संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १७१ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १७१ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १७१ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-एवं सम्प्रेरितश्चिदानन्दो योगी प्रतापवान् ।श्रीमानसं सर्वप्रश्नोत्तराण्याह क्रमाद् रमे ॥१॥आनुपूर्व्येण कमले तानि मे गदतः शृणु ।आयुःकराणि कर्माणि यावद् देही प्रसेवते ॥२॥तावदायुःप्रसन्धानं चेहैव जायतेऽग्रगम् ।पुण्यं सभाजनसेवा साधुसेवा शुभाशिषः ॥३॥दानंदमश्चेन्द्रियाणां ब्रह्मचर्यं तपः शुभम् ।योगाभ्यासो भजनं च सर्वाण्यायुःकराणि वै ॥४॥वह्निसेवौषधसेवाऽप्यहिंसा घृतभोजनम् ।विघसाशित्वमित्येतान्यायुर्वृद्धिकराणि वै ॥५॥सतीतीर्थं मातृतीर्थं धर्मतीर्थं सुरार्चनम् ।अरागित्वं ह्यभोगित्वं चैतान्यायुःकराणि वै ॥६॥ऋष्यर्पणं तथा देवार्पणं कृष्णार्पणं तथा ।नित्यमुक्तार्पणं ब्रह्मार्पणं चायुःकराणि वै ॥७॥स्वर्गिणा सह मैत्री च रवर्गाऽऽयुःसम्प्रदा भवेत् ।एवमायुर्यशोदातृ सेवते कर्म भाग्यवान् ॥८॥आयुःक्षयपरीतात्मा विपरीतानि सेवते ।बुद्धिर्व्यावर्तते तस्य विनाशे समुपस्थिते ॥९॥बलं शक्तिं समाश्रित्य गर्वं चाप्यभिमानकम् ।अत्यन्तं भोगमादत्ते विरुद्धमप्यनात्मवान् ॥१०॥निषेवतेऽतिकष्टानि भुंक्तेऽधिकानि शक्तितः ।दुष्टान्नामिषपानानि विरुद्धानि मिथो गुणे ॥११॥भुंक्तेऽमितानि गुरूणि ह्यजीर्णेऽपि पुनः पुनः ।बलातिरेकं व्यायामं व्यवायं चातिसेवते ॥१२।सततं धनलोभाच्च भारवाहित्वमृच्छति ।वेगवाहो भवत्येव नितरां जयकांक्षया ॥१३॥विकृतैश्च रसैर्युक्तमन्नमत्यश्नुते जने ।मूत्रमलादिवेगं च रुणद्धि कर्मपाशितः ॥१४॥योग्यां निद्रां सेवते न दिवा निद्रां प्रसेवते ।आदत्ते चाऽप्यपक्वाँश्च रसान् रसनयाऽऽहतः ॥१५॥रोगव्याधिमयो भूत्वा देहक्षयं प्रविन्दति ।अतिरुग्णोऽप्यनुत्साहः पराजितोऽतिकष्टकैः ॥१६॥धैर्यं विहाय सहसा मरणाभिमुखो भवेत् ।अपि चेद्बन्धनादीनि विपरीतानि विन्दते ॥१७॥एवंविधैर्विपरीतैः शरीरं च्यवते द्रुतम् ।उष्मारुद्धः कूपितश्च वायुना चातिवेगिताः ॥१८॥बन्धान् विच्छिद्य सहसा प्राणान् क्षिपति कोष्ठलात् ।भिनत्ति मर्मस्थानानि जीवस्वास्थ्यकराण्यपि ॥१९॥ततः सद्यो ज्ञाननाशे जीवः प्रच्यवते स्थलात् ।क्षरं देहं त्यजत्यत्र स्थूलं सूक्ष्माभिसंवृतः ॥२०॥जातिमरणसंविज्ञः पुनश्चान्यत्र याति हि ।अन्ये पश्यन्ति तं यान्तं त्यजन्तं स्थूलवर्ष्म च ॥२१॥तथापि नैव वैराग्यं लभन्ते न भजन्ति माम् ।म्रियन्ते तत्तथैवैते त्यजन्ति सर्वमत्र च ॥२२॥लभन्ते मरणे पीडां मर्मणां घातनादिषु ।गर्भसंक्रमणे चापि लभन्ते वेदनां तथा ॥२३॥जन्मकृतां देहकृतां पुनर्मरणयोजिताम् ।लभन्ते वेदनां जीवाः पारस्तस्या न विद्यते ॥२४॥यदा देहं जहात्येव निरुच्छ्वासश्च दृश्यते ।स निरूष्मा निरुच्छ्वासो निःश्रीको हतचेतनः ॥२५॥मया च ब्रह्मणा त्यक्तो मृतात्मेत्युच्यते तदा ।स्रोतोभिर्यैर्विजानाति चेन्द्रियार्थान् शरीरभृत् ॥२६॥तेषां प्राणनिरोधेन स्रोतसां प्रलयो भवेत् ।स्रोतसां मर्मवासानां भिन्नेषु मर्मसु प्रियः ॥२७॥अप्रियो जायते गच्छन् नाभिजानाति किञ्चन ।प्राणयुक्तः सूक्ष्मदेहसहितस्त्रिरुच्छ्वस्य च ॥२८॥निष्क्रामन् कम्पयत्याशु स्थूलं मनागचेतनम् ।कायात् प्रच्युत एवाऽसौ कर्मभिः स्वैः समावृतः ॥२९॥अमितैः पापकैः पुण्यैः सहितः सूक्ष्मदेहवान् ।प्रयाति गतिमन्यां स त्रेधा क्लृप्तां यथाकृताम् ॥३०॥पुण्यपापसमप्राप्तां गतिं प्रयाति मानवीम् ।इहैवोच्चावचान् भोगान् प्राप्नोत्येव स्वकर्मभिः ॥३१॥अशुभैः कर्मभिर्लोका ह्यर्वाग्गतिं प्रयान्ति वै ।निरये यत्र पच्यन्ते कर्मफलैः प्रयान्ति तम् ॥३२॥पुण्यभाजस्तूर्ध्वगतिं तारामयीं प्रयान्ति ह ।चन्द्रमण्डलमेवाऽपि सूर्यमण्डलमित्यपि ॥३३॥एवमाद्यानि रम्याणि भुक्त्वा पुण्यक्षये पुनः ।च्यवन्ते पृथिवीं यान्ति पुनर्जन्म पुनर्मृतिम् ॥३४॥पुनः स्वर्गं वा नरकं प्रयान्ति कर्मयोजिताः ।न च स्वर्गेऽपि सन्तोषो दृष्ट्वा दीप्ततमां श्रियम् ॥३५॥नीचोच्चमध्यमा देवाः स्पृहयन्ति हरन्ति च ।विचार्येत्थं बुद्धिमाँस्तु सूक्ष्मं देहं हरौ प्रभौ ॥३६॥कृत्वाऽर्पणं प्रयात्येव दिव्यो भूत्वाऽक्षरं पदम् ।नेत्रं नेत्रस्य वृत्तिं च गोलकं देवतां तथा ॥३७॥विषयं रूपमेवापि ज्ञानं बोधं च वेदिताम् ।मननं निर्णयं चाभिमतिं भोगं समस्तकम् ॥३८॥तथाऽऽत्मानं च संस्कारान् स्मरणं चापि केशवे ।आत्मनिवेदितं सर्वनिवेदितं विधाय च ॥३९॥सूक्ष्मं देहं तथा दिव्यं विधाय वा विहाय च ।संयोगं प्रकृतेस्त्यक्त्त्वा ब्रह्मयोगं निधाय च ॥४०॥वासनां सर्वथा दग्धा मम भावनया रमे ।प्रयात्येव परब्रह्म मां हरिं पुरुषोत्तमम् ॥४१॥एवं देहत्रयं त्यक्त्वा लभते ब्रह्मशाश्वतम् ।सर्वगन्धादिविषयान् बहिःस्रोतांसि सर्वथा ॥४२॥अन्तःस्रोतांसि तद्वच्च फलं भोगं तथा मयि ।सर्वं न्यस्य त्रिकं त्यक्त्वा याति मां परमेश्वरम् ॥४३॥कर्मक्षये स्थूलदेहक्षयो भवति पद्मजे ।पुण्याऽपुण्यक्षये सूक्ष्मदेहक्षयः प्रजायते ॥४४॥ब्रह्मानन्दप्रवाहेण वासनाक्षय एव च ।वासना लिंगदेहोऽयं मम भावेन लीयते ॥४५॥अज्ञानाख्यकारणस्य देहस्य विलयोऽपि च ।शृणु देहस्य वै प्राप्तिरात्मनस्तु यथा भवेत् ॥४६॥सच्चिदानन्दरूपस्याऽदेवस्याऽदेहिनस्तथा ।कारणैर्विविधैर्लक्ष्मि देहयोगः प्रजायते ॥४७॥आत्माऽयं स्वच्छदिव्योऽस्ति स यत्राऽऽस्तेऽक्षरेऽथवा ।अक्षरस्य प्रदेशे वा सीम्नि मायार्थसन्निधौ ॥४८॥सन्निधिधर्ममादत्ते स्फटिकवत् स्वभावतः ।त एव धर्मा पारक्याः पारक्यैर्याति वाच्यताम् ॥४९॥काशप्रवृत्तिनियमा मायाधर्मा भवन्ति तान् ।लब्ध्वा प्रकाशितश्चाऽहं प्रवृत्तो नियमान्विताः ॥५०॥इत्येवं मनुते चात्मा मायातत्त्वादिवृत्तिभिः ।निर्णयं चाभिमानं वा चिन्तनं मननं च वा ॥५१॥मायाप्रभात्मकं नैजप्रभात्मकं स वेत्ति वै ।वेदनं नैजमेवाऽपि मिश्रं मायाप्रभात्मकम् ॥५२॥मिश्रणं चाऽस्य भ्रान्तिश्चाऽविद्याऽज्ञानाऽभिधं हि तत् ।तेन प्रवर्तते चात्मा पुण्यपापात्मकर्मसु ॥५३॥शुभाऽशुभानि जायन्ते कर्माणि माययाऽस्य तु ।शुभाऽशुभानां लेपश्च जायतेऽस्य प्रवेदने ॥५४॥ज्ञाने लेपात्तत्प्रजन्यसंस्कारेष्वपि लेपिता ।संस्कारे धर्मरूपे यो लेपः स स्वच्छरूपिणि ॥५५॥आधारे जायते जीवे तैर्जीवः संसरत्यपि ।स्वेष्टभोगादिलब्ध्यर्थं सूक्ष्मयुक्तोऽपि चेहते ॥५६॥तेन सूक्ष्मैः समेतोऽयं लभते स्थूलभौतिकम् ।स्थूलं जाड्यं समासाद्य स्थूलैः पक्वोऽतिजाड्यवान् ॥५७॥स्थूलभावैर्भोगवाँश्च कर्मलुब्धो भवत्यसौ ।प्राप्य प्राप्य च कर्माणि क्षेत्रं क्षेत्रं पुनः पुनः ॥५८॥भुंक्ते भोगान् भोगमयान् भाग्यसंस्कारदान् पुनः ।लभते च फलं दीर्घं चिरसेव्यं च तैस्ततः ॥५९॥अनेकजन्मभोक्तव्यं चाऽक्षयं लभते फलम् ।एवं लक्ष्मि ह्यसंगोऽपि चाऽऽकर्षणस्वभावतः ॥६०॥आकृष्य चान्यधर्मान् स स्वाराज्यं स्थापयत्यपि ।अराजा च बली राज्यमाहृत्य राज्यवान् यथा ॥६१॥तथाऽयं जायते देही समाकर्षणयोगवान् ।अमायोऽपि मायिकोऽयं जायते न निवर्तते ॥६२॥गाढाद् गाढतरं भावं प्रपद्यते न मुच्यते ।चर्मकारो यथा कुण्डं दुर्गन्धं ह्यपि नोज्झति ॥६३॥चर्मोल्बावृत एवाऽसौ दुष्टं देहं न मुञ्चति ।शुभं तथाऽशुभं कर्म मिश्रं वाऽयं प्रपद्यते ॥६४॥यथा प्रसूयमानस्तु फली दद्यात् फलं बहु ।तथाऽस्य स्याद् बहु पुण्यं सत्त्वेन मनसा कृतम् ॥६५॥पापं चापि तथा चैति पापेन मनसा कृतम् ।मनोयुतस्ततश्चाऽयं महालसः प्रवर्तते ॥६६॥मनोभृत्यो यथा चास्मै ददाति भुंक्त एव सः ।पुनश्चेच्छति भोगांश्च तावदायुर्निवर्तते ॥६७॥कामनाप्रेरितश्चाऽयं गर्भवासे प्रणीयते ।मनसा पुण्यपापैश्च गर्भे स्वपिति निर्बलः ॥६८॥शुक्रं शोणितसंसृष्टं कललं देहपूर्वजम् ।गर्भाशये समाप्नोति शुभाशुभादिसदृशम् ॥६९॥कश्चिद् विशति कलले पूर्वकर्मानुसारतः ।कश्चिद्विशति बुद्बुदे स्वस्य कर्मानुसारतः ॥७०॥कश्चिद्विशति मांसे च कश्चित् पेश्यां स्वकर्मतः ।कश्चित् करण्डे विशति कश्चिदंगाढ्यपुत्तले ॥७१॥कश्चित् प्रत्यंगमूर्तौ च कश्चिद् भ्रूणे विशत्यपि ।पूर्वकर्मानुसारेण द्रुतं वा यदि वा चिरम् ॥७२॥प्रसूनालप्रपुष्टे वै कालेनोष्ण्यादिपोषिते ।सप्राणे पुत्तले जीवो विशत्येव स्वकर्मतः ॥७३॥सौक्ष्म्यादव्यक्तभावाच्च जीवः सूक्ष्मशरीरवान् ।विशत्येवाऽऽन्तरक्लृप्ते कर्मणा तत्र सज्जते ॥७४॥तत्र ब्रह्म महच्चास्ते बीजस्यापि प्ररक्षकम् ।बीजबीजं परब्रह्म निवसामि सहाऽप्यहम् ॥७५॥कर्ता कारयिता पोष्टा धाताऽविता निभालकः ।साक्षी चाऽसंगवान् तस्य कर्मफलप्रदायकः ॥७६॥सर्वेषां देहिनां चाहं बीजबीजः सनातनः ।आपूरकाणां तत्त्वानां प्रेरयिता वसामि च ॥७७॥प्राणेन्द्रियादिजीवातुर्मया जीवन्ति जन्तवः ।स जीवः सर्वगात्राणि गर्भस्याऽऽविश्य वै तदा ॥७८॥दधाति प्रज्ञया सद्यः प्राणाधारे व्यवस्थितः ।तेन स्पन्दयतेऽङ्गादि सजीवोऽयं निगद्यते ॥७९॥यथा स्वर्णद्रवः स्वल्पः कृत्स्नां ताम्रस्य पुत्तलीम् ।करोति वै स्वर्णमयीं तथा जीवमयीं तनुम् ॥८०॥करोति चेतनश्चाऽयमिदं जीवप्रवेशनम् ।यथा वह्निर्लोहपिण्डे प्रविश्य स्वस्वरूपयेत् ॥८१॥तथा जडे प्रविश्याऽयं चैतन्येन निरूपयेत् ।यया गृहे प्रदीपोऽपि दीप्यमानः प्रकाशते ॥८२॥एकस्थानस्थितश्चापि स्वं चान्यं प्रति काशते ।एवं हृत्स्थोऽपि पुरुषस्त्रिदेहं प्रति काशते ॥८३॥पूर्वकृतं गर्भयोग्यं तत्रोल्बे भुंक्त आ नव ।दशमे कर्मणां तत्र पूर्वस्य जन्मनस्तथा ॥८४॥ज्ञानं प्रजायते चापि ततो बहिः प्रयाति सः ।गर्भकर्म क्षयं प्राप्तं बाल्यकर्म समागतम् ॥८५॥भोगार्थं तेन वशगो बालो भुंक्ते कृतं निजम् ।अथ युवा जायमानो निसर्गविषयेच्छुकः ॥८६॥प्रवर्ततेऽतिविषये पापं पुनः प्रजायते ।निवर्तते विषयेभ्यः पुण्यमस्य प्रजायते ॥८७॥दानं व्रतं ब्रह्मचर्यं सेवा ब्रह्मप्रधारणम् ।दमः शान्तिर्दया तीर्थं व्रतं च संयमो यमः ॥८८॥व्यलीकाऽनाचरणं च परस्वानां विवर्जनम् ।मातापित्रोश्च शुश्रूषा देवताऽतिथिपूजनम् ॥८९॥गुरुपूजाऽप्यहिंसा च शौचमिन्द्रियनिग्रहः ।शुभानां चाचरणं च सतां वृत्तेन वर्तनम् ॥९०॥एतानि यदि कुर्वीत धर्मः पुष्टः प्रजायते ।धर्मः संरक्षितश्चैनं पाति वंशं तथा दिवम् ॥९१॥सतां सेवां प्रकुर्वीत कुर्यात् सत्सु ध्रुवां स्थितिम् ।आचारं पालयेत् सर्वं यत्र शान्तिर्निरन्तरा ॥९२॥एनं धर्मं पालयेद् यो न स दुर्गतिमाप्नुयात् ।उदयं लभते नित्यं धर्मस्य चेतनस्य च ॥९३॥आचारा नियमा उक्ता अभ्युदयार्थमेव ह ।एवं नियम्यते लोको गुरुभिः शास्त्रवेदिभिः ॥९४॥नियमे वर्तमानश्च देही योगी भवेदिह ।विषविद्याविदं नैव विषं स्पृशति वै तथा ॥९५॥नियमे वर्तमानं संसारः स्पृशति नैव ह ।योगे स्थितं न स्पृशति माया कर्म फलानि च ॥९६॥योगी मुक्तो जीवन्मुक्तो भूत्वा देहात्प्रमुच्यते ।सर्वलोकेषु योगस्थो मुक्तो देही विशिष्यते ॥९७॥गुरुः स मोक्षदो लोके संगहीनो यतो हि सः ।शुभं चेद् धर्ममार्गेण समर्जितं तु देहिना ॥९८॥शुभभोगोत्तरं यद्वा कालेन महताऽथवा ।संसारात्तरणं चास्य साधुयोगेन संभवेत् ॥९९॥पापभोगोत्तरं यद्वा पशुपक्ष्यादिजन्मसु ।सतां योगेन सहसा पापनाशः प्रजायते ॥१००॥यानवाहनछायादौ पत्रपुष्पादियोगतः ।सतां सेवाप्रसंगेन पुण्यमस्य प्रजायते ॥१०१॥ततः सज्जन्मना प्राप्तिः स्वर्गस्य वा परस्य वा ।ततश्चैश्वरलोकस्य ततो मोक्षं प्रयाति वा ॥१०२॥एवं लक्ष्मि कृतं प्राप्तं भुक्त्वा कर्म प्रमुच्यते ।पुरा सृष्टौ ममैवादेशतः पुमान् ह्यजायत ॥१०३॥शरीरमात्मनः कृत्वा स त्रैलोक्यं समसृजत् ।स्थावरं जंगमं चेति प्रकृतिं त्रिगुणात्मिकाम् ॥१०४॥मम मायास्वरूपां च सृष्ट्वा पुंसे तदा ददौ ।प्रकृतिः सा शरीराणां यया व्याप्तमिदं जगत् ॥१०५॥मायाशबलः पुरुषः प्रधानं चासृजत् ततः ।पुंयोगेन प्रधानाच्च तत्त्वानि विविधानि वै ॥१०६॥हिरष्मयस्वरूपाणि ह्यजायन्त ततो विराट् ।ततो ब्रह्मा ततो देवा मानवाद्या इमाः प्रजाः ॥१०७॥मायामयमिदं सर्वं क्षरं तत्परमक्षरम् ।अमृतं धाम च तदूर्ध्वं परंधाम मे स्थितम् ॥१०८॥मयाऽऽदिष्टा ईश्वरास्तु सृष्टिमीश्वरकोटिकाम् ।असृजन् तत्समीक्ष्याऽपि ब्रह्माऽसृजच्चतुर्विधान् ॥१०९॥तेषां कालपरिमाणं विधाय च पितामहः ।सर्जनं प्रलयं चाप्यकल्पयत् सुखहेतवे ॥११०॥सुखं तु दुःखसम्मिश्रं कायममेध्यमित्यपि ।देहाः सर्वे नाशमुखाः संसारो घोरकष्टदः ॥१११॥जातिमरणयोगाढ्यो दुस्तरोऽतिविडम्बिभिः ।असंगैः सुजयश्चापि सतां संगयुतैरपि ॥११२॥निर्विद्यन्ते विवेकैश्च मार्गमाणाः परंपदम् ।त एव प्राप्तमेतद्वै वर्ष्म त्यक्त्वा प्रयान्ति वै ॥११३॥इत्येतत् कथितं लक्ष्मि तेऽत्र देहस्य मोक्षणम् ।यथा च देहलब्धिश्च मोक्षप्राप्तिर्यथा च तत् ॥११४॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने मुक्तिधर्मेषु देहक्षयकारणानि देहप्राप्तिकारणानि देहान्मुक्तिकारणानि चेत्यादिनिरूपणनामा एक-सप्तत्यधिकशततमोऽध्याय ॥१७१॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP