संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः १०२

द्वापरयुगसन्तानः - अध्यायः १०२

लक्ष्मीनारायणसंहिता


श्रीपुरुषोत्तम उवाच-
गवाराधनसंज्ञं च व्रतं कुर्युर्विमुक्तये ।
प्रेतस्य वंशजा भार्या पुत्रः सम्बन्धिबान्धवाः ॥१॥
गवां गोष्ठे निवसनं गवां शुश्रूषणं तथा ।
गवाऽन्वाहारमेवापि गवान्वपानमित्यपि ॥२॥
गवान्वशयनं चापि गोप्राक्प्रबोधनं तथा ।
गोस्थलीमार्जनाद्यं च दंशादीनां निवारणम् ॥३॥
शाद्वलघासदानं च गव्याहारस्तथाऽर्हणम् ।
रक्षणं सर्वथा शश्वद् गोष्ठे वासः सदा तथा ॥४॥
द्रुह्येन्न मनसा वापि गोषु नित्यं सुखप्रदः ।
अर्चयेत रमाबुद्ध्या नमस्कारैः प्रपूजयेत् ॥५॥
त्र्यहमुष्णं पिबेन्मूत्रं त्र्यहमुष्णं पिबेत् पयः ।
त्र्यहं घृतं पिबेदुष्णं वायुभक्षस्त्र्यहं भवेत् ॥६॥
वहेद् घृतं तु शिरसा वह्निं संजुहुयाद् घृतैः ।
घृतं दद्यात्तथाऽश्नीयाद्घृतेन स्वस्ति वाचयेत् ॥७॥
गवोच्छिष्टयवभक्षो ब्रह्महत्यां व्यपोहति ।
दैत्यैश्च दानवैर्युक्ताः प्रसह्य भोजने सुराः ॥८॥
आशिता निजभक्ष्याणि ततः शुद्ध्यर्थमेव ह ।
गवाराधनसंज्ञं वै व्रतं मासकृतं कृतम् ॥९॥
ततः शुद्धाः पुनर्देवाः संसिद्धा निजकर्मसु ।
अतो गावः पवित्राश्च पावनाः पुण्यदास्तथा ॥१०॥
गोदानं तच्छुभं दत्वा शुद्ध्यति स्वर्गमश्नुते ।
अग्निमध्ये गवां मध्ये सतां मध्ये वसन्नपि ॥११॥
विप्रमध्ये सतीमध्ये वेदमध्ये वसन्नपि ।
यज्ञमध्ये तीर्थमध्ये वसन् शुद्ध्यति पातकात् ॥१२॥
गावस्तुष्टाः प्रयच्छन्ति पुत्रं धनं पतिं प्रियाम् ।
शृणु श्रीशिवराज्ञीश्रि! पुरा श्रीस्त्वं स्वभावतः ॥१३॥
कान्तं वपुर्विनिर्माय गोमध्ये संस्थिताऽभवः ।
गावश्चाश्चर्यसम्पन्ना वीक्ष्यते रूपसम्पदम् ॥१४॥
पप्रच्छुस्त्वां काऽसि कन्ये कुतोऽसि रूपसुन्दरी ।
कथं चात्राऽऽगता सौम्ये वद चेन्मन्यसे हि नः ॥१५॥
तदा त्वं गाः प्रणम्यैवोदितवती प्रसादिता ।
विष्णुकान्ताऽस्मि भद्रं वः श्रीर्नामाऽहं हरेः प्रिया ॥१६॥
मयाऽभिपन्ना देवाद्या मोदन्ते शाश्वतीः समाः ।
सूर्यश्चन्द्रो महेन्द्रश्च वसवो देवकोटयः ॥१७॥
अग्निरापो मयाऽऽविष्टाः स्मृद्ध्युद्भावा भवन्ति वै ।
यान्नाविशाम्यहं गावस्ते विनश्यन्ति सर्वथा ॥१८॥
यत्र धर्मार्थकामाश्च मया जुष्टा हि तद्गृहम् ।
मोदप्रमोदशान्त्याढ्यं महानन्दभृतं भवेत् ॥१९॥
इच्छामि चापि युष्मासु वस्तुं भवत मद्युताः ।
स्त्रीवर्गे मे सदा वस्तुं वाञ्च्छा जाताऽस्मि वै ध्रुवा ॥२०॥
श्रुत्वा गावश्च भवतीं प्राहुस्त्वं चञ्चला ह्यसि ।
सर्वगां त्वां न चेच्छामो भद्रं तेऽन्यत्र गम्यताम् ॥२१॥
श्रुत्वा त्वं चाऽर्थितवती कथं मां नाभिनन्दथ ।
महदुग्रं तपः कृत्वा मां निषेवन्ति मानवाः ॥२२॥
यक्षा असुरा गन्धर्वा ईश्वरा उरगा सुराः ।
कथं मां प्रतिगृह्णीध्वं नैव यूयं हि दुर्लभाम् ॥२३॥
श्रुत्वैवं धेनवः प्राहुश्चलचित्ताऽसि सर्वथा ।
बहुना तु किमुक्तेन ततस्त्वां वर्जयामहे ॥२४॥
श्रुत्वैवं त्वं चोक्तवती चाञ्चल्यं सन्त्यजाम्यहम् ।
भवतीनां कृते गावो वस्तुं स्थानं प्रयच्छथ ॥२५॥
ततो गावश्चोक्तवत्यः शकृन्मूत्रे वस ध्रुवा ।
ओमित्यवसस्त्वं लक्ष्मि गवां मूत्रे च शकृति ॥२६॥
गोमूत्रं गोमयं तस्माल्लक्ष्मि गृहं तवाऽस्मि वै ।
यत्र त्वं तत्र चाऽहं च निवसामि न संशयः ॥२७॥
एवं ज्ञात्वा महिमानं गां प्रयच्छन्ति ये जनाः ।
हुतशिष्टाशिनस्ते वै सत्रिणोऽध्वरिणश्च ते ॥२८॥
ऋते दधि घृतं नाऽत्र यज्ञः कश्चित् प्रवर्तते ।
ततो यज्ञस्य यज्ञत्वं गोमूलकं प्रतिष्ठितम् ॥२९॥
गोपुत्राः सततं लोके कृषियोगमुपासते ।
उत्पादयन्ति धान्यानि प्रवर्तन्ते मखाश्च तैः ॥३०॥
वहन्ति विविधान् भारान् क्षुत्तृषादिप्रपीडिताः ।
साधूंश्च धारयन्तीह पृष्ठे च शकटेऽपि च ॥३१॥
गोलोकं सन्नयन्त्येव दत्ता दाने परेतकम् ।
तस्मात् स्थानं गवामूर्ध्वं स्वर्गात् सत्यात् तथैश्वरात् ॥३२॥
गोलोकं वै गवां स्थानं मम कृष्णस्य मन्दिरम् ।
गोदाता याति गोलोकं कृष्णनारायणालयम् ॥३३॥
अन्यच्छृणु महालक्ष्मि पुरा देवयुगे खलु ।
अदितिस्तु तपस्तेपे विष्णुः पुत्रो भवेन्मम ॥३४॥
एकपादेन तपतीं वीक्ष्य दक्षसुता तदा ।
सुरभीनामिका चापि तपस्तेपे तया सह ॥३५॥
तदा गत्वा स्वयं ब्रह्माऽदितये सद्वरं ददौ ।
विष्णुः पुत्रस्ते भविता सुरकार्यकरो हरिः ॥३६॥
सुरभ्यै वरदानं च दत्तवान् विश्वसृट् तदा ।
दक्षसुते! तापसि! त्वं ह्यमरीत्वमवाप्स्यसि ॥३७॥
ईश्वरीत्वं च गोपीत्वमवाप्स्यसि सवंशजा ।
मुक्तानीत्वं तथा मोक्षदात्रीत्वं संव्रजिष्यसि ॥३८॥
सृष्टित्रये पूज्यतमोपरिष्टाच्च निवत्स्यसि ।
गोप्रदास्ताँश्च गोलोकान् गोपतेर्वै प्रसादतः ॥३९॥
वासस्थानान्यवाप्स्यन्ति यत्र वसन्ति धेनवः ।
भूरिशृंगा यत्र गावो यास्यन्ति वंशजास्तथा ॥४०॥
उरुगायस्य कृष्णस्य तद्धाम परमं पदम् ।
हव्यार्पणादिपुण्येन या वै दुहितरस्तव ॥४१॥
देवसेवाप्रकर्त्र्यः स्युर्निवत्स्यन्ति च तत्पदे ।
मनसा चिन्तिता भोगाः सम्पत्स्यन्ते सुखास्तव ॥४२॥
गोदातॄणां परे लोकाः सर्वकामसमन्विताः ।
न येषु क्रमते मृत्युर्न जरा न च पावकः ॥४३॥
न दारिद्र्यं नाऽशुभं च विद्यते गोपदे क्वचित् ।
तत्र दिव्यान्यरण्यानि दिव्यानि भवनानि च ॥४४॥
विमानानि सुदिव्यानि कामगानि भवन्ति च ।
घृतकुल्या दधिकुल्याः पयःकुल्या भवन्ति च ॥४५॥
पुष्करिण्योऽमृतानां च नवनीताऽऽद्रयोऽपि च ।
शर्करामधुसुस्वादाः सुधाचया भवन्ति च ॥४६॥
तरुण्यो गोपिका यत्र भवन्ति दिव्यभूषिताः ।
गोदातारः प्रयास्यन्ति सौरभि! त्वत्पदं परम् ॥४७॥
ब्रह्मचर्येण तपसा सेवया च सतां हरेः ।
दानैः पुण्यैर्दमेनापि सत्येन तीर्थसेवनैः ॥४८॥
कृष्णनारायणभक्त्या राधाभक्त्या विशेषतः ।
शक्यः समासादयितुं गोलोकः कृष्णशोभितः ॥४९॥
गोभक्तो लभते सर्वं यथेष्टं कामितं शुभम् ।
भक्ताः स्त्रियो लभन्ते च कामितं सर्वमुत्तम् ॥५०॥
पुत्रार्थी लभते पुत्रं कन्यार्थी कन्यकां तथा ।
वित्तार्थी लभते वित्तं धर्मार्थी धर्ममाप्नुयात् ॥५१॥
मोक्षार्थी प्राप्नुयान्मोक्षं सम्पदर्थी तु सम्पदः ।
विद्यार्थी चाप्नुयाद् विद्यां सुखार्थी लभते सुखम् ॥५२॥
रसार्थी लभते रस्यं दार्ढ्यार्थी दृढतां तथा ।
पत्यर्थिनी पतिं श्रेष्ठं कान्तार्थी सुन्दरीं शुभाम् ॥५३॥
सुतार्थी लभते पुत्रीं स्वर्गार्थी स्वर्गमाप्नुयात् ।
गोप्रदाता महाराज्यं लभते पार्थिवं ह्यपि ॥५४॥
ऐन्द्रं पदं सूर्यपदं चान्द्रं कौबेरकं पदम् ।
याम्यपदं तथा धर्म्ये वाह्न्यं चैशमित्यपि ॥५५॥
कैलासं चापि वैकुण्ठं वैराजं पदमित्यपि ।
लभेत श्रेष्ठगोलोकं धामाऽक्षरं लभेत च ॥५६॥
आरोग्यं लभते गोदो यशः कीर्तिं लभेत च ।
गजवाजिसुरभीश्च लभेत गोप्रदः खलु ॥५७॥
रूपं रत्नानि वस्त्राणि मैणीन् सौवर्णशेवधिम् ।
लभते गोप्रदाता वै स्मृतं गोदानकालिकम् ॥५८॥
अपमृत्युर्विनश्येच्च प्रेतत्वं दूरतो व्रजेत् ।
पापानि संप्रणश्येयुर्गोदातुश्च स्मृतस्य च ॥५९॥
इत्येवं वरदानानि ददौ ब्रह्मा हि धेनवे ।
न किञ्चिद् दुर्लभं लक्ष्मि! गोभक्तस्य भवेदिह ॥६०॥
सिद्धयश्चाणिमाद्याश्च सर्वेश्वर्यादिसम्पदः ।
यावन्तश्च चमत्कारा भवन्ति धेनुदे रमे! ॥६१॥
वेदपुण्यं मखपुण्यं कन्यापुण्यं च दक्षिणा ।
भूमिपुण्यं स्वर्णपुण्यं गोदानेन प्रजायते ॥६२॥
गोदानेन समं देयं सुवर्णं दक्षिणात्मकम् ।
अप्राप्तायां मूर्तिमत्यां देया धेनुर्हि कानकी ॥६३॥
सदा भूमेर्गवामर्थं देयं सुवर्णमित्यपि ।
स्वर्णं गौः पृथिवी चेति त्रीणि दानानि पद्मजे ॥६४॥
प्रेतमुक्तिकराण्येव भवन्ति नात्र संशयः ।
गाश्च भूमिं च वित्तं च दत्वा पापी प्रपूयते ॥६५॥
अजोऽग्निर्वरुणो मेषः सूर्योऽश्वः प्राग् व्यजायत ।
तत्तद्दानानि वै प्रेतमुक्तयेऽपि भवन्ति हि ॥६६॥
कुंजराश्च मृगा नागा महिषाश्चासुरा हि ते ।
आसुरयोनिमुक्त्यर्थं हस्त्यादिदानमुत्तमम् ॥६७॥
कुक्कुटश्च वराहाश्च राक्षसाः परिकीर्तिताः ।
रक्षोयोनिविमुक्त्यर्थं तत्तद्दानं प्रशस्यते ॥६८॥
इडा गावः पयः सोमो भूमिरजायतैव ह ।
प्रेतादीनां विमुक्त्यर्थं गोभूदानं प्रशस्यते ॥६९॥
अग्निर्हि देवता स्वर्णं देवता शस्यते ततः ।
स्वर्णदानं परं प्रोक्तं देवदानं शुभप्रदम् ॥७०॥
अग्न्यभावे तु कुरुते वह्निस्थानेषु कांचनम् ।
कुशस्तम्बे जुहोत्यग्निं सुवर्णं तत्र च स्थिते ॥७१॥
विप्रहस्ते साधुहस्ते दर्भस्तम्बेऽजकर्णके ।
अप्सु काष्ठे सुवर्णे च जुहोत्यग्नेरसन्निधौ ॥७२॥
हुते प्रीतिकरीमृद्धिं श्रीपतिः सम्प्रयच्छति ।
नित्यं ददाति सौवर्णं यथाशक्ति तु योजनः ॥७३॥
ब्रह्मवाय्वाग्निसोमानां सालोक्यमुपयाति सः ।
माता पिता सुतश्चेति गार्हस्थ्यं त्र्यात्मकं शुभम् ॥७४॥
गवां स्वर्णस्य पृथ्व्याश्च दानं त्र्यात्मकमुत्तमम् ।
श्रद्धास्नेहश्चादरश्च त्रेधाऽतिथिप्रसादकृत् ॥७५॥
तथा भूगोसुवर्णानि परलोकप्रदानि वै ।
भवनं सम्पदो वृत्तिस्त्रेधा सौख्यप्रसाधनम् ॥७६॥
धेनुभूकनकान्येवं दाने सौख्यप्रदानि वै ।
ज्ञानं शान्तिश्च निवृत्तिस्त्रयश्चानन्दहेतवः ॥७७॥
धेनुक्षितिस्वर्णकानि महानन्दप्रदानि वै ।
भक्तिर्हरिश्च मोक्षश्च सम्बद्धास्ते त्रयः सदा ॥७८॥
साधुः शीलं क्षमा चेति सम्बद्धास्ते त्रयोऽपि च ।
तथा दाने स्वर्णधेनुभुवो बद्धा हि नित्यशः ॥७९॥
भुक्तिदा मुक्तिदाश्चापि प्रेतोद्धारकरास्तथा ।
स्वर्गदाः पापपुञ्जानां नाशका पुण्यदास्त्रयः ॥८०॥
गोयज्ञात्म गवां दानं पितृयज्ञं तु तर्पणम् ।
सतां यज्ञं भोजनं च दत्वा सौवर्णदक्षिणाम् ॥८१॥
नारायणबलिं कृत्वा नीलपुच्छादितर्पणम् ।
कारयित्वाऽभ्यर्थितस्य दानं प्रेतं प्रमोक्षयेत् ॥८२॥
इत्येवं कथिता लक्ष्मि प्रेतमुक्तिः शुभोद्भवा ।
मोक्षशास्त्रकृतं चापि पारायणं प्रमोचयेत् ॥८३॥
नामसंकीर्तनं चापि ह्यखण्डभजनं मम ।
सतां करजतोयं च मुक्तिदं प्रेतयोनितः ॥८४॥
अवभृथं पवित्रं च स्नानं श्राद्धं शुभे क्षणे ।
साधूनां दर्शनं चापि स्पर्शनं च निदेशनम् ॥८५॥
मुक्तिदं प्रेतयोनेस्तु तीर्थवारिनिषेवणम् ।
यत्र क्वापि गतश्चापि मुच्यते भजनाद्धरेः ॥८६॥
यक्षो वा राक्षसो वापि भूतः प्रेतः पिशाचकः ।
सर्पो वा पशुदेहोऽपि याम्यो वा वायुदेहवान् ॥८७॥
डाकिनी वा शाकिनी वा भूती पिशाचिनी च वा ।
वेतालिनी वा वेतालो यत्र क्वापि गतोऽपि वा ॥८८॥
साधूनां दर्शनं यद्वा प्रसादं श्रीहरेश्च वा ।
लभते वा जलं चापि मुच्यते नात्र संशयः ॥८९॥
सन्तो हि तारका लोके पापानां नाशकास्तथा ।
कल्मषाणां हारकाश्च दिव्यतामोक्षसम्प्रदाः ॥९०॥
गोस्वर्णवह्निदेवेभ्यः श्रेष्ठाः सन्तः सदा रमे! ।
सतां योगो मम योगः सर्वपुमर्थदः खलु ॥९१॥
एकदा पुष्कसो नाम्ना भारुण्डो मद्यपानकृत् ।
मांसादः शीलहीनश्च स्तेनो मृतो वनान्तरे ॥९२॥
याम्यैर्नीतो यमपूर्यां नरकेषु निपातितः ।
तत्पत्न्या तु कृतं तीर्थे गोदानं स्वर्णमल्पितम् ॥९३॥
प्रेतस्य सर्वपापानि दूरीभूतानि तत्क्षणात् ।
प्रेतः स्वर्गं ययौ तूर्णं पापानि सुरभीं ययुः ॥९४॥
सुरभी साऽऽह पापानि नाशयितुं तु वेधसे ।
पुष्कसस्य तु पापानि मयि लग्नानि दानतः ॥९५॥
माया नाशयितव्यानि कुत्र गत्वा पितर्वद ।
श्रुत्वा ब्रह्माऽऽह तां गां च याहि सनत्कुमारकम् ॥९६॥
साधुं शीलव्रतं द्राक् स नाशयिष्यत्यघानि ते ।
श्रूत्वा गत्वा सुरभ्येनं साधुं नेमे तथाऽऽर्थयत् ॥९७॥
पापनाशार्थमेवाऽपि साधुः पादजलं ददौ ।
पपौ सा सुरभी गौश्च नष्टान्यघानि सत्वरम् ॥९८॥
ततः सुरभी ब्रह्माणं प्रययौ संस्कृता सता ।
जगाद श्लोकान् सन्तुष्टा नत्वा श्रीवेधसं गुरुम् ॥९९॥
 'धन्या वै साधवो लोके शीलिनो रागवर्जिताः ।
अमायिका दिव्यरूपाः पापनाशो यदाश्रयात् ॥१००॥
तीर्थानां कामधेनूनां सतीनां च तपस्विनाम् ।
विप्राणां यानि पापानि तानि नश्यन्ति साधुषु ॥१०१॥
पितॄणां च सुराणां च महर्षीणां च योषिताम् ।
देहिनां यानि पापानि तानि नश्यन्ति साधुषु ॥१०२॥
राज्ञां रक्षसां यक्षाणां भूतानां याम्यवासिनाम् ।
असद्गतीनां पापानि नश्यन्त्येव हि साधुषु ॥१०३॥
कामिनां क्रोधिनां चापि लोभिनां मोहिनां तथा ।
घातिनां यानि पाद्यानि तानि नश्यन्ति साधुषु ॥१०४॥
हत्यानां पशुमाराणां क्रूराणां प्राणरोधिनाम् ।
विश्वासहणां पापानि नश्यन्त्येव हि साधुषु ॥१०५॥
गणिकानां पुंश्चलीनां ध्वजिनां चक्रिणां तथा ।
शस्त्रिणां चापि वैद्यानां नश्यन्त्यघानि साधुषु ॥१०६॥
श्रितघ्नानां बालघ्नानामग्निदानां विषादिनाम् ।
विषदानां वनघ्नानां नश्यन्त्यघानि साधुषु ॥१०७॥
इत्युक्त्वा प्रययौ गोष्ठं लक्ष्मि! सुरभी सुव्रता ।
पठनाच्छ्रवणादस्य नश्येयुः पापकोटयः ॥१०८॥
इति श्रीलक्ष्मीनारायणीयसहितायां तृतीये द्वापरसन्ताने गवाराधननामव्रतं गोशकृन्मूत्रयोर्लक्ष्मीवासो गोदानविविधफलानि प्रेतोद्धारकाणि साध्वाश्रयः सर्वोद्धारकश्चेत्यादिनिरूपणनामा द्व्यधिकशततमोऽध्यायः ॥१०२॥

N/A

References : N/A
Last Updated : May 04, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP