संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १२५ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १२५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १२५ Translation - भाषांतर श्रीनारायणीश्रीरुवाच-साधुव्रतं शुभं श्रेष्ठं धर्मार्थकाममोक्षदम् ।श्रुतं ते कृपया कृष्ण श्रोतव्यं नावशिष्यते ॥१॥तथापि तु गृहस्थानां धर्मवर्त्मानुवर्तिनाम् ।लोकैषणादिसिद्ध्यर्थं जिज्ञासा दानधर्मिणी ॥२॥जायतेऽतो गृहस्थानां हितार्थं परमेश्वर ।महादानं भवेद् यच्च सर्वदानोत्तमोत्तमम् ॥३॥तादृशं विद्यते यद्वा तादृशानि भवन्ति चेत् ।मह्यं निवेदय कृष्णकान्त लोकहिताय वै ॥४॥श्रीपुरुषोत्तम उवाच-शृणु त्वं शिवराज्ञीश्रि कथयामि तथाविधम् ।बहुधा विद्यते तच्च महादानमनुत्तमम् ॥५॥सर्वपापक्षयकरं सर्वदुःस्वप्ननाशनम् ।पुण्यं पवित्रमायुष्यं सर्वपापहरं शुभम् ॥६॥यत्तत् षोडशधा प्रोक्तं सत्पात्रे प्रतिपादनम् ।न्यायोपार्जितसम्पत्तेर्दानं दानं तदुत्तमम् ॥७॥आद्यं तत्सर्वदानानां तुलापुरुषसंज्ञकम् ।हिरण्यगर्भदानं च द्वितीयं परिकीर्तितम् ॥८॥ब्रह्माण्डदानं तृतीयं महादानमनुत्तमम् ।कल्पपादपदानं च चतुर्थं परमं स्मृतम् ॥९॥पञ्चमं गोसहस्राद्यर्पणं दानमनुत्तमम् ।हिरण्यकामधेनूनामर्पणं षष्ठमुत्तमम् ॥१०॥हिरण्याऽश्वप्रदानं च दानं श्रेष्ठतमं मतम् ।हिरण्याश्वरथदानं श्रेष्ठं तदष्टमं तथा ॥११॥हेमहस्तिरथदानं नवमं श्रेष्ठमुच्यते ।पञ्चलाङ्गलकं दानं दशमं परमं मतम् ॥१२॥धरादानं श्रेष्ठमेकादशं महत्तमं मतम् ।विश्वचक्रप्रदानं तु महद्दानमनुत्तमम् ॥१३॥कल्पलताप्रदानं च त्रयोदशमनुत्तमम् ।सप्तसागरदानं च चतुर्दशमुदाहृतम् ॥१४॥रत्नधेनुप्रदानं च पञ्चदशं ह्यनुत्तमम् ।षोडशं तु महाभूतघटदानं परं शुभम् ॥१५॥सर्वाण्येतानि दानानि रक्षाकराणि सर्वथा ।स्वर्गदानि मोक्षदानि भवन्तीष्टप्रदानि वै ॥१६॥तानि विघ्नसहस्रेभ्यो महादानानि सर्वथा ।रक्षन्ति देवरूपाणि ह्येकैकमपि भूतले ॥१७॥एषामन्यतमं कुर्यात् परमेशप्रसादतः ।महादानमखं कुर्यात् साधुविप्रादिपूजितः ॥१८॥अथ लक्ष्मि समासेन विधिना तानि ते पुनः ।कथयामि यथा यत्र यद्वा देयानि तानि वै ॥१९॥तुलापुरुषदानं तु दातव्यं विषुवेऽयने ।दिनक्षये व्यतीपाते पुण्ये व्रतदिने शुभे ॥२०॥युगाद्यदिवसे राहुग्रहे मन्वाद्यहेषु च ।संक्रान्तौ वैधृतौ पञ्चदश्यां चतुर्दशीदिने ॥२१॥अष्टम्यां द्वादशिकायामेकादश्यां च पर्वणि ।यज्ञोत्सवविवाहेषु दुःस्वप्नाऽद्भुतदर्शने ॥२२॥द्रव्यब्राह्मणदेवानां लाभे सतां समागमे ।तीर्थे च मन्दिरे गोष्ठे कूपाऽऽरामसरित्सु च ॥२३॥गृहे नवे तडागे च श्रद्धापात्रे च पावने ।साधौ दीनेऽनाथबाले बालायां विधवाजने ॥२४॥निराश्रये महाभक्ते तापसे चाऽपरिग्रहे ।दैवे समर्थपुरुषे तैजसे च नरायणे ॥२५॥नारायणांशे विमले योगिनि पार्षदे हरेः ।साध्व्यां सत्यां च योगिन्यां देव्यां योषिति दुर्बले ॥२६॥एवमाद्येषु देयानि महादानानि तानि च ।स्नात्वा शुभे क्षणे कृत्वा पुण्यं ब्राह्मणवाचनम् ॥२७॥षोडशाऽरत्निमात्रं वा दश द्वादश वा करान् ।मण्डपं कारयेत्तत्र चतुर्भद्रासनं शुभम् ॥२८॥कृत्वा वेदीं सप्तहस्तां मध्ये पञ्चकरां तथा ।कृत्वा मध्ये तोरणं च सारदारुमयं शुभम् ॥२९॥कुर्यात् कुण्डानि चत्वारि चतुर्दिक्षु शुभानि वै ।मेखलायोनियुक्तानि पूर्णकुंभान् निधापयेत् ॥३०॥आसनानि पवित्राणि विष्टराणि शुभानि च ।यज्ञपात्राणि सर्वाणि ताम्रपात्रद्वयं तथा ॥३१॥तिलाऽऽज्यधूपपुष्पोपहाराणि शोभनानि च ।निधापयेत् सन्निधौ वै ततः पूर्वोत्तरे स्थले ॥३२॥ग्रहादिदेवपूजार्थं वेदीं हस्तमितां चरेत् ।तत्राऽर्हणं मम कार्य पुरुषस्य परात्मनः ॥३२॥वासुदेवादिरूपाणां कृष्णाद्यानां समर्हणम् ।ब्रह्मविष्णुमहेशानां फलमाल्याम्बरादिभिः ॥३४॥पताकाः सध्वजा देया मण्डपे किंकिणीस्वने ।तोरणानि प्रकार्याणि द्वारेषु शोभनानि वै ॥३५॥चत्वारि क्षीरवृक्षाणां प्रतिद्वारं घटद्वयम् ।स्रग्गन्धाऽक्षतधूपार्घाऽम्बररत्नफलान्वितम् ॥३६॥शालेङ्गुदीदेवदारुश्रीपर्णिबिल्वचन्दनैः ।प्रियकाञ्चनकैश्चापि कृतं स्तम्भद्वयं तथा ॥३७॥हस्तयुगाऽवखाते तत् क्षिप्त्वा कृत्वा दृढं च तत् ।पञ्चहस्तोच्छ्रितं मध्यभूमिर्हस्तचतुष्टयम् ॥३८॥स्तम्भोपरि दृढं तुलाऽवलम्बनं सुभारधृक् ।मध्यभाराख्यकाष्ठं च न्यस्य कृत्वा स्थिरं च तत् ॥३९॥तन्मध्ये च तुला धार्या दीर्घा हस्तचतुष्टयम् ।दशांगुलायते स्थाल्यौ स्वर्णपट्टसुशृंखले ॥४०॥लोहपाशयुते चापि रत्नमालाविभूषिते ।माल्यलेपनयुक्ते च चन्दनादिप्रपूजिते ॥४१॥द्वयोः स्थाल्योर्मध्यभागे लिखेत् कुंकुमपद्मके ।तुलापात्रिकयोस्तत्र विकीरेत् पुष्पकाणि च ॥४२॥तुलादण्डिकमध्ये च फलमालम्बयेच्छुभम् ।अथर्त्विजो वेदविदः साधवः साधुभूषणाः ॥४३॥द्विजेन्द्रा गुरवः सन्तश्चाचार्योमन्त्रसम्प्रदः ।सिताम्बरो मम भक्तस्तिष्ठेत्तुलान्तिके स्थले ॥४४॥पूर्व ऋचां विदावास्तां दक्षे यजुर्विदौ तथा ।पश्चे सामविदावुत्तरे त्वथर्वविदौ तदा ॥४५॥ततः सूक्तजपः कार्यो होमश्चाग्नौ घृतादिभिः ।गणेशग्रहलोकेशा वस्वादित्यमरुद्गणाः ॥४६॥ब्रह्मविष्णुमहेशाश्च तर्पणीया हवादिभिः ।परमेशस्तथा कृष्णो नारायणो नरायणः ॥४७॥वासुदेवोऽवताराश्च महाविष्णुर्विराड् हरिः ।तर्पणीया हवनैश्च देव्यो लक्ष्म्यः समस्तिकाः ॥४८॥होमोत्तरं गुरुस्तूर्यनादैरावाहयेत् सुरान् ।बलिं पुष्पं च धूपं च कृत्वा मनून् वदेत्तथा ॥४९॥एह्येहीन्द्रोवज्रधरो रक्षाऽध्वरं नमोऽस्तु ते ।एह्येह्यग्ने हव्यवाह तिष्ठाऽध्वरे नमोऽस्तु ते ॥५०॥एह्येहि धर्मराज त्वं पाहि मखं नमोऽस्तु ते ।एह्येहि निर्ऋतदेव पाहि मखं नमोऽस्तु ते ॥५१॥एह्येहि वारुणदेव पाहि चास्मान्नमोऽस्तु ते ।एह्येहि प्राणनाथ त्वं वायो मखे नमोऽस्तु ते ॥५२॥एह्येहि त्वं कुबेराऽत्र नमोऽस्तु धनधारिणे ।एह्येहि त्वं महेशान गृहाणार्हो नमोऽस्तु ते ॥५२॥एह्येहि नागराज त्वं ममाऽध्वरं प्रपालय ।एह्येहि धातर्विश्वात्मन्नत्र मखे नमोऽस्तु ते ॥५४॥त्रैलोक्ये यानि भूतानि स्थावराणि चराणि च ।ब्रह्मविष्णुशिवैः सार्धं रक्षां कुर्वन्तु तानि मे ॥५५॥देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ।ऋषयो मनवो गावो देवमातर इत्यपि ॥५६॥सर्वा देव्यो रमा लक्ष्म्यो ब्रह्मप्रिया हरिप्रियाः ।मुक्तान्यश्चेश्वरेशाश्च रक्षां कुर्वन्तु मेऽध्वरे ॥५७॥बलिं मिष्टं सुनैवेद्यं गृह्णन्तु हि मयाऽर्पितम् ।पूजामारार्त्रिकं चापि गृह्णन्त्वपि च दक्षिणाः ॥५८॥इत्यावाह्य सुरान् पूजयित्वा नीराजनोत्तरम् ।ऋत्विग्भ्यो होमभूषादि दद्यादन्यानि चापि वै ॥५९॥कुण्डलानि च हैमानि सूत्राणि कटकानि च ।अङ्गुलीयपवित्राणि वासांसि शयनानि च ॥६०॥द्विगुणं गुरवे दद्याद् भूषणाच्छादनानि च ।जपेयुः शान्तिपाठाँश्च जापकाः सर्वतोदिशम् ॥६१॥कृत्वाऽधिवासनं सर्वे कुर्याद् ब्राह्मणवाचनम् ।स्नात्वा मंगलसलिलैः कुर्याच्च त्रिःप्रदक्षिणम् ॥६२॥धृत्वा पुष्पाञ्जलिं तुलां प्रार्थयेच्छ्वेतवस्त्रकः ।नमस्ते धर्मशक्ते च सत्यरूपे तपोधने ॥६२॥साक्षिभूते जगन्मातस्ते नमोऽस्तु रमासमे ।धर्माधर्मपरीक्षार्थं कृताऽसि ब्रह्मणा पुरा ॥६४॥प्रमाणं सर्वभूतानां दानेऽसि पारमार्थिके ।मां तोलयन्ती संसारादुद्धरस्व नमोऽस्तु ते ॥६५॥योऽन्तर्यामी परेशोऽस्ति जीवात्मा यश्च तत्तनुः ।ताभ्यामधिष्ठिता त्वं वै तस्यै देव्यै नमो नमः ॥६६॥लूता माया प्रकृतिर्या तस्या जालं प्रपञ्चकम् ।तद् विनाश्य परे लोके प्रहिणोति यतस्तुला ॥६७॥अनादिश्रीकृष्णनारायण तौलेय ते नमः ।तुलापुरुषरूपस्त्वं संसारात् तारयस्व नः ॥६८॥एवं तुलां नमस्कृत्य पूजयित्वा प्रदक्षिणम् ।कृत्वाऽऽरुह्यात् स्वयं स्थाल्यां तुलायां दानकृज्जनः ॥६९॥निजवेषयुतः सम्यक् सर्वाभरणहेतियुक् ।धर्मदेवं तथा सूर्यं श्रीहरिं चावलोकयेत् ॥७०॥साधुं सतीं देवमूर्तिं प्रपश्येत्तावदेव सः ।कराभ्यां बद्धमुष्टिभ्यां नमेत् कृष्णनरायणम् ॥७१॥कुटुम्बिनः स्वर्णमयं रूप्यमयं च वेतरत् ।निजभारं द्रव्यमेव न्यसेयुः शर्करादिकम् ॥७२॥तुल्यादभ्यधिकं यावत् कांचनं रजतं धनम् ।शर्करां वा न्यसेयुश्च सर्वपापापनुत्तये ॥७३॥पुष्टिकामः प्रकुर्वीत भूमिसंस्थां धृतेस्तुलाम् ।तोलयित्वा क्षणं तत्र वन्देत परमेश्वरीम् ॥७४॥नमस्ते ते महालक्ष्मि धार्मिकि धर्मसाक्षिणि ।सनातनि सर्वपापनाशिनी पुण्यदायिनी ॥७५॥स्वर्णभरे कम्भरे त्वं रूप्यभरे प्रमुक्तिदे ।रसाढ्ये रसदे देवि मातर्लक्ष्मि तुले नमः ॥७६॥त्वया धृतं जगत् सर्वं सर्वदानफलप्रदे ।हरेः प्रिये मम शुद्धिं प्रकारय समर्पिता ॥७७॥इत्युक्त्वा चाऽवतीर्याऽथ गुरवेऽर्द्धं निवेदयेत् ।ऋत्विग्भ्यो वै परमर्धं दद्यादुदकपूर्वकम् ॥७८॥गुरवे ग्रामरत्नानि ऋत्विग्भ्यश्चार्पयेत्तथा ।तेषां तदाज्ञया स्वर्णाद्यन्येभ्योऽपि परं दिशेत् ॥७९॥दीनाऽनाथनिराधारान् सतीसाध्वीसुयोषितः ।बालांश्च बालिकाश्चापि समर्च्य साधुसज्जनान् ॥८०॥ब्राह्मणान् भिक्षुकान् विप्रान् ब्रह्मिष्ठान् पार्षदान्प्रभून् ।दानपात्राणि तत्र स्युर्ये ये तांस्तान् ततोऽपरम् ॥८१॥स्वर्णं रूप्यं शर्करादि भक्त्या सम्पूज्य चार्पयेत् ।न चिरं धारयेद् गेहे धनं दानार्थतोलितम् ॥८२॥प्रोक्षितं कल्पितं वापि स्वर्णं रूप्यं धनं च वा ।तिष्ठेद् भयावहं यस्माच्छोकव्याधिकरं भवेत् ॥८३॥शीघ्रं परस्वीकरणाच्छ्रेयः प्राप्नोति दानवान् ।स्वगृहे दानपूतं यद् देवस्वं विप्रनाणकम् ॥८४॥साधुत्वं च सतीत्वं च विधवास्वं प्रचोरितम् ।धनं यत्तन्निजीयं स्वं नाशयित्वैव गच्छति ॥८५॥उपभुक्तं न सौख्याय रोगाय सज्जते हि तत् ।कुलहानिफलं तस्य निर्वंशत्वकरं हि तत् ॥८६॥तस्माद् देवधनं साधुधनं विप्रधनं तथा ।धर्मधनं न वै भक्ष्यं दीननारीधनं च वा ॥८७॥न वा स्थाप्यं धने नैजे सर्वनाशफलं यतः ।शुक्तकोऽभूत् पुरा विप्रो देवसाधुप्रपूजकः ॥८८॥साधुभिः सह देवस्य प्रतिमादिप्रपूजने ।भक्तार्पितं धनं भुंक्ते ढब्बुकं शर्करादिकम् ॥८९॥पक्षपातेन नित्यं स भुंक्तेऽदत्वोदरंभरः ।तेन पापेन तस्याऽभूत् पुण्यक्षयः समन्ततः ॥९०॥प्रत्युत पापवान् जातो दारिद्र्यदुःखदुःखितः ।गृहलक्ष्मीर्विनष्टा च पत्नी नष्टा सुतादयः ॥९१॥क्षेत्रं च वाटिका नष्टा ऋणवान् समजायत ।क्षुधाऽऽवृतोऽतिदीनश्च भिक्षुकः समजायत ॥९२॥नेत्रहीनो धर्महीनो बुभुक्षितः पदे पदे ।पापवृत्तिश्चाऽभवच्च मृत्युमुखं गतोऽभवत् ॥९३॥याम्यदुःखान्यनुभूय श्वपचत्वं ततो गतः ।कालान्तरे पुनस्तिर्यग्योन्यादौ समजायत ॥९४॥एवं लक्ष्मि धनं साध्व्या देव्या देवस्य योगिनः ।हानिदं न गृहे रक्ष्यं समूलाऽपहृतिप्रदम् ॥९५॥तुलादानं हि विधिना निजभारं धनादिकम् ।एवं दद्याद् यो मनुजो महेन्द्रादिपदं लभेत् ॥९६॥लोकपालाधिनाथः स्यात् शाश्वतं स्वर्गमृच्छति ।विमानेनाऽर्कवर्णेन किङ्किणीजालमालिना ॥९७॥पूज्यमानो देवताभिर्भुक्त्वा स्वर्गं महाचिरम् ।सत्यलोकं महालक्ष्मीलोकं श्रीनगरं व्रजेत् ॥९८॥विष्णुपुरं हरेर्लोकं गोलोकं स व्रजेत्तथा ।भक्तिमान् याति वैकुण्ठं चाऽक्षरं सत्पदं लभेत् ॥९९॥दीयमानं महादानं प्रपश्यति प्रशंसति ।निवेदयति लोकेभ्यः कालान्तरे स्मरत्यपि ॥१००॥शृणोति वा प्रपठति भक्तिभावयुतो जनः ।नारी वा भक्तियुक्ता सा राजा राज्ञी सखा सखी ॥१०१॥विप्रो विप्राणिका चान्या दासी दासोऽपरोऽपि वा ।तद्दशांऽशं फलं तत्र लभते दानशंसकः ॥१०२॥स्वर्गे दानफलं भुक्त्वा भक्त्या यास्यति मत्पदम् ।तुलादानफलं चैवं विशिष्यते समस्ततः ॥१०३॥इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने महादानषोडशकेषु तुलापुरुषदानविधिनिरूपणनामा पञ्चविंशत्यधिकशततमोऽध्यायः ॥१२५॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP