संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ८४ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ८४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ८४ Translation - भाषांतर श्रीनारायणीश्रीरुवाच-कृपासिन्धो जीवबन्धो चात्मप्राणपते विभो ।कर्मक्षेत्रे नरनारीदेहे प्राप्ते शुभावहे ॥१॥श्रेयोऽर्थिना दरिद्रेण भाग्यहीनेन सर्वथा ।यत्र नैव तु साधूनां लभ्यतेऽपि समागमः ॥२॥तत्र कृत्वा विधिं किं च प्राप्येत मोक्षणं निजम् ।आत्मकल्याणवाञ्च्छावान् कल्याणं लभते कथम् ॥३॥श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि! त्वं श्रेष्ठं पृच्छसि शोभनम् ।कर्मक्षेत्रमिदं चास्ते लब्ध्वा मानुषमुत्तमम् ॥४॥मातुः सेवां प्रकुर्वीत गृहतीर्थस्य सर्वथा ।यथा यथा निजा माता प्रसन्ना स्यात्तथा तथा ॥५॥सेवयित्वा चाऽर्जयेद्वै तदाशिषः सुपुण्यदाः ।दारिद्र्यनाशिकाश्चापि श्रेयसां सम्प्रदाः शुभाः ॥६॥मातुश्च सेवया भाग्यं भाग्यहीनस्य वर्धते ।माता नारायणी ब्राह्मी श्रेयः करोति चाशिषा ॥७॥एवं पितुः शुभा सेवा कर्तव्या तीर्थरूपिणः ।तदाशीर्वादलाभेन श्रेयः पुण्यं हि लभ्यते ॥८॥भाग्यं भवेद्विशालं च सम्पन्नं श्रेयसा भृतम् ।अथैवं सेवया भाग्योदयेन स्यात् सती मतिः ॥९॥शास्त्रार्थचिन्तने योग्या ततो ज्ञानं समर्जयेत् ।ज्ञानोत्तरं विवेकश्च ततो ध्येयं हरिं तु माम् ॥१०॥ध्यायीत भक्तिं कुर्वीत ममैव सर्वदा शुभाम् ।बहुधा यत्र नैर्मल्यं स्थैर्यं च मनसो भवेत् ॥११॥नामजपं प्रकुर्वीत हरे कृष्ण नरायण ।अनादिश्रीकृष्णनारायण श्रीपुरुषोत्तम ॥१२॥एवं वै कीर्तनं कुर्वन् कारयन् भजनं परम् ।सखायं संविदधीत सखीन् भक्तान् विवर्धयेत्। ॥१३॥सत्संगमण्डलं पश्चात् स्थापयेत् संभजेत माम् ।कीर्तनं मे सदा कुर्यात् सायं चैकत्र मण्डलम् ॥१४॥हरेर्भक्ता मण्डले ये ते बोध्याः साधवस्तदा ।शास्त्रश्रवणलाभेन वृद्धवाक्येन वा सदा ॥१५॥साधुगुणान् सखीन् प्राप्त्वा सत्संगं वर्धयेत् ततः ।एवं कृत्वा विशालं वै विदधीत स्वमण्डलम् ॥१६॥महापुण्यप्रतापेन खलु सत्संगमण्डलात् ।मुमुक्षुता भवेच्छ्रेष्ठा ततो भक्त्या सुभावया ॥१७॥भजित्वा माऽऽत्मकल्याणं प्रकुर्वीत स भक्तराट् ।एवं लक्ष्मि बलं नैजं सबीजं वर्धयेत् सदा ॥१८॥सत्संगपोषकं येन भुक्तिर्मुक्तिर्भवेत्ततः ।नामकीर्तनतुल्यं वै सुलभं साधनं नहि ॥१९॥अलब्धसाधुसंगस्य नामकीर्तनमुत्तमम् ।साध्वी जिह्वा निजा बोध्या तत्समागममाचरेत् ॥२०॥साध्वी मतिर्निजाबोध्या तया मन्वीत माधवम् ।मनः साधु निजं बोध्यं तेन मन्वीत मां सदा ॥२१॥देवः साधुरितिकृत्वा तेन सेवेत केशवम् ।एवं संगतिमासाद्य मां भजेत सनातनम् ॥२२॥आचार्या वा गुरवश्च कोटिकल्याणकारिणः ।एवमात्मबलेनैव तेरुर्भवार्णवात् स्वयम् ॥२३॥तारयामासुरन्याँश्च श्रीहरेः कृपया त्विह ।यतमानं निजं भक्तं साहाय्यवर्जितं हरिः ॥२४॥स्वयं तत्राऽवतीर्यैव चोषित्वा हृदयेऽपि च ।भक्तमण्डलमध्ये वा चोषित्वा श्रेय अर्पयेत् ॥२५॥नहि कीर्तनकृत् कश्चिदनिष्टं विन्दति प्रिये ।स एव तत्र साधुर्वै कीर्तनेन प्रजायते ॥२६॥अयि लक्ष्मि श्वपचोऽपि गृहे संकीर्तयँश्च माम् ।सुदूरोऽपि साधुमनाः साधुस्निग्धो हि साधुवत् ॥२७॥चर्मकारोऽपि शीलाढ्यो मम भक्तिपरायणः ।साधुस्निग्धः साधुरेव कीर्तयन्मां स्वकर्मकृत् ॥२८॥म्लेच्छोऽपि शीलयुक्तश्चेन्मम भक्तिपरायणः ।साधुस्निग्धः साधुरेव कीर्तयन्मामहिंसकः ॥२९॥घातकी व्याध एवाऽपि शीलव्रतस्त्यजन् हतिम् ।साधुस्निग्धः साधुरेव कीर्तयन्मामहिंसकः ॥३०॥ध्वजी चक्री च वा साधुः साधुस्नेहपरायणः ।शीलव्रतोऽहिंसकश्च कीर्तयन्मामहर्निशम् ॥३१॥गणिका च व्यवायी च साधुस्नेहपरायणौ ।साधूशीलव्रतौ कीर्तयन्तौ मां कामवर्जितौ ॥३२॥धीवरश्चापि मत्स्यादः शीलव्रतोऽप्यहिंसकः ।साधुस्नेहपरः साधुः कीर्तयन्मां परेश्वरम् ॥३३॥जल्लादो हारकः स्तेनः साधुस्नेहपरायणाः ।शीलव्रताः कर्मशून्याः साधवश्चेद् रटन्ति माम् ॥३४॥भुजिष्या वृन्दलो वापि साधू शीलपरौ यदा ।साधुस्निग्धौ कीर्तयन्तौ मां हरिं पुरुषोत्तमम् ॥३५॥भाण्डा नटा नर्तकाश्च कुशीलवाश्च साधवः ।शीलव्रताः साधुस्निग्धाः कीर्तयन्तश्च मां हरिम् ॥३६॥बहुरूपा नर्मकाराः शवहाराश्च साधवः ।शीलव्रताः साघुस्निग्धाः कीर्तयन्तश्च मां हरिम् ॥३७॥सर्वादा गणिकेशाश्च गोधादाः सर्पभोजनाः ।साधवः शीलव्रतिनः साधुस्निग्धा रटन्ति माम् ॥३८॥जालग्राहाः पिशितादाः सन्त्यज्य क्रूरवर्तनाम् ।साधवः शीलव्रतिनः साधुस्निग्धा रटन्ति माम् ॥३९॥अग्निदा गरदाः शूलप्रदाः पाशप्रदा अपि ।रटन्तो मां साधुशीला साधुस्निग्धा हि साधवः ॥४०॥शस्त्रजीवी चिकित्साकृच्छवांगिभेदिनो यदि ।रटन्तो मां साधुशीलाः साधुस्निग्धा हि साधवः ॥४१॥भार्ष्ट्रभट्ठीकराश्चापि वनारणाविघातिनः ।शीलपराः साधुस्निग्धाः साधवो हि रटन्ति माम् ॥४२॥उन्मत्तश्च विचित्तश्च शठः स्वार्थी हि साधवः ।साधुस्निग्धाः शीलपरा मां रटन्ति विदुर्गुणाः ॥४३॥आसुरा राक्षसा दैत्या दानवाः पापिनोऽपि च ।साधुस्निग्धाः शीलवन्तः साधवो मां रटन्त्यपि ॥४४॥भूताः प्रेताः पिशाचाद्या रटन्तो मां हि साधवः ।शीलपराः साधुव्रताः साधुस्निग्धास्तथा मयि ॥४५॥माधुकघ्ना मत्स्यहाराः शकुनिघ्ना हि साधवः ।साधुशीला साधुस्निग्धाः कर्मशून्या रटन्ति माम् ॥४६॥पशुवाहाः पञ्जरिणो विश्वासघातकाश्च ते ।रटन्तो मां साधुशीलाः साधुस्निग्धा हि साधवः ॥४७॥तिर्यग्वृत्तय आत्मस्त्रीरक्तविक्रयिणोऽपि तु ।रटन्तो मां साधुशीलाः साधुस्निग्धा हि साधवः ॥४८॥यन्त्रिणाश्चक्रिणश्चापि शस्त्रिणः साधवो हि ते ।रटन्तो मां साधुशीलाः साधुस्निग्धा हि सात्त्विकाः ॥४९॥राजभटाधिपा न्यायाधिपा नृपा हि साधवः ।रटन्तो मां साधुशीला साधुस्निग्धा हि सात्त्विकाः ॥५०॥मुष्कच्छेदकरा दंष्ट्राहाराश्च लिङ्गकृत्तिनः ।रटन्तो मां साधुशीला साघुस्निग्धा हि सात्त्विकाः ॥५१॥अकर्माणो विकर्माणो नृशंसा अपि साधवः ।रटन्तो मां साधुशीला साधुस्निग्धा हि साधवः ॥५२॥दौर्हृदनाशका धातुभोजिनः शौचवर्जिताः ।रटन्तो मां साधुशीला साघुस्निग्धा हि साधवः ॥५३॥येषां वै पञ्चकं सिद्धं साधवस्ते सदा मताः ।निष्कामता ह्यलोभित्वं निर्मानित्वं निःस्वादिता ॥५४॥निःस्नेहिता च सर्वत्र सन्तस्तत्पञ्चवृत्तयः ।कामवासनाहीनत्वं निष्कामिता यथायथम् ॥५५॥आवश्यकातिरिक्तेच्छाहीनत्वं लोभवर्जिता ।अगर्वः सर्वथा निर्मानित्वं स्तब्धत्ववर्जिता ॥५६॥प्राणयात्रार्थभोज्याप्तिर्निःस्वादित्वं हि तत् स्मृतम् ।एवं शीलपराः साधुर्भक्तिमार्गपरायणः ॥५७॥तरति तारयत्यन्यान् महाभागवतो हि सः ।येषां वा पञ्चकं चान्यन्मुमुक्षुत्वं कथाश्रुतिः ॥५८॥भक्तसाधोः संगतिश्च सेवाभक्तिप्रवर्तनम् ।आत्मनिवेदनं चेति पञ्चवत्साधवो मताः ॥५९॥येषां वा पञ्चकं चान्यत् प्रातःस्नानप्रपूजनम् ।मध्याह्ने हरये भोज्यनिवेदनं सदाऽन्वहम् ॥६०॥उपार्जनस्य विंशांऽशोऽर्पणीयो हरये तथा ।मालिकावर्तनं नित्यं चान्ते त्वात्मनिवेदनम् ॥६१॥त एते साधवः स्युश्च गृहे वने च निर्जने ।समाजे वापि जीवानां तारकास्ते भवन्ति वै ॥६२॥दुष्टगुणान् विहायैव सद्गुणानर्जयेत्तु यः ।साधुरत्र भवेत् सोऽपि भजते चेद्धरिं सदा ॥६३॥माया पापं पापवन्तो जीवा मायाविनः खलु ।मायादुर्गुणमुत्सृत्य सद्गुणान् प्राप्य मद्रताः ॥६४॥धर्मवशाश्रया लोके साधवः साधुभूषणाः ।संसारिणस्तु ये जीवाः सर्वे दुर्गुणसंभृताः ॥६५॥पश्चात्प्राप्य सतां श्रेष्ठगुणान् भवन्ति साधवः ।मायामलेन हीनास्ते सन्तो भवन्ति निर्मलाः ॥६६॥दीयमानानि रत्नानि कम्बलान्यम्बराणि च ।सम्पदः सुखभोग्याश्च नाऽवेक्षते हृदाऽपि यः ॥६७॥भोग्यभोक्तृत्ववृत्तिश्च यस्य नाऽऽवर्तते मुहुः ।साधुवृत्तिः स विज्ञेयस्तापसो दोषतापनः ॥६८॥जैह्वयं शैश्न्यं जितं येन जितं सर्वं महात्मना ।अश्राव्यो बधिरो यश्चाऽप्यप्रेक्ष्ये नेत्रवर्जितः ॥६९॥अस्पृश्ये त्वग्विहीनश्चाप्यघ्रेये घ्राणवर्जितः ।अकथ्ये जिह्वया हीनश्चाऽभक्ष्ये रसनाक्षयः ॥७०॥अग्राह्ये हस्तशून्यश्चाप्यगम्ये पादवर्जितः ।अत्याज्ये पायुशून्यश्चाप्ययोग्ये कामवर्जितः ॥७१॥अलिङ्ग्ये लिङ्गशून्यश्च सर्वथा मत्परायणः ।विदेहः साधुरेवाऽयं परस्यापि गतिप्रदः ॥७२॥आस्यभूर्मृगवद्यस्य शय्या चाऽऽजगरी यथा ।निद्रा च जलवद् यस्य कल्पना व्योमपुष्पवत् ॥७३॥देहश्छायासमो यस्य वस्तुजातं तु स्वप्नवत् ।स्मृद्धयो भस्मवद् यस्य समुत्सवः श्मशानवत् ॥७४॥अस्तित्वं नास्तितातुल्यं साधुः सोऽयं सदुत्तमः ।यस्य सर्वं मयि चास्ते मत्तुल्यः साधुरेव सः ॥७५॥यथाऽऽकाशगतं चाऽम्भं विद्युद्वेगात् प्रवर्षति ।तथा साधोः प्रसंगाच्च भक्तः स्नेहेन वर्षति ॥७६॥यथा मेघा विलीयन्ते वायुवेगेन चाम्बरे ।तथा साधोः प्रसंगेन लीयन्ते पापकोटयः ॥७७॥यथा वै जाग्रतः स्वाप्नं लीयते तत्क्षणं तथा ।साधोर्योगेन लीयन्ते कषायास्तत्क्षणं रमे ॥७८॥यथा तमोविनाशो वै सूर्यभाभिः प्रजायते ।तथा साधोश्चमत्कारैर्लीयन्ते कल्मषाणि वै ॥७९॥यथा पुत्रप्रसवेन लीयन्ते शोककोटयः ।तथा साधुप्रसंगेन लीयन्ते शोककोटयः ॥८०॥यथा लग्नप्रसंगे आनन्दा भवन्ति सोत्सवाः ।तथा साधुप्रसंगेन मोक्षानन्दोत्सवोद्भवाः ॥८१॥यथा मातुर्दर्शनेन सुखं बालस्य जायते ।तथा साधोर्दर्शनेन सुखं भक्तस्य जायते ॥८२॥यथा मिष्टान्नलाभेन मोदन्ते बालबालिकाः ।तथा वै साधुलाभेन मोदन्ते भक्तकोटयः ॥८३॥यथा वर्षर्तुमासाद्य केका वदन्ति केकिनः ।तथा साध्वर्तुमासाद्य कीर्तयन्ति हरेर्जनाः ॥८४॥यथैकपुत्रनाशेन वृद्धपित्रोर्विदेहता ।तथा सतां वियोगे तु भक्तानां स्याद् विदेहता ॥८५॥यथा वन्ध्या पुत्रलाभे हर्षोन्मत्ता प्रजायते ।तथा साधोर्गृहे लाभे हर्षोन्मत्ता ममाऽऽश्रिताः ॥८६॥यथा सुगन्धसाराद्यैः प्रफुल्लं मानसं तथा ।श्रीकृष्णसाधुधर्माद्यैर्भक्तमनः प्रफुल्लति ॥८७॥यथाऽतीष्टस्य लाभेन सर्वानन्दा भवन्ति वै ।तथा साधोरागमने सर्वानन्दा भवन्ति हि ॥८८॥यथा नाट्यगतं पात्रं रङ्गं प्रसन्नयत्यति ।तथा साधोः सेवकश्च साधून् प्रसन्नयत्यति ॥८९॥यथा साध्वी हरिं कान्तं सदा प्रसेवते सुखा ।तथा भक्तो हरिं साधुं सेवते च मुदा सुखः ॥९०॥यथा व्याधस्य पुत्रादौ स्नेहः सदा प्रपोषणे ।तथा भक्तस्य साध्वादौ स्नेहः सदा प्रमोक्षणे ॥९१॥यथा गौर्वत्समासाद्य ददाति धारया पयः ।भक्तः साधून् समासाद्य सर्वस्वं प्रददाति ह ॥९२॥यथा वृक्षा जलं पीत्वा प्रफुल्लिता नवाऽङ्कुराः ।तथा भक्ताः सतः प्राप्य बह्वार्पणनवांऽकुराः ॥९३॥यथा नद्यः पूरवृद्ध्या ह्युन्मत्ता आप्तुमप्निधिम् ।तथा भक्ता भक्तिवृद्ध्या ह्युन्मत्ता आप्तुमीश्वरम्॥९४॥यथा च नापितो राजसेवा प्राप्य प्रमोदते ।तथा भक्तः साधुसेवां प्राप्य सदा प्रमोदते ॥९५॥यथा युवा च युवतीं प्राप्यैति तत्तदात्मताम् ।तथा भक्तो हरिं साधुं प्राप्यैति तत्तदात्मताम् ॥९६॥यथा राजाऽऽज्ञया भृत्या वर्तन्ते नम्रमार्गिणः ।तथा साध्वाज्ञया भक्ता वर्तन्ते धर्ममार्गिणः ॥९७॥यथा दीपो रात्रियोगे प्रकाशते स्वयम्प्रभः ।तथा भक्तः साधुयोगे प्रकाशते हरिप्रभः ॥९८॥यथा पक्वं फलं वृक्षं जहात्येव हि कालतः ।तथा पक्वफलो भक्तो जहात्येव तु मायिकम् ॥९९॥यथा पत्नी धर्मशीलाऽनुसरत्येव सत्पतिम् ।तथा साध्वीं च वा साधुमनुव्रजति भक्तराट् ॥१००॥नारायणनिवासेन यथा नारायणायते ।तथा साधुत्ववासेन व्यक्तिर्वै साधवायते ॥१०१॥यद्वद्भक्तिनिवासेन भक्तो भवति मानवः ।लक्ष्मि साधुत्ववासेन साधुर्भवति मानवः ॥१०२॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने साधुसमागमरहितस्यापिमोक्षोपायाः साधुलाभः साधुत्वलाभस्तद्विविधता चेत्यादिनिरूपणनामा चतुरशीति-तमोऽध्यायः ॥८४॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP