संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ८० द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ८० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ८० Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि! त्वं साधुसेवाफलं परम् ।पूर्णायुःसम्प्रदं शश्वत् साधुसाध्वीप्रसेवनम् ॥१॥आचारलक्षणो धर्मः सन्तश्चारित्रलक्षणाः ।साधूनां यद् यथावृत्तमेतदाचारलक्षणम् ॥२॥अप्यदृष्टं श्रवादेव सन्तं सद्धर्मचारिणम् ।भक्तिकर्माणि कुर्वन्तं प्रजाः स्मरन्ति दूरगाः ॥३॥सतां धर्मं पालयेद्वै यदीच्छेद् भूतिमात्मनः ।अपि पापशरीरस्य पापं हन्ति सतां वृषः ॥४॥सदाचाराद् भवेत्पूर्णमायुः कृते दशाऽयुतम् ।त्रेतायामयुतवर्षं द्वापरे तु सहस्रकम् ॥५॥तिष्ये शतं समाश्चापि पूर्णायुर्जायते सदा ।सदाचारात् सदा लक्ष्मीर्गृहे श्रीर्वसति ध्रुवा ॥६॥कीर्तिश्चेह परत्राऽपि सदाचारस्य जायते ।सतां प्रसन्नता हेतुदीर्घायुष्ट्वे मता मम ॥७॥अन्यत् सर्वं बाध्यते वै बाध्यते न सतां वचः ।मम भक्तियुताः शीलव्रतिनः शान्तमूर्तयः ॥८॥ममाऽऽराधनकार्याश्च साधवः साधुभूषणाः ।तारयन्ति मृताँश्चापि जीवतः पावयन्ति च ॥९॥दुराचारो हि पुरुषो नेहायुर्विन्दते महत् ।यतस्त्रस्यन्ति भूतानि त्रासश्चायुर्विनाशकः ॥१०॥ये निन्दकाः सतां क्रूरा गुरुशास्त्राऽभिलंघिनः ।अधर्मस्था दुराचारास्ते भवन्ति गतायुषः ॥११॥विशाला भिन्नमर्यादा हिंस्रा विषयिणश्च ये ।अल्पायुषो भवन्त्येव भक्तिहीनाश्च निस्त्रपाः ॥१२॥सर्वलक्षणशून्योऽपि ह्युदाराचारवान् जनः ।श्रद्धाभक्तियुतः साधुः पूर्णवर्षाणि जीवति ॥१३॥अनसूयुः सत्यवादी क्रोधशाठ्यादिवर्जितः ।अजिह्मश्चाऽप्यहिंसश्च पूर्णवर्षाणि जीवति ॥१४॥लोष्ठमर्दी तृणच्छेदी नखखादी मलावृतः ।अस्थिरमानसश्चापि नेहायुर्विन्दते परम् ॥१५॥व्यभिचारी व्यवायी च दीर्घं नैव हि जीवति ।नहीदृशमनायुष्यं लोके सर्वत्र विद्यते ॥१६॥यादृशं पुरुषस्येह परदारोपसेवनम् ।गुरुद्रोही पितृद्रोही साधुद्रोही न जीवति ॥१७॥स्त्रीद्रोही मातृद्रोही च देवद्रोही न जीवति ।वाहरागी नदीतारः शस्त्राभ्यासी न जीवति ॥१८॥सुरापायी चामिषादश्चिरं नैव हि जीवति ।वाक्सायकवदनश्च मर्मतुदोऽतिरोगवान् ॥१९॥शापदग्धः साहसी च चिरं नैव हि जीवति ।अभिचारी घातकी च पूज्यपूजाविलोपकः ॥२०॥शरणागतघाती च वश्यघाती च सर्वथा ।विश्वासघाती बालघ्नश्चिरं नैव हि जीवति ॥२१॥पाशी शूली मुष्कनाशी भगबन्धी च गर्भहाः ।ऋतुनाशी जन्तुनाशी मधुहाश्च न जीवति ॥२२॥व्याधकर्मा तथा चक्री सूनी दीर्घं न जीवति ।विषी भूती वायुरोगी क्षयी प्रमेहवान् कफी ॥२३॥श्वासी रक्ती मन्दपाची चोद्वेजको न जीवति ।प्रसह्यहर्ता चाग्निदो व्योमयानी न जीवति ॥२४॥प्रवासी सततं यश्च प्रतारकश्च मादकी ।अहिफेनव्यसनी च चिरं नैव तु जीवति ॥२५॥मातापितरमाचार्यं गुरुं साधुं सतीं पतिम् ।देवं वृद्धं पूर्वमेवोत्थाय यश्चाभिवादयेत् ॥२६॥पथ्यं भुञ्जीत सततं यश्चिरं स च जीवति ।घृतादश्च प्रसादादो दीर्घमायुर्हि विन्दति ॥२७॥प्राङ्मुखो भोजनं भुंक्ते ह्यायुष्यं विन्दते महत्॥पथ्यघृताक्तान्नभोजी दीर्घजीवी भवेत् खलु ॥२८॥आर्द्रपादस्तु भुञ्जानो पूर्णायुर्जीवति ध्रुवम् ।चतुस्तेजांसि नोच्छिष्ट आलभेत कदाचन ॥२९॥अग्निं गां ब्राह्मणं साधुं तथा ह्यायुर्न रिष्यति ।ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति ॥३०॥प्रत्युत्थानाऽभिवादाभ्यां पुनस्तान् प्रतिपद्यते ।उच्छिष्टो न स्पृशेच्छीर्षं सर्वे प्राणास्तदाश्रयाः ॥३१॥न चाऽभीक्ष्णं शिरः स्नायात्तथाऽस्याऽऽयुर्न रिष्यति ।तिलसृष्टं न चाऽश्नीयात्तथाऽस्याऽऽयुर्न रिष्यति ॥३२॥अभ्यस्यति त्वनध्याये ह्यायुस्तस्य प्रहीयते ।प्रत्यादित्यं प्रत्यनलं प्रतिगां च प्रतिस्त्रियम् ॥३३॥ये मेहन्ति च पन्थानं ते भवन्ति गतायुषः ।गुरुनिन्दा दहत्यायुर्मनुष्याणां न संशयः ॥३४॥दीर्घजिजीविषुर्विप्रं क्षत्रं सर्पं न दुःखयेत् ।सन्तं साध्वीं सतीं गां च देवं घर्मं न कुत्सयेत् ॥३५॥पतितैस्तु कथां नेच्छेत् तद्दर्शनं विवर्जयेत् ।तत्संसर्गं न वै कुर्यात् तदायुर्विन्दते महत् ॥३६॥न दिवा मैथुनं गच्छेन्न कन्यां न च बन्धकीम् ।न चास्नातां स्त्रियं गच्छेत् तदायुर्विन्दते महत् ॥३७॥पूज्या वृद्धाः साधवश्च साध्व्यो देवा गुरुत्तमाः ।गृहे वासयितव्यास्ते धन्यमायुष्यमेव तत् ॥३८॥महात्मनामवमानमायुःक्षयकरं सदा ।महात्मनोऽतिगुह्यानि न वक्तव्यानि कर्हिचित् ॥३९॥सम्प्रशंसेत् सतीः साधून् तथाऽऽयुर्विन्दते महत् ।सन्ध्यायां न स्वपेत् क्वापि जपेच्चिरं स जीवति ॥४०॥कारयेच्छमश्रुकर्म प्राङ्मुख उदङमुखोऽथवा ।परिवादं न च ब्रूयात्तथाऽऽयुर्विन्दते महत् ॥४१॥अनायुष्या भवेदीर्ष्या पूज्यनिन्दा च तादृशी ।अनायुष्यं दिवास्वप्नं पारदार्यं तथाविधम् ॥४२॥आचारो भूतिजननश्चाचारः कीर्तिवर्धनः ।आचाराद् वर्धते ह्यायुराचारो हन्त्यलक्षणम् ॥४६॥आचारप्रभवो धर्मो धर्मादायुर्विवर्धते ।सतामाशीर्वचनानि दीर्घायुःसम्प्रदानि वै ॥४४॥मार्कण्डेयस्य दीर्घायुर्मत्त्वं सप्तर्षिवाक्यतः ।वेधसो वाक्यतश्चापि निदर्शनं परं हि तत् ॥४५॥पितुः क्रोधान्नाचिकेता मृत्युमवाप वै तथा ।वानरा रामचन्द्रेणोज्जीविता ये रणे हताः ॥४६॥वपुर्द्वेधा भौतकं च यशोरूपं तथा रमे ।भौतिकं त्वायुरापेक्षं यशश्चाचारबन्धनम् ॥४७॥आशीर्वादैभौतिकस्य शुभायुर्वर्धते त्विह ।सदाचारैः सेवया च वर्धते तु यशः शुभम् ॥४८॥सत्कर्मभिः पुण्यपुञ्जो वर्धते यशसा सह ।भक्त्या द्वयं जायते च वर्धते शाश्वतं यथा ॥४९॥कुले साधुर्भवेत् कश्चित् साध्वी वा ब्रह्मयोगिनी ।कुलं तद् यशसा लोके ध्रुवं कीर्तिं प्रविन्दति ॥५०॥पुण्ये कुले हि पुरुषाः ख्याताचारा भवन्ति हि ।पापे कुले तु पापा वै जायन्त बहुधा खलु ॥५१॥सर्वेऽनर्था कुले यत्र जायन्ते पापपूरुषाः ।अकीर्तिं जनयन्त्येव कीर्तिॆ ते लोपयन्त्यपि ॥५२॥विद्वानेको भवेत् पुत्रो भक्तः कीर्तिं करोति सः ।सदाचारः स एवाऽत्र तारयत्येव बान्धवान् ॥५३॥सदाचारा यदि साध्वी भवेत् कन्या वधूश्च वा ।कुलं सर्वं पावनं च कृत्वा तारयति ध्रुवम् ॥५४॥नारायणो हरिर्यस्य यस्या हृदि स्थितः प्रभुः ।तारकस्तेन लोकान् सा स वा तारयति ध्रुवम् ॥५५॥दीर्घायुश्च कुलं तस्य यशश्चिरं प्रतिष्ठति ।मुक्तिश्चापि ध्रुवा तस्य तस्याः प्रजायते शुभाः ॥५६॥दशाऽऽचार्येभ्य एवाऽत्रोपाध्यायः श्रेष्ठ उच्यते ।दशोपाध्यायतः श्रेष्ठः पिता भवति सर्वथा ॥५७॥दशपितृभ्यश्च माता श्रेष्ठा सदा गरीयसी ।दशामातृसमा गुर्वी साध्वी सती पतिव्रता ॥५८॥शीलयुक्ता ब्रह्मचर्यपरा ब्रह्मप्रिया हि सा ।मत्स्वरूपा सदा साध्वी वैष्णवी सा नरायणी ॥५९॥कार्ष्णी सा माधवी लक्ष्मीः शक्तिर्वै पौरुषोत्तमी ।साधुरूपः सदा चाऽहं संवर्ते सर्वसृष्टिषु ॥६०॥साधवो मत्स्वरूपा वै साध्व्यश्च मम शक्तयः ।मम धामप्रदाः सर्वे सर्वाश्च पावनाः प्रिये ॥६१॥साधुभ्यस्तु परं नास्ति पावनं सर्वसृष्टिषु ।साधुसेवासमं नास्ति पुण्यं तपश्च सर्वथा ॥६२॥धनाढ्यास्तु धनेनैव सेवन्ते पूज्यदेहिनः ।दरिद्राः साधुसेवाढ्या लभन्ते ब्रह्म शाश्वतम् ॥६३॥धनाढ्या यान्ति वै स्वर्गं दरिद्रा यान्ति धाम च ।अधना वर्ष्मणा सेवां कुर्वन्ति भावतः सताम् ॥६४॥उपवासान् प्रकुर्वन्ति कोटियज्ञफलप्रदान् ।अतो द्रव्यमयाद् यज्ञात् सेवायज्ञो विशिष्यते ॥६५॥सदा तीर्थं सेवनीयं तारकं चात्मनां मुदा ।स्थूलं तीर्थं भूजलादि सूक्ष्मं साधुप्रसेवनम् ॥६६॥दिव्यं तीर्थं मनःशुद्धिस्तत्तीर्थाऽऽसेवनं चरेत् ।मनस्तीर्थे तु यः पूतश्चात्मतीर्थे प्रमुच्यते ॥६७॥अगाधे विमले शुद्धे सत्यतोये धृतह्रदे ।स्नातव्यं मानसे तीर्थे सत्त्वमालम्ब्य शाश्वतम् ॥६८॥तीर्थशौचं प्रवदामि शृणु लक्ष्मि प्रमोक्षदम् ।साधुत्वं जायते येन येन मायाविनाशनम् ॥६९॥अग्राहित्वमनर्थित्वमार्जवं सत्यमित्यपि ।अहिंसा मार्दवं शान्तिरानृशंस्यं दमः शमः ॥७०॥निर्ममाऽहंकृतित्वं निर्द्वन्द्वत्वं निष्परिग्रहः ।शुचित्वं च गुणा यत्र तीर्थीभूता हि साधवः ॥७१॥ब्रह्मवेत्ता महत्तीर्थं तारकं पापनाशकम् ।सर्वत्यागेष्वभिरता भक्तिज्ञाः समदर्शिनः ॥७२॥कषायरहिताः शान्ताः साधवस्तीर्थभूषणाः ।मनःशौचं परंशौचं स्नातस्तत्र प्रमुच्यते ॥७३॥नोदकक्लिन्नगात्रो वै स्नात इत्यभिधीयते ।स स्नातो यो दमस्नातः स बाह्याभ्यन्तरः शुचिः ॥७४॥गतं नैवाऽनुशोचन्ति प्रत्यक्षे निर्ममाः सदा ।स्पृहा नोत्पद्यते येषां तेषां शौचं हि तीर्थवत् ॥७५॥निष्किंचनत्वं देहस्य मनसश्च प्रसन्नता ।ज्ञानशौचं चात्मनश्च तीर्थानि त्रीणि चैव ह ॥७६॥वृत्तशौचं शरीरस्य व्रतशौचं तु मानसम् ।तीर्थशौचमात्मनश्च त्रीणि मोक्षकराणि वै ॥७७॥ज्ञानोत्पन्नं परं शौचं ब्रह्मज्ञानजलात्मकम् ।स्नाति यो मानसे तत्र मोक्षं याति न संशयः ॥७८॥तत्त्वारोपितशौचस्तु नित्यं भक्तिसमन्वितः ।सेवासद्गुणसम्पन्नस्तीर्थमेव जनः सदा ॥७९॥कीर्तनाच्चैव तीर्थस्य स्नानाच्च पितृतर्पणात् ।सर्वपापानि दह्यन्ति ततो यात्यक्षरं पदम् ॥८०॥परिग्रहाच्च साधूनां श्रीकृष्णस्य मनोर्ग्रहात् ।भक्तिसरित्कृताप्लावात् तरन्ति प्राकृतं तमः ॥८१॥साधवस्तीर्थवर्या वै साधुता तीर्थसत्तमा ।उभयोरेव यः स्नायात् स सिद्धिं शीघ्रमाप्नुयात् ॥८२॥सदाचारः परो धर्मस्तीर्थं चोत्तममेव तत् ।सतां धर्मं सह नीत्वा याति व्यक्तिः परां गतिम् ॥८३॥धर्म एको मनुष्याणां सहायः पारलौकिकः ।स चेद् दिव्यः कृतश्चाऽत्र साधूनां सेवया तदा ॥८४॥मोक्षदो धामदश्चापि शाश्वतानन्ददः परः ।मोक्षधर्मसमो धर्मो मूर्धन्यो नास्ति सृष्टिषु ॥८५॥सर्वतीर्थमयो धर्मो मोक्षधर्मोऽस्ति साधुषु ।साधवः पालिता येन सेविताश्च प्रसादिताः ॥८६॥सर्वो धर्मः कृतस्तेन परमात्मा प्रसादितः ।सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः ॥८७॥साधुसेवातत्परस्य परं मोक्षपदं भवेत् ।यथा नागपदेऽन्यानि पदानि संविशन्ति वै ॥८८॥तथा सर्वाणि धर्माणि विशन्ति साधुसेवने ।तेषां साधुसेविनां वै ब्रह्मलोको विधीयते ॥८९॥नाभागेनाऽम्बरीषेण गयेन चित्रकेतुना ।आयुना चाऽनरण्येन दिलीपेन च भूभृता ॥९०॥शिबिना मुचुकुन्देन मान्धात्रा भरतेन च ।जनकेन तथा रुक्मांगदेनाऽलर्कभृभृता ॥९१॥पृथुना सागरेणापि लक्ष्मणेन महात्मना ।एभिश्च राजभिर्नित्यं साधवः संप्रसेविताः ॥९२॥साध्व्यः सत्यः पूजिताश्च परमात्माऽहमर्चितः ।आत्मतीर्थकृतस्नानाः साध्वाशीर्वादवर्धिताः ॥९३॥साधुधर्मपरा भूत्वा प्रयाताः परमां गतिम् ।सर्वेन्द्रियाणां वृत्तीनां शान्तिर्यावन्न जायते ॥९४॥तावद्भवति संसारो भवमृत्युप्रवाहकृत् ।वृत्तिलये हि साधुत्वं साधुत्वे मुक्तिरुत्तमा ॥९५॥नारायणस्य दूता वै सर्वे सन्तीह साधवः ।कारयित्वा कीर्तनानि नयन्ति धाम चाक्षरम् ॥९६॥साध्व्यो नारायणस्यैव शक्तयः सन्ति तारिकाः ।कारयित्वा हरेः सेवां नयन्ति धाम चाक्षरम् ॥९७॥ब्रहाप्रियाः समस्ता ये साध्व्यः सन्ति पतिव्रताः ।भागवत्यश्च सात्त्वत्यस्तत्तद्देशेषु लीलया ॥९८॥मदिच्छया समुत्पन्ना देशकल्याणहेतवे ।जनतासु मम भक्तिप्रवर्तनार्थमेव ताः ॥९९॥यूयं सर्वा मम पत्न्यः समुत्पन्ना हि साध्विकाः ।साध्वीधर्मान् पालयन्तु श्रीकृष्णे स्वामिनि ध्रुवाः ॥१००॥अनादिश्रीकृष्णनारायणे मयि परात्मनि ।शाश्वतायुष्यभोगिन्यो मत्तुल्याः स्थो ध्रुवाः सदा ॥१०१॥मम धामनिवासिन्यो मम पार्श्वे स्थ एव ह ।द्वितीयेन स्वरूपेण भूस्थाः स्थोऽत्र मया सह ॥१०२॥इति श्रीलक्ष्मीनारायणीयसहितायां तृतीये द्वापरसन्ताने दीर्घाऽऽयुःप्रदसाधनं मोक्षसाधनं च सतां सेवानादिकमित्यादिनिरूपणनामाऽशीतितमोऽध्यायः ॥८०॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP