संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः ५९

द्वापरयुगसन्तानः - अध्यायः ५९

लक्ष्मीनारायणसंहिता


श्रीनारायणीश्रीरुवाच-
नारायण हरे कान्त श्रीपते परमेश्वर ।
नारदः केन योगेन गानविद्यां हि लब्धवान् ॥१॥
तुम्बुरोश्च समानत्वं कदा काले उपेयिवान् ।
पूर्वकल्पकथां चैतां वद मे श्रीनरायण ॥२॥
श्रीपुरुषोत्तम उवाच-
शृणु त्वं शिवराज्ञीश्रि विस्तरात्तां कथां शुभाम् ।
नारदस्तत आरभ्य वैकुण्ठाच्च विनिर्ययौ ॥३॥
निरुच्छ्रासेन विमनास्तुम्बुरोर्गौरवं स्मरन् ।
तताप वर्षसाहस्रं तपोराशिस्ततोऽभवत् ॥४॥
तदाऽन्तरीक्षे शुश्राव भारतीमशरीरिणीम् ।
किमर्थं नारद चैतत्तपस्तपसि दुश्चरम् ॥५॥
उलूकं पश्य गत्वा त्वं यदि गाने रता मतिः ।
मानसोत्तरशैले वै गानबन्धुरितिश्रुतम् ॥६॥
गच्छ शीघ्रं प्रपश्यैनं गानवित् त्वं भविष्यसि ।
इत्युक्तो नारदः शीघ्रं गानबन्धुं जगाम ह ॥७॥
कामरूपधरः पक्षी कामस्वरोऽतिदैवतः ।
शिक्षयति स्म गानं च पक्षिणो देहिनोऽपि च ॥८॥
गन्धर्वाः किन्नरा यक्षास्तथा चाप्सरसां गणाः ।
समासीनास्तु परितो गानबन्धुं तदाभवन् ॥९॥
गानविद्यां समापन्नाः शिक्षितास्तेन पक्षिणा ।
स्निग्धकण्ठस्वरास्तत्र गायन्ति स्म क्रमात्तदा ॥१०॥
मुनिं नारदमालोक्य गानबन्धुरुवाच ह ।
नमस्ते मुनिशार्दूल स्वागतं तेऽभिवन्दनम् ॥११॥
किमर्थ भगवाँश्चात्र कृपया वा यदृच्छया ।
दातुं वा दर्शनं पुण्यं वद किं करवाणि ते ॥१२॥
नारदस्तं तदा प्राह शृणूलूक यथातथम् ।
महाद्भुतं मम वृत्तं पुरा जातं वदामि ते ॥१३॥
अतीते कल्पके तत्राऽतीते युगे त्वहं हरेः ।
सन्निधावगमँस्तत्र गानं कर्तुं समुत्सुकः ॥१४॥
लक्ष्मीसमन्वितो विष्णुः समाहूय च तुम्बुरुम् ।
मां विनिर्धूय संहृष्टो ह्यशृणोद् गानमुत्तमम् ॥१५॥
तेनाऽहमतिदुःखार्तस्तपस्तप्तुं गतोऽभवम् ।
विष्णोर्माहात्म्ययुक्तस्य गानयोगस्य वैभवम् ॥१६॥
सञ्चिन्त्याऽहं तपो घोरं तप्तवान् वै ततः परम् ।
दिव्यवर्षसहस्रान्ते त्वामुद्दिश्याऽम्बरीं गिरम् ॥१७॥
अशृणवं गानबन्ध्वभिधं याहि मतिर्यदि ।
गाने चेद् वर्तते तर्हि ह्युलूकं पश्य मा चिरम् ॥१८॥
इत्यहं प्रेरितश्चात्र त्वत्समीपमुपागतः ।
शिष्यं मां त्वं ततो मत्वा प्रशिक्षय प्रपालय ॥१९॥
श्रुत्वैवं गानबन्धुश्च नारदं प्राह कोविदः ।
अत्याश्चर्यमयीं गाथां विष्णुभक्त्याश्रयां शुभाम् ॥२०॥
भुवनेशइतिख्यातो राजाऽभूत् पूर्वकल्पके ।
अश्वमेधसहस्रैश्च वाजपेयाऽयुतेन च ॥२१॥
गवां कोट्यर्बुदेनैव सुवर्णपद्मकोटिभिः ।
वाससां रथहस्तीनां कन्याऽश्वानां परार्धकैः ॥२२॥
दानं दत्वा हि विप्रेभ्यः साधुभ्योऽपालयद्धराम् ।
अगापयन्निजां कीर्तिं गायकेभ्योऽप्यहर्निशम् ॥२३॥
ये न गायन्ति तान् कारागारे धृत्वाऽवरुध्यति ।
मम गानमकुर्वाणो वध्यो मे-इतिशासनम् ॥२४॥
मम गानं प्रकुर्वन्तु स्त्रियो नराश्च नित्यशः ।
सूतमागधसंघाश्च गीतं कुर्वन्तु मे मुहुः ॥२५॥
इत्याज्ञप्य स राजा वै राज्यं स्वं पर्य्यपालयत् ।
तस्य नृपस्य साम्राज्ये हरिमिश्रइतिश्रुतः ॥२६॥
ब्राह्मणो विष्णुभक्तोऽभूद् गीतिं करोति वै हरेः ।
नदीपुलीनमासाद्य प्रतिमां श्रीहरेः शुभाम् ॥२७॥
अभ्यर्च्याऽपि च नैवेद्यं जलं दत्वा ह्यगायत ।
अतीव स्नेहसंयुक्तस्तालवर्णलयान्वितम् ॥२८॥
अथ राज्ञः समादेशकर्ता चारः समागतः ।
आज्ञापयामास तं च गातुं राज्ञो यशस्तदा ॥२९॥
विप्रश्च वैष्णवः सोऽपि नाऽङ्गीचकार तद्वचः ।
ततश्चारो ब्राह्मणं तं गृहीत्वा राजसन्निधौ ॥३०॥
नीत्वा न्यवेदयद् राजा भर्त्सयामास तं द्विजम् ।
राज्यान्निर्यातयामास हृत्वा सर्वं धनादिकम् ॥३१॥
विप्रो वनान्तरे गत्वाऽभजच्छ्रीपरमेश्वरम् ।
राजा चाऽऽयुःक्षयेनैव कालधर्ममुपेयिवान् ॥३२॥
यत्रलोके गतस्तत्र कुंभीपाके पपात ह ।
क्षुधया च तृषा व्याप्तस्तिरस्कारैः प्रतोदितः ॥३३॥
भुक्त्वा दुःखानि बहुधा ततः स्वर्गमुपागतः ।
किन्तु तत्र विमाने यत्प्राप्तं भोज्यं जलामृतम् ॥३४॥
दृश्यमात्रं जायते तल्लीयते ग्रहणक्षणे ।
नैव पेयं तथा भोज्यं नृपदेवस्य जायते ॥३५॥
तेन खिन्नः शुशोचापि स्वर्गतस्यापि मे त्विह ।
क्षुत्तृट्प्रवर्तते भोज्यं पेयं स्पृष्टं विलीयते ॥३६॥
मया पापं कृत 'किं यत्फलं त्वेतत्प्रभुज्यते ।
इत्येवं चिन्तयानस्य व्योमवाणी ह्यजायत ॥३७॥
त्वया राजन्महत्पातं कृतमज्ञानमोहतः ।
हरिमिश्रं द्विजं कृष्णपरायणं हि गायकम् ॥३८॥
तव गानमकुर्वन्तं दत्तवान् दण्डमुल्बणम् ।
त्वया हृतं धनं तस्य विवासितश्च राज्यतः ॥३९॥
सक्षुधातृट्समवेतो वणे तपः करोति वै ।
भक्तोऽयं वै हरेः राजँस्त्वया प्रदुःखितः कृतः ॥४०॥
तेन पापेन ते राजन् भोज्यं पेयं विलीयते ।
दानयज्ञादिकं सर्वं निष्फलं ते प्रजायते ॥४१॥
गीतवाद्यसमोपेतं गायमानं हरिश्रितम् ।
हरिमित्रं सुभक्तं त्वं दुःखितं चाऽकरोर्यतः ॥४२॥
नष्टस्ते स्वर्गलोकोऽपि गच्छ पर्वतकोटरम् ।
धूलीं खादन् वस तत्र यावन्मन्वन्तरं भवेत् ॥४३॥
कर्दमी नाम कीटस्त्वं ततः कालान्तरे पुनः ।
पापभोगं प्रभुक्त्वैव मानुष्यं त्वं गमिष्यसि ॥४४॥
इत्येवं स च राजा वै भ्रष्टः स्वर्गाच्च कोटरम् ।
आययौ कर्दमे जातः कर्दमी जलभूस्थले ॥४५॥
उलूकोऽहं तत्र चापि जिज्ञासार्थं गतोऽभवम् ।
मया पृष्टः स वृत्तान्तं जगाद पूर्वपादितम् ॥४६॥
भगवद्भक्तद्रोहस्य फलं कर्दमभक्षिताम् ।
जगादाऽपि ततश्चाहं निर्ययौ तस्य गह्वरात् ॥४७॥
व्योममार्गे दृष्ट्ववोश्च विमानं पार्षदान्वितम् ।
गीतियुक्तं यत्र चास्ते ब्राह्मणो हरिमित्रकः ॥४८॥
देवैश्च पार्षदैश्चापि स्तूयमानो विमानके ।
विष्णुलोकं ययौ श्रीमान् मया सोऽपि विलोकितः ॥४९॥
हरेर्गानस्य पुण्यं तद् वैकुण्ठं प्रति सद्गतिः ।
तदैश्वर्यप्रभावेण मनो मे समुपागतम् ॥५०॥
गानविद्यां प्रति ततः किन्नरैः समुपाविशम् ।
षष्टिं वर्षसहस्राणां गानयोगेन मे ततः ॥५१॥
जिह्वा वैशद्यमापन्ना ततो गानमशिक्षयम् ।
ततोऽपि बहुकालेन गानं चाऽशिक्षयं मुहुः ॥५२॥
गानयोगसमायुक्ता गता मन्वन्तरा दश ।
गानाचार्योऽभवं पूर्वे गन्धर्वाणां च योषिताम् ॥५३॥
किन्नराणां गायकानां सर्वेषां नरयोषिताम् ।
अप्सरसां तथाऽऽचार्यश्चाऽभवं पूर्वकल्पके ॥५४॥
गायकानां तदा संघा मामाचार्यमुपागताः ।
ये त्विदानीं नारदाऽत्र वर्तन्ते समुपस्थिताः ॥५५॥
ते तु शिष्यप्रशिष्याणां शाखासहस्रयोगिनः ।
वंशवंशानुवंश्याश्च वर्तन्ते मम शिष्यकाः ॥५६॥
तपसा नैव शक्या वै गानविद्या हि नारद ।
तस्माच्छ्रुतेन सम्पन्नो मत्तस्त्वं गानमाप्नुहि ॥५७॥
इत्युक्तो नारदो लक्ष्मि प्रणिपत्य नमस्य माम् ।
शिक्षाक्रमेण चोलूकात् तत्र गानमशिक्षत ॥५८॥
कथायां स्त्रीसहसंगे गीते द्यूते च भोजने ।
व्यवहारे द्रव्यलाभे चाये व्यये निजार्थके ॥५९॥
त्यक्तलज्जो जनो याति जयं लज्जायुतो न वै ।
न कुंचितेन गूढेन वस्त्रप्रावरणादिभिः ॥६०॥
हस्तविक्षेपभावेन व्यादितास्येन चैव ह ।
निर्यातजिह्वायोगेन न गेयं हि कथंचन ॥६१॥
न गायेदूर्ध्वबाहुत्वे नोर्ध्वदृष्टिः कथंचन ।
स्वांगं निरीक्षमाणेन परं सम्प्रेक्षता तथा ॥६२॥
संघट्टे च तथोत्थाने कटिस्थाने न शस्यते ।
ह्रासो रोषस्तथा कम्पस्तथाऽन्यत्र स्मृतिः पुनः ॥६३॥
नैतानि शस्तरूपाणि गानयोगे महामते ।
नैकहस्तेन शक्यं स्यात् तालसंघटनं मुने ॥६४॥
क्षुधार्तेन भयार्तेन तृषार्तेन तथैव च ।
गानयोगो न कर्तव्यो नान्धकारे कथञ्चन ॥६५॥
एवमादीनि चाऽन्यानि प्रमादाऽऽलस्यकानि च ।
न कर्तव्यानि वै रंगे गायता च विजानता ॥६६॥
एवं शिक्षां समगृह्य विधिना नारदो मुनिः ।
अशिक्षत तथा गीतं दिव्यं वर्षसहस्रकम् ।६७॥
ततः समस्तसम्पन्नो गीतप्रस्तरकादिषु ।
विपञ्च्यादिषु सम्पन्नः सर्वस्वरविभागवित् ॥६८॥
अयुतानि च षट्त्रिंशत् सहस्राणि शतानि च ।
स्वराणां भेदयोगेन ज्ञातवान् मुनिसत्तमः ॥६९॥
ततो गन्धर्वसंघाश्च किन्नराणां तथैव च ।
मुनिनां सह संयुक्ताः प्रीतियुक्तास्ततोऽभवन् ॥७०॥
गानबन्धुं मुनिः प्राह प्राप्य गानमनुत्तमम् ।
त्वां समासाद्य सम्पन्नस्त्वं हि गीतिविशारदः ॥७१॥
गुरो तव प्रपूजायां किमाचार्य! करोमि ते ।
गानबन्धुस्ततः प्राह ब्रह्मणो दिवसे खलु ॥७२॥
नश्यन्ति मनवस्तत्र चतुर्दश तथा त्वहम् ।
जीवामीति वरं देहि दक्षिणां हि ममेप्सिताम् ॥७३॥
तावन्मे त्वायुषो भावस्तावन्मे परमं शुभम् ।
मनसा वाञ्छितं मे स्याद् दक्षिणा नारदात्र वै ॥७४॥
नारदस्तं तदा प्राह भवत्वेवं ततोऽपि च ।
कल्पान्तरे भवानेव गरुडश्च भविष्यति ॥७५॥
स्वस्ति तेऽस्तु महाप्राज्ञ भगवद्वाहनः शुभः ।
गमिष्यामि नमस्तेऽस्त्वित्युक्त्वा श्रीनारदो ययौ ॥७६॥
नारायणस्य वैकुण्ठं लक्ष्मि यत्र वसाम्यहम् ।
ममाऽग्रे गायनं चक्रे बहुधैव सुगीतिकम् ॥७७॥
तच्छ्रुत्वाऽहमवोचं तं गानाऽसम्पन्नमेव ह ।
तुम्बुरोर्न विशिष्टोऽसि गीतैरद्यापि नारद ॥७८॥
गानबन्धुं समासाद्य गानार्थज्ञो भवान् ननु ।
यदा विशिष्टो भविता तदा तुष्टोऽपि माधवः ॥७९॥
भविष्यामि क्षितौ भाव्ये मानवे चाऽवतारिणि ।
तदानीं मां समासाद्य कारयेथा यथातथम् ॥८०॥
तदा त्वां गीतसम्पन्नं करिष्यामि महाव्रतम् ।
तुम्बुरोश्च समं चापि तथाऽतिशयसंयुतम् ॥८१॥
तावत्कालं यथायोगं देवगन्धर्वयोनिषु ।
शिक्षस्व त्वं यथान्यायं स्वस्ति तेऽस्तु सुराष्ट्रके ॥८२॥
श्रुत्वा नारायणवाक्यं प्रणम्य नारदो हरिम् ।
स्कन्धे विपञ्चीमासाद्य सर्वलोकान् चचार ह ॥८३॥
वारुणं याम्यमाग्नेयमैन्द्रं कौबेरमित्यपि ।
वायव्यं च तथैशानं सदः संप्राप्य नारदः ॥८४॥
गायमानो हरिं सम्यग् वीणावादनदक्षकः ।
गन्धर्वाप्सरसां संघैः पूज्यमानस्ततस्ततः ॥८५॥
ब्रह्मलोकं समासाद्य रात्रिं निनाय काल्पिकीम् ।
प्रातः पुनश्चात्र कल्पे ब्रह्मलोकेऽजमन्दिरे ॥८६॥
हाहाहूहूश्च गन्धर्वौ गीतवाद्यविशारदौ ।
ब्रह्मणो गायकौ दिव्यौ नित्यगायनतत्परौ ॥८७॥
तत्र ताभ्यां समासाद्य गायमानो हरिं प्रभुम् ।
गृहीतपारितोषश्च प्रणम्य च पितामहम् ॥८८॥
चचार स यथाकामं प्रययौ तुम्बुरोर्गृहम् ।
वीणामादाय तत्रस्थो ह्यगायताऽप्यशिक्षत ॥८९॥
स्वरकल्पास्तु तत्रस्थाः षड्जाद्याः सप्त ये मताः ।
तान्समग्राँस्तुम्बुरोर्वै नारदः समशिक्षत ॥९०॥
सप्तस्वरांऽगनाश्चापि नारदः समशिक्षत ।
किन्तु गायनकाले वै वीणायोगे हि चांगनाः ॥९१॥
तन्त्र्यः प्रपेदिरे नैव यथायोग्योद्भवानि वै ।
ततोऽश्वपट्टसरसि लोमशस्याऽऽश्रमे पुनः ॥९२॥
गानं चकाराऽनिष्पन्नं तदाऽहं श्रीनरायणः ।
अवदं त्वां प्रियां नित्यदिव्यरूपां हि पद्मजे ॥९३॥
सरस्वतीं चाऽवदं च शिक्षयस्व हि नारदम् ।
विणागानसमायोगे तथेत्युक्त्वा ततः परम् ॥९४॥
सम्प्रहासा शिक्षयामासिथ लक्ष्मीः सरस्वती ।
ततो ब्रह्मप्रियाणां वै सन्निधौ गानमाचरत् ॥९५॥
उक्तोऽसौ गायमानोऽपि न स्वरं वेत्सि वै मुने ।
ततः स्वरांगनाः प्राप्य तन्त्रीयोगं च नारदम् ॥९६॥
आहूयाऽहं गानयोगमशिक्षयं त्वनुत्तमम् ।
ततोऽतिशयमापन्नस्तुम्बुरोर्मुनिसत्तमः ॥९७॥
ततो ननर्त गात्वैव प्रणिपत्य च मां मुहुः ।
मयोक्तो नारदस्तत्र सर्वज्ञोऽसि ममान्तिकं ॥९८॥
गायस्व ज्ञानयोगेन जगौ चापि स नारदः ।
तुष्टोऽहं नित्यसान्निध्यं दत्तवानत्र चाक्षरे ॥९९॥
क्षेत्रे कुंकुमवाप्यां स वर्तते नारदो मुनिः ।
प्राप्योत्तमं पारितोषिकं प्रसन्नेन चार्पितम् ॥१००॥
मयैव तुम्बुरोश्चापि श्रेष्ठत्वं चापि चार्पितम् ।
अथ कालान्तरे कृष्णगृहे गास्यति नारदः ॥१०१॥
एष वो ब्रह्मपत्न्योऽत्र प्रोक्तो गीतिक्रमो मुनेः ।
गाता क्रमेण चानेन मम सालोक्यमाप्नुयात् ॥१०२॥
कर्मणा मनसा वाचा नारायणपरायणः ।
गायन् शृण्वन् मामुपैति तद्वै गेयं परं मतम् ॥१०३॥
उलूकोऽपि गरुडोऽयं वर्ततेऽश्वसरोवरे ।
गानबन्धुर्महाभागः पार्षदो गानकृन्मम ॥१०४॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने श्रेष्ठभक्तदृष्टान्ते वधूगीतायां नारदस्य गानशिक्षाऽर्जनगरुडाख्याननिरूपणनामा नवपञ्चाशत्तमोऽध्यायः ॥५९॥

N/A

References : N/A
Last Updated : May 04, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP