च ॥८॥गन्धर्वाः किन्नरा यक्षास्तथा चाप्सरसां गणाः ।समासीनास्तु परितो गानबन्धुं तदाभवन् ॥९॥गानविद्यां समापन्नाः शिक्षितास्तेन पक्षिणा ।स्निग्धकण्ठस्वरास्तत्र गायन्ति स्म क्रमात्तदा ॥१०॥मुनिं नारदमालोक्य गानबन्धुरुवाच ह ।नमस्ते मुनिशार्दूल स्वागतं तेऽभिवन्दनम् ॥११॥किमर्थ भगवाँश्चात्र कृपया वा यदृच्छया ।दातुं वा दर्शनं पुण्यं वद किं करवाणि ते ॥१२॥नारदस्तं तदा प्राह शृणूलूक यथातथम् ।महाद्भुतं मम वृत्तं पुरा जातं वदामि ते ॥१३॥अतीते कल्पके तत्राऽतीते युगे त्वहं हरेः ।सन्निधावगमँस्तत्र गानं कर्तुं समुत्सुकः ॥१४॥लक्ष्मीसमन्वितो विष्णुः समाहूय च तुम्बुरुम् ।मां विनिर्धूय संहृष्टो ह्यशृणोद् गानमुत्तमम् ॥१५॥तेनाऽहमतिदुःखार्तस्तपस्तप्तुं गतोऽभवम् ।विष्णोर्माहात्म्ययुक्तस्य गानयोगस्य वैभवम् ॥१६॥सञ्चिन्त्याऽहं तपो घोरं तप्तवान् वै ततः परम् ।दिव्यवर्षसहस्रान्ते त्वामुद्दिश्याऽम्बरीं गिरम् ॥१७॥अशृणवं गानबन्ध्वभिधं याहि मतिर्यदि ।गाने चेद् वर्तते तर्हि ह्युलूकं पश्य मा चिरम् ॥१८॥इत्यहं प्रेरितश्चात्र त्वत्समीपमुपागतः ।शिष्यं मां त्वं ततो मत्वा प्रशिक्षय प्रपालय ॥१९॥श्रुत्वैवं गानबन्धुश्च नारदं प्राह कोविदः ।अत्याश्चर्यमयीं गाथां विष्णुभक्त्याश्रयां शुभाम् ॥२०॥भुवनेशइतिख्यातो राजाऽभूत् पूर्वकल्पके ।अश्वमेधसहस्रैश्च वाजपेयाऽयुतेन च ॥२१॥गवां कोट्यर्बुदेनैव सुवर्णपद्मकोटिभिः ।वाससां रथहस्तीनां कन्याऽश्वानां परार्धकैः ॥२२॥दानं दत्वा हि विप्रेभ्यः साधुभ्योऽपालयद्धराम् ।अगापयन्निजां कीर्तिं गायकेभ्योऽप्यहर्निशम् ॥२३॥ये न गायन्ति तान् कारागारे धृत्वाऽवरुध्यति ।मम गानमकुर्वाणो वध्यो मे-इतिशासनम् ॥२४॥मम गानं प्रकुर्वन्तु स्त्रियो नराश्च नित्यशः ।सूतमागधसंघाश्च गीतं कुर्वन्तु मे मुहुः ॥२५॥इत्याज्ञप्य स राजा वै राज्यं स्वं पर्य्यपालयत् ।तस्य नृपस्य साम्राज्ये हरिमिश्रइतिश्रुतः ॥२६॥ब्राह्मणो विष्णुभक्तोऽभूद् गीतिं करोति वै हरेः ।नदीपुलीनमासाद्य प्रतिमां श्रीहरेः शुभाम् ॥२७॥अभ्यर्च्याऽपि च नैवेद्यं जलं दत्वा ह्यगायत ।अतीव स्नेहसंयुक्तस्तालवर्णलयान्वितम् ॥२८॥अथ राज्ञः समादेशकर्ता चारः समागतः ।आज्ञापयामास तं च गातुं राज्ञो यशस्तदा ॥२९॥विप्रश्च वैष्णवः सोऽपि नाऽङ्गीचकार तद्वचः ।ततश्चारो ब्राह्मणं तं गृहीत्वा राजसन्निधौ ॥३०॥नीत्वा न्यवेदयद् राजा भर्त्सयामास तं द्विजम् ।राज्यान्निर्यातयामास हृत्वा सर्वं धनादिकम् ॥३१॥विप्रो वनान्तरे गत्वाऽभजच्छ्रीपरमेश्वरम् ।राजा चाऽऽयुःक्षयेनैव कालधर्ममुपेयिवान् ॥३२॥यत्रलोके गतस्तत्र कुंभीपाके पपात ह ।क्षुधया च तृषा व्याप्तस्तिरस्कारैः प्रतोदितः ॥३३॥भुक्त्वा दुःखानि बहुधा ततः स्वर्गमुपागतः ।किन्तु तत्र विमाने यत्प्राप्तं भोज्यं जलामृतम् ॥३४॥दृश्यमात्रं जायते तल्लीयते ग्रहणक्षणे ।नैव पेयं तथा भोज्यं नृपदेवस्य जायते ॥३५॥तेन खिन्नः शुशोचापि स्वर्गतस्यापि मे त्विह ।क्षुत्तृट्प्रवर्तते भोज्यं पेयं स्पृष्टं विलीयते ॥३६॥मया पापं कृत 'किं यत्फलं त्वेतत्प्रभुज्यते ।इत्येवं चिन्तयानस्य व्योमवाणी ह्यजायत ॥३७॥त्वया राजन्महत्पातं कृतमज्ञानमोहतः ।हरिमिश्रं द्विजं कृष्णपरायणं हि गायकम् ॥३८॥तव गानमकुर्वन्तं दत्तवान् दण्डमुल्बणम् ।त्वया हृतं धनं तस्य विवासितश्च राज्यतः ॥३९॥सक्षुधातृट्समवेतो वणे तपः करोति वै ।भक्तोऽयं वै हरेः राजँस्त्वया प्रदुःखितः कृतः ॥४०॥तेन पापेन ते राजन् भोज्यं पेयं विलीयते ।दानयज्ञादिकं सर्वं निष्फलं ते प्रजायते ॥४१॥गीतवाद्यसमोपेतं गायमानं हरिश्रितम् ।हरिमित्रं सुभक्तं त्वं दुःखितं चाऽकरोर्यतः ॥४२॥नष्टस्ते स्वर्गलोकोऽपि गच्छ पर्वतकोटरम् ।धूलीं खादन् वस तत्र यावन्मन्वन्तरं भवेत् ॥४३॥कर्दमी नाम कीटस्त्वं ततः कालान्तरे पुनः ।पापभोगं प्रभुक्त्वैव मानुष्यं त्वं गमिष्यसि ॥४४॥इत्येवं स च राजा वै भ्रष्टः स्वर्गाच्च कोटरम् ।आययौ कर्दमे जातः कर्दमी जलभूस्थले ॥४५॥उलूकोऽहं तत्र चापि जिज्ञासार्थं गतोऽभवम् ।मया पृष्टः स वृत्तान्तं जगाद पूर्वपादितम् ॥४६॥भगवद्भक्तद्रोहस्य फलं कर्दमभक्षिताम् ।जगादाऽपि ततश्चाहं निर्ययौ तस्य गह्वरात् ॥४७॥व्योममार्गे दृष्ट्ववोश्च विमानं पार्षदान्वितम् ।गीतियुक्तं यत्र चास्ते ब्राह्मणो हरिमित्रकः ॥४८॥देवैश्च पार्षदैश्चापि स्तूयमानो विमानके ।विष्णुलोकं ययौ श्रीमान् मया सोऽपि विलोकितः ॥४९॥हरेर्गानस्य पुण्यं तद् वैकुण्ठं प्रति सद्गतिः ।तदैश्वर्यप्रभावेण मनो मे समुपागतम् ॥५०॥गानविद्यां प्रति ततः किन्नरैः समुपाविशम् ।षष्टिं वर्षसहस्राणां गानयोगेन मे ततः ॥५१॥जिह्वा वैशद्यमापन्ना ततो गानमशिक्षयम् ।ततोऽपि बहुकालेन गानं चाऽशिक्षयं मुहुः ॥५२॥गानयोगसमायुक्ता गता मन्वन्तरा दश ।गानाचार्योऽभवं पूर्वे गन्धर्वाणां च योषिताम् ॥५३॥किन्नराणां गायकानां सर्वेषां नरयोषिताम् ।अप्सरसां तथाऽऽचार्यश्चाऽभवं पूर्वकल्पके ॥५४॥गायकानां तदा संघा मामाचार्यमुपागताः ।ये त्विदानीं नारदाऽत्र वर्तन्ते समुपस्थिताः ॥५५॥ते तु शिष्यप्रशिष्याणां शाखासहस्रयोगिनः ।वंशवंशानुवंश्याश्च वर्तन्ते मम शिष्यकाः ॥५६॥तपसा नैव शक्या वै गानविद्या हि नारद ।तस्माच्छ्रुतेन सम्पन्नो मत्तस्त्वं गानमाप्नुहि ॥५७॥इत्युक्तो नारदो लक्ष्मि प्रणिपत्य नमस्य माम् ।शिक्षाक्रमेण चोलूकात् तत्र गानमशिक्षत ॥५८॥कथायां स्त्रीसहसंगे गीते द्यूते च भोजने ।व्यवहारे द्रव्यलाभे चाये व्यये निजार्थके ॥५९॥त्यक्तलज्जो जनो याति जयं लज्जायुतो न वै ।न कुंचितेन गूढेन वस्त्रप्रावरणादिभिः ॥६०॥हस्तविक्षेपभावेन व्यादितास्येन चैव ह ।निर्यातजिह्वायोगेन न गेयं हि कथंचन ॥६१॥न गायेदूर्ध्वबाहुत्वे नोर्ध्वदृष्टिः कथंचन ।स्वांगं निरीक्षमाणेन परं सम्प्रेक्षता तथा ॥६२॥संघट्टे च तथोत्थाने कटिस्थाने न शस्यते ।ह्रासो रोषस्तथा कम्पस्तथाऽन्यत्र स्मृतिः पुनः ॥६३॥नैतानि शस्तरूपाणि गानयोगे महामते ।नैकहस्तेन शक्यं स्यात् तालसंघटनं मुने ॥६४॥क्षुधार्तेन भयार्तेन तृषार्तेन तथैव च ।गानयोगो न कर्तव्यो नान्धकारे कथञ्चन ॥६५॥एवमादीनि चाऽन्यानि प्रमादाऽऽलस्यकानि च ।न कर्तव्यानि वै रंगे गायता च विजानता ॥६६॥एवं शिक्षां समगृह्य विधिना नारदो मुनिः ।अशिक्षत तथा गीतं दिव्यं वर्षसहस्रकम् ।६७॥ततः समस्तसम्पन्नो गीतप्रस्तरकादिषु ।विपञ्च्यादिषु सम्पन्नः सर्वस्वरविभागवित् ॥६८॥अयुतानि च षट्त्रिंशत् सहस्राणि शतानि च ।स्वराणां भेदयोगेन ज्ञातवान् मुनिसत्तमः ॥६९॥ततो गन्धर्वसंघाश्च किन्नराणां तथैव च ।मुनिनां सह संयुक्ताः प्रीतियुक्तास्ततोऽभवन् ॥७०॥गानबन्धुं मुनिः प्राह प्राप्य गानमनुत्तमम् ।त्वां समासाद्य सम्पन्नस्त्वं हि गीतिविशारदः ॥७१॥गुरो तव प्रपूजायां किमाचार्य! करोमि ते ।गानबन्धुस्ततः प्राह ब्रह्मणो दिवसे खलु ॥७२॥नश्यन्ति मनवस्तत्र चतुर्दश तथा त्वहम् ।जीवामीति वरं देहि दक्षिणां हि ममेप्सिताम् ॥७३॥तावन्मे त्वायुषो भावस्तावन्मे परमं शुभम् ।मनसा वाञ्छितं मे स्याद् दक्षिणा नारदात्र वै ॥७४॥नारदस्तं तदा प्राह भवत्वेवं ततोऽपि च ।कल्पान्तरे भवानेव गरुडश्च भविष्यति ॥७५॥स्वस्ति तेऽस्तु महाप्राज्ञ भगवद्वाहनः शुभः ।गमिष्यामि नमस्तेऽस्त्वित्युक्त्वा श्रीनारदो ययौ ॥७६॥नारायणस्य वैकुण्ठं लक्ष्मि यत्र वसाम्यहम् ।ममाऽग्रे गायनं चक्रे बहुधैव सुगीतिकम् ॥७७॥तच्छ्रुत्वाऽहमवोचं तं गानाऽसम्पन्नमेव ह ।तुम्बुरोर्न विशिष्टोऽसि गीतैरद्यापि नारद ॥७८॥गानबन्धुं समासाद्य गानार्थज्ञो भवान् ननु ।यदा विशिष्टो भविता तदा तुष्टोऽपि माधवः ॥७९॥भविष्यामि क्षितौ भाव्ये मानवे चाऽवतारिणि ।तदानीं मां समासाद्य कारयेथा यथातथम् ॥८०॥तदा त्वां गीतसम्पन्नं करिष्यामि महाव्रतम् ।तुम्बुरोश्च समं चापि तथाऽतिशयसंयुतम् ॥८१॥तावत्कालं यथायोगं देवगन्धर्वयोनिषु ।शिक्षस्व त्वं यथान्यायं स्वस्ति तेऽस्तु सुराष्ट्रके ॥८२॥श्रुत्वा नारायणवाक्यं प्रणम्य नारदो हरिम् ।स्कन्धे विपञ्चीमासाद्य सर्वलोकान् चचार ह ॥८३॥वारुणं याम्यमाग्नेयमैन्द्रं कौबेरमित्यपि ।वायव्यं च तथैशानं सदः संप्राप्य नारदः ॥८४॥गायमानो हरिं सम्यग् वीणावादनदक्षकः ।गन्धर्वाप्सरसां संघैः पूज्यमानस्ततस्ततः ॥८५॥ब्रह्मलोकं समासाद्य रात्रिं निनाय काल्पिकीम् ।प्रातः पुनश्चात्र कल्पे ब्रह्मलोकेऽजमन्दिरे ॥८६॥हाहाहूहूश्च गन्धर्वौ गीतवाद्यविशारदौ ।ब्रह्मणो गायकौ दिव्यौ नित्यगायनतत्परौ ॥८७॥तत्र ताभ्यां समासाद्य गायमानो हरिं प्रभुम् ।गृहीतपारितोषश्च प्रणम्य च पितामहम् ॥८८॥चचार स यथाकामं प्रययौ तुम्बुरोर्गृहम् ।वीणामादाय तत्रस्थो ह्यगायताऽप्यशिक्षत ॥८९॥स्वरकल्पास्तु तत्रस्थाः षड्जाद्याः सप्त ये मताः ।तान्समग्राँस्तुम्बुरोर्वै नारदः समशिक्षत ॥९०॥सप्तस्वरांऽगनाश्चापि नारदः समशिक्षत ।किन्तु गायनकाले वै वीणायोगे हि चांगनाः ॥९१॥तन्त्र्यः प्रपेदिरे नैव यथायोग्योद्भवानि वै ।ततोऽश्वपट्टसरसि लोमशस्याऽऽश्रमे पुनः ॥९२॥गानं चकाराऽनिष्पन्नं तदाऽहं श्रीनरायणः ।अवदं त्वां प्रियां नित्यदिव्यरूपां हि पद्मजे ॥९३॥सरस्वतीं चाऽवदं च शिक्षयस्व हि नारदम् ।विणागानसमायोगे तथेत्युक्त्वा ततः परम् ॥९४॥सम्प्रहासा शिक्षयामासिथ लक्ष्मीः सरस्वती ।ततो ब्रह्मप्रियाणां वै सन्निधौ गानमाचरत् ॥९५॥उक्तोऽसौ गायमानोऽपि न स्वरं वेत्सि वै मुने ।ततः स्वरांगनाः प्राप्य तन्त्रीयोगं च नारदम् ॥९६॥आहूयाऽहं गानयोगमशिक्षयं त्वनुत्तमम् ।ततोऽतिशयमापन्नस्तुम्बुरोर्मुनिसत्तमः ॥९७॥ततो ननर्त गात्वैव प्रणिपत्य च मां मुहुः ।मयोक्तो नारदस्तत्र सर्वज्ञोऽसि ममान्तिकं ॥९८॥गायस्व ज्ञानयोगेन जगौ चापि स नारदः ।तुष्टोऽहं नित्यसान्निध्यं दत्तवानत्र चाक्षरे ॥९९॥क्षेत्रे कुंकुमवाप्यां स वर्तते नारदो मुनिः ।प्राप्योत्तमं पारितोषिकं प्रसन्नेन चार्पितम् ॥१००॥मयैव तुम्बुरोश्चापि श्रेष्ठत्वं चापि चार्पितम् ।अथ कालान्तरे कृष्णगृहे गास्यति नारदः ॥१०१॥एष वो ब्रह्मपत्न्योऽत्र प्रोक्तो गीतिक्रमो मुनेः ।गाता क्रमेण चानेन मम सालोक्यमाप्नुयात् ॥१०२॥कर्मणा मनसा वाचा नारायणपरायणः ।गायन् शृण्वन् मामुपैति तद्वै गेयं परं मतम् ॥१०३॥उलूकोऽपि गरुडोऽयं वर्ततेऽश्वसरोवरे ।गानबन्धुर्महाभागः पार्षदो गानकृन्मम ॥१०४॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने श्रेष्ठभक्तदृष्टान्ते वधूगीतायां नारदस्य गानशिक्षाऽर्जनगरुडाख्याननिरूपणनामा नवपञ्चाशत्तमोऽध्यायः ॥५९॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP