संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ७२ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ७२ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ७२ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं भजनं मम मोक्षदम् ।कृष्ण विष्णो हरे राम मुकुन्द मधूसूदन ॥१॥नारायण हृषीकेश पुरुषोत्तम केशव ।अनादिश्रीकृष्णनारायण लक्ष्मीपते प्रभो ॥२॥पद्मनाभाऽक्षरवर्तिन् चात्माराम कृपानिधे ।वासुदेव मुक्तिकेश श्रीधर श्रीपते विभो ॥३॥राधारमापते जिष्णो प्रज्ञापद्मावतीपते ।श्रीद श्रीश श्रीनिवास मोक्षकृन्माणिकीपते ॥४॥कम्भरानन्दन ब्रह्मप्रियाकान्त जनार्दन ।गोपालबाल विश्वेश सुखदाश्रीपतेऽधिप ॥५॥प्राणेश कान्तकान्तेश परमेश्वर माधव ।इत्येवमुच्चरन्त्यो वै नार्यो नामानि मे भुवि ॥६॥नराश्चापि प्रयान्त्येव धाम मे जरठा अपि ।बाला वृद्धाः कुमाराश्च मम नामपरायणाः ॥७॥प्रणमन्ति हरिं मां ये गृहकर्मरता अपि ।आसने शयने याने ध्याने ज्ञाने हि मां घवम् ॥८॥क्रीडमानाः प्रणमन्ति ते यान्ति धाम मेऽक्षरम् ।दिवारात्रौ सुमधुरं ब्रुवन्ति यत्र नाम ते ॥९॥कृष्णस्य दृश्यते भावो यत्र गृहे भुवस्तले ।विष्णुलोकस्य समता मम धाम्नश्च तुल्यता ॥१०॥तद्गृहस्य सदा लक्ष्मीर्नात्र कार्या विचारणा ।नाऽन्तरं तत्र पश्यामि भक्तगृहेऽक्षरालये ॥११॥ममोच्चारं प्रकुर्वन्ति नित्यं धाम्न्यक्षरे मम ।तथा पृथ्व्यां मम नाम गृणन्ति यत्र तद्गृहम् ॥१२॥दिव्यं धामाऽक्षरं बोध्यं विशेषोऽत्र न विद्यते ।उभयोर्लोकयोर्भावः समस्तेन समानता ॥१३॥जरारोगभयं नास्ति मृत्युहीना यतो जनाः ।यत्र मन्नामगानं च मन्मन्त्ररटनं तथा ॥१४॥किम्वधिकं वदेयं वै माया दिव्या ममाश्रयात् ।गावो दिव्या हि भक्तस्य महिष्यश्च तथा शुभाः ॥१५॥गृहोद्यानानि दिव्यानि गृहं दिव्यं शुभं सदा ।गृहोपकरणान्यस्य दिव्यानि भोजनान्यपि ॥१६॥गृहांगणं सदा दिव्यं पुत्रपौत्रादयोऽपि च ।सदा भक्तस्य दिव्या वै पात्राणि च धनानि च ॥१८॥वृक्षाश्च वल्लिका दिव्या खष्ट्वाद्यास्तरणानि च ।पेटिकाऽम्बरभूषाद्या दिव्या भक्तस्य मे सदा ॥१८॥भक्तगृहस्य धूली च रजांस्यपि जलानि च ।धान्यान्यपि च दिव्यानि यत्राऽहं परमेश्वरः ॥१९॥अपि तद्गृहभोक्तारः पक्षिणः पशवोऽपि च ।दिव्या अतिथयश्चापि मम प्रसादपाविताः ॥२०॥तीर्थानि तानि सर्वाणि भक्तभोग्यानि सर्वथा ।वस्तूनि भोग्यजातानि पावनानि हि पापिनाम् ॥२१॥इत्येवं विद्यते लक्ष्मि पावनं मम वासतः ।निर्गुणं पुण्यदं मोक्षप्रदं भक्तगृहादिकम् ॥२२।शृणु लक्ष्मि ययातेर्वै नाहुषस्य कथानकम् ।मम भक्तस्य लोकेऽत्र पावनं लोकमोक्षदम् ॥२३॥ययातिर्भगवद्भक्तो ह्यश्वमेधशतं तथा ।वाजपेयशतं चक्रे वैष्णवः पृथिवीपतिः ॥२४॥ददावनेकरूपाणि दानानि श्रद्धया नृपः ।गवां लक्षसहस्राणि तथा कोटिशतानि च ॥२५॥कोटिहोमाँश्चकाराऽपि भूमिदानादिकं ददौ ।वर्षाणां तु सहस्राणि ह्यशीतिर्जीवितो हि सः ॥२६॥शुशोच वै ययातिः स देहोऽयं कर्मबन्धनः ।भस्मान्तो वा विडन्तो वा मृदन्तो वा भविष्यति ॥२७॥अनेन चार्ज्यते पापं नरकं च फलं ततः ।अनेन चार्ज्यते पुण्यं स्वर्गं राज्यं पुनः पुनः ॥२८॥अनेन चार्ज्यते भक्तिर्मोक्षो यया भवेद् ध्रुवः ।तस्मात् स एव साध्योऽत्र राज्ये स्थित्वा विवेकिना ॥२९॥विचार्येत्थं हरेर्नाम्नामारेभे भजनं नृपः ।हरे कृष्ण हरे विष्णो कृष्णनारायण प्रभो ॥३०॥अनादिश्रीकृष्णनारायण दामोदराच्युत ।एवं भजन् निजदूतानादिदेश शुभं वचः ॥३१॥यान्तु दूता मम राष्ट्रं समुद्रान्तं हि मण्डलम् ।आदिशन्तु प्रजाभ्यश्च कुर्वन्तु भजनं हरेः ॥३२॥पश्यन्तु परमात्मानं गृणन्तु नामकीर्तनम् ।पूजयन्तु हरिं नित्यं भजन्तां परमेश्वरम् ॥३३॥करं नैव ग्रहीष्यामि भक्तप्रजाभ्य एव ह ।नामामृतं हरेरेव कीर्तयन्तु सदा प्रजाः ॥३४॥दूतादिष्टाः प्रजाश्चापि चक्रुर्वै भजनं तथा ।ध्यायन्ति स्म हरिं कृष्णं गायन्ति स्म जनार्दनम् ॥३५॥जपन्ति स्म च तप्यन्ते यजन्ते स्म च मां सदा ।मद्ध्याना मद्व्यवसिता मम पूजापरायणाः ॥३६॥यावद्भूमण्डलं सर्वं बभूव वैष्णवं तदा ।मत्प्रतापेन सञ्जाता मानवा आधिवर्जिताः ॥३७॥वीतशोकाश्च पुण्याश्च सर्वरोगविवर्जिताः ।सर्वैश्वर्यसमापन्ना धनधान्यसमन्विताः ॥३८॥पुत्रपौत्रादिसद्वंशा निरामया निरीतयः ।गृहद्वारे कल्पवृक्षाः सर्वकामफलप्रदाः ॥३९॥सर्वकामदुघा गावश्चिन्तामणयश्चापि वै ।अभवन् राज्यवृद्ध्याद्याः सम्पदश्चाऽवितर्किताः ॥४०॥सर्वसौभाग्यसम्पन्ना ज्ञानध्यानपरायणाः ।प्रजाश्चासन् सुपुण्याश्च भक्तिपूजापरायणाः ॥४१॥न दुर्भिक्षं न च व्याधिर्नाऽकालमरणं नृणाम् ।वैष्णवा मानवाः सर्वे मम ध्यानपरायणाः ॥४२॥मज्जपा मद्भक्तिसेवानामकीर्तनतत्पराः ।सर्वत्र वैष्णवो भावो गृहे वृक्षे पशुष्वपि ॥४३॥गृहे गृहे मन्दिराणि भास्वन्ति मम चाभवन् ।गृहभित्तिषु चित्राणि ममैवाऽऽसन् त्वया सह ॥४४॥मद्भक्ताभिश्च नारीभिर्गीयन्ते गीतयो मम ।प्रभजन्ति प्रजा मां च बालवृद्धकुमारकाः ॥४५॥गृहकर्मरता नार्यो भजन्ते मां परेश्वरम् ।आसने शयने याने पाने स्थाने च भोजने ॥४६॥क्रीडायामुत्सवे कामे मां भजन्ति हरिं प्रभुम् ।ब्रुवन्ति श्रीहरेर्नाम मानयन्ति स्म मोक्षदम् ॥४७॥एवं वैकुण्ठतुल्यं वै भूतलं सर्वतोऽभवत् ।सर्वे भक्तिपरा लक्ष्मि मम स्नेहपरायणाः ॥४८॥ययातिनोपदिष्टास्ते सञ्जाता वैष्णवा भुवि ।जरामरणशून्याश्चाऽभवन् मम प्रसादतः ॥४९॥मम लोकं न ते यान्ति वैष्णवा दीर्घजीविनः ।ये च यान्ति विमानेन वैष्णवं मम धाम ते ॥५०॥अप्यब्दलक्षदेहास्ते वृद्धा अपि नराः स्त्रियः ।पञ्चविंशाऽब्दिकाः सर्वे दृश्यन्ते कृपया मम ॥५१॥स्थिरकायाश्च सुखिनो जरारोगादिवर्जिताः ।तेषु भक्तेषु सर्वेषु विष्णुदूता हरेः श्रिताः ॥५२॥विचरन्ति ताडयन्ति दृष्ट्वा यमस्य पार्षदान् ।रुदन्तस्ते ताडिताश्च याम्या ययुर्यमं प्रति ॥५३॥कथयामासुरेवैते चेष्टितं भूभृतः क्षितौ ।अमृत्युभूतलं जातं वैष्णवं सर्वमेव ह ॥५४॥ययातिना महाभक्त्या वैकुण्ठाभं कृतं खलु ।ताड्यन्ते यमदूता वै विष्णुदूतैः क्षितौ यम ॥५५॥किं कुर्मो नैव गच्छामो भूतलं धर्मराज वै ।धर्मराजः श्रुतवाँश्च चिन्तयामास तत्क्षणम् ॥५६॥अस्य राज्ञो भवेदन्तस्तथा कार्यं मया ध्रुवम् ।राज्ञो नाशे प्रजाः सर्वा भविष्यन्ति कुमार्गगाः ॥५७॥याम्यमार्गः साऽतिथिको भविष्यति पुनस्तथा ।विचार्येत्थं ययौ विष्णुं वैकुण्ठे प्रार्थयत् प्रभुम् ॥५८॥ननाम दण्डवच्चापि पुपूज परमेश्वरम् ।न्यवेदयद्धरिं धर्मराजो ययातिवर्तनम् ॥५९॥तव भक्तेन भगवन् रुद्धः पन्था यमस्य मे ।मानवा भूतले सर्वे वैष्णवास्तेन वै कृताः ॥६०॥तस्माद्धरे निजभक्तं शीघ्रमत्र समाह्वय ।पापिनां दण्डरोधोऽपि भवेदुद्धाटितस्ततः ॥६१॥इदानीं तु भक्तयोगात् पापिनोऽपि व्रजन्ति तत् ।धाम पापानि निर्धूय रिक्तं याम्यगृहं मम ॥६२॥इत्यर्थितो हरिः प्राह सत्यं मम तथाऽस्ति तत् ।मद्भक्तानां संगमाद्वै पापिनोऽपि हि पावनाः ॥६३॥भवन्त्येव न सन्देहो भूर्वैकुण्ठसमा हि सा ।किन्तु भक्ताधीन एव भवामि नान्यथा यम ॥६४॥भक्तस्येच्छाविरुद्धं यन्नाचरामि कदाचन ।स्वस्ति तेऽस्तु भज मां त्वं मा भक्तिविघ्नमाचर ॥६५॥यद्वा सत्ये ब्रह्मलोके याहि त्वं परमेष्ठिनम् ।निवेदय यथार्थं च स ते बुद्धिं प्रदास्यति ॥६६॥इत्युक्तो यमराजश्च लक्ष्मि ययावजं प्रति ।ननाम पुपूज यमो न्यवेदयच्च तत्तथा ॥६७॥श्रुत्वा ब्रह्मा यमं प्राह भक्तो राजा हि वैष्णवः ।पराभाव्यो न वै स्याद्धि मा यत्नं कुरु तत्र वै ॥६८॥किन्तु ते चाऽस्ति हृदयं याम्यमार्गं प्रवर्तितुम् ।कुरु यत्नं तथा धर्म याहीन्द्र प्रति वै दिवम् ॥६९॥अर्धासनं महेन्द्रस्य राज्ञे दानाय वेदय ।एवं कृते सदा राजा स्वर्गे स्थास्यति न क्षितौ ॥७०॥भक्तिर्मन्दा प्रजायां च भविष्यति ततो यम ।धर्मो मन्दस्तेन मार्गस्तव पूर्णो भविष्यति ॥७१॥इत्युक्तः प्रययौ धर्मराजश्चेन्द्रं दिवं प्रति ।समायान्तं धर्मराजं ददर्श सुरराट् द्रुतम् ॥७२॥समुत्थाय ददावर्धासनं पप्रच्छ चागमम् ।धर्मराजोऽब्रवीत् सर्वं ययातेश्चरितं शुभम् ॥७३॥नहुषस्याऽऽत्मजेनापि ययातिना महीतले ।वैष्णवेन कृताः सर्वे वैष्णवा धार्मिकाः खलु ॥७४॥वैकुण्ठतुल्यरूपं वै राजते भूमिमण्डलम् ।मानवा अमरा जाता जरारोगविवर्जिताः ॥७५॥अपापाः सत्यशीलाश्च क्रोधादिदोषवर्जिताः ।भक्तिशीला धर्मपराः समर्चन्ति नरायणम् ॥७६॥दूर्वा वटा यथा भूमौ विस्तारं यान्ति वंशगाः ।तथा प्रजा विस्तृताश्च पुत्रपौत्रैः प्रपौत्रकैः ॥७७॥यममार्गे न चाऽऽयान्ति यान्ति वैकुण्ठमेव ताः ।कार्यहीनोऽस्मि सञ्जातो व्यापारेण विवर्जितः ॥७८॥एतज्ज्ञात्वा महेन्द्र त्वं प्रजाया मेऽपि वै हितम् ।समाचार प्रवाहस्य वेधःसर्गस्य वै गतिम् ॥७९॥इत्युक्त्वा प्रययौ धर्मराजः स्वस्याऽऽलयं ततः ।महेन्द्रो मातलिं चाह सारथिं याहि भूतलम् ॥८०॥नाहुषं नृपतिं भक्तं ययातिं वद मद्वचः ।अर्धासनं महेन्द्रो वै भवते दास्यते निजम् ॥८१॥याहि स्वर्गं सुखं भुङ्क्ष्व कल्पान्तं दिवि भूपते ।वर्षाणां तु सहस्राणि राज्यं भुक्तं त्वया नृप ॥८२॥स्वर्गं भुङ्क्ष्व पुनः श्रेष्ठं शाश्वतं च ततः पदम् ।पुत्रास्ते सन्ति चत्वारो रुरुः पुरुः कुरुर्यदुः ॥८३॥तेभ्यो राज्यं समर्प्यैव विमानेनैहि च दिवम् ।इलः पुरूरवा विप्रचितिः शिविर्मनुस्तथा ॥८४॥सगरो नहुषस्तेऽपि पिताऽन्ये च नरेश्वराः ।स्वर्गे तत्र प्रमोदन्ते चायाहि त्वं तथाविधः ॥८५॥शक्रेण सह मोदस्व स्वर्गधर्मेषु संस्थितः ।नृपाऽशीतिसहस्राणि वर्षाणि भूतले तव ॥८६॥दानयज्ञवृषभक्तिभिर्गतानि शुभानि ह ।पञ्चात्मकशरीरस्य भूमौ त्यागं विधाय वै ॥८७॥दिव्यं रूपं समगृह्य भुङ्क्ष्व स्वर्गसुखानि तु ।श्रुत्वोवाच ययातिश्च मातले! शृणु मद्वचः ॥८८॥येन कायेन संसिद्ध्येत् सुकृतं मुक्तिसाधनम् ।भक्तिश्च जायते कृष्णे कथं त्याज्यं कलेवरम् ॥८९॥सत्यधर्मात्मकं पुण्यं येन कायेन मानवः ।समर्जयति मुक्तिं च तत् कस्मात् संविसर्जयेत् ॥९०॥आत्मा कायश्च द्वावेतौ मित्ररूपावुभावपि ।तस्मान्नैव परित्याज्यमात्मना स्वकलेवरम् ॥९१॥श्रुत्वैतन्मातलिश्चाह राजन् सत्यं तवोदितम् ।किन्तु कालवशो देहः कर्मपोष्यः स्थितस्त्विह ॥९२॥भूतपञ्चकरूपश्च पार्थिवस्तु विशेषतः ।आयुष्यकर्मनाशे वै त्यक्तव्योऽयं प्रसह्य वै ॥९३॥भवत्येव सदा लोकैः स्थितिरेषा हि विद्यते ।जराऽस्य जायते पश्चान्नश्यत्येव न संशयः ॥९४॥तस्मात् त्याज्यस्वभावं वै देहं त्यक्त्वा दिवं व्रज ।श्रुत्वा प्राह ययातिर्वै मातले सा जरा ननु ॥९५॥कदोत्पन्ना कथं पीडाकरी वद यथातथम् ।श्रुत्वा च मातलिः प्राह शृणु राजन् स्वभावजम् ॥९६॥महाकालो हरेः शक्तिः श्रीपतेः परमात्मनः ।महाकालस्य मृत्युर्वै पुत्री तस्या जरा सुता ॥९७॥सा मायाकृततत्त्वेषु समुत्पत्तौ सहस्थिता ।उत्पन्नान्निर्णीतकालानाविशति क्षयंकरी ॥९८॥क्षीयते हि प्रधानं वै महत्तत्त्वं विनाशवत् ।अहंकारः क्षीयतेऽपि मनोऽपि क्षीयतेऽपि च ॥९९॥वैराजः क्षीयते चापीन्द्रियाणि विषयास्तथा ।भूतानि चापि क्षीयन्ते भौतिकानि तया मुहुः ॥१००॥रसाः पोषणकर्तारः क्षीयन्ते देहसंस्थिताः ।सरसाः सर्वदेहा वै प्रकाशन्ते प्रपोषिताः ॥१०१॥'रसाः शुक्रस्वरूपा वै रसाधिक्ये तु यौवनम् ।नारीप्रसंगतो राजन् रसनाशो भवत्यपि ॥१०१॥नार्या नरप्रसंगेन रसनाशो हि वृद्धता ।रसो वीर्य कामना तन्नाशे सर्ववृद्धता ॥१०३॥शुक्रशोणितयोर्नाशे शून्यदेहः प्रजायते ।विवर्णो दुःखसन्तप्तो जराव्याप्तस्तदा भवेत् ॥१०४॥पलितं जायते तेन ज्वरतापः प्रजायते ।नाशमायान्ति जीर्णास्ते मरणं तत्तथा ध्रुवम् ॥१०५॥इति राजन् विचार्यैव देहं त्यक्त्वा दिवं व्रज ।विमानं चेन्द्रसौभाग्यमानीतं त्वत्कृते मया ॥१०६॥इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने भगवन्नाममन्त्रभजनेन ययातेर्नृपत्य प्रभावेण सर्वप्रजावैष्णवीत्वादिनिरूपणनोमा द्वासप्ततितमोऽध्यायः ॥७२॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP