संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः २३२ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः २३२ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २३२ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वमग्निदस्य कथामपि ।ज्वालाप्रसादनामाऽभूच्छूद्रोऽरण्यप्रपालकः ॥१॥वृत्रप्रस्थवने कालिन्दीसरितस्तटे पुरा ।कुटुम्बसहितस्तत्र वने वासं करोति सः ॥२॥वन्यमूलफलादश्च काष्ठव्यापारकृत्तथा ।घासवल्लीतृणस्तम्बौषधिव्यापारकृत्तथा ॥३॥अहिंसकविचारोऽपि प्राणयात्राभिवृत्तये ।निरर्थकानां काष्ठानामंगारान् विदधाति सः ॥४॥काष्ठानां सञ्चयान् कृत्वा वह्निं ददाति तत्र च ।अंगाराः सम्प्रजायन्ते शान्ताऽनलाः सुमूल्यकाः ॥५॥विक्रीणाति त्वर्धदग्धान् मट्ठीस्थान् कुलसान् सदा ।तैश्च द्रव्यैर्धनवान् स वर्तते दानपुण्यकृत् ॥६॥जानात्ययं दारुदाहेऽसंख्यजन्तुप्रजातयः ।दह्यन्ति सञ्चये तत्र पापं तस्य महन्मम ॥७॥तच्छान्त्यर्थं विधातव्यं दानं विंशतिकांऽशजम् ।धर्मकार्यं प्रकर्तव्यं साध्वीसाधुप्रसेवनम् ॥८॥उत्सवाः श्रीहरेः कार्याः पूजनं व्रतमित्यपि ।देवालये प्रदातव्यं देयमनाथदेहिने ॥९॥निराश्रिताये दातव्यं दातव्यं तीर्थवासिने ।परोपकाराय दातव्यं दातव्यं मखिने तथा ॥१०॥तदा पापविशुद्धिर्वै जायते नान्यथा क्वचित् ।मत्वैवं निजवस्तूनां स्वधनानां सुपात्रके ॥११॥समर्पणं करोत्येव श्रद्धया धार्मिके जने ।ये तीर्थार्थं समायान्ति तेभ्यो ददाति भोजनम् ॥१२॥वस्त्रदानं तथाऽऽरण्यकोत्थौषध्यर्पणं तथा ।करोति समिधां दानं साधुभ्योऽनलधूनये ॥१३॥नित्यं भजते श्रीकृष्णं राधाकान्तं रमापतिम् ।कमलेशं प्रभेशं श्रीमाणिकीस्वामिनं हरिम् ॥१४॥यमुनायां सदा स्नाति सूर्यायाऽर्घं ददाति च ।पितृभ्यश्च जलं श्राद्धं फलं चान्नं ददाति च ॥१५॥ददात्यतिथये योग्यं वनिभ्योऽपि ददाति च ।अथाऽयं कृतवान् काष्ठप्रतिमां श्रीहरेर्मम ॥१६॥साकं श्रीमाणिकीदेव्या शोभमानां सुतैजसीम् ।प्रसन्नवदनां शान्तां रंगशृंगारशोभिताम् ॥१७॥सर्वावयवसम्पूर्णां दिव्याभूषणचित्रिताम् ।प्रातश्चाऽयं सदोत्थाय स्नात्वा प्रसेवते हि ताम् ॥१८॥काष्ठसिंहासने रम्ये स्थापितां पार्षदैर्युताम् ।पाद्यमर्घ्यमाचमनं स्नानं तैलादिमर्षणम् ॥१९॥गोदुग्धघृतदध्याढ्यशर्करामधुभिस्तथा ।स्नपनं चाभिषेकं च पादांगुष्ठे करोति सः ॥२०॥वस्त्रेण मार्जनं दन्तधावनं गण्डुषांस्तथा ।कारयित्वा विभूषादि दिव्याम्बराणि यानि च ॥२१॥शृंगाराणि समस्तानि गन्धचन्दनकुंकुमम् ।पुष्पहारमुकुटादि पुष्पवेषान् ददाति मे ॥२५॥धूपं दीपं च नैवेद्यं फलान्नमिष्टमुत्तमम् ।जलं दुग्धं पायसान्नं दधि पक्वान्नमुत्तमम् ॥२३॥मह्यं ददाति ताम्बूलं मुखवासं तथोत्तमम् ।प्रदक्षिणं दण्डवच्चाऽऽरार्त्रिकं नमनं स्तवम् ॥२४॥अपराधक्षमायाञ्चां करोत्यात्मसमर्पणम् ।परिहारं च पूजायाः कृत्वा निवेदितान्नकम् ॥२५॥भुंक्ते प्रसादमेवाऽयं तत्पत्नी च तथाविधा ।नाम्ना प्रभावतीदेवी पुत्राः पुत्र्यस्तथाऽपरे ॥२६॥भुञ्जते तत्प्रसादान्नं ततो यान्त्युद्यमाय ते ।मध्याह्नेऽपि तथा रात्रौ पूजां मे विदधत्यपि ॥२७॥नैवेद्यं जलपानं चाऽऽरार्त्रिकं स्तवनं तथा ।कीर्तनं श्रीकृष्णविष्णो बालकृष्णरमापते ॥२८॥राधेशमाणिकीस्वामिन् श्रीपते कमलापते ।कृत्वा च परिहारं ते नयन्ति पुरतो मम ॥२९॥गायन्ति गीतिका रम्याः स्वपन्ति च ततः परम् ।एवं नित्यं भजमाना वर्तन्ते सर्व एव ते ॥३०॥अथैकदा महायोगी नाम्ना नरायणायनः ।साधुसाध्वीशतयुक्तश्चाययौ तस्य मन्दिरम् ॥३१॥प्रभावती तथा ज्वालाप्रसादः स्वागतं सताम् ।साधवीनां साधुवर्यस्य व्यधातां सत्कृतिं तथा ॥३२॥आसनानि जलं मिष्टं मिष्टान्नानि फलानि च ।मधूनि च रसाँश्चापि कन्दान् शिम्बीश्च चिर्भटान् ॥३३॥भर्जितान्नानि शुष्काणि सक्तूँश्च चणकाँस्तथा ।शाकानि पत्रभाजाश्च ददतुश्चातिहर्षितौ ॥३४॥साधुसाध्व्यः प्रसन्नाश्च तृप्ताश्चासँस्तदा सुखाः ।सायं स्नानं भोजनादि दुग्धपानं च पूजनम् ॥३५॥श्रीहरेः कीर्तनं चक्रुर्वाद्यगीतिसुतालकैः ।तत्रोत्सवे जना रात्रौ बहवो वै समाययुः ॥३६॥नरा नार्यः सहस्राणि साधुदर्शनलालसाः ।वृत्रप्रस्थनगरस्य प्रजाश्चापि समाययुः ॥३७॥अरण्यं यमुनातीरे स्वर्गवत् त्वभवज्जनैः ।साधूनां दर्शनं कृत्वा तिष्ठन्ति मानवास्तदा ॥३८॥निषीदन्ति सभायां च कथाश्रवणलालसाः ।नारायणायनस्तत्रोपादिदेश हिताय वै ॥३९॥स्नेहेन भक्तियोगेन कृष्णस्य तत्सतां च वा ।सतीनां सेवया मूर्तिपूजनैर्देवतार्चनैः ॥४०॥पवित्रता भवेच्चापि दिव्यता मोक्षणं तथा ।परमेशस्य साक्षाद्वै प्राप्तिर्भवेच्च सेवया ॥४१॥भक्त्या भवति सान्निध्यं स्नेहेन परमात्मनः ।मायानाशो भवत्यत्र दिव्यदृग्जायते जनः ॥४२॥साक्षात्पश्यति गोविन्दं चान्तरे च बहिस्तथा ।मायाऽऽवरणरहितो जायते ईश्वरो यथा ॥४३॥गोलोकं वीक्षते त्वत्र वैकुण्ठं चाऽक्षरं पदम् ।सेवयाऽतस्तोषणीयाः सन्तः साध्व्यो हरिस्तथा ॥४४॥प्रसन्नानां सतामाशीर्वादैः साक्षाद्भवेद्धरिः ।सत्सु नारायणस्त्वास्ते रवर्गमोक्षसुखप्रदः ॥४५॥दिव्यानन्दस्य लाभार्थं सेव्याः सन्तस्तथा हरिः ।श्रद्धया च विवेकेन सत्संगः कार्य उत्तमः ॥४६॥धर्मो ज्ञानं विरागश्च सत्सेवा मोक्षदा इमे ।कल्याणकारिणः सर्वे उपार्जनीयाः सद्गुणाः ॥४७॥असत्सु नैव सहसा विश्वसितव्यमर्थिना ।तथा सति विवर्धन्ते तृष्णाद्या दुर्गुणाः सदा ॥४८॥क्षारभूमिसमो मर्त्यो योऽस्ति नास्तिक्यभाववान् ।तत्र बीजं स्नेहभक्तिर्नोदेति दग्धतामियात् ॥४९॥असज्जनप्रसंगो हि पतनस्यैव कारणम् ।महान् पाप्मा समुदेति कुसंगिजनसंगतः ॥५०॥सत्संगः सर्वपुण्यानां शेवधिः पापनाशकृत् ।ससंगमूल्याऽविज्ञास्तु मानुष्याऽर्थविरुद्धगाः ॥५१॥कुर्वते च कुसंगं वै ततो यान्त्यधमां स्थितिम् ।कलहेन विवादेन निद्रया पापकर्मभिः ॥५२॥अकार्याचरणैश्चापि म्रियन्ते दोषपीडिताः ।पुनर्जन्म च मरणं निरयं चाप्यधोगतिम् ॥५३॥विन्दन्ति याम्यनगरीं यातनास्तत्र योजिताः ।विवेकिनस्तु लोकेऽत्र विदित्वा जडवर्ष्म च ॥५४॥इन्द्रियाणि मनो बुद्धिं ज्ञात्वा मायामयानि च ।त्रिगुणान् प्रकृतिं चापि वासना विविधास्तथा ॥५५॥जीवबन्धप्रदा ज्ञात्वा भवेयुः संगवर्जिताः ।नित्याऽभ्यासपरस्यैव नश्यन्ति वासनादयः ॥५६॥त्यागिनो न प्रजायन्ते संस्कारा मूलवर्जिताः ।अनादिश्रीकृष्णनारायणोऽस्त्येषां हृदन्तरे ॥५७॥प्रवेष्टुं न ददात्येषो दोषान् भक्तहृदन्तरे ।देहाभिमानयुक्तस्य प्रभुर्हृदि न भासते ॥५८॥अभासे हृदये तमोमये माया विवर्धते ।अहन्ताममते पुष्टिं गच्छतस्तेन वासनाः ॥५९॥प्रजायन्ते तु बहुधा तृष्णातन्तुर्विवर्धते ।पुनः पापानि जायन्ते तृष्णया विषयेष्विति ॥६०॥तस्मादात्मा चेतनोऽस्मि देहादीनां नियामकः ।कृष्णभक्तो ब्रह्मधामा मत्वैवं तृष्णिकां त्यजेत् ॥६१॥अप्रमत्तेन विज्ञेन सदा भाव्यं सुखार्थिना ।हरेः सुखार्थं सततं यतितव्यं निजार्थिना ॥६२॥दोषास्तं नार्दयेयुर्वै ते नश्यन्ति हरेर्बलात ।आत्मनिष्ठं जनं नाभिभवन्ति वासनादयः ॥६३॥साधुसेवार्थिनं निष्कपटिनं भक्तमानतम् ।साधुप्रसन्नताशीर्णा दोषाः पराभवन्ति न ॥६४॥दुष्टस्वभावः सत्संगान्नश्यत्येव समूलतः ।तेन दोषा विलीयेरन् सत्संगिनस्तु देहिनः ॥६१॥आबाल्यादेव कर्तव्यः सत्संगः प्रीतिरच्युते ।हरेर्भक्तेषु वै स्नेहः कर्तव्यो हरिदायकः ॥६६॥तारुण्ये येन वै भक्तिः प्रवर्तेत दृढा हरौ ।भक्तिबलेन कामाद्या नार्दयेयुर्हि देहिनम् ॥६७॥साधून् शान्तान् प्रसेवेत विकारवर्जितान् सदा ।विकारो विलयं गच्छेद् यौवनं तरितं भवेत् ॥६८॥साधुजनेषु विकृतिं कल्पयेच्च कदाचन ।दोषाणां कल्पके दोषा आविर्भवन्ति पापतः ॥६९॥अविवेकेन दोषैर्वै कल्पितैः पीड्यते स्वयम् ।तस्माद् दिव्यान् प्रपश्येद्वै साधून्नारायणात्मकान् ॥७०॥यदि कश्चित्प्रतीयेत दोषः सत्सु तदा स्वयम् ।दोषो नाऽयं गुणश्चास्ति दिव्य एव न संशयः ॥७१॥एवं दिव्यः कल्पनीयः स्वस्य स्याद् दिव्यता तथा ।दोषग्राही भवेद् दोषी गुणग्राही गुणी भवेत् ॥७२॥देहत्रयं पृथङमत्वा शान्तं साधुं निषेवयेत् ।शान्तिं व्रजेत् सेवया च शाश्वतीं पारमेश्वरीम् ॥७३॥निश्छद्मोपासना कार्या हरेः सतां शुभावहा ।हरेः प्रसन्नताप्राप्त्या हरित्वं जायतेऽनुगे ॥७४॥ज्ञानदार्ढ्यं स्नेहदार्ढ्यं हरौ सत्सु प्रमुक्तिदम् ।सेवा स्नेहेन भवति प्रित्या स्मृतिर्हि शाश्वती ॥७५॥सत्येव तन्मयत्वं स्यात् त्र्यवस्थासु हि दर्शनम् ।साक्षात्कारे तु सञ्जाते कर्तव्यं नाऽवशिष्यते ॥७६॥अनादिश्रीकृष्णनारायणे मानवरूपिणि ।देहे प्राग्दर्शनं पश्चादिन्द्रियेषु हि दर्शनम् ॥७७॥ततोऽन्तःकरणेष्वेव ततो जीवे हि दर्शनम् ।एवं दिव्यो हि भगवानास्ते देहेन्द्रियात्मसु ॥७८॥दैहिकीं प्रकृतिं दृष्ट्वा कृष्णस्य दिव्यतां तु यः ।मानसीं प्रकृतिं ज्ञात्वा दिव्यतां मनुते च यः ॥७९॥आत्मीयां भावनां भाव्य दिव्यतां चिन्तयेत्तथा ।सर्वा दिव्याः कृष्णलीला मोक्षदाश्चेति कल्पयेत् ॥८०॥एवं कृष्णस्य योगेन आन्तरं बाह्यमित्यपि ।करणं वर्ष्म सर्वाणि दिव्यान्येव भवन्ति हि ॥८१॥दिव्येन दिव्यभगवान् गृह्यते भक्तियोगिनः ।नाऽदिव्येन हरिर्ग्राह्यो जायते मानवोऽपि सन् ॥८२॥भक्ता दिव्यास्ततः सर्वे दिव्यकृष्णस्य योगिनः ।व्यवस्था अपि दिव्याश्च दिव्याः कामादयोऽपि च ॥८३॥दिव्यं भक्तस्य सर्वं वै यत् कृष्णार्थं प्रकल्पितम् ।जीवानां श्रेयसे कृष्णः महत्या कृपया प्रभुः ॥८४॥अक्षरात्परमाल्लोकादिह भूमौ प्रजायते ।कल्याणाय जनान् नैजं सत्संग कारयत्यपि ॥८५॥नराकृतिश्च नरवत् कुरुते लौकिकीः क्रियाः ।ता अपि तस्य लीला वै दिव्या विदन्तु मानवाः ॥८६॥कल्याणदा समस्ता वै दिव्या भवन्तु दर्शकाः ।एवं वै भगवान् स्वेच्छाकृतदिव्यान्निजाश्रितान् ॥८७॥ददाति दर्शनं संगं स्वस्य भक्तस्य केवलम् ।अतो भक्तेन्द्रियादीनि कृष्णभावं प्रयान्ति हि ॥८८॥दिव्यकृष्णस्य सम्बन्धाद् दिव्यानि मायिकानि न ।यथा कृष्णोऽस्ति दिव्यो वै तथा दिव्याश्च साधवः ॥८९॥अदोषग्राहका भक्ता अपि दिव्या हि साधुवत् ।नरा नार्यः सदा दिव्या अदोषग्राहिणस्तु ये ॥९०॥सत्संगो दिव्य एवास्ति सन्तो दिव्या हरिस्तथा ।निर्दोषा मोक्षदाः सर्वे मायाकार्यविवर्जिताः ॥९१॥यस्य तेषु भवेद् दोषग्रहणं तस्य वै मतिः ।पितृभ्यां शापिता पूर्वं साधुभिस्तु ततः परम् ॥९२॥अतिक्रमेण साधूनां शापाद् बुद्धिः प्रदुष्यति ।साधवो दिनवत् सन्ति दुर्बला भगवत्प्रियाः ॥९३॥तेषामर्दनकाले वै हृदयस्थो हरिः स्वयम् ।अर्दितो जायते तेन शप्तस्य धीः सुशापिता ॥९४॥दग्धा भवति दुष्टा वै दोषग्राहा न निर्मला ।तां विनाशयितुं नित्यं यतेत सेवने सताम् ॥९५॥तन्वा मनसा द्रव्यैश्चेन्द्रियैश्च सम्पदा सदा ।साधोः प्रसादलब्ध्यर्थं सेवायां निरतो भवेत् ॥९६॥सर्वस्वार्पणभावेन सेवते लभते स तु ।नैर्मल्यं निःशापतां च दिव्यतां गुणग्राहिताम् ॥९७॥शुद्धिं लभेत्ततः कृष्णं प्रसाद्याऽक्षरमाव्रजेत् ।साधून् प्रसाद्य च दिव्यं नारायणाश्रमं लभेत् ॥९८॥तस्मान्नित्यं साधुजनान् प्रसेवन्तु प्रमुक्तये ।ज्ञानाग्निना प्रदाह्येदं ब्रह्माग्नौ जुह्वतु स्वकान् ॥९९॥इत्येवं तूपदिश्यैव ददौ मन्त्रं हरेः रमे ।'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥१००॥पादवार्यमृतं तेभ्यो ददौ नारायणाय नः ।लक्ष्मि रात्रौ प्रविश्रम्य प्रातः स्नात्वा च साधवः ॥१०१॥प्रपूज्य पदमात्मानं भुक्त्वा फलादिकं पयः ।भक्तानाशीर्वचश्चोक्त्वा ययुस्तीर्थाय साधवः ॥१०२॥भक्तास्ते श्रीकृष्णनारायणं मां कृष्णवल्लभम् ।भेजुः स्नेहेन सततं ज्वालाप्रसादभाविताः ॥१०३॥अथोत्सवं प्रचक्रुस्ते कार्तिके द्वादशीदिने ।शुक्ले चैकादशीरात्रौ जागरणे प्रगे सति ॥१०४॥नृत्यतां कीर्तयतां च प्राविरासं पुरःस्थले ।चतुर्भुजो माणिकीश्रीसहितो दिव्यभूषितः ॥१०५॥तैः कृतामर्हणां सर्वां प्राप्य तिरोऽभवं क्षणात् ।मूर्तौ तत्रैव नित्यं च न्यवसं प्रेमपाशगः ॥१०६॥प्राप्ते काले मम धामाऽनयं ज्वालाप्रसादकम् ।प्रभावतीं च तत्पत्नीं तथा भक्तान् सहस्रशः ॥१०७॥एवं लक्ष्मि मया भक्तस्तारितो भवसागरात् ।पठनाच्छ्रवणादस्य भवतारणमाप्नुयात् ॥१०८॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने ज्वालाप्रसादाख्यस्यांऽगाराग्निकृतो भक्तस्य भक्त्या नारायणायनसाधुसमागमेन तस्य तत्पत्न्याःसहस्रावधिदेहिनां च मोक्षणं भगवता कृतमित्यादिनिरूपणनामा द्वात्रिंशदधिकद्विशततमोऽध्यायः ॥२३२॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP