संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः २५ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः २५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २५ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि! त्वं प्राकट्यं मम वै ततः ।त्रिंशत्तमे वेधसस्तु देववत्सरसंज्ञके ॥१॥वर्षे कल्पे दशशते मनौ चतुर्दशे पुरा ।चमत्कारं तव लक्ष्मि! वदामि हि मया सह ॥२॥प्राकट्यं वै तदा लोके यदासीद् भूतले शृणु ।प्रान्ते कृतेऽभवन् भक्ताः सुराष्ट्रे पञ्च चाऽऽवयोः ॥३॥देवसखश्च कीर्तिश्च चिक्लीत कर्दमस्तथा ।जातवेदश्च ते विप्राः सहोदराश्च सात्त्विकाः ॥४॥तापसा धर्मनियताः सन्तुष्टा ब्रह्मवादिनः ।शौचे तपसि सन्तोषे स्वाध्याये भजने रताः ॥५॥अद्रोहे सत्यभावे चाऽस्तेये शीलेऽपरिग्रहे ।कृताभ्यासाः शमे चापीन्द्रियाणां निग्रहे रताः ॥६॥तितिक्षायां क्षमायां च मार्दवे श्रेयसि स्थिताः ।योगे विवेकजे ज्ञाने सत्वोत्कर्षे सदा स्थिताः ॥७॥ध्याने होमे जपे पूजायां च सत्कारसेवने ।आत्मब्रह्मात्मविज्ञाने चात्मनिवेदने स्थिताः ॥८॥सिद्ध्यष्टकं तथा त्वेषां निधीनां नवकं सदा ।कल्पवाणी च सेवायां वर्तन्ते कामधेनवः ॥९॥आकाशशायिनश्चैते दिग्वस्त्राः फलभोजनाः ।जलाऽमृतादिपानाश्च प्रभादीपाः समाधिगाः ॥१०॥आत्मानला ब्रह्मगृहाश्चान्तरात्मसहायिनः ।भक्तियुक्ताः साधुसंगाः सतीसत्कारतत्पराः ॥११॥अतिथिपूजकाः सर्वे निरीहाश्च विदेहिनः ।अनावरणभावाश्च तथाऽव्याहतसञ्चराः ॥१२॥भूतस्पर्शादिहीनाश्च देहदोषादिवर्जिताः ।वज्रतुल्या दिव्यदेहा दिव्यानन्दपरायणाः ॥१३॥संकल्पप्राप्तसर्वस्वभोगयोगादियात्रिकाः ।वाक्सिद्धा दुःखहन्तारः शरणागतवत्सलाः ॥१४॥ब्रह्मा विप्णुर्महेशोऽर्कश्चन्द्र इवाऽपराः सुराः ।ख्याताः क्षितौ भुवःस्वर्गमहर्जनतपस्सु च ॥१५॥सत्ये लोके तथा मेरौ पातालेष्वपि सर्वथा ।ऐश्वर्यशालिनः सर्वे ईश्वरा अपरा इव ॥१६॥देववद् दुःखहर्तारो योगिवदात्मदर्शकाः ।श्रेष्ठिवद्धनदातारः पतिवत्पुत्रदायिनः ॥१७॥रक्षकाः स्वामिवच्चापि दातारो विष्णुवत्तथा ।ज्ञाने ब्रह्मसभाः सर्वे पूरणे कल्पपादपाः ॥१८॥ब्रह्मचर्योज्ज्वला देहेष्वपि क्ष्माभा धृतौ तथा ।सहस्रे साधवश्चेमे पूर्णकामाश्च मुक्तवत् ॥१९॥एतादृशान् प्रसिद्धान् वै ज्ञात्वा लोकास्तु दुःखिनः ।समायान्ति निजार्तीनां विनाशार्थं दिवानिशम् ॥२०॥रोगिणो भोगिनश्चापि दीना दारिद्र्यभागिनः ।कदर्याः शत्रुदुःखाश्च विधुराश्च विपुत्रिणः ॥२१॥अनन्नाम्बरसौधाश्चेषणावन्तो बुभुक्षवः ।मुमुक्षवो मुमूर्षवश्चायान्ति शरणं सदा ॥२२॥तेषां क्लेशान्नाशयन्ति ह्याशीर्वादपरायणाः ।दातारः सर्ववस्तूनां सुखानां धनसम्पदाम् ॥२३॥मानवाश्च नरा नार्यो यान्ति पूर्णमनोरथाः ।आनन्दिताः पूर्णकामाः पूर्णाशाः पूर्णमानसाः ॥२४॥धनार्थिभ्यो ददत्येते धनानि सिद्धिजानि वै ।पुत्रार्थिभ्यो ददत्येतेऽपत्यान्यभीष्टकानि च ॥२५॥पतिं पत्नीं गृहं राज्यं क्षेत्रं गजं च गास्तथा ।आरोग्यं वंशविस्तारं सम्पदश्च ददत्यपि ॥२६॥तापत्रयादिराहित्यं कुर्वन्ति शरणार्थिनः ।एवं सर्वे चमत्कारभृता ईश्वरसदृशाः ॥२७॥भवन्ति स्म क्षितौ लक्ष्मि! भक्तास्ते मेऽपि सर्वथा ।अथैकदाऽऽलये तेषां लक्ष्मीवाञ्च्छापरायणः ॥२८॥असुरस्त्वाययौ नाम्ना प्रसविष्णुर्महाबलः ।विप्ररूपधरः सोऽयं तापसः कामवासनः ॥२९॥नारायणस्य या पत्नी सा मे पत्नी भवेदिति ।लक्ष्म्यास्ते कामनायुक्तो भक्तानां पुर आययौ ॥३०॥ययाचे स्वेप्सितां भिक्षां पञ्चभ्योऽपि तदाऽसुरः ।लक्ष्मीं नारायणपत्नीं मह्यं ददतु दानिनः ॥३१॥भक्तास्त्वयोग्यभिक्षां तां श्रुत्वैव मेनिरे तदा ।किन्त्वदातृत्वगणनाऽस्पर्शार्थं प्राहुरोमिति ॥३२॥हरिर्वै बलवानेनं लक्ष्मीर्वा संहरिष्यति ।इति विचार्य दानेन्द्राः सस्मरुः श्रीं मम प्रियाम् ॥३३॥भक्तेच्छानुसारिणा च मयाऽऽज्ञप्ता च वै द्रुतम् ।आक्षरात्त्वं हि पञ्चानां पुरतः समुपस्थिता ॥३४॥कुमारिका सुरूपा च द्वादशाऽधिकवत्सरा ।सर्वाभरणशोभाढ्या स्वर्णचम्पकविग्रहा ॥३५॥शोभनां मोहिनीरूपां त्वां विलोक्य तदाऽसुरः ।मेने स्वार्थस्य वै सिद्धिं मुमुदे हृदि तासमः ॥३६॥अथ देवसखाद्यास्ते दृष्ट्वा पुपूजुरीश्वरीम् ।नारायणीं समर्थां च विज्ञप्यापि क्षमार्थनम् ॥३७॥आसुरे दानरूपाऽर्थं कार्यं निवेद्य वै जलम् ।करेष्वादाय च दद्रुश्चासुराय प्रिये! तदा ॥३८॥त्वामासाद्य प्रसविष्णुश्चासुरो विप्ररूपधृक् ।ययौ गृहं निजं तत्र त्वया व्रतं धृतं परम् ॥३९॥ब्रह्मचर्याभिधानं वै नैष्ठिकं पाल्यमेव तत् ।अविप्लुतं तापसं च स्प्रष्टव्यो नाऽसुरः क्वचित् ॥४०॥अथ त्वं तद्ग्रहं प्राप्ता त्वां स स्प्रष्टं समीच्छति ।किन्तु प्रलयानलभां ज्वालामालासमावृताम् ॥४१॥त्वां विलोक्य त्रस्तमना यथागतो निवर्तते ।अथ विचार्य बहुभिर्दिवसैः कारणान्तरम् ॥४२॥तव स्पर्शस्य सिद्ध्यर्थं पुनर्भक्तान् हि पञ्च तान् ।प्रत्याययौ सुभिक्षार्थं रतिं मूर्तिमतीं तथा ॥४३॥कामं सुमूर्तं बाणाँश्च वसन्तं मे ददत्विति ।पञ्च भक्तास्तु ते तत्र सस्मरुस्तान् तथाकृते ॥४४॥कामाद्या आययुस्तूर्णं संकल्पितास्तदा पुरः ।अथ ददुस्ते दानेऽपि महासुराय ताँस्तदा ॥४५॥असुरस्तानुपादाय ययौ नैजालयं प्रति ।तान् कामादीनादिदेश प्रवेष्टुं कमलातनौ ॥४६॥यैः सा सम्पीडिता लक्ष्मीर्मां स्वयं समुपेष्यति ।इत्येवं सोऽसुरश्चापि प्रतीक्षां प्राकरोदपि ॥४७॥अथ कामो निचिक्षेप बाणानुन्मादकादिकान् ।वसन्तः सुमनोभिर्वै परितः सुमनोहरः ॥४८॥प्रफुल्लितः श्रियास्तत्र प्रफुल्लतां नयत्यपि ।रतिस्ततः स्वयं मूर्तिमती लक्ष्म्या शनैः शनैः ॥४९॥प्रवेशं चेहमाना तु सहास्या समुपाययौ ।लक्ष्मीर्विज्ञाय तां दुष्टां कामपत्नीं दुराशयाम् ॥५०॥सद्यो रोषं समापन्ना त्वं तदा परमेश्वरी ।नेत्राभ्यां प्रलयाग्निं वै चोत्पादितवती स्वयम् ॥५१॥दृष्टवती रतिं कामं वसन्तं च शरानपि ।असुरं चेति तान् सर्वान् क्षणमात्रेण भस्मसात्। ॥५२॥कृतवत्येव देवेशि! नैष्ठिकव्रतशालिनी ।हाहाकारस्तदा जातो देवेषु मानवेष्वपि ॥५३॥रतेर्नाशात् कामनाशाद् वसन्तादेर्विनाशनात् ।ऋत्वभावे वनारण्योद्यानाद्याः पुष्पवर्जिताः ॥५४॥नवांकुरविहीनाश्च लक्ष्मीशून्यास्तदाभवन् ।सत्यामपि तु लक्ष्म्यां वै निर्लक्ष्मीकं जगद्ध्यभूत् ॥५५॥नारीणां च नराणां च प्रमोदा विलयं गताः ।आनन्दा नाशमापन्नाः प्रसविष्णुविनाशनात् ॥५६॥एवं लक्ष्मि! त्वया दग्धा रत्याद्या नेत्रवह्निना ।जगत् सर्वं नैष्ठिकं च सञ्जातं त्वद्व्रतेन वै ॥५७॥देवाश्च मानवाश्चापि महर्षयश्च देहिनः ।सर्वे विचार्य किमिदं कथं चेति समन्विताः ॥५८॥ययुः सत्ये वेधसे च प्राहुः कष्टं तु षाण्ढिकम् ।रतिर्नास्ति न कामोऽस्ति वसन्तो नास्ति वै क्वचित् ॥५९॥किमिदं च कथं जातं निवारयार्त्तिमुल्बणम् ।इत्युक्तस्तु तदा ब्रह्मोवाच क्षणं विचार्य वै ॥६०॥पूर्वे ये पञ्चदेवाश्च पञ्चेन्द्रास्ते ततः परम् ।पञ्च भक्ता हि कल्पेऽस्मिन् भजन्ते परमेश्वरम् ॥६१॥देवसखादयः सर्वे दातारश्चार्थिसम्पदः ।ईश्वराः पञ्च ते दातुं समर्थाः सर्वसम्पदः ॥६२॥तेभ्यश्चाऽर्पितवान् लक्ष्मीं प्रसविष्णुर्महासुरः ।मम लिंगमलोत्पन्नो बली खलोऽतिदोषभृत् ॥६३॥ते विप्रा वै समाहूय लक्ष्मीं तस्मै ददुस्ततः ।असुरस्तां समादाय ययौ नैजं गृहं प्रति ॥६४॥लक्ष्मीर्व्रतं दधाराऽपि नैष्ठिकीं ब्रह्मचारिताम् ।असुरः कामवेगेन स्प्रष्टुं लक्ष्मीमुपागतः ॥६५॥वीक्ष्य तां प्रलयोत्पन्नाग्निभा त्रस्तो महासुरः ।पुनर्गत्वा च विप्रेभ्यो ययाचे तु रतिं तथा ॥६६॥कामं वसन्तं बाणांश्च मूर्तिमतश्च ते द्विजाः ।ददुस्तस्मै सर्वमूर्तान् नीत्वाऽसुरो ययौ गृहम् ॥६७॥प्रेरयामास तान् सर्वान् लक्ष्मीं कर्तुं हि चञ्चलाम् ।लक्ष्मीः क्रुद्धा स्वचक्षुभ्यामुत्पाद्य प्रलयानलम् ॥६८॥भस्मीचकार तान् सर्वान् जगत् तेन तथैव च ।कामबाणवसन्तैश्च रत्या हीनं निरर्थकम् ॥६९॥निरानन्दं प्रसंजातं कारणं त्वेतदेव यत्॥कथितं तत्र वै नान्यस्तूपायोऽस्त्यत्र वारकः ॥७०॥लक्ष्मीक्रोधेन कामोऽपि रतिश्चासुरकोऽपि च ।प्रसवस्ते तथा बाणा वसन्तश्च मृताः सदा ॥७१॥लक्ष्मीश्चेत् तान् पुनः सर्वानुत्पादयेत् प्रसादिता ।नैष्ठिकं व्रतमेवाऽपि प्रसमाप्य हरेः पुरः ॥७२॥परमेशस्याऽऽज्ञया च सर्वानुजीवयेद् यदि ।तदा षण्ढत्वदोषोऽयं त्रैलोक्याद् विगमिष्यति ॥७३॥नान्यथेति तदर्थं श्रीहरिं प्रति यतामहे ।आराधनां प्रकुर्मोऽत्र हरिः स्वयं सुतोषितः ॥७४॥समायास्यत्यत्र शीघ्रं दुःखं निवारयिष्यति ।इत्युक्तास्ते सत्यलोके चक्रुः प्राराधनां मम ॥७५॥लक्ष्म्या त्वया वियोगेन दुःखितया स्मृतोऽपि च ।समायातः सत्यलोकं ब्रह्मादीनां पुरः स्थितः ॥७६॥दृष्टवन्तश्च ते मां वै दिव्यरूपं सनातनम् ।शंखचक्रधरं कृष्णनारायणं परेश्वरम् ॥७७॥सर्वाभरणशोभाढ्यं प्रसन्नवदनेक्षणम् ।आनर्चुस्ते प्रचक्रुश्च स्वागतं तुष्टवुस्ततः ॥७८॥सर्वदुःखप्रशान्त्यर्थं मां हरिं पुरुषोत्तमम् ।श्रुत्वा तेषां प्रार्थनां चाऽवोचं तेभ्यस्तदा प्रिये! ॥७९॥लक्ष्म्या कृतं न चाऽहं तद् विकर्तुं प्रभुरत्र ह ।तस्माद् यामो यत्र देवी लक्ष्मीर्वने विराजते ॥८०॥स्थिता सा ब्रह्मचर्ये वै प्रसविष्णुवने सती ।तापसी नैष्ठिकधर्मे वर्तते सा महेश्वरी ॥८१॥अथ सर्वे वयं तत्राऽऽयाता यत्र तव स्थली ।विलोक्य मां प्रसन्ना त्वं पपात मम पादयोः ॥८२॥स्वागतं देवतानां च कृतवत्यतिभावतः ।रत्यादिनाराजन्यं च दुःखं प्रति निवेदिता ॥८३॥स्तुता सर्वैश्च देवाद्यैः प्रसादिता पुनः पुनः ।त्वमात्थ सर्वदेवादीन् दिनान्तोऽयं प्रविद्यते ॥८४॥श्वः प्रातस्ते तु कामाद्या ब्रह्मणो देहजाः सुताः ।भविष्यन्ति हि रत्याद्याः समर्था देहधारिणः ॥८५॥प्रस्रवाख्योऽसुरश्चाऽपि स्रावात्मा संभविष्यति ।अद्य सन्ध्यासमये वै तेषां नास्ति प्रयोजनम् ॥८६॥नैष्ठिकं व्रतमास्थाय भजन्तां परमेश्वरम् ।अनादिश्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ॥८७॥अहं भजामि चात्रैवाऽऽमन्वन्तं स्वामिना सह ।भगवान् मम कान्तश्च नैष्ठिकोऽप्यत्र तिष्ठतु ॥८८॥मया व्रतं धृतं त्वेतन्नैष्ठिकं प्रलयान्तिकम् ।सर्वेऽपि वै व्रते तत्र तिष्ठन्तु श्रेयसां प्रदे ॥८९॥त्वयोक्तास्ते तदा देवा मानवाः ऋषयस्तथा ।सर्वे स्थिता व्रते तत्र नैष्ठिकेऽन्यदिनाऽवधिम् ॥९०॥अहं तवेच्छयाऽरण्ये भूमौ लक्ष्मि! तदाऽवसम् ।अनादिश्रीब्रह्मचारिनारायणाभिधस्त्वया ॥९१॥सह त्वं व्रतमापन्ना सदैव तपसि स्थिता ।साध्वी धर्मवती लक्ष्मि! नैष्ठिकीश्रीरिति प्रिये! ॥९२॥अथ सृष्टिस्तदा चान्ते मनौ रुद्धा समन्ततः ।मृता वृद्धाश्च संभूय प्रजाः शनैः शनैस्तदा ॥९३॥तावत्प्रलयकालश्चाऽऽययौ सर्वं निशामुखे ।यथाक्रमं नित्यवच्च संहृतं परमेष्ठिना ॥९४॥त्वं व्रतं स्वं समाप्यैव देवसखाश्रमं प्रति ।मया साकं गता लक्ष्मि! तानादाय ततो दिवम् ॥९५॥प्रापय्य तान् पञ्चभक्तान् भाविमहेन्द्रविग्रहान् ।महर्लोकं जनलोकं सत्यलोकं ततः परम् ॥९६॥प्रापय्य ब्रह्मणेऽर्पय्य वैकुण्ठं च मया सह ।गत्वा ततः परं मेऽपि धामाऽक्षरं गताऽभवत् ॥ ९७॥इत्येवं मम ते चापि प्राकट्यं कथितं प्रिये ।स्मर तत्तापसं रूपं नैष्ठिकं चाऽक्षरेश्वरि ॥९८॥अन्येऽवतारास्तद्वर्षे मम ते चाऽप्यसंख्यकाः ।जातास्तान् वै समस्तांश्च वेद्म्यहं नेतरे सुराः ॥९९॥अथ कल्पान्तरे रत्यादयो जाता अजात्मजाः ।सदेहा अजसाहाय्यप्रदास्ते वचनात् खलु ॥१००॥पठनाच्छ्रवणाच्चाऽस्य नैष्ठिकस्य फलं भवेत् ।भुक्तिर्मुक्तिर्भवेच्चापि यथेष्टमाप्नुयात्तथा ॥१०१॥इतिश्रीलक्ष्मीनारायणीय संहितायां तृतीये द्वापरसन्ताने वेधसस्त्रिंशे वत्सरे देवसखादिभक्त्या प्राप्तलक्ष्म्या कृतप्रस्रवणासुररतिकामवसन्तबाणादिभस्मीभावोत्तरं नैष्ठिकतापालनार्थम् अनादिश्रीब्रह्मचारिनारायणस्य नैष्ठिकीश्रिया सह प्राकट्यमित्यादिनिरूपणनामा पञ्चविंशोऽध्यायः ॥२५॥ N/A References : N/A Last Updated : May 03, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP