संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः २१ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः २१ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २१ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु त्वं शिवराज्ञीश्रि! प्राकट्यं चापरं मम ।चतुर्विंशे वत्सरे च वेधसस्त्वार्षसंज्ञके ॥१॥कल्पे शततमे षष्ठे मनौ यथाऽभवत् पुरा ।तदानीं वेदविद्वांसो ब्राह्मणा यतयस्तथा ॥२॥देवताः ऋषयश्चापि पितरश्चाऽजनिर्मिते ।सर्वमेधात्मके यज्ञे मिमिलुर्मोक्षदातटे ॥३॥विचारास्तत्र सर्वेषामभवन् मत्परायणाः ।कीदृशोऽयं हरिः सेव्यश्चैकलो वापि युग्मकः ॥४॥निर्गुणो वा सगुणो वा मूर्तो ह्यमूर्तं एव वा ।अग्निरूपोऽथवाऽऽदित्यस्वरूपो वाऽप्यरूपकः ॥५॥अथ तत्र स्वयं ब्रह्मा जगाद युगलात्मकः ।अन्ये महर्षयः प्राहुश्चैक एव परात्परः ॥६॥देवाः प्राहुः सगुणोऽयं यतयो निर्गुणः स्वयम् ।सेवनीयो यथायोग्यो मूर्तिमानपरे जगुः ॥७॥कर्मठाः प्राहुरेवाऽयं सेवनीयो ह्यमूर्तकः ।अग्निरूपो हरिः साक्षात् परे प्राहुर्हि भास्करः ॥८॥सेवनीयो ब्रह्ममूर्तिश्चेत्येवं वादमाचरन् ।निर्णयो नैकरूपोऽभूत् तदा विष्णुर्जगाद ह ॥९॥शंभुश्चायं यथा त्वस्मान् वदेन्निर्णय एव सः ।शंभुः श्रुत्वा हरेर्वाक्यं प्रजगाद सभाजनान् ॥१०॥ध्यानं क्षणं प्रकुर्वन्तु स्वयं दास्यति निर्णयम् ।इत्युक्तं शंकरवाक्यं सर्वमेधाऽध्वरे तदा ॥११॥ध्यानमग्ना अभवँश्च देवर्षिपितृमानवाः ।तावद् व्योम्नो दिव्यतेजोमयोऽद्रिः समुपाययौ ॥१२॥अव्याप्नोदम्बरं सर्वं दिवं भुवं दिगन्तरम् ।तन्मध्ये सुविमानं चाऽक्षराऽभिधं मम प्रियम् ॥१३॥अदृश्यत तदा लक्ष्मि! तत्राऽहं च त्वया सह ।अनादिश्रीकृष्णनारायणोऽर्धकमलातनुः ॥१४॥प्रत्यक्षः पुरतस्तेषां ध्याने ततश्च गोचरः ।अर्धे शिखा शिरस्यास्तेऽर्धे श्रीकेशात्मधम्मिलः ॥१५॥अर्धभाले सुतिलकं चार्धभाले सुचन्द्रकः ।दक्षे कर्णे कुण्डलं च वामे कुण्डलिकैरिणी ॥१६॥दक्षे तु निर्मलं चूर्णं वामे नेत्रे तु कज्जलम् ।दक्षे श्मश्रुस्तथा रिक्ता नासा वामे सनित्थका ॥१७॥दक्षं वक्षश्चोन्नतं च वामं स्तनसमन्वितम् ।दक्षहस्तौ शंखचक्रयुतौ सुकटकान्वितौ ॥१८॥वामहस्तौ पद्ममालाशृंखलाव्यजनान्वितौ ।दक्षे श्रीवत्सचिह्नार्धं वामे मूर्त्यर्धकं च मे ॥१९॥दक्षोदरेऽर्धत्रिवली वामे समोदरात्मता ।दक्षेऽर्धं नरलिंगं च वामेऽर्धायोनिरित्यपि ॥२०॥दक्षे त्वेको हि वृषणो वामे तु गुप्तग्रन्थिका ।दक्षपादः सरोमा चाऽरोमा वामः समुज्ज्वलः ।नरवद्दीर्घफणकः नारीवद्ध्रस्वसत्फणः ॥२१॥दक्षार्धं श्यामसौन्दर्यं वामार्धं कनकोज्ज्वलम् ।दक्षार्धं पीतधौत्रादिस्वर्णार्धमुकुटान्वितम् ॥२२॥वामार्धं कञ्चुकीशाटीस्वर्णमुकुटिकान्वितम् ।दक्षार्धं नरभूषाढ्यं वामं नारीविभूषणम् ॥२३॥दक्षं पुंबलसंयुक्तं वामं नारीसुमार्दवम् ।एवं भूत्वा चैक एव तथापि द्विस्वरूपवान् ॥२४॥प्रत्यक्षः पुरतस्तेषामर्धश्रीशनरायणः ।दध्युस्ते चान्तरे मां च तादृशं द्व्येकरूपिणम् ॥२५॥पुपूजुर्मानवा देवाः ऋषयः पितरोऽपि माम् ।ब्रह्माद्याः प्रार्थयामासुरत्र क्षितौ सदा वस ॥२६॥एवमेवस्वरूपस्त्वं लोककल्याणहेतवे ।ततोऽहं मोक्षदानद्यास्तटे मेरोस्तु पश्चिमे ॥२७॥आध्वरे भूतले नित्यमवसं सर्वगोचरः ।आकल्पान्तं परमेशः शिक्षयन् प्रतिमाऽर्हणम् ॥२८॥अनादिश्रीमदर्धश्रीश्वरनारायणः प्रभुः ।तथैव मन्दिरादौ च गृहे गृहे च सर्वथा ॥२९॥मूर्तिश्चैकविधा मेऽभूदर्धश्रीशनरायणी ।तथैवोपासना ध्यानं पूजनं वेषधारणम् ॥३०॥सर्वं मे तादृशं ह्यासीद् भक्तैः संसेवितं वपुः ।मदिच्छया मया लक्ष्मि! तत्र कल्पे तथा कृतम् ॥३१॥धृतं रूपं यथेष्टं वै यथाऽक्षरे विशिष्टकम् ।अथ देवादयो मां च ततः परं तथाविधम् ॥३२॥पूजयन्त्युपासयन्ति स्म च मुक्तिं व्रजन्ति च ।इत्येवं मे तत्र कल्पे प्राकट्यमुदितं तव ॥३३॥इत्येवं स्मर युग्मैक्यं निजप्राकट्यमीश्वरि! ।सर्वं जानाम्यहं लक्ष्मि! तथा नैकाऽवतारकान् ॥३४॥अथाऽग्रे चेतरन्मे च प्राकट्यं प्रवदामि ते ।पञ्चविंशे वेधसश्च धर्माख्ये वत्सरे तदा ॥३५॥कल्पे पञ्चशते चाद्ये मनौ पितृगणाः पुरा ।पृथ्व्यामागत्य वंशेभ्यो जगदुः श्राद्धभोजनम् ॥३६॥तत्तद्वंशोद्भवा लोका विद्यावन्तो व्यधुश्च तत् ।श्रद्धया पितृसंघानुद्दिश्य पिण्डादिकं ददुः ॥३७॥ते सर्वे पितरश्चापि विनिर्गत्याऽर्धदेहिनः ।प्रसारितकराभ्यां वै पिण्डान् प्रजगृहुर्मुदा ॥३८॥प्रसन्नवदनाश्चापि समुज्ज्वलकरास्तथा ।नाभ्यूर्ध्वदृश्यदेहाश्च पिण्डान् प्राप्यैव तस्थिरे ॥३९॥करस्थभोजनाः सर्वे एवमेव स्थिरास्तदा ।अभुञ्जाना अभवँश्च मौनाः शान्ता निरुत्सुकाः ॥४०॥तदा वंशजविप्राद्यैरभुञ्जाना विलोकिताः ।पृष्टाश्च पितरः सर्वे कथं भुङ्ध्वे न चार्पितम् ॥४१॥ते प्राहुश्च हरेः प्रासादिकं नास्त्येतदेव यत् ।तदभक्ष्यं सदास्माकं यतश्च वैष्णवा वयम् ॥४२॥अथ वंश्याः पृष्टवन्तः कथं प्रासादिकं भवेत् ।यदत्र दृश्यते नैव न चाऽस्ते च नरायणः ॥४३॥तदा ते पितरः प्राहुर्हरिसूक्तं जपन्त्विह ।हरिस्त्वागत्य पिण्डादि पायसान्नं ग्रहीष्यति ॥४४॥अथ ते हरिसूक्तेनाऽऽराधयन्मां तदा क्षणे ।अनादिश्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ॥४५॥अहं साकं त्वया लक्ष्मि! पितॄणां भक्तिरोधतः ।प्रत्यक्षस्तत्र वंश्यानामग्रे नाभ्यूर्ध्वदेहकन् ॥४६॥पितृभिः सह तत्रैव निषद्य भुक्तवान् पयः ।पायसं चापि मिष्टान्नं फलं दलं च मूलकम् ॥४७॥त्वं च नारायणीश्रि! स्वनाभ्यूर्ध्वदृश्यविग्रहा ।शृंगारिता मया साकं भुक्तवती च पायसम् ॥४८॥अथ ते पितरः सर्वे जलान्नादिकमेव तु ।प्रासादिकं मया दत्तं भुक्तवन्तः सुखोत्सुकाः ॥४९॥तृप्ताः सर्वे ययुर्भुक्त्वा पितृलोकान् निजालयान् ।अहं सञ्जोऽभवं यावत्तावद् विप्रादिभिः क्षितौ ॥५०॥प्रार्थितौ नित्यवासार्थं नान्यूर्ध्वदेहधारिणौ ।अर्धदृश्यौ दिव्यरूपौ सुन्दरौ सौम्यविग्रहौ ॥५१॥तथाऽस्त्वित्युचितं मत्वा स्थितवन्तौ सदा क्षितौ ।आकल्पान्तं च नाभ्यूर्ध्वार्धमूर्तिधारिणौ सदा ॥५२॥मूर्तयश्चापि तादृश्यो गृहे वने च मन्दिरे ।ध्यानेऽर्हणे चोत्सवे चाऽभवँस्तथाऽर्धविग्रहाः ॥५३॥अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।अनाद्यर्धपितृनारायणाख्यः प्रथितोऽभवम् ॥५४॥स्मर लक्ष्मि! त्वया साकं मम मूर्तिं तदाऽर्धिनीम् ।अथाऽन्येऽप्यवतारा मेऽभवँस्तदाऽपि कोटिशः ॥५५॥जानाम्यहं समस्तांस्तान्नान्ये जानन्ति वै गतान् ।स्मरणाद्वन्दनाच्चापि भुक्तिमुक्तिप्रदान् शुभान् ॥५६॥नाभ्यधो मायिको भागो नारको जन्मसम्प्रदः ।नाभ्यूर्ध्वं पावनो भागो मोक्षदो दर्शितो मया ॥५७॥अर्धोर्ध्वमूर्तिरूपेण तदा ज्ञानं तथाऽभवत् ।एवं विज्ञाय सम्पूज्य याता धामाऽक्षरं जनाः ॥५८॥अथ वक्ष्ये वेधसश्च षड्विंशेऽनङ्गवत्सरे ।कल्पे सप्तशते मनौ सप्तमेऽहं परेश्वरः ॥५९॥प्राविरासं प्लक्षमध्येऽनादिप्लक्षनरायणः ।तत्र कल्पे महात्मानो ह्यात्मज्ञानपरायणाः ॥६०॥आसन् वै साधवो धीरा नारायणपरायणाः ।जटावल्कलवस्त्राश्चाऽयाचितान्नादिकाऽशनाः ॥६१॥यदृच्छालाभसन्तुष्टा लोककल्याणकारिणः ।यज्ञोपवीतयुक्ताश्च तिलकान्वितविग्रहाः ॥६२॥कण्ठीमालादिशोभाश्च ध्यानभजनकारिणः ।एकदा मिलिताः सर्वे विष्णुनद्यास्तटे शुभे ॥६३॥भक्त्यरण्ये तपोऽर्थं वै भक्त्यर्थं परमात्मनः ।संवादं ते प्रचक्रुश्च परस्परं सुसंहताः ॥६४॥तपः श्रेयःप्रदं किं वा भक्तिः श्रेयःप्रदा द्विजाः ।यद्वोभयं मतं श्रेयःप्रदं चेदुत्तमं नु किम् ॥६५॥इत्येवं प्रश्नसारे च जाते कल्याणयोगिषु ।एके प्राहुस्तपः श्रेष्ठं परे प्राहुर्न तत्तथा ॥६६॥तपसा क्षीयते पापं पुण्यं प्रजायते शुभम् ।तेन भोगोपलब्धिश्च स्वर्गं च मरणं क्षये ॥६७॥ततो वै लौकिकं श्रेयस्तपश्चान्ते न तत्तथा ।तस्माद् भक्तिः परा श्रेष्ठा श्रेयःप्रदा हि शाश्वती ॥६८॥अन्ये प्राहुः सकामा सा नाऽत्यन्तश्रेयसः प्रदा ।निष्कामा श्रेयसी श्रेष्ठा परश्रेयःप्रदा हि सा ॥६९॥परे त्वाहुर्यदि भक्तिर्निष्कामा कामनां विना ।फलहीना वृथा सा हि प्रयासमात्ररूपिणी ॥७०॥तस्मात् सकामा सा कार्या स्वेष्टसत्फलदायिनी ।इत्येवं वदमानेषु महर्षिषु तदा वृषः ॥७१॥धर्मदेवो विप्ररूपः समाजस्थोऽब्रवीदिदम् ।सर्वेषामन्तरात्मा यः सर्वसाक्षी विराजते ॥७२॥स देवोऽत्र द्रुमे प्लक्षमये धर्म्ये विराजते ।तस्य पूजां प्रकृत्वैव प्रश्नभारोऽत्र पिप्पले ॥७३॥न्यसनीयश्चोत्तरं च तत्स्थः कृष्णः प्रदास्यति ।इत्येवं त्वेकमत्यं वै कृत्वा महर्षयस्तदा ॥७४॥पिप्पलं तत्र सम्पूज्याऽश्रावयन् परमेश्वरम् ।किमत्यन्तं परं श्रेयस्तपो भक्तिश्च वा प्रभो ॥७५॥इति संश्राव्य तस्थुश्च वर्षशतं तपोऽन्विताः ।तथाऽपि लब्धवन्तो नोत्तरं प्लक्षात्तपोधनाः ॥७६॥तावद् व्योमगिरा देवः परेश्वरो जगाद तान् ।तपसा न भवेच्छ्रेय आत्यन्तिकं तपोधनाः ॥७७॥आराधयन्तु मां ब्रह्मपरमं सर्वसाक्षिणम् ।निष्कामभक्त्या तुष्टोऽहं भवामि सततं द्विजाः ॥७८॥भक्त्या चात्यन्तिकं श्रेयश्चात्यन्तिकमवाप्स्यथ ।इत्युक्तास्ते जगदुश्च कथं भक्तिर्विना हरिम् ॥७९॥साक्षाद्धरिं विना भक्तिः प्रेमसेवा कथं भवेत् ।वयं चेत् तपसा पूताः पात्रभूताः स्म माधव ॥८०॥अस्मन्मध्ये समागत्य शश्वत्तिष्ठ कृपालय ।भक्ताः प्रियाश्च ते नित्यं यदर्थं चाम्बरे स्थितः ॥८१॥अदृश्योऽपि भक्तपक्षी व्योमवाण्याऽपि वत्सलः ।करोषि शासनं श्रेयःप्रदं मत्वा निजाञ्जनान् ॥८२॥यथा शब्देन च तथा स्वरूपेणाऽपि शाधि नः ।प्रत्यक्षेण निजानस्मान् समानन्दय माधव ॥८३॥इत्युक्तोऽहमवदँस्तान् भावयन्तु समाहिताः ।प्राप्ते चाराधनापाके भविष्यामि हि गोचरः ॥८४॥अथ नारायणीश्रि! स्वभाग्यानि चोत्तमानि वै ।मन्यमाना द्विजास्तत्र शतवर्षाणि संस्थिताः ॥८५॥आराधयन्तो देवेशेश्वरेश्वरेश्वरेश्वरम् ।साधवस्ते निराशाश्च ब्रह्माशामात्रतत्पराः ॥८६॥ब्रह्मरूपा ब्रह्मभूताः प्लक्षछायामुपाश्रिताः ।जेपुर्नारायणं मां च भेजुर्मां नामकीर्तनैः ॥८७॥आनर्चुर्मां तुलस्याद्यैर्दध्युर्मां मानसे गृहे ।गतेषु शतवर्षेषु सतामभ्यासिनां मम ॥८८॥सन्निधावभवं साक्षात् प्लक्षमूलसमाश्रितः ।त्वया लक्ष्म्या सहितः श्रीप्लक्षनारायणः स्वयम् ॥८९॥प्लक्षस्तम्बे गर्भभागे दिव्ये तेजोऽभिमिश्रिते ।सावकाशे चिदाकाशे प्लक्षब्रह्मणि संस्थितः ॥९०॥वामे साकं त्वया पद्मे चतुर्भुजो नरायणः ।अनादिश्रीकृष्णनारायणोऽहं पुरुषोत्तमः ॥९१॥स्वेच्छयैव समुद्भूतः साधुवाञ्च्छाप्रपूर्तये ।शंखचक्रगदापद्मस्वस्तिकध्वजशूलवान् ॥९२॥सर्वदिव्याभरणश्च स्वर्णमुकुटकुण्डलः ।दिव्यचम्पकवर्णाभो दिव्याम्बरधरस्तथा ॥९३॥दिव्यतेजोभिसंव्याप्तो युगलात्मा परेश्वरः ।साध्विच्छापूरकस्तत्र प्रत्यक्षः श्रेयसां प्रदः ॥९४॥अथ दिव्यनयनास्ते व्यपश्यन्मां द्रुमान्तरे ।दिव्यगृहाम्बरे तत्र द्रुमाऽभिन्नं पुमुत्तमम् ॥९५॥नेमुश्चक्रुर्दण्डवच्च तुष्टुवुः परमेश्वरम् ।पुपूजुस्तत्र मिलितैश्चोपचारादिभिस्तदा ॥९६॥स्नेहभक्त्या सदा भेजुर्मां प्ररक्ष्य च मण्डले ।इत्येवं सर्वलोकानां श्रेयःप्रदोऽभवं प्रिये ॥९७॥अनादिश्रीकृष्णनारायणः स्वयं सनातनः ।पुरुषोत्तम एवाऽहं स्वेच्छया साधुमण्डले ॥९८॥अनादिश्रीप्लक्षनारायणात्मा चाऽभवं स्थितः ।वेद्म्यहं सर्वमेवेति स्मर त्वं प्लक्षवासिनीम् ॥९९॥तव मूर्तिं शुभां लक्ष्मीस्वरूपिणीं सनातनीम् ।अन्येऽपि चावतारा मेऽभवन् शतसहस्रशः ॥१००॥ईश्वरा नापि जानन्ति कुतः सुराश्च मानवाः ।पठनाच्छ्रवणादस्य श्रावणात्स्मरणादपि ॥१०१॥सेवनात्प्लक्षवासिन्यास्ते च मे सेवनादपि ।भुक्तिश्चापि भवेन्मुक्तिर्मुक्तिः श्रेष्ठा च वै भवेत् ॥१०२॥पिप्पलश्रीं त्वर्चयेद् यः पिप्पले श्रीनरायणम् ।तस्य लक्ष्म्या अनपायो मोक्षाऽवाप्तिर्ध्रुवा भवेत् ॥१०३॥इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसश्चतुर्विंशे वत्सरेऽनादिश्रीमदर्धश्रीशनारायणस्य, पञ्चविंशे वत्सरेऽनादिश्रीमदर्धपितृनारायणस्य, षड्विंशे वत्सरे चाऽनादिश्रीप्लक्षनारायणस्य प्राकट्यमित्यादिनिरूपणनामैकविंशतितमोऽध्यायः ॥२१॥ N/A References : N/A Last Updated : May 03, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP