संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १७० द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १७० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १७० Translation - भाषांतर श्रीनारायणीश्रीरुवाच-मुक्तिधर्मान् कृष्णकान्त मोहच्छेदनकारकान् ।जीवानामनुकम्पार्थं वदत्रा सर्वसम्मतान् ॥१॥श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं सर्वसखीसमन्विता ।सिद्धिदान् मुक्तिदान् धर्मान् वक्ष्यामि हितकारिणः ॥२॥अक्षरं परमं व्योम सच्चिदानन्दलक्षणम् ।मुक्तिस्थानं परधाम ममाऽस्ति लक्ष्मि वेत्सि तत् ॥३॥मया श्रीकृष्णरूपेण गोलोकः सेव्यते सदा ।राधादिगोपिकावृन्दैः सेवितेन निजात्मना ॥४॥प्रथमं परमंधाम द्वितीयं चाक्षरं पदम् ।गोलोकस्तृतीयं धाम मुक्तिस्थानं ममाऽस्ति तत् ॥५॥वैकुण्ठे तु चतुर्थे वै नारायणो वसाम्यहम् ।लक्ष्म्यादिभिः पार्षदाद्यैः सेवितः परमेश्वरः ॥६॥पञ्चमे वासुदेवोऽहं संकर्षणादिभिः सह ।वसाम्यव्याकृते धाम्नि मुक्तिस्थाने सदा प्रिये ॥७॥षष्ठेऽमृताख्ये लोकेऽहं भूमा नाम्ना वसामि च ।ईश्वराणां न्यायकर्ता महाराजाधिराजकः ॥८॥सप्तमे श्रीपुरधाम्नि वसामि ललितापतिः ।महालक्ष्मीपूजितोऽहं महाविष्णुस्वरूपधृक् ॥९॥येयं श्रीकम्भरालक्ष्मीर्गोपालकृष्णसंयुता ।भूतले वर्तते चाऽद्य माता मे भाग्यशालिनी ॥१०॥अष्टमे प्राकृते धाम्नि मायामये तु पौरुषे ।निवसामि पतिश्चाऽहं प्रकृतेः पुरुषात्मकः ॥११॥महापुरुषरूपस्य मुक्तिस्थानं हि तत्तथा ।सादाशैवं नवमं च नित्यकैलासनामकम् ॥१२॥वैष्णवं दशमं धाम श्रीविष्णुरूपसेवितम् ।वैराजं धाम वै चैकादशं त्वीश्वरकोटिकम् ॥१३॥द्वादशं मात्स्यमेवापि कौर्मं त्रयोदशं तथा ।चतुर्दशं तु वाराहं पश्चदशं तु कापिलम् ॥१४॥षोडशं चापि हारेयं वासुदेवीयकं ततः ।अष्टादशं तु पार्थं वै दात्तात्रेयं ततः परम् ॥१५॥विंशं हंसाश्रितं धामैकविंशं नारसिंहकम् ।आर्षभं द्वाविंशकं च त्रयोविंशं तु वामनम् ॥१६॥चतुर्विंशं पर्शुरामाश्रयं याज्ञं ततः परम् ।रामधाम ततश्चापि सप्तविंशं कुमारवत् ॥१७॥अष्टाविंशं हायग्रीवं नारदं तु ततः परम् ।त्रिंशं तु राजराजाढ्यं व्यासस्य त्वेकत्रिंशकम् ॥१८॥बौद्धं द्वात्रिंशकं त्रयस्त्रिंशं तु मोहिनीश्रितम् ।नापुंसकं चतुस्त्रिंशं तथाऽसंख्यानि चाऽक्षरे ॥१९॥अक्षरस्य प्रदेशेषु सीमस्वेतानि सन्ति वै ।बहूनि मे स्वरूपाणि चावतारास्तथा रमे ॥२०॥अनन्ताश्च ततो धामान्यप्यनन्तानि सन्ति मे ।भक्तानां भावनापूर्त्यै कृतानि तानि तत्तथा ॥२१॥मुक्तिस्थानानि सर्वाणि यथाभक्ति यथास्थिति ।प्राप्यन्ते मानवैस्तान्युपासनाबलिभिः प्रिये ॥२२॥एवमन्यानि लोकेऽत्र भवन्ति च बहून्यपि ।जलावरणवैकुण्ठं सत्यं धामाऽपि वेधसः ॥२३॥बदर्याश्रममेवाऽपि नरनारायणस्य मे ।ततःस्थानं शुभं मुक्तिप्रदं लौकिकमुक्तिदम् ॥२४॥श्वेतद्वीपाभिधं धाम निरन्नमुक्तसेवितम् ।शेषे यत्राऽहमेवाऽऽस्से लक्ष्मीरेवादिसेवितः ॥२५॥चान्द्रं स्थानं तथा सौरं स्थानं मे यत्र राजते ।मूर्तिर्हिरण्मयी दिव्या वह्नौ चापि तथा स्थिता ॥२६॥कौबेरं चापि याम्यं च मारुतमैन्द्रमित्यपि ।ऐशानं चापि कैलासं शैवं च वारुणं जले ॥२७॥मेरौ स्थानान्यसंख्यानि मुक्तितुल्यसुखानि वै ।पातालेषु तथा सन्ति स्थानानि सुखदान्यपि ॥२८॥ऐहिकमुक्तियोग्यानि भवन्ति तानि पद्मजे ।सान्तानि तानि सर्वाणि ब्रह्माण्डस्थानि यानि वै ॥२९॥चिरस्थसुखदान्येव मुक्तितुल्यानि सन्ति हि ।ऐश्वराण्यपि धामानि सान्तानि प्रलये खलु ॥३०॥प्राकृतानि समस्तानि नाशयोग्यानि तानि हि ।चिरमुक्तिप्रशस्तानि भवन्ति मम वाञ्च्छया ॥३१॥विनाऽक्षरपदं लक्ष्मि बृहद्धाम विनाऽपरे ।लोकाः स्थानानि दिव्यानि काशन्तेऽन्तर्भवन्ति च ॥३२॥परब्रह्मस्वरूपोऽहं यदा भवामि योगवान् ।राधायुक्तो रमायुक्तस्तदा धामानि मत्कृते ॥३३॥सर्वाण्याविर्भवन्त्येव ब्रह्मतोऽक्षरधामनि ।ब्रह्मात्मकानि सर्वाणि ब्रह्मान्तानि हि पद्मजे ॥३४॥क्वचिच्चाऽक्षरधामाऽपि मयि सर्वं विलीयते ।परधामस्थितेऽनादिपरब्रह्मणि स्वामिनि ॥३५॥परधाम सदा मेऽस्ति यतोऽक्षरादयो मुहुः ।आविर्भवन्ति काशन्ते मुक्तानां कोटयोऽपि च ॥३६॥ममाऽऽश्रिताश्च वा ये तु ममाऽवतारमाश्रिताः ।ममेश्वरानाश्रिता वा मम मूर्तिमुपाश्रिताः ॥३७॥ममांऽशानाश्रिता ये वा मद्विभूतिमुपाश्रिताः ।मत्साधूनाश्रिता ये वा मच्छक्तिं समुपाश्रिताः ॥३८॥मद्भक्तिध्याननिरता मम सेवापरायणाः ।मत्साधुसेवने सक्ता मत्साध्वीसेवने तथा ॥३९॥मत्कलामाश्रिता ये वा मदावेशमुपाश्रिताः ।मद्वंशमाश्रिता ये च मम पत्नीरुपाश्रिताः ॥४०॥मदर्थमात्मसर्वस्वनिवेदित्वमुपाश्रिताः ।ते सर्वे मम मार्गस्था मम मार्गमुपाश्रिताः ॥४१॥मम मार्गे प्रवृत्ताश्च मम मार्गे प्रगामिणः ।मम स्नेहभराः सर्वे मम सान्निध्यमागताः ॥४२॥मम मुक्तिं प्रयान्त्येव मया मद्धाम प्रापिताः ।क्रममार्गाधिरूढास्ते प्रयान्ति परमं पदम् ॥४३॥मानवाः ऋषयो देवाः पितरो मुनयस्तथा ।सन्तः सिद्धाः सत्पुरुषाः सत्यः साध्व्यः पतिव्रताः ॥४४॥आत्मनिवेदिनो ये च वैष्णवा मत्सुयोगिनः ।तेषामाश्रयमाप्ता ये ते सर्वे क्रमशः खलु ॥४५॥मदंशोपासनाशक्त्या मामेष्यन्ति शनैः शनैः ।मुक्तिधर्मः क्रमवाँश्च पुष्टो भवति तैरिह ॥४६॥साक्षान्मां ये चाश्रयन्ति वेदसंहितया विदः ।तेषां क्रमं विना प्राप्तिर्धाम्नः पुरस्य मे भवेत् ॥४७॥एवं वै बहवो याता मामुपाश्रित्य मत्पदम् ।मत्स्वरूपोपासकास्तु क्रमाद् यास्यन्ति मत्पदम् ॥४८॥एवं लक्ष्मि मया लोके मुक्तिमार्गः कृपाकृतः ।तं सृत्वा लंघयिष्यन्ति भवाऽरण्यं ममाश्रिताः ॥४९॥एकदाऽश्वपट्टसरस्तटे श्रीमानसो मुनिः ।निषण्णो ब्रह्मवृक्षाऽधो भूतले प्रजपन् हरिम् ॥५०॥ददर्श योगिपुरुषं ज्ञानविज्ञानपारगम् ।सर्वतत्त्वार्थकुशलं सुखदुःखविवेकिनम् ॥५१॥जातिस्मरं पुण्यपापकोविदं चात्मवेदिनम् ।ज्ञातारं च गतीनां वै कर्मणां देहिवर्तिनाम् ॥५२॥चरन्तं मुक्तवत् सिद्धं प्रशान्तं च जितेन्द्रियम् ।दीप्यमानं श्रिया ब्राह्म्याऽन्तर्धानविद्यावेदिनम् ॥५३॥तथाऽदृश्यैर्भागवतैर्भक्तैर्यान्तं शनैरनु ।श्रीमानसः समुत्थाय योगिनं प्राणमत् पुरः ॥५४॥स्वागताद्यैश्चिदानन्दाभिधं तं पर्यतोषयत् ।भावेन श्रद्धया भक्त्या सेवया तुष्ट एव सः ॥५५॥चिदानन्दः समुवाच योग्यं श्रीमानसं मुनिम् ।शृणु साधो कृपयाऽत्र वदामि कृष्णप्रेरितः ॥५६॥कृष्णस्यैव जगत् सर्वं कृष्णार्थं परिकल्पितम् ।कृष्णार्थं योजितं सर्वं मुक्तये दिव्यताप्तये ॥५७॥कृष्णं विहाय चाऽन्यस्मै योजितं लौकिकाप्तये ।लौकिकाप्तिप्रदं स्यात्तन्न तु शाश्वतमुक्तये ॥६८॥विविधैः कर्मभिर्लोकाः पुण्ययोगैश्च केवलैः ।प्रयान्त्येव शुभां मर्त्या देवलोकादिसंस्थितिम् ॥५९॥न तत्र सुखमत्यन्तं न तत्र शाश्वती स्थितिः ।स्थानात्तु महतो भ्रंशो दुःखलब्धात् पुनः पुनः ॥६०॥अशुभा गतयः प्राप्तास्तादृश्यश्च मया त्वया ।पुरा बह्व्यो निपातान्ताः कष्टाः पापाभिसंभृताः ॥६१॥कामक्रोधमहामोहतृष्णारागादिसंभृताः ।यत्र मुहुर्हि मरणं मननं यत्र वै मुहुः ॥६२॥आहारा विविधा भुक्ताः पीताः स्तना असख्यकाः ।मातरो विविधा दृष्टाः पितरोऽपि पृथग्विधाः ॥६३॥सुखानि च विचित्राणि नराणां योषितां तथा ।दुःखान्यपि विचित्राणि रोदनानि बहून्यपि ॥६४॥वक्षःकुट्टानि बहुधा कृतानि तत्र तत्र च ।शिरस्ताडनमेवाऽपि चाऽऽत्मघाता ह्यनेकधा ॥६५॥प्रियैर्विवासा बहुधा संवासाश्चाऽप्रियैः सह ।दुःखाप्तानां सञ्चितानां धनानां नाशनानि च ॥६६॥अवमानाः सुकष्टाश्च नृपेभ्यः स्वजनादितः ।शारीरा मानसा वापि वेदनाश्चातिदारुणाः ॥६७॥तिरस्काराश्चोग्ररूपा वधा बन्धाश्च दारुणाः ।पारवश्यातिकष्टानि रोगकष्टानि वै तथा ॥६८॥यातना यमजाश्चापि निरये पतनान्यपि ।जन्मरोगाश्च बहवो जरारोगाश्च दारुणाः ॥६९॥व्यसनानि समस्तानि त्रासदानि मुहुर्मुहुः ।लोकेऽस्मिन्ननुभूतानि द्वन्द्वजानि मया त्वया ॥७०॥त्वयाऽनादिकृष्णयोगात् त्यक्तं जालं हि मानसम् ।दैहिकं च सदा त्यक्तं श्रीहरौ परमात्मनि ॥७१॥सुखी चाऽऽस्सेऽत्र परमे पावने चरणे हरेः ।अश्वपट्टसरक्षेत्रे मोक्षदे दिव्यमुक्तवत् ॥७२॥अहं विचार्य च सर्व परं वैराग्यमाप्तवान् ।अनादिश्रीकृष्णनारायणपादमुपाश्रितः ॥७३॥लोकतन्त्रं त्यक्तवाँश्च दुःखार्त्तः साधुवृत्तिमान् ।सर्वं दुःखं चाऽनुभूय त्विमं मार्गमनुष्ठितः ॥७४॥ततः सिद्धिमवापाऽपि प्रसादात्परमात्मनः ।अथाऽहं श्रीकृष्णनारायणश्रीवल्लभं प्रभुम् ॥७५॥दृष्ट्वा नत्वा पूजयित्वा प्रयामि परमं पदम् ।नाऽहं पुनरिहाऽऽगन्ता तीर्थं कृत्वा प्रयाम्यहम् ॥७६॥त्वां दृष्ट्वा च पुनः सिद्धिर्दिव्या मेऽत्र व्यजायत ।आसिद्धेराप्रजासर्गादात्मनोऽपि गतीः शुभाः ॥७७॥नोपलब्धाऽस्म्युत्तरे वै तथेयं सिद्धिरुत्तमा ।शुभं सर्वं मया न्यस्तं नारायणे परात्मनि ॥७८॥न मे ततः शुभं चापि भोक्तव्यमवशिष्यते ।इतः परं गमिष्यामि श्रीहरेः परमं पदम् ॥७९॥परब्रह्मपदं श्रेष्ठं मा ते भूदत्र संशयः ।नाऽहं पुनरिहाऽऽगन्ता सृष्टिलोकं हि दुखदम् ॥८०॥त्वां दिव्यं तु परं भक्तं दृष्ट्वा गुरोर्हरेरिह ।प्रीतोऽस्मि ते चात्मवेदिन् ब्रूहि किं करवाणि ते ॥८१॥कालोऽयं विद्यते शुभ्रो भक्तेऽर्पयितुं मानसम् ।आत्मनिवेदिभक्तस्य सेवया सर्वमाप्यते ॥८२॥प्रसादेन महामुक्तिराप्यते नाऽत्र संशयः ।यथा त्वं स्याः प्रसन्नोऽत्र तथा सेवां प्रदर्शय ॥८३॥भृशं प्रीतोऽस्मि भवतो भक्त्योपासनया हरेः ।परिपृच्छस्व भाषेयं सर्वं यत्तव वाञ्च्छितम् ॥८४॥बहु मन्ये च ते भक्तिं भृशं त्वां पूजयामि च ।येनाऽहं कृतकृत्योऽस्मि किं ददामि द्रुतं वद ॥८५॥इत्युक्तः श्रीमानसोऽपि प्रपूज्य तं सुवस्तुभिः ।चिदानन्दं दिव्यजनं पप्रच्छ बहुधामतिम् ॥८६॥कथं देहः क्षयमेति कथं देहः प्रपद्यते ।कथं देही संसरँश्च संसारात्परिमुच्यते ॥८७॥कथं माया लीयते च कथं मायां प्रपद्यते ।एकं देहं परित्यज्य कथमन्यं प्रपद्यते ॥८८॥कथं निजाऽर्जिते चात्मा शुभाशुभे भुनक्ति च ।शुभाऽशुभे प्रभुक्त्वा च कथं ब्रह्माऽभिपद्यते ॥८९॥विदेहस्याऽस्य जीवस्य कर्म क्व वा प्रतिष्ठति ।कर्मणां फलनाशार्थं कस्याऽऽश्रय उपास्यते ॥९०॥कथं केन प्रतापेन दिव्यताऽत्र समर्थ्यते ।कथं वा नित्यमुक्तत्वं कथं वाऽक्षरवासिता ॥९१॥कथं सारूप्यमेवाऽपि भवेत्तानि निरूपय ।इत्येवं लक्ष्मि पप्रच्छ चिदानन्दं हि मानसः ॥९२॥चिदानन्दस्तु कृपया स्मृत्वा मां परमेश्वरम् ।सर्वान् प्रश्नान् यथायुक्तान् विचार्योत्तरमाह ह ॥९३॥इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने मुक्तिधर्मेषु विविधधाम्नां निर्देशः श्रीमानसचिदानन्दयोगिनोर्मिथः प्रश्नाश्चेत्यादिनिरूपणनामा सप्तत्यधिकशततमोऽध्यायः ॥१७०॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP