संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ४ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ४ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि! त्वं चतुर्थं मम वर्तनम् ।चन्द्ररक्षाकरं स्वर्गे गायतां मोक्षदं परम् ॥१॥स्तावने वत्सरेऽजस्य कल्पे चतुर्थके तदा ।द्वादशे च मनौ वर्तमानेऽसुरोऽतिदारुणः ॥२॥धूम्रो नाम्नाऽभवद् रौद्रः शंभोर्मस्तकपृष्ठतः ।समुत्पन्नो व्योमदेहोऽन्तरीक्षगो भयंकरः ॥३॥शंभोर्ललाटे भावन्तं दृष्ट्वा कान्तमयं मणिम् ।स्पर्धां कृत्वा ययौ व्योम्नि चावाप्तुं वै निशामणिम् ॥४॥चन्द्रमसं समाहर्तुं यत्नं तदाऽकरोद् बहुम् ।चन्द्रेण वार्यमाणः स निशितैः शस्त्रहेतिभिः ॥५॥निपपाताऽम्बरादद्रौ श्वेतशृंगाभिधे तदा ।शंभुमुद्दिश्य च तपः शंभुपुत्रोऽकरोत्ततः ॥६॥निराहारोऽभवत्त्वेकयुगं ततो हि शंकरः ।प्रसन्नः प्राह धूम्रं तं पुत्रं मस्तकपृष्ठजम् ॥७॥वद किं रोचते तेऽद्य कथं तपसि वर्तसे ।वदेष्टं प्रददाम्येव मा कृथास्तप उग्रकम् ॥८॥इत्युक्तश्चाऽसुरः प्राह वरं देहि जयावहम् ।चन्द्रं जेष्याम्ययत्नेन तथेच्छामि न चेतरत् ॥९॥तथाऽस्त्विति हरः प्राह ददौ धूम्राय शूलकम् ।अप्रधृष्यमविनाश्यं चक्राच्चापि बलेऽधिकम् ॥१०॥तदादाय तु धूम्रः स मेर्वद्रिं प्रथमं ययौ ।सार्वभौमजयं कर्तुं तृष्णातन्तुप्रप्रेरितः ॥११॥मेरुवासान् सुरान् जित्वा पृथ्व्यां जेतुं नृपान् ययौ ।जित्वा भूमौ भूभृतश्च पातालान् प्रययौ ततः ॥१२॥दैत्यान्नागान्कच्छपाँश्च मकरान्मत्स्यकाँस्तथा ।नक्रान् जित्वा फणध्राँश्च जित्वा ययावरण्यकम् ॥१३॥विद्याधराँश्च गन्धर्वान् जित्वा च किन्नराँस्ततः ।गुह्यकान् चारणान् जित्वा ययौ संयमनीं पुरीम् ॥१४॥यमदूताँस्तदा जित्वा युयुधे स यमेन वै ।यमो दण्डेन कालेनाऽसुरः शूलेन वै मिथः ॥१५॥युयुधाते तु नैकस्य पराजयोऽत्र विद्यते ।यमेन संस्मृतो रुद्रोऽसुरेण संस्मृतो हरः ॥१६॥हररुद्रौ समायातौ मध्यस्थौ सम्बभूवतुः ।वारयामासतुस्तौ च ययतुः शंसितौ गृहम् ॥१७॥अथाऽसुरो गर्वयुक्तो ययौ चेन्द्रं दिवस्पतिम् ।इन्द्रो ज्ञात्वा महादेवदत्तं शूलमजय्यकम् ॥१८॥उत्थाय सौम्यभावेन सत्कारं कृतवान् शुभम् ।असुराय ददौ रम्यं हारं मण्यभिनिर्मितम् ॥१९॥पूजयामास च शंभोः शूलं बहुविधानतः ।असुरोऽपि विना रोषं मृदुर्भूत्वा विलोक्य तत् ॥२०॥ययौ सूर्यं विजेतुं च सूर्यश्चास्तं द्रुतं ययौ ।ययौ तदाऽसुरोऽजं च विजेतुं परमेष्ठिनम् ॥२१॥ब्रह्मा ज्ञात्वा शांभवं तत् त्रिशूलं सम्पुपूज ह ।मधुपर्कं ददौ चाप्यसुराय माननं ददौ ॥२२॥धूम्रस्त्वासनमासाद्य सौवर्णं बहुशोभनम् ।मुमुदे च मृदुर्भूत्वा नत्वाऽजं प्रययौ दिवम् ॥२३॥चन्द्रं दृष्ट्वा पूर्णभासं ययौ तं प्रति सत्वरम् ।सदा चन्द्रस्तत्र चासीन्नीरोगः सकलः सदा ॥२४॥एकरूपः क्षयवृद्धिवर्जितः शाश्वतः सुखः ।ग्रहग्रासादिहीनश्च पूर्णकलः समन्ततः ॥२५॥तादृशं पूर्णपीयूषं गत्वा धूम्रो भयानकम् ।शतचन्द्रायतं रूपं कृत्वा जग्राह पाणिना ॥२६॥स्पर्शैः सुधाऽमृतानां तु किरणानां महासुरः ।सुखं महानन्दभृतं ह्यवापाऽपूर्वमुत्तमम् ॥२७॥अतश्चन्द्रे जातलोभो जग्रास शशिनं मुखे ।हाहाकारो महानासीत् स्वर्गे पृथ्व्यां समन्ततः ॥२८॥अमृतस्य निधानं वै शीततेजोभृतं मणिम् ।तज्ज्योत्स्नामनवाप्यैवौषधयोऽतिविजीवनाः ॥२९॥मृतप्राया अभवँश्च देवाश्चाऽमृतवर्जिताः ।किरणाधारजीवाश्च सर्वे मरणशालिनः ॥३०॥तदा जाताश्चाथ देवाः स्वगुरोः शरणं ययुः ।सदस्पतिर्देवगुरुश्चाऽस्तौत् मां परमेश्वरम् ॥३१॥चन्द्रस्य रक्षणार्थाय लोकरक्षणहेतवे ।नमो देवाधिदेवाय सूर्यचन्द्रप्रचक्षुषे ॥३२॥सर्वान्तर्यामिणे रक्षाकराय परमात्मने ।पुरुषोत्तमसंज्ञाय सुधाप्रदाय शार्ङ्गिणे ॥३३॥ग्रहनक्षत्रताराणां भास्कराय महात्मने ।नमश्चान्तरवेद्याय चाऽभक्तक्षयकारिणे ॥३४॥समायाहि हरे शीघ्रं रक्षां त्वं शशिनः कुरु ।महादेवो ध्यानमग्नश्चिरकारी विराजते ॥३५॥शीघ्रं धूम्राद् रक्ष मुक्तपते श्रीपरमेश्वर ।स्तुतश्चैवं तदा चाहं नारायणीश्रि! सत्वरम् ॥३६॥त्वया साकं त्वाजगाम देवगुरोर्गृहं दिवि ।द्रागेवाऽदृश्यरूपोऽपि तदङ्गे मानसः सुतः ॥३७॥समभवं सुबालोऽहं सर्वभूषणभूषितः ।शंखचक्रगदापद्मशूलशक्तिशराऽऽयुधः ॥३८॥वज्रधनुर्दण्डपाशखङ्गचर्मविराजितः ।त्वं तदा तु मयाऽऽज्ञप्ता प्रविष्टा चाऽसुरोदरे ॥३९॥चन्द्रमसि स्थिरा जाता चान्द्री कलाप्ररक्षिणी ।त्वद्बलाद्वै तदा लक्ष्मि! चन्द्रो मूर्च्छां न चाप्तवान् ॥४०॥नापि तेजोविहीनश्च नापि चामृतवर्जितः ।नापि संपाचितो गर्भे धूम्रासुरेण वह्निना ॥४१॥एवमेवाऽभवद्गर्भे यथापूर्वं तथाऽभवत् ।अथाऽह पूजितो देवैर्देवगुर्वंकशोभितः ॥४२॥प्रार्थितोऽसुरनाशार्थं जगामाऽहं महासुरम् ।देवसैन्येन सहितो युयुधे चन्द्रघातिना ॥४३॥तदा लक्ष्मि! मयाऽऽज्ञप्ता कन्यारूपाऽभवः क्षणम् ।असुरो धूम्रसंज्ञोऽपि त्वां विलोक्य मुमोह च ॥४४॥शूलं विसृज्य च क्षणं त्वां धर्तुं यत्नमाचरत् ।त्वया शूलं तदा ग्रस्तं ममाज्ञया हि शांकरम् ॥४५॥मया चक्रेण वै शीघ्रं हतोऽसुरः सहस्रधा ।धूम्रो विनाशमापन्नो भस्मसादभवत्तदा ॥४६॥चन्द्रः पूर्णकलस्तत्र निर्जगामोदराद् बहिः ।त्वं च शूलधरी चान्द्री कन्या नाम्ना तु कौमुदी ॥४७॥वर्धिता सर्वदेवाद्यैः पूजिता परमेश्वरी ।अहं सर्वैः पूजितश्च वर्धितो वन्दितस्तथा ॥४८॥देवगुरोः सुतश्चाऽहं भगवान् पुरुषोत्तमः ।चन्द्रमसा हरिर्ज्ञात्वा वन्दितः पूजितस्तथा ॥४९॥कन्या त्वं कौमुदीनाम्नी दत्ता मह्यं तदा प्रिये ।मया विवाहिता त्वं च देवगुरोर्गृहोषिणा ॥५०॥अनादिश्रीदेवनारायणनाम्ना नरायणि! ।ततः सस्मार शंभुं च देवगुरोर्गृहेऽप्यहम् ॥५१॥शंभुस्तूर्णं समायातो ज्ञात्वा मां परमेश्वरम् ।धूम्रासुरं विनष्टं च ज्ञात्वा मुमोद वै हरः ॥५२॥त्रिशूलं प्रददौ शंभुश्चन्द्रमसे हि शाश्वतम् ।पिता तुभ्यं ददौ शूलं यौतकं शाश्वतं शिवम् ॥५३॥त्वया मह्यं प्रदत्तं च मया हस्ते सुरेखकम् ।कृतं धृतं सर्वदैव पश्य दक्षे करे मम ॥५४॥त्रिशूलं रेखितं चास्ते प्राकट्यं याति चेच्छया ।स्मर लक्ष्मि! तव प्राकट्यं च मेऽपि तदाऽभवम् ॥५५॥अवतारी स्वयं चाऽऽसं तदा देवनरायणः ।अवतारास्तदा मेऽप्यासँश्च कोटिसहस्रशः ॥५६॥आकल्पान्तं चाऽभवं वै त्वया साकं गुरोर्गृहे ।अथाऽजस्य पञ्चमे वत्सरे योऽहं तदाऽभवम् ॥५७॥आद्ये कल्पे चाद्यमनौ त्वं चाऽभवः कथां शृणु ।व्योमबाणाभिधे वर्षे प्राक्कल्पे प्रथमे मनौ ॥५८॥विद्यमाने ब्रह्मपुत्रा महर्षयोऽजसंसदि ।संहताश्च प्रचक्रुर्वै विचारं वेदवादिनः ॥५९॥ब्रह्माण्डे भूतलं कर्मभूमिः फलप्रदाऽस्ति यत् ।तत्र कृतं देहिभिर्वै दत्तं दानं वृषादिकम् ॥६०॥अन्यलोकगतैः सर्वैः प्राप्यते भोजनादिकम् ।भूतले यत्प्रदत्तं च जलान्नाम्बरभूषणम् ॥६१॥क्षेत्रवाटीरूप्यकन्यासुवर्णगृहसाधनम् ।हव्यं कव्यं बलिः पुण्यं व्रतं श्राद्धं सहायकम् ॥६२॥सर्वं लोकान्तरे दात्रा कर्त्राऽऽप्यतेऽयुतोत्तरम् ।यथा जीवन्ति सन्न्यासा वानप्रस्थाश्च नैष्ठिकाः ॥६३॥गार्हस्थ्यमुपसंलम्ब्य तथाऽऽलम्ब्य क्षितौ कृतम् ।जीवन्ति स्वर्गदेवाश्च पितरश्च महर्षयः ॥६४॥सुकृतं तद् यज्ञकार्यं जीवनं सर्वदेहिनाम् ।विप्राणां भोजनं यत्र देवानां हव्यमित्यपि ॥६५॥श्राद्धं च पितृदेवानामृषीणां पुण्यमित्यपि ।सोम सुधाऽमृतं भोज्यं यज्ञे सर्वं हि लभ्यते ॥६६॥तस्माद् यज्ञः प्रकर्तव्यः शिक्षणीयः क्रियात्मकः ।मानवेभ्यो भूदेवेभ्यः क्रियासन्तानहेतवे ॥६७॥क्रतुतन्तौ समारब्धे सन्धिते योजिते कृते ।यज्ञानां सम्प्रचारेण जीवनं स्यान्निरामयम् ॥६८॥तस्माद् गच्छाम एवाऽद्य महर्षयो हि भूतलम् ।देवान् पितॄन् सह नीत्वाऽऽचरिष्यामः क्रतूत्तमम् ॥६९॥इतिसम्मन्त्र्य मुनयः पितरश्च सुरेश्वराः ।आययुर्भूतलं लक्ष्मि! यज्ञार्थं मेरुसन्निधौ ॥७०॥पालाशाऽऽरण्यके सर्वे स्वर्गंगायास्तटे स्थिताः ।प्रयतन्ते स्म यज्ञार्थं भिन्नकर्मनियोजिताः ॥७१॥प्रथमोऽयं यतो यज्ञः क्रमं जानन्ति नैव ते ।न कश्चित् सर्वयज्ञानामभ्यासी कर्मगोचरः ॥७२॥यथाक्रमविनिर्योक्ता देवे पितरि भूसुरे ।महर्षौ वा तदा तत्राऽभवत् कर्मक्रमाभिवित् ॥७३॥ततस्ते मोहमापन्नाः कर्मकाण्डाऽप्रवेदिनः ।इदं पूर्वमिदं पूर्वमेवमाग्रहिणोऽभवन् ॥७४॥अनिश्चित्ते क्रतुक्रमे तदंगानां क्रमेऽपि च ।वेधःपुत्रो ब्रह्मकुमाराख्यौ नैष्ठिकशीलवान् ॥७५॥यजमानं चाह तत्र ज्योतिष्मन्नामकं मनुम् ।वयं सर्वे कर्मकाण्डे ह्यपूर्वगोचराः खलु ॥७६॥विगुणे तु फलं यज्ञे विपरीतं भवेदिति ।यज्ञद्रष्टा यज्ञवक्ता नान्यो नारायणं विना ॥७७॥परब्रह्माऽक्षरातीतं श्रीहरिं पुरुषोत्तमम् ।तमेवाऽऽराधयामोऽत्र संहत्य क्रमहेतवे ॥७८॥स चाऽऽगत्य क्रतुं सर्वं शिक्षयिष्यति यज्ञकृत् ।यज्ञदेवः स यज्ञात्मा यज्ञज्ञो यज्ञकारकः ॥७९॥इत्युक्तो वै मनुश्चान्ये स्वीचक्रुस्तद्वचस्ततः ।परमेशं मिलित्वैवाऽऽराधयामासुरुत्सुकाः ॥८०॥महर्षयश्च पितरो देवता भूसुरादयः ।ओं नमो यज्ञरूपाय परमेशाय कर्मिणे ॥८१॥यज्ञदेवाय यज्ञाय यज्ञज्ञाय क्रतुकृते ।यज्ञशास्त्रेऽध्वरकार्यकारिणे परमात्मने ॥८२॥नमोऽन्तर्यामिणे नश्च साहाय्यदाय शार्ङ्गिणे ।इत्यस्तुवन् सुराद्या मां यज्ञार्थं पुरुषोत्तमम् ॥८३॥तदाऽहं तु त्वया साकं श्रुत्वाऽक्षरेऽपि चार्थनाम् ।अगच्छं गांगतीरं वै मेरोः पालाशकृद्वनम् ॥८४॥ब्रह्मकुमारनिकटे बालोऽहमृषिवेषधृक् ।सर्वविद्यामयः सर्वमन्त्रद्रष्टा नियोगवान् ॥८५॥यावद्विधिप्रवीणोऽहं यावत्पात्रधरो द्विजः ।सर्वक्रमाभिवेत्ता च सर्वद्रव्यादिबोधवान् ॥८६॥द्वितीयो वै यथा ब्रह्मा तथा प्रकटितोऽभवम् ।सर्वे दृष्ट्वा तु मां विप्रं कोटिभास्करभासुरम् ॥८७॥सहसोत्थाय नेमुर्मां कस्त्वं पप्रच्छुरुत्सुकाः ।अध्वरोऽहं हि भगवान् भवदाराधनाफलम् ॥८८॥इत्युक्त्वाऽहं बालरूपो ब्रह्मकुमारकाऽङ्कगः ।अभवं पुत्रभावेनाऽभावयत् सोऽपि मां तथा ॥८९॥त्वं तदा चाविशो ज्योतिष्मन्मनौ भूयसी सती ।अथाऽहं च समाश्वास्य सर्वान् यज्ञार्थकर्मसु ॥९०॥नियुज्य क्रमवारं तान् प्रावर्तयं क्रतुं तदा ।अनादिश्रीकृष्णनारायणोऽहं परमेश्वरः ॥९१॥अनादिश्रीयज्ञनारायणो भूत्वा व्यधापयम् ।अवभृथान्तं यज्ञं तं वैष्णवं सार्वभौमिकम् ॥९२॥अध्वरोऽहं मनोस्तस्माद् ययाचे दक्षिणां तदा ।भूयसीं यज्ञभूमौ वै मण्डपे वेदिकान्तिके ॥९३॥तदा त्वं कन्यका नाम्ना भूयसी दक्षिणाऽभिधा ।प्रादुरभवः कल्याणि! कन्यका वै मदर्थिनी ॥९४॥मनोर्ज्योतिष्मतः पुत्री नारायणी हि भूयसी ।अध्वरेऽम्बरभूषाढ्या कोटिस्वर्णधनान्विता ॥९५॥मद्योग्या याचमानाय मह्यं वै मनुनाऽर्पिता ।तत आरभ्य तद्वर्षे सहस्रकल्पकात्मके ॥९६॥मयाऽऽदिष्टप्रकारेणाऽध्वराः सर्वे प्रवर्तिताः ।कल्पायुश्चाऽभवँस्तत्र त्वया साकं महाध्वरः ॥९७॥यज्ञनारायणः सोऽहं चानादिः पुरुषोत्तमः ।अवतारी स्वयं स्वामी परब्रह्म परेश्वरः ॥९८॥भूयसी दक्षिणानाम्नी त्वं मे पत्नी तदाऽभवः ।स्मर नारायणीश्रि! त्वं तत्कल्पं तं च वत्सरम् ॥९९॥ततोऽन्ये मेऽवताराश्च तत्राऽभवन् हि कोटिशः ।वेद्मि सर्वानहं लक्ष्मि! नान्ये स्मरन्ति तानपि ॥१००॥सर्वयज्ञस्वरूपोऽस्मि सर्वे यज्ञा मयि स्थिताः ।सर्वयज्ञा मूर्तयो मे सर्वयज्ञप्रवर्तकः ॥१०१॥भोक्ता सर्वेषु यज्ञेषु सर्वाऽध्वरफलप्रदः ।सर्वक्रियाकलापज्ञश्चाऽहं भवामि चाध्वरे ॥१०२॥त्वां विना नैव तिष्ठामि दैवे पैत्र्ये तथाऽऽर्षके ।मानवे वा विधौ लक्ष्मि! दानेऽर्हणे च पूजने ॥१०३॥जपे व्रते क्रमे ज्ञाने साकं त्वया वृषेऽपि च ।उपतिष्ठामि देवेशि! शिवेश्वरि! न चान्यथा ॥१०४॥इत्येवं चाध्वरं जन्म कथितं वै त्वया सह ।पठनाच्छ्रवणाच्चापि महाध्वरफलं भवेत् ॥१०५॥तवापि स्मरणाल्लक्ष्मि! भूयसीदक्षिणाफलम् ।सम्पत्सिद्धिर्भवेदत्र परत्र मोक्षणं भवेत् ॥१०६॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसश्चतुर्थवत्सरे धूम्रासुरनाशार्थं चन्द्ररक्षार्थम् अनादिदेवनारायणस्य, पञ्चमवत्सरेऽध्वरतन्तुसम्पादनार्थम्अनादियज्ञनारायणस्य च प्राकट्यमितिनिरूपणनामा चतुर्थोऽध्यायः ॥४॥ N/A References : N/A Last Updated : May 03, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP