संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १२२ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १२२ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १२२ Translation - भाषांतर श्रीनारायणीश्रीरुवाच-परमेश कृपासिन्धो महालक्ष्मीजनिं शुभाम् ।प्राकट्यं च निमित्तं च वैभवं मण्डलानि च ॥१॥श्रुत्वा श्रुत्वा प्रहृष्यामि पुत्र्यां स्पृहयते मनः ।धन्या सा जननी यस्याः सुता त्वेतादृशी भुवि ॥२॥यद्गृहे परमेशानी महालक्ष्मीर्विराजते ।महालक्ष्मीसमा पुत्री केन पुण्येन लभ्यते ॥३॥व्रतेनाऽऽराधनेनापि सेवया वा जपेन वा ।दानेन तपसा यज्ञैः किंवा भक्त्या हि मे वद ॥४॥श्रीपुरुषोत्तम उवाच-शृणु लक्ष्मि बहून्यत्र कारणानि भवन्ति वै ।प्रागदत्वेह केनापि लभ्यते नहि किञ्चन ॥५॥कर्मबन्धातुयोगेन लभ्यन्ते सुतपुत्रिकाः ।कर्मतन्तुप्रवाहोऽयं लोको वंशानुवंशवान् ॥६॥पिता पुत्रस्वरूपो वै जायतेऽणोर्निजात्मकात् ।माता पुत्रीस्वरूपा च जायतेऽणोर्निजात्मकात् ॥७॥पूर्वं येन प्रदत्तं वै कन्यादानं तु तस्य वै ।सत्पुण्यप्रेरिता यत्र क्वापि प्रजायतेऽपरा ॥८॥बालिका स्वं भवत्येव बालकोऽन्यत्र प्राक् तथा ।तयोर्विवाहो लोकेऽत्र भार्या सा विधिना भवेत् ॥९॥एवं कन्योद्भवो लक्ष्मि पतिपुण्येन जायते ।पत्युः ऋणं श्वशुरस्य श्वश्र्वाश्च प्राग्भवं भवेत् ॥१०॥तेनर्णेन भवेत् कन्या वर्धिता दीयते ततः ।एवं पारक्यमेवापि धनं कन्या निगद्यते ॥११॥ऋणानुबन्धा पुत्रीयं कथिता ते रमे! त्विह ।प्रायशः संभवन्त्येव पत्युः ऋणं हि कन्यकाः ॥१२॥दातुर्दानफलं स्याद्वै पत्युः प्रागर्पितस्य तत् ।दातैव फलभोक्तेति भोक्ता दाता पुरा मतः ॥१३॥येन राज्ञा हि दीयन्ते कन्यादानानि सद्व्ययैः ।येषां केषामपि लक्ष्मि! कन्यानां लग्नकानि वै ॥१४॥धनव्ययैः कारयन्ति दापयन्ति हि कन्यकाः ।राजानस्ते त्विह लोके बहुस्त्रीका भवन्ति हि ॥१५॥यद्वा स्वर्गे बहुस्त्रीको भवत्येव सुरो महान् ।बह्वीभिरप्सरोभिश्च सेव्यमानः प्रमोदते ॥१६॥कन्यादो विन्दते पत्नीं नान्यथा तु कदाचन ।यावन्त्यस्ताः प्रदीयन्ते विना मूल्यं हि कन्यकाः ॥१७॥तावन्त्यस्ता हि लभ्यन्ते पत्न्यस्तावद्गुणान्विताः ।पत्नीदो लभते पत्नीं पत्नीदानं कृते युगे ॥१८॥त्रेतायां द्वापरे धर्मो नातिश्रेयान् क्वचिद् वरः ।पातिव्रत्यं परो धर्मश्चैकपतित्वमुत्तमम् ॥१९॥ब्रह्मचर्यव्रतं प्रोक्तमेकपतित्वमुत्तमम् ।तद्धानिः स्वांगनादाने तस्माद् दानं स्त्रिया न वै ॥२०॥बहुसामर्थ्यसंयुक्ते तैजसे पुरुषे क्वचित् ।पत्नीदानं निराबाधं हितकृद् देयमित्यपि ॥२१॥यत्र धर्मो न लुप्येत कन्याभावोऽपि यस्य तु ।यस्य बह्व्यः स्त्रियः सन्ति पत्नी देया हि तेन तु ॥२२॥तत्र पत्नीप्रदानस्य फलं पत्नी भवान्तरे ।पुत्रहीनस्य धर्मोऽयं मतः पुत्रफलाशया ॥२३॥श्रेष्ठस्तु परकन्याया दानं द्रव्यसहायता ।कर्तव्या पितृवत्तेन फलं पत्नीं लभेत् स तु ॥२४॥एष एव विधिः श्रेष्ठः पत्नीदानं न चोत्तमम् ।कन्यादानफलं पत्न्यश्चेति सर्वैः प्रवर्तितम् ॥२५॥पितृसेवा श्राद्धदानं फलं पुत्रात्मकं स्मृतम् ।पुत्रेष्टिः पुत्रफलदा पुत्रीष्टिः पुत्रिकाप्रदा ॥२६॥पुत्रोदानं शुभं देयं नाऽशुभं तु कदाचन ।द्रव्याऽऽदानेन दानं वै ह्यशुभं फलदं न तत् ॥२७॥शुभं विभूषिता देया द्रव्याऽऽदानविवर्जिता ।अन्यकन्यां सुयोग्यां च सर्वदोषविवर्जिताम् ॥२८॥मातापित्रोस्तु संवादं कृत्वा दत्वा धनं महत् ।आत्मीकृत्याऽथ संस्नाप्य दत्वा भूषाम्बराणि च ॥२९॥शृंगारयित्वा शृंगारैर्गन्धमाल्यैः समर्चयेत् ।निमित्तानि समीक्ष्याऽथ गोत्रनक्षत्रकादिकान् ॥३०॥अन्विष्य सद्वरं कन्यायोग्यं योग्यगुणादिकम् ।उभयोश्चित्तमालोक्य प्रेमाख्यं चेत्परस्परम् ॥३१॥उभौ सम्पूज्य विधिना विवाहोत्सवमण्डपे ।दातव्या सद्वरायैव ब्रह्मिष्ठाय तपस्विने ॥३२॥विदुषे सद्गुणाढ्याय कन्यापालनशक्तये ।दासदासीधनभूषाम्बरवाहनमर्पयेत् ॥३३॥क्षेत्रमुद्यानमर्थांश्च धान्यानि वाटिका दिशेत् ।गृहं चोपकरणानि दिशेच्च दापयेत्तथा ॥३४॥कामधेनुं च महिषीं गजाश्ववृषभान् दिशेत् ।जीविकां प्रदिशेत् सर्वां योग्यां युगलपोषिणीम् ॥३५॥एवं दातुर्हि कन्याया दानस्य धनिनस्त्विह ।पुण्यजाः स्युरसंख्या वै भोगाः स्वर्गेऽपि वै तथा ॥३६॥देहे यावन्ति रोमाणि कन्यायाः सन्ततौ पुनः ।तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥३७॥तत्रैव मण्डपे कार्यं लक्ष्मीदानमनुत्तमम् ।सर्वसम्पत्करं सौख्यमहदैश्वर्यवर्धनम् ॥३८॥श्रीलक्ष्मीमतुलां कृत्वा हिरण्येन यथाविधि ।सहस्रेण तदर्धेन तदर्धार्धेन वा पुनः ॥३९॥अष्टोत्तरशतेनापि सर्वलक्षणसंयुताम् ।सर्वशृंगारितां लक्ष्मीं सर्वालंकारशोभिताम् ॥४०॥चतुर्भुजां शुभां लक्ष्मीं महालक्ष्मीं कराऽष्टकाम् ।विन्यस्य मण्डले तस्या दक्षे विष्णुं हरिं तथा ॥४१॥अर्चयित्वोपचाराद्यैः राजभोगैः श्रियं हरिम् ।होमोत्तरं पूजयित्वा भोजयित्वा च पाययेत् ॥४२॥ताम्बूलकं ततो दत्वा नीराजयेन्नमस्क्रियात् ।दण्डवत्कुसुमानां चांऽजलिं दत्वा ततः परम् ॥४३॥दद्याल्लक्ष्मीं सुपात्राय साधवे ब्रह्मचारिणे ।जलसाक्ष्ये वह्निसाक्ष्ये विप्रसाक्ष्ये प्रकाशने ॥४४॥गुरोः साक्ष्ये सूर्यसाक्ष्ये देवसाक्ष्ये हरेः पुरः ।एवं लक्ष्म्या दानकर्तुः सम्पत् सर्वा प्रजायते ॥४५॥स्वर्णचम्पकवर्णाभाः पत्न्यो भवन्ति तत्फलम् ।कन्यकाः श्रेष्ठपुत्राश्च स्वसारश्च भवन्त्यपि ॥४६॥दासा दास्यस्तथा भृत्या भवन्ति परिचारिकाः ।स्वर्गेऽप्सरसां स्वामी स्यान्मोक्षे शक्तिपतिः प्रभुः ॥४७॥महालक्ष्मीप्रदानेन सम्राट् स्याल्ललनापतिः ।कम्भराश्रीप्रदानेन सर्वसौख्यान्वितः स्वराट् ॥४८॥युगलस्य प्रदानेन युगलात्मा प्रजायते ।पुरा युगलजन्मानोऽभवन् महर्षयोऽखिलाः ॥४९॥ततो मिथुनभावाढ्या सृष्टिर्व्यस्ताऽभवत् खलु ।पुराऽभवद्धि दाम्पत्यमार्षयोः सहजन्मनोः ॥५०॥कालान्तरे भिन्नकुलजातयोर्वै विवाहनम् ।सर्वसृष्ट्युपकारार्थं स्नेहसंकलनार्थकम् ॥५१॥ओतप्रोतादिलाभार्थं व्यधुः सर्वे महर्षयः ।धर्मा एव ह्यधर्माः स्युरधर्मास्तु वृषाः पुनः ॥५२॥कालान्तरे प्रजायन्ते देवमानवसत्स्वपि ।पशुधर्माः पक्षिधर्माः कालान्तरे तु मानवाः ॥५३॥ऋषिधर्मा देवधर्माः कालान्तरे तु मानवाः ।दैत्यदानवधर्माश्च कालान्तरे तु मानवाः ॥५४॥भवन्त्येव पुनस्तेऽपि विपरीताः पुनः पुनः ।अतो दानफलं तत्र तत्राऽऽप्यते यथावृषम् ॥५५॥दत्तमेव भवेत् प्राप्यं नदत्तं न कदाचन ।एवं कुमारदानस्य पतिप्राप्तिः फलं शुभम् ॥५६॥केतुमाले कुमाराणां दानं कुर्वन्ति मातरः ।गौर्यस्तेनाऽऽप्नुवन्त्येव स्वामिनः सुस्वरूपिणः ॥५७॥स्वसृदानेन चाप्यन्ते स्वसारः शोभिताः शुभाः ।मातृसेवाफलं श्रेष्ठं सन्मात्रङ्के जनुर्भवेत् ॥५८॥एवं धर्मा भवन्त्येव निगूढा कमले! भुवि ।अतत्त्वज्ञा न जानन्ति मुह्यन्ति तत्र तत्र च ॥५९॥आप्नुवन्ति परं कष्टं क्लेशं कुर्वन्ति वै तथा ।धर्ममधर्मं मत्वैव दानं कुर्वन्ति नैव ह ॥६०॥भवत्यो मम पत्न्योऽपि पूर्वदत्तफलं हि तत् ।शृणु लक्ष्मि तथाऽन्यच्च पुत्रीप्राप्तौ तु कारणम् ॥६१॥व्रतं पुत्रीव्रतं नाम कम्भराश्रीव्रतं हि तत् ।यदा लोके समानो वै भागोऽधिकार इत्यपि ॥६२॥दायभागः समानश्च पुत्रपुत्र्योः पुराऽभवत् ।तदा पुत्रीव्रतं माता पुत्रेष्टिं चाऽकरोत् पिता ॥६३॥सर्वलोकेषु सर्वत्र धर्मश्चाऽयं परोऽभवत् ।मम माता कम्भराश्रीः पुत्र्यर्थं पुत्रिकाव्रतम् ॥६४॥अकरोत्तेन सन्तोषानाम्नी पुत्री ततोऽभवत् ।वासुदेवी स्वयं लक्ष्मीः पुत्रीरूपा व्यजायत ।या प्रोक्ता श्रीकृष्णनारायणस्वसा सुशीलिनी ॥६५॥श्रीनारायणीश्रीरुवाच-कीदृशं तद् व्रतं प्रोक्तं पुत्रीव्रतं मखात्मकम् ।आद्यन्तं सफलं स्याद् यत् तत्तथा मे विधिं वद ॥६६॥श्रीपुरुषोत्तम उवाच-शृणु पुत्रीव्रतं माता कम्भरा यच्चकार ह ।महालक्ष्मीर्ललिताश्रीः सपुत्री सा ततोऽभवत् ॥६७॥फाल्गुनस्याऽसिते चाऽऽद्ये पक्षे वै पञ्चमीतिथौ ।पुत्रीव्रतं प्रकर्तव्यं मात्रा सौभाग्यसम्पदा ॥६८॥चतुर्थ्यास्तु निशायां वै दुग्धपानपरा भवेत् ।ब्रह्मचर्यपरा स्याच्च भवेद् भूतलशायिनी ॥६९॥दुष्टस्वप्नं यथा न स्यात्तथा निद्रां विधाय वै ।ललिताश्रीमहालक्ष्मीं स्मृत्वोत्थाय क्षणं च ताम् ॥७०॥ध्यात्वा चतुर्भुजां लक्ष्मीं स्वर्णचम्पकरोचनाम् ।युवतीं च हरिद्वर्णाम्बरां स्वर्णविभूषिताम् ॥७१॥आलिप्तां चन्दनाद्यैश्च गन्धसारसुगन्धिताम् ।प्रसन्नवदनां पद्मगर्भाभकरपत्तलाम् ॥७२॥रूपानुरूपावयवां चन्द्राभमुखशोभिताम् ।ताम्बूलचर्वणरक्ताधरशोभाविराजिताम् ॥७३॥यौवनपूरसंशोभद्विग्रहां पुष्टरूपिणीम् ।ध्यात्वा स्नात्वा ततः स्वर्णमूर्तौ तां पूजयेत् सती ॥७४॥संकल्पयेन्महालक्ष्मि! पुत्र्यर्थं पञ्चमीव्रतम् ।करोम्यद्य निराहारं निर्विघ्नं पूर्णमस्तु मे ॥७५॥तन्निमित्तं पूजनं ते मातः करोमि शोभनम् ।आगच्छाऽत्राऽऽसने तिष्ठ गृह्ण पाद्यं शुभार्घ्यकम् ॥७६॥आचमनं ततः पञ्चामृतस्नानं विधेहि च ।अभिषेकं गन्धिजलैर्गन्धिसारयुतैः कुरु ॥७७॥वस्त्राभरणभूषालंकारशृंगारकं वह ।सौभाग्यद्रव्यसिन्दूरान् पुष्पहारान् प्रयुक्ष्व च ॥७८॥धूपं दीपं च नैवेद्यं दुग्धसारं च पायसम् ।मिष्टान्नानि विचित्राणि भुंक्ष्व शाकफलानि च ॥७९॥जलपानं ततस्ताम्बूलकं स्वीकुरु चोत्तमम् ।आरार्त्रिकं पुष्पमालां प्रार्थनां स्वीकुरु ध्रुवाम् ॥८०॥प्रदक्षिणां नमस्कारान् दण्डवत् स्वीकुरु त्वथ ।देहि पुत्रीं त्वत्सरूपां सर्वसौभाग्यशालिनीम् ॥८१॥सर्वांगशोभनां रम्यां पद्मिनीं मन्थरागतिम् ।सेविकां तोषहेतुं च दिव्यर्द्धिं शान्तिचन्द्रिकाम् ॥८२॥दीर्घजीवां च नीरोगां सम्पदामीश्वरीं सतीम् ।वंशशोभां पतिपुत्रभाग्यवतीं च सद्गुणाम् ॥८३॥परमेश्वरभक्तां ते भक्तां देहि सुपुत्रिकाम् ।इत्यभ्यर्थ्य ततो भक्तिं कुर्यात् कीर्तनरूपिणीम् ॥८४॥जपमालां यथाशक्त्यावर्तयेद् भक्तिमानसा ।मध्याह्नेऽपि सुनैवेद्यं जलं ताम्बूलकं दिशेत् ॥८५॥प्रस्वापयेत्ततश्चोत्थापयेत् फलं समर्पयेत् ।जलं समर्पयेद् रात्रावारार्त्रिकं सुपूजनम् ॥८६॥कुंकुमाऽबीरकस्तूरीकर्पूरकुसुमादिभिः ।पायसाद्यैर्भोजनं च कारयित्वाऽथ नर्तनम् ॥८७॥कीर्तनं गायनं चापि चरेज्जागरणं निशि ।व्रतकर्त्री ततः प्रातः स्नात्वा संस्नाप्य मातरम् ॥८८॥महालक्ष्मीं पूजयित्वा संभोज्याऽऽरार्त्रिकोत्तरम् ।देहि पुत्रीं व्रतं पूर्ण कृतं क्षमां कुरु व्रते ॥८९॥अपूर्णं पूर्णतां यातु त्वत्प्रतापात् परेश्वरि ।इत्यभ्यर्थ्य नमस्कृत्वा विसर्जयेत्ततः परम् ॥९०॥पतिं स्वं भोजयित्वा तत्पादांगुष्ठजलामृतम् ।लक्ष्मीप्रसादसहितं पीत्वा भोजनमाचरेत् ॥९१॥दद्याद् दानानि विधिना यथाशक्ति यथाधनम् ।कन्यायोग्याम्बरभूषाशृंगारादि समस्तकम् ॥९२॥कन्यकां भोजयेदष्टाऽवरां दद्यात् सुदक्षिणाम् ।एवं कुर्याद्व्रतं लक्ष्मि पुत्रीप्राप्तिप्रदायकम् ॥९३॥कृष्णे यथा तथा शुक्ले चतुर्विंशतिपञ्चमीः ।कुर्यान्निरुक्तरूपेण व्रतिनी पुत्रीदायिनीः ॥९४॥स्वप्ने त्वागत्य सा ब्रूयान्महालक्ष्मीः सुकन्यका ।पुत्री ते भाविनी साध्वि वर्षव्रतोत्तरं ततः ॥९५॥उद्यापनं प्रकुर्याच्च शय्यादानसमन्वितम् ।महालक्ष्मीप्रपूजां च कारयेत् सर्वभद्रके ॥९६॥महोत्सवं कारयेच्च धेनुं दद्यात् सवत्सिकाम् ।कन्यादानं दापयेच्च यथाशक्ति यथाधनम् ॥९७॥नमो लक्ष्म्यै नमो धिष्ण्यै नमः पुत्र्यै नमः श्रियै ।रमायै ललितायै च महालक्ष्म्यै नमोऽस्तु ते ॥९८॥यथर्तुपुष्पमालाद्यैर्यथर्तुफलसद्रसैः ।प्रीयतां मे महालक्ष्मि पुत्रीदात्री च मे भव ॥९९॥एवमाराधयेद् देवीं कम्भराश्रीं सदा व्रते ।वित्तशाठ्यं न वै कुर्यात् कन्या शठा न जायते ॥१००॥गर्भिणी सूतिका वापि रोगिणी शुद्धिवर्जिता ।आपद्गता स्त्रियाऽन्यथा कारयेत् प्रयता स्वयम् ॥१०१॥अतिदुर्भाग्ययुक्ताया वर्षत्रयव्रतैर्ध्रुवम् ।पुत्रीप्राप्तिभवेदेव ललिताश्रीकृपाकणात् ॥१०२॥पुत्रीप्रसवमालोक्य व्रतं देव्यै समर्पयेत् ।व्रतं पुत्रीफलान्तं वै कर्तव्यं चिरमेव हि ॥१०३॥आरम्भः फाल्गुने कृष्णे समाप्तिः पुत्रिकाऽर्जने ।कम्भराश्रीमहालक्ष्म्या कृतमासीत् त्विदं व्रतम् ॥१०४॥सन्तोषाख्या वासुदेवी लक्ष्मीस्तेन सुताऽभवत् ।इत्येतत् कथितं लक्ष्मि व्रतं परमपावनम् ॥१०५॥पुत्रीव्रतं नरो नारी कृत्वा पुत्रीमवाप्नुयात् ।समुद्रः कृतवानेतल्लक्ष्मीं पुत्रीमवाप सः ॥१०६॥सदाशिवः कृतवाँश्च जयां पुत्रीमवाप सः ।ब्रह्मा व्रतं कृतवाँश्च ललितां प्राप वै सुताम् ॥१०७॥दिशो व्रतं कृतवत्यश्चापुः पद्मावतीं सुताम् ।सूर्यो व्रतं कृतवाँश्च प्रभां पुत्रीमवाप ह ॥१०८॥कल्पद्रुमा व्रतं कृत्वा श्रीं पुत्रीमापुरेव ते ।दिव्या विभूतिरेवैतत् कृत्वाऽऽप माणिकीं सुताम् ॥१०९॥वैराजी च व्रतं कृत्वा कमलामाप पुत्रिकाम् ।ख्यातिश्चैतद् व्रतं कृत्वा प्राप श्रीभार्गवीं सुताम् ॥११०॥धरणिस्तद्व्रतं कृत्वा प्राप पद्मावतीं सुताम् ।एवमेतन्नान्यथाऽस्ति सफलं तद्गतं ध्रुवम् ॥१११॥कन्यार्थी निजपत्नीं संगच्छेद्वै पञ्चमेऽथवा ।सप्तमे नवमे चैकादशे त्रयोदशे च वा ॥११२॥पञ्चदशे शुभे काले दिनसंख्यागते निशि ।बीजदाने कन्यका सा जायते गर्भसंभवा ॥११३॥बीजदाने वायुदेवो वामपार्श्वे गतिप्रदः ।तदा कन्या भवेदेव दक्षपार्श्वे कुमारदः ॥११४॥एवमेतन्न सन्देहस्ततो ज्ञात्वा व्रजेदृतुम् ।पठनाच्छ्रवणादस्य वंशदं सत्फलं भवेत्। ॥११५॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने पुत्रीप्राप्त्यर्थं कन्यादानं लक्ष्मीदानं पुत्रीव्रतं चेत्यादिनिरूपणनामा द्वाविंशत्यधिकशततमोऽध्यायः ॥१२२॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP