संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ८५ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ८५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ८५ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि! त्वं साधुधर्मं सनातनम् ।धार्यन्ते येन लोकाः सः सतां धर्मो हरिः स्वयम् ॥१॥हरेर्लीलाचरित्राणि स्मर्तव्यानि सदा मम ।साधुधर्मः सदा कृष्णो रक्षणीयो निजे हृदि ॥२॥महायशफलं चापि सर्वदानफलं तथा ।गवां फलं तीर्थफलं व्रतानां फलमित्यपि ॥३॥एतत्फलमवाप्नोति यो जनः साधुधर्मवान् ।मोक्षकार्यं सदा साधोर्नारायणसमाश्रयात् ॥४॥बन्धहानिस्तथा कार्यं साधोरेव प्रकीर्तितम् ।वक्तारो भक्तिकर्तारो येषां शुद्धं च मानसम् ॥५॥तेषां व्यक्तं जिता लोकाः साधूना साधुसंगिना ।मुच्यते किल्बिषाच्चापि न स पापेन लिप्यते ॥६॥धर्मं च लभते नित्यं साधुसंगी शरीरवान् ।मोक्षं ततश्च लभते साधोर्हरेः कृपाकणात् ॥७॥मानवास्तु सदा लक्ष्मि बालिशा इव मोहनः ।साधून्निन्दन्ति मद्रूपान् यान्ति ते नरकान् बहून् ॥८॥क्रूराश्च मानवा लोके दयाहीनाश्च घातकाः ।साधून्निरर्थकान्मत्वा त्यजन्ति भाररूपिणः ॥९॥तेषां गतिर्न वै स्याद्धि सती क्वाऽप्यथसञ्चयात् ।असाधुनिन्दकाः क्रूरास्तामसादिस्ववर्तनैः ॥१०॥तिर्यग्योनिगतान् सत्वान् जीवान् हिंसन्ति मोहिताः ।कीटान् पिपीलिकान् सर्पान् वृश्चिकान् पशुपक्षिणः ॥११॥अपि चेत् ते शरणं वै सतां यान्त्यघनुत्तये ।प्रसेवेयुः सतश्चेद्वै देहेन मनसा यदि ॥१२॥तदा पापैः प्रमुच्यन्ते न चेद्धिंसन्ति वै पुनः ।सतां प्रसेवया पुण्यं जायते बलवत्तरम् ॥१३॥पुण्येन शुभसंकल्पाः शनैश्चापि शुभक्रियाः ।असत्क्रियाणां सन्त्यागः सत्संगातिप्रवीणता ॥१४॥पश्चात्तापः स्वकृत्यानां प्रायश्चित्तं तपः परम् ।उपवासादिकं भक्तिर्यजनं दानमर्पणम् ॥१५॥पूजनं देवतादीनां - जपध्यानसुकीर्तनम् ।तीर्थयात्रा ज्ञानलाभस्त्वेवं भवन्ति धर्मिणः ॥१६॥ततः स्वर्गगतिः पश्चान्मोक्षगतिः प्रसंभवेत् ।एतत् सर्वं सतां योगे तूर्णं श्रेष्ठं प्रजायते ॥१७॥सन्तो नारायणाः सर्वे पापघ्ना मोक्षदायिनः ।तेषु सदा विराजेऽहं शाश्वतः पुरुषो हरिः ॥१८॥अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।श्रीवत्सांको हृषीकेशः सर्वेश्वरादिपूजितः ॥१९॥सर्वज्ञः सर्वसंश्लिष्टः सर्वगः सर्वतोमुखः ।परमात्मा हृदयस्थः सर्वव्यापी सनातनः ॥२०॥नायकः सर्वसृष्टीनां धाम्नां धामजुषामपि ।श्रीकृष्णः पुण्डरीकाक्षः श्रीगर्भः श्रीसहोषितः ॥२१॥शार्ङ्गचक्रादिचिह्नश्च दमशीलशमान्वितः ।परक्रमेण वीर्येणोत्तमेन दर्शनेन च ॥२२॥उत्साहेन प्रमाणेन धैर्येणार्जवसम्पदा ।कृपया स्नेहभक्त्या च निजान् प्रति समन्वितः ॥२३॥योगमायः समस्ताक्षो ब्रह्मण्यश्च शरण्यकः ।भयहर्ता भयार्तानां दीनानां पालने रतः ॥२४॥श्रुतवानर्थसम्पूर्णो वरदश्च वरार्थिनाम् ।परमेशो रमेशश्च मेशो ब्रह्मप्रियापतिः ॥२५॥सर्वाः सुखं संश्रिताश्च शरीरे मम देवताः ।सोऽहं परेश्वरः साक्षाच्छ्रीभूलीलारमापतिः ॥२६॥यो हि मां द्रष्टुमिच्छेद्वै चावतारावतारिणम् ।द्रष्टव्यास्तेन मे सन्तः साध्वर्थाः साधुभूषणाः ॥२७॥दृष्टेष्वेतेष्वहं दृष्टो न मे भेदोऽत्र विद्यते ।सन्तो नारायणाः सर्वे इति विद्धि मम प्रिये ॥२८॥सोऽहं श्रीपुण्डरीकाक्षो यस्य प्रीतो भवामि च ।तस्य देवगणः प्रीतः सर्वार्थास्तस्य हस्तगाः ॥२९॥यश्च मां मानवे लोके संश्रयिष्यति मानवः ।तस्य कीर्तिर्जयश्चैव स्वर्गश्चाऽत्र भविष्यति ॥३०॥धर्माणां देशिकः पूज्यः स भविष्यति धर्मभाक् ।साधुरेव स मन्तव्यो नमस्कार्यः सदा जनैः ॥३१॥धर्म एव परः स स्याद् यस्मिन्नभ्यर्हितोऽस्म्यहम् ।सोऽहं प्रजाहितार्थं वै साधुकोटीरसर्जयत् ॥३२॥ब्रह्मायनादीन् सर्वांश्च सच्चिदानन्दप्रभृतान् ।सनत्कुमारमध्याँश्च पूर्वान् पूर्वतरानपि ॥३३॥सोऽहं साधुस्वरूपोऽस्मि हरिर्नारायणः प्रभुः ।भगवान् सर्वरूपाणां धर्ता कर्त्ता विनाशिता ॥३४॥वन्दितोऽहं च वन्दे तं मानितो मानयाम्यपि ।अर्हितश्चाऽर्हयाम्येनं पूजितः पूजयामि तम् ॥३५॥दृष्टः पश्याम्यजस्रं तं संश्रितः संश्रयामि तम् ।एवं मे ध्यानकर्तुश्च ध्याताऽहं सततं प्रिये ॥३६॥एवं मेऽस्ति व्रतं नित्यं तादृशाः साधवो मम ।सज्जनाऽचरितं त्वेतद् व्रतं मे नाऽपरैरिह ॥३७॥तस्मात् सन्तो मम रूपास्तारका देहिनामिह ।कर्मणा मनसा वाचा सेवनीया हि साधवः ॥३८॥साधून् दृष्ट्वा ममाऽप्येव दर्शनं जातमेव हि ।समस्ताश्च सुरा नित्यं साधुदेहे वसन्ति वै ॥३९॥सुरेश्वरस्तथा विष्णुश्चाऽहं साधौ वसामि च ।सर्वाऽऽरामः सुरामोऽहं रमेशः परमेश्वरः ॥४०॥कुंकुमवापिकाक्षेत्रे निवसामि त्वया सह ।ब्रह्मप्रियाभिः सहितो हरिप्रियानुसेवितः ॥४१॥कीर्तिर्लक्ष्मीर्धृतिः शान्तिः पुष्टिस्तुष्टिः रतिः रमा ।भुक्तिर्मुक्तिः श्रीर्लीला च यत्र तत्राऽहमेव च ॥४२॥मम साधुषु वर्तन्ते सदा कीर्त्यादयः प्रिये ।निवसामि सदा तेषु मद्रूपाः साधवस्ततः ॥४३॥प्रभावं साधुपूगस्य यश्च जानाति सर्वथा ।स तु सार्धं समाश्रित्य प्राप्य मां याति मत्पदम् ॥४४॥भवन्त्येव च तस्यैव सर्वे कामा यथेप्सिताः ।ये वा नाम रटन्त्यत्र मम लक्ष्मि समाहिताः ॥४५॥तेषां कीर्तनभक्तानां संसिद्ध्यन्ति मनोरथाः ।पूज्याः कीर्तनभक्ता मे तान्नमस्यामि चाप्यहम् ॥४६॥सार्धं मुक्तं सतीं साध्वीं ब्रह्मप्रियां हरिप्रियाम् ।सन्तं चाश्वपट्टभूमिं ये नमन्ति नमामि तान् ॥४७॥लक्ष्मीं राधां रमां श्रीं च माणिक्यां सुखदांश्रियम् ।रमां पद्मावतीं कृष्णां ये नमन्ति नमामि तान् ॥४८॥अवताराँश्च मे व्यूहान् भक्तांश्च पार्षदानपि ।मूर्तीर्मे ये नमस्यन्ति तन्नमस्याम्यहं सदा ॥४९॥वरुणं भास्करं वायुं वह्निं चन्द्रं बलाहकम् ।शिवं विष्णुमजं देवान् ये नमस्यन्ति तान्नमे ॥५०॥दुर्गां सरस्वतीं भूमिं शारदां विरजां तथा ।मंगलाममृतां ये च नमस्यन्ति नमामि तान् ॥५१॥बृहस्पतिं नारदं च सनत्कुमारमच्युतम् ।नरं नारायणं ये च नमस्यन्ति नमामि तान् ॥५२॥तपोधनान् महर्षींश्च भक्तिधनान् सतो जनान् ।विद्याधनाँश्च विदुषो ये नमन्ति नमामि तान् ॥५३॥अभुक्त्वा दैवकर्माणि कुर्वते ये प्रभुप्रियाः ।सन्तुष्टाः क्षमिणः सन्तस्तान् नमामि पुनः पुनः ॥५४॥यज्ञे यजन्ति ये चेष्टीर्जितेन्द्रियाः सुशान्तयः ।प्रातर्भजन्ति सायं ये तान्नमामि सुहृत्प्रियान् ॥५५॥धर्मं भक्तिं च पितरौ गाश्च गुरुं नमाम्यहम् ।ये वै संयमिनः शान्ता वने मूलफलाशनाः ॥५६॥असंचयाः साधवस्तान् नमामि सततं प्रिये ।भृत्यपोषा अतिथीनामाश्रया विघसाशिनः ॥५७॥सत्यवाचो ब्रह्मचारास्तान्नमामि सदा सतः ।प्रसन्नहृदयाः सर्वसत्त्वेषु मद्विवेकिनः ॥५८॥स्वाध्यायध्याननिरतास्तान्नमामि सतो जनान् ।गुरुप्रसादे मद्भक्तौ यत्नवन्तः स्थिरव्रताः ॥५९॥शुश्रूषवोऽनसूयन्तस्तान्नमस्यामि सज्जनान् ।सुव्रता सुनयो भक्ता ब्रह्मिष्ठा ब्रह्मदायिनः ॥६०॥वोढारो मे प्रसादस्य तान्नमामि सदा सतः ।भैक्षचर्यासु निरता दीना गुरुकुलाश्रयाः ॥६१॥निर्घृणाश्चाऽच्युतधना निर्ममा गतवासनाः ।ब्रह्मवक्तार ऐशा ये तान्नमामि सतो जनान् ॥६२॥अहिंसानिरताः सत्यव्रता दान्ता वितृष्णकाः ।कपोतवृत्तिका गृह्यास्तान्नमामि सतो जनान् ॥६३॥चतुर्वर्गस्थिताः शान्ता अपि निष्कामयोगिनः ।शिष्टाचारप्रवृत्ताश्च नमाम्येतान् रमे सदा ॥६४॥ब्राह्मणा ब्रह्मतनवो भक्तिपराः सुपुण्यिनः ।सुधाभक्षा व्रतयुक्तास्तान्नमामि सदाश्रितान् ॥६५॥अयोनीनग्नियोनीँश्च ब्रह्मयोनीन् सदुद्भवान् ।अच्युतगोत्रान् श्रीगोत्रान्नमामि सततं सतः ॥६६॥अक्षरं चापि गोलोकं वैकुण्ठं चाऽमृतं पदम् ।अव्याकृतपदं ये च गन्तुमिच्छव ऐश्वरम् ॥६७॥वैष्णवं धाम वा साध्वाश्रमान् जिगमिषूँस्तथा ।नमस्यामि सतस्तान् वै सर्वानहं हि पद्मजे ॥६८॥लोकज्येष्ठान् कुलज्येष्ठान् तमोघ्नान् लोकभास्करान् ।कृष्णधामप्रदान् साधून्नमानि भवपारदान् ॥६९॥पूजार्हान् हितधातृँश्च सुखदान् पोषकामपि ।रक्षकान् कालमायादेर्नमामि सज्जनान् सतः ॥७०॥अत्राऽमुष्मिन् सुखदास्ते हरेर्भक्ता हि साधवः ।ये सर्वाऽतिथयो नित्यं तान्नमामि सदा रमे ॥७१॥एतादृशेषु भक्तेषु साधुषु ब्रह्मयोगिषु ।अनुसृताश्चाभिरता दुर्गाण्यतितरन्ति ते ॥७२॥तेषु शान्तिपरास्तेषां प्रशंसकाश्च सेवकाः ।अनसूयका भक्ताश्च दुर्गाण्यतितरन्ति ते ॥७३॥सर्वान् सतो नमस्कुर्वन् देवान् वृद्धान् शुभावहान् ।श्रद्धावान् भक्तिमाँश्चापि दुर्गाण्यतितरत्यपि ॥७४॥तपस्विनः साधवो वै कौमारब्रह्मचारिणः ।भक्त्या प्रभावितात्मानस्तारयन्त्यघिनो जनान् ॥७५॥मात्रापित्रोर्गुरुजने भक्त्या वसन्ति ये जनाः ।सदाऽऽशीर्वादनेतारो दुर्गाण्यतितरन्ति ते ॥७६॥यथा त्वं वर्तसे लक्ष्मि वर्तन्ते साधवो यथा ।ब्रह्मप्रियाश्च वर्तन्ते वर्तन्ते च हरिप्रियाः ॥७७॥यथा कुंकुमवापीस्था वर्तन्ते च नराः स्त्रियः ।सर्वे मुक्ता ब्रह्मवासाः सन्तः साध्व्यो हि मे मताः ॥७८॥चतुर्दशसु लोकेषु नर्षयस्तादृशास्तथा ।पितरो मुनयो नैव न सुरा मानवास्तथा ॥७९॥नाऽन्ये विप्रा यथा चैते पावना मत्स्वरूपिणः ।क्षेत्रं कुकुमवापीयं चाऽक्षरं धाम मेऽस्ति यत् ॥८०॥तत्रस्थाः सर्वमुक्ताश्च मुक्तान्यः शक्तयो मम ।सर्वा ब्रह्मप्रिया नार्यः सर्वे मुक्ता नरास्त्विह ॥८१॥पादपाश्चाण्डजा जरायूजाश्चान्येऽपि जन्तवः ।स्वेदजा वापि सर्वे चाऽक्षरक्षेत्रे वसन्ति ये ॥८२॥दिव्या मुक्ता हि ते सर्वे सर्वपूज्या भवन्ति ते ।त एव साधवः सर्वे मुक्तिदा वासमात्रतः ॥८३॥कल्पद्रुमस्य चांगानि सर्वाणि पावनानि वै ।तथा चाऽक्षरभूमेश्च वासिनः पावना हि मे ॥८४॥साधवस्ते शरण्या वै शरणागतरक्षिणः ।यथाऽहं च तथा ते वै दयापूर्णा विमुक्तिदाः ॥८५॥सर्वस्वं चापि दत्त्वैव रक्षन्ति शरणागतान् ।शृणु लक्ष्मि समाख्यानं साधोर्वृषायनस्य ह ॥८६॥वृषायनो हि साधुर्मे दीक्षां प्राप्य वने वसन् ।भजते मां हरिं कृष्णं निर्द्वन्द्वो निष्परिग्रहः ॥८७॥विदेह इव राजन् वै तेजसा भास्करो यथा ।दयया चाऽभयदाता जीवानां श्रेयसि स्थितः ॥८८॥व्याघ्रारण्ये निम्बतरोरधोवासो विराजते ।तत्रैकदा तु श्येनेन पात्यमाना भयातुरा ॥८९॥चटका शरणं प्राप्ता वृषायनाख्ययोगिनम् ।स तां दृष्ट्वा निराधारां त्रासादंकमुपागताम् ॥९०॥आश्वास्याऽऽह भयं मा ते चटकेऽस्त्विह मेऽन्तिके ।इत्युक्त्वा चटका हस्ततले धृत्वा तदासने ॥९१॥अग्रे तां रक्षयामास तावच्छ्येन उवाच तम् ।ऋषे साधो मम भक्ष्यं चटकेयं प्रदीयताम् ॥९२॥प्रयत्नान्महतो लब्धा त्यजैनां भक्षणं मम ।अस्या मांसं तु मे चाद्य पर्याप्तं स्यात्प्रतोषणम् ॥९३॥क्षुधा मे बाधते साधो भोज्यं मे दीयतां द्रुतम् ।मया ह्यनुसृता त्वेषा ममैव भक्ष्यरूपिणी ॥९४॥साधुना नाऽत्र वयसोः स्थातव्यं मध्यपातिना ।औदासीन्यस्थितेस्तेऽत्र को लाभो द्वेषरागयोः ॥९५॥समवृत्तिर्भवेत् साधुः पक्षपातो न ते वृषः ।क्षुधितोऽहं चाति साधोऽन्यथा मे मरणं भवेत् ॥९६॥दयालो त्वं देहि भक्ष्यं चटकां मन्निपातिताम् ।चटकाया रक्षणे ते मे हत्यापापमापतेत् ॥९७॥मम जीवनदाने तु चटकाध्वंसपातकम् ।ते भवेदिति चात्रार्थे भवौदासीनवृत्तिमान् ॥९८॥इत्याकर्ण्य क्षणं वृषायनश्चिन्तामवाप ह ।द्वयोश्चाऽभयदानं च विचार्येत्थमुवाच तम् ॥९९॥वद श्येन निजार्थं वै यथा ते क्षुन्निवर्तनम् ।भवेदेव तथा कुर्वे मुञ्चामि चटका नहि ॥१००॥शरणं सा जीवनार्थं त्वागता मां प्ररक्षिणम् ।न मुञ्चति ममांगानि पश्य रक्षार्थिनीं त्विमाम् ॥१०१॥तत्रापि विद्यते नारी न हन्तव्या कदाचन ।गर्भिणी विद्यते चापि न हन्तव्या त्वया द्विज ॥१०२॥फलं मूलं चान्नमिष्टं भिक्षागतं ददामि ते ।आनयामि त्वदर्थं वै मिष्टान्नं तत्प्रभक्षय ॥१०३॥श्येनः प्राह न मे कार्यं फलमूलैर्न भिक्षया ।यस्तु देवेन विहितो भक्ष्यो मे चटकात्मकः ॥१०४॥मांसं भक्ष्यं श्येनजातेः रीतिस्त्वेषा पुरातनी ।यदि साधो चटकाया स्नेहस्ते पक्षपातवत् ॥१०५॥ततस्त्वं मे प्रयच्छाऽद्य स्वमांसं चटकामितम् ।तुलया तोलितं मे स्यात्पर्याप्तं नाधिकं खलु ॥१०६॥वृषायनः प्रसन्नोऽभूच्छ्रुत्वा तूर्णं तमाह च ।महाननुग्रहश्चाऽयं खग त्वया मयि कृतः ॥१०७॥ततः कृत्वा पर्णपुट्यौ तुलां कृत्वा यथोचिताम् ।उत्कृत्योत्कृत्य मांसं स्वं श्येनार्थं समतोलयत् ॥१०८॥चटकाभारमांसं स्वं ददौ श्येनाय बाहुजम् ।श्येनो लब्ध्वा प्रभुक्त्वा च पीत्वा जल वनं ययौ ॥१०९॥चटका रक्षिता जाता प्रसन्नाऽभूत् सुनिर्भया ।शनैः सा तु ऋषिं नत्वा पार्श्वे वने ययौ ततः ॥११०॥सन्धिनीं पूरणीं श्रेष्ठामोषधिं प्राप्य चाययौ ।साधोर्हस्ते ददौ पत्ररसं बाहुः प्रपूरितः ॥१११॥यथापूर्वमभवच्च नीरुक् साऽपि ततः परम् ।सेवायां सर्वदा साधोः पार्श्वेऽवसत् सुपक्षिणी ॥११२॥फलपत्राणि चादाय साधवेऽर्पणमेव ह ।करोति चाथ कालेन सुषुवेऽण्डानि पञ्च च ॥११३॥सेवाफलेन ते सर्वे बाला भूतादिवेदिनः ।त्रिकालदर्शिनः सर्वे जाताः श्वेतस्वरूपिणः ॥११४॥दीपोत्सवीघोटकाख्या महर्षिणा हि ते कृताः ।शकुनज्ञाः शकुन्तास्ते पूज्यन्ते दैववेदिभिः ॥११५॥चटका सा ततः काले वार्धक्ये मृत्युमागता ।विमानेन ययौ स्वर्गं जाताऽप्सरोवरा शुभा ॥११६॥नाम्ना चाऽलम्बुषा त्विन्द्रसेविका च ततः परम् ।मुक्तिं प्राप्ता ब्रह्मलोके साधोः सेवाफलेन वै ॥११७॥एवं परोपकारार्थदत्तसर्वस्वसाधवः ।रक्षन्ति चापि मोक्षं च प्रेषयन्ति च देहिनः ॥११८॥भक्तानां रक्षिता चानुरक्तानां शरणार्थिनाम् ।यः स साधुर्दयालुश्च सुखं ददाति विदन्ति ॥११९॥साधुवृत्तो जनश्चात्र साधुत्वमनुतिष्ठति ।किं न प्राप्तं भवेत्तेन मदर्थत्यागवर्षिणा ॥१२०॥वृषायनो हि भगवान् वर्ततेऽश्वसरोवरे ।यदाश्रयेण बहवो यान्ति धामाऽक्षरं मम ॥१२१॥पश्य लक्ष्मि स्थितं वारितटे ध्याने मदर्थिनि ।एवं मे साधवो लोके भवन्ति श्रेयसां प्रदाः ॥१२२॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने साधोर्मुख्यधर्मो नारायणस्तेन साधुत्वम् । साधवे नारायणनतिः, वृषायनेन साधुना चटकाभारमांसं श्येनायदत्वा चटका रक्षिता चेत्यादिनिरूपणनामा पञ्चाशीतितमोऽध्यायः ॥८५॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP