संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः २३४ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः २३४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २३४ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं शस्त्रधरकथां तथा ।नाम्ना विखण्डलवर्मा शस्त्रधारी पुराऽभवत् ॥१॥क्षत्त्रियो नान्दले ग्रामे महीनदीतटे शुभे ।वनस्थानां किरातानां चौराणां शासको महान् ॥२॥लुण्टकानां शासकश्च धनुर्बाणधरस्तथा ।परिणीतयुगलानां मार्गे निर्भयरक्षकः ॥३॥विवाहार्थं प्रयातानां वाहिनीनां च रक्षकः ।व्यापारिणामनसां च त्राता नामधरोऽभितः ॥४॥श्रुत्वा तन्नाम चौराश्च प्रयान्ति दूरतः सदा ।एवं भीतिप्रदः शास्ता शासकानां तु शासकः ॥५॥किन्तु भक्तो हि हृदये नीतिमार्गमुपाश्रितः ।रक्षणेन प्रदत्तं यच्छ्रेष्ठिभिः राजभिस्तथा ॥६॥वेतनं तेन मात्रेण निर्वहत्येव नान्यथा ।याम्यदूतसमो वेषे दयायां धर्मवत् सदा ॥७॥रक्षणे राजवच्चापि नीतिमार्गे तु शुक्रवत् ।बृहस्पतिसमो बोधे भक्तौ ये गरुडो यथा ॥८॥सर्वस्वार्पणभावेन वर्तते चात्मवेदनः ।किन्त्वनीतिपरां व्यक्तिं प्राप्य दण्डं करोति सः ॥९॥यथायोग्यं दण्डयति नरं दुष्टं शठं सदा ।शस्त्रघातेन वा चातिदुष्टं हन्ति बलेन वै ॥१०॥एवं घातादिपापं च भवत्येवेति तद्धृदि ।संकल्पो जायते नित्यं पूजायां याचते क्षमाम् ॥११॥प्रातः स्नात्वा मम मूर्तेः पूजां षोडशवस्तुभिः ।कृत्वा नीराजनं चान्नं मिष्टं दत्वा निवेदनम् ॥१२॥जलं दत्वा मुखवासं ताम्बूलकं ततः परम् ।शस्त्रं मदग्रे निक्षिप्य क्षमां प्रयाचते यथा ॥१३॥नाऽहं क्रूरो हिंसकश्च नाऽहं स्वार्थी न लम्पटः ।शस्त्रं मे मा भवेद् दुष्टं पतितं दोषवर्जिते ॥१४॥नयाऽन्विते च भक्ते चाऽदण्ड्ये मा पतितं भवेत् ।अज्ञानेन न मे शस्त्रं दोषस्पृष्टं भवेत् प्रभो ॥१५॥दुष्टानां शासने चैतन्मा पराजयमाप्नुयात् ।माऽहं पापेन लिप्येय नीतिबहिःप्रवर्तिना ॥१६॥एवं सत्यपि मानुष्याज्ञानवेगेन कर्हिचित् ।चेदाक्रमेत पापं वै मयि दीनापराधतः ॥१७॥दण्ड्योऽहं सर्वथा कृष्ण क्षम्यश्चेत् क्षम्यतां तदा ।इत्येवं मम भक्तोऽयं खङ्गबाणादि मत्पुरः ॥१८॥समर्प्य नित्यमावक्ति ततो भुक्त्वा प्रसादजम् ।पीत्वा पादामृतं याति रक्ष्यरक्षणहेतवे ॥१९॥ग्रामे वने खले वाट्यां क्षेत्रे रक्षति सर्वथा ।रक्ष्यवस्तूनि सर्वाणि विखण्डलः प्रमोदवान् ॥२०॥मध्याह्ने मे निवेद्याऽन्नं प्रसादं चाऽत्ति सर्वदा ।सायं सीम्नः समागत्य गृहे करोति पूजनम् ॥२१॥पुष्पं धूपं च दीपं च नैवेद्यं जलमुत्तमम् ।नीराजनं स्तवनं च ताम्बूलकं सुगन्धि च ॥२२।मह्यं समर्प्य शस्त्राणि निक्षिप्यापि पुरो मम ।पुनः प्रार्थयते नित्यं क्षमस्वाऽज्ञानजं ह्यघम् ॥२३॥तवाऽस्मि तव दासोऽस्मि तव भक्तोऽस्मि तामसः ।तव तादात्म्यमापन्नस्तव शेषो भवाम्यहम् ॥२४॥एवं लक्ष्मि सदा मह्यं शस्त्रं समर्प्य कर्म च ।समर्प्यैव शयने वै निद्रां करोति मां स्मरन् ॥२५॥तस्य भार्या हरसतीनाम्नी प्रसेवते च तम् ।महाभक्ता बालकृष्णे मयि श्रीशनरायणे ॥२६॥पत्यौ नारायगं मां च पश्यत्येव न चेतरत् ।पतिमूर्तौ सर्वसेवां करोति मयि संस्थिते ॥२७॥प्रतिमायां पृथक् सेवां करोति स्वामिनो मम ।स्नानशृंगारभूषादि नीराजनं सुभोजनम् ॥२८॥पानं ताम्बूलकं वायुदानं दोलाऽभिदोलनम् ।गीतिकां मिष्टकण्ठोत्थां मम लीलाभरां तथा ॥२९॥परिहारं च निद्रायाः कीर्तनं प्रकरोति च ।ततो नैजं नित्यकार्यं निर्वर्तयति भामिनी ॥३०॥एवं भक्ताऽतिसंस्निग्धा भजते मां निरन्तरम् ।साधवश्चापि साध्व्यश्च तद्गृहं यान्ति पावनम् ॥३१॥भुक्त्वा पीत्वा श्रमं त्यक्त्वा प्रयान्ति तीर्थमुत्तमम् ।अथैकदा समायाच्च साधुर्निर्मोहनायनः ॥३२॥पूजितो भोजितश्चापि रात्रौ संवाहितः पदोः ।उपादिदेश ताभ्यां स मोक्षसाधनमुत्तमम् ॥३३॥क्षमाशस्त्रं परे शस्त्रं सर्वशान्तिप्रदं शुभम् ।क्षमा तेजस्विनां तेजः क्षमा तपस्तपस्विनाम् ॥३४॥क्षमते सर्वताम्यानि स वै नारायणो मतः ।क्षमा पृथ्व्यां सदा चास्ति मातरि सर्वदेहिनाम् ॥३५॥क्षमा सत्सु सदा दिव्यगुणात्मिका प्रविद्यते ।सा वै जयप्रदा लोके स्वर्गमोक्षसहायिनी ॥३६॥आपत्तीनां समस्तानां क्षमा शस्त्रं निबर्हणम् ।कामे क्रोधे मदे लोभे माने क्षमा हि शान्तिदा ॥३७॥निर्बलस्य क्षमा शस्त्रं यद्वच्छस्त्रं विवेकिनाम् ।साधूनां च क्षमा शस्त्रं शासकं तारकं ह्यपि ॥३८॥क्षमिणां हृद्ये कृष्णश्चान्तरात्मा सदाऽस्ति च ।स एव कृपया रक्षां करोत्यस्य विशेषतः ॥३९॥शासकं कथ्यते त्रातृ शस्त्रं तद्धि मतं जनैः ।मायाकालभयात् कर्मभयाच्छास्तृ ऋतं हि तत् ॥४०॥देहस्य शासकं नैव ऋतं शस्त्रं यथार्थकम् ।इन्द्रियाणां शासकं वा तथैवाति ऋतं न तत् ॥४१॥देहेन्द्रियाणि मायायाः कार्याणि नश्वराणि च ।रक्षणेऽयुतधा जातेऽप्यभिनश्यन्ति वै लये ॥४२॥विनाशिनो रक्षणं वै विफलं तत्तदर्थकम् ।शस्त्रं च विफलं त्वेवं यत्नो भारः फलोज्झितः ॥४३॥अरण्यं नाशशीलं वै सीमाऽपि च तथैव ह ।क्षेत्रवाट्यादिसर्वं वै नाशशीलं प्रवर्तते ॥४४॥चौरा मरणधर्माणः सस्यान्यपि तथैव च ।शास्ता त्वं देहरूपस्तु तथैव नाशधर्मवान् ॥४५॥मृतिधर्मा मृतिधर्मैः शिक्ष्यते तत् कुतूहलम् ।वरं वै कर्दमाऽस्पर्शः पंकप्रक्षालनात्पुरा ॥४६॥तस्माद् देहस्य शस्त्राणि मोक्षदानि न सन्ति हि ।मोक्षदानि तु शस्त्राणि गोपनीयानि सर्वथा ॥४७॥रक्षणीयानि धार्याणि योक्तव्यानि तु मुक्तये ।विखण्डल दिव्यशस्त्राण्येतानि मे निबोध ह ॥४८॥यौवनं शत्रुरूपं वै तच्छस्त्रं तु व्रतार्जनम् ।कामः शत्रुर्महाँस्तत्र तच्छस्त्रं ब्रह्मचर्यकम् ॥४९॥वासना शात्रवी माता तच्छस्त्रं चात्मसंस्थितिः ।विवको भेदविज्ञानं भजन श्रीहरेर्मुहुः ॥५०॥त्यागो वैराग्यमेवाऽपि चौदासीन्यं बहिः सदा ।एवं शस्त्राणि मायाया नाशकानि भवन्ति वै ॥५१॥श्रीहरेः शरणं नित्यं साधुसेवासमागमः ।श्रीहरेर्नवधा भक्तिर्भजनं चातिभावतः ॥५२॥अमायिकानां साधूनां सर्वस्वार्पणसेवनम् ।हृदये श्रीहरेर्ध्यानं देहेनात्मसमर्पणम् ॥५३॥मनसा चिन्तनं नित्यं बुद्ध्या स्फूर्तिः सदा हरेः ।आनन्दादिक्रियाणां तु सर्वेश्वरे समर्पणम् ॥५४॥रसास्वादादिकं कृष्णप्रसादे एव नान्यथा ।शब्दस्पर्शादयः सर्वे कृष्णस्यैव न चेतराः ॥५५॥एभिः शस्त्रैर्भवेन्मायानाशः कर्मलयस्तथा ।निष्कामकर्मणा शान्तिर्वितृष्णस्य प्रजायते ॥५६॥कामसंकल्पहीनाश्च यस्याऽऽरंभा हि निर्गुणाः ।नैर्गुण्यं चाप्यते तेन साधुसंगेन दैवतम् ॥५७॥हरेः प्राप्त्या तु दिव्यत्वं साक्षाद्योगेन मोक्षणम् ।माहात्म्यज्ञानयुक्तस्य हरौ स्नेहः प्रजायते ॥५८॥हरौ स्नेहेन सक्तस्य हरेः स्फुरणमव्ययम् ।प्रवर्तेत ततश्चेन्द्रियाणि तद्रूपकाण्यपि ॥५९॥जायन्तेऽन्तःकरणानि कृष्णस्य मन्दिराणि वै ।आत्मा सिंहासनं तस्य नारायणस्य जायते ॥६०॥तेनाऽऽत्मा रमते शेतेऽश्नुते हर्षति मोदते ।आनन्दयाति तादात्म्यभावैर्ब्रह्मदशामयः ॥६१॥व्यवहारे वर्तमानः सर्वत्र ब्रह्मभावनः ।कर्मबन्धननिर्मुक्तो ब्रह्मैव नात्र संशयः ॥६२॥हरौ स्थिरमना दिव्यो ब्रह्मैव ब्रह्मतन्मयः ।कृष्णदृढाश्रयः कृष्णे रमते नात्र संशयः ॥६३॥अधमोद्धारकः कृष्णो गृह्णाति शरणेऽर्पितम् ।पुनाति पतितं चापि दीव्यति स्नेहिना सह ॥६४॥सतीं गतिं ददात्येव स्वस्मिन् रक्ताय माधवः ।आत्यन्तिकं पदं श्रेय आप्नोति माधवार्पितम् ॥६५॥प्रकृतेः सर्वकार्याणां लये चाक्षरधामनि ।भक्तस्य सच्चिदानन्दमयं तेजः प्रकाशते ॥६६॥तत्र तेजस्यनादिश्रीकृष्णनारायणः पतिः ।विराजते चिदचितां नियामकोऽन्तराऽऽस्थितः ॥६७॥दिव्यमूर्तिर्दिव्यवासा दिव्यभूषाविभूतिमान् ।सेव्यमानो महाब्रह्मभूतमुक्तैरसंख्यकैः ॥६८॥अनन्तशक्तिभिः राधारमामुक्तानिकादिभिः ।कृतार्चनपादसंवाहनाऽऽनन्दप्रदायिभिः ॥६९॥स एव स्वचरणयोः सेवां ददाति सेविने ।स एव वर्तते भूमौ कृष्णो ब्रह्मप्रियापतिः ॥७०॥निःश्रेयसाय लोकानां दिव्यगुणार्थविग्रहः ।विचार्येत्थं परब्रह्म पुरुषोत्तममाश्रयेत् ॥७१॥आश्रिताः पक्वनिष्ठाश्च साक्षात् पश्यन्ति तं ततः ।सूक्ष्मदृशोऽन्तरात्मानं सूक्ष्मं पश्यन्ति चान्तरे ॥७२॥स्थूलदृशः स्थूलरूपं स्थूले पश्यन्ति तं प्रभुम् ।माया कायाऽनवच्छिन्ना लीना साम्या यदाऽक्षरे ॥७३॥तदा सूक्ष्मा तदा कृष्णः सूक्ष्मरूपोऽत्र लोक्यते ।चेतनाश्च यदा लीनास्तत्त्वान्तरविवर्जिताः ॥७४॥तदा सूक्ष्मास्तत्र कृष्णः सूक्ष्मरूपो विलोक्यते ।माया तु विषमावस्था चेतनाः कर्मिणस्तथा ॥७५॥तदा स्थूलास्तेषु कृष्णः स्थूलरूपो विलोक्यते ।दिव्यदृष्टिमतां कृष्णवीक्षणं दिव्यतान्वितम् ॥७६॥अदिव्यदर्शिनां कृष्णवीक्षणं प्राकृतं यथा ।ऐश्वर्याणि समस्तानि सूक्ष्मस्थूलानि वै हरेः ॥७७॥सूक्ष्मस्थूलपदार्थेषु निहितानि तु शार्ङ्गिणा ।ऐश्वर्यैः सकला माया चेतना वा परस्परम् ॥७८॥पृथग् वा सम्प्रकाशन्ते सगुणा निर्गुणाश्च वा ।सर्वास्ताः सम्पदोऽनादिकृष्णनारायणस्य ह ॥७९॥भुंक्ते भक्तोऽर्पितसर्वस्वोऽतिभागवतोत्तमः ।ऐश्वर्याणि समस्तानि प्राप्नोति पतिभक्तिमान् ॥८०॥पतित्वमेकं देवेशे मुक्तेशे शिष्यते हरौ ।अन्यत् सर्वं निजं तस्मै भक्तायाऽर्पयति प्रभुः ॥८१॥स्नेहशस्त्रं स्वामिनोऽपि वशंकरं वृहत् सदा ।तेनैव स्नेहशस्त्रेण शासनीयो हरिर्हदि ॥८२॥बन्धनीयः स्नेहपाशैर्हृदि दूरं न संचरेत् ।एषैव चाऽऽक्षरी मुक्तिर्देहिनामिह दिव्यता ॥८३॥दिव्यनाथप्रदभोगानन्दभोक्त्री स्थितिस्तु या ।सा प्रत्यक्षे गुरौ कृष्णे प्राप्तव्येह क्षितौ पुरा ॥८४॥ततो ब्रह्मपुरे सैव वर्तमाना प्रकाशते ।मोहिनी सा हरेः प्रीतिर्महानन्दप्रदा सदा ॥८५॥कोट्यब्जकामदेवानां सुखं यत्र हरौ सदा ।तादात्म्यभावमापन्नो लभते स्वामिनि प्रभौ ॥८६॥नेत्रसुखमनन्तं च स्पर्शसुखमनन्तकम् ।चुम्बनानन्दमतुलं लभते स्वामिनि प्रभौ ॥८७॥आलिङ्गनमहानन्दं लभते परमात्मनि ।सर्वेन्द्रियरसं दिव्यं दिक्षेयमास्वादनं तथा ॥८८॥लभते च तथा दिव्यप्रीतिप्रमोदमुत्सवम् ।हर्षं दिव्यं तथा शान्तिं शैत्यं चामृतमिश्रितम् ॥८९॥लभते श्रीहरौ कान्ते स्वामिनि श्रीपतौ प्रभौ ।चतुर्विंशतितत्त्वानां ये चानन्दा भवन्ति वै ॥९०॥सृष्टित्रयाणामानन्दा ये ये यत्र भवन्ति वै ।तान् सर्वान् लभते मूर्तौ स्वामिनि श्रीपरात्मनि ॥९१॥एवं लक्ष्मि चोपदेशं कृत्वा निर्मोहनायनः ।रात्रिमुषित्वा प्रययौ तीर्थान्तरं सुपूजितः ॥९२॥प्रातर्विखण्डलो भक्तिं चकार च यथोदिताम् ।ज्ञानेन सहितां तस्य पत्न्यपि ब्रह्मरूपिणी ॥९३॥विदधे तादृशीं भक्तिं स्नेहयुक्तां प्रवर्धिताम् ।मूर्तेर्वै पूजने सर्वं कुरुतस्तौ यथोचितम् ॥९४॥तयोर्भक्त्या प्रसन्नोऽहं प्राविर्बर्भूव तत्पुरः ।दिव्यचतुर्भुजः कृष्णनारायणोऽतिसुन्दरः ॥९५॥प्रहसन् चार्पितान् सर्वोपचारान् चोत्तमोत्तमान् ।आददेऽहं च नैवेद्यं भुक्त्वा ददे प्रसादिकम् ॥९६॥तौ भुक्तवन्तौ प्रीत्या च पीतवन्तौ जलामृतम् ।तावद् दिव्यस्वरूपौ चाऽजायेतां मत्समानकौ ॥९७॥प्रार्थितवन्तौ मोक्षाय निर्मोहिनावुभावपि ।अहं विमाने तौ धृत्वा दिव्यौ धामाऽक्षरं निजम् ॥९८॥अनयं पार्षदैः साकं तयोः संकल्पपूरकः ।मुक्तौ तौ चाऽक्षरे धाम्नि वर्तेते कमले सदा ॥९९॥एवं साधुप्रसंगेन समुद्धृतौ निजानुगौ ।पठनाच्छ्रवणादस्य लक्ष्मि मुक्तिमवाप्नुयात् ॥१००॥स्वर्गं वा सत्यलोकं वा राज्यं वा चैश्वरं पदम् ।भुक्तिं मुक्तिं यथेष्टां वा लभते भक्तिमान् मयि ॥१०१॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने निर्मोहनायनसाघुप्रसंगेन विखण्डलाख्यशस्त्रधरस्य तत्पत्न्या हरसत्याश्च भगवद्दर्शनं मोक्षणं चेत्यादिनिरूपणनामा चतुस्त्रिंशदधिक-द्विशततमोऽध्यायः ॥२३४॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP