संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः ३५

द्वापरयुगसन्तानः - अध्यायः ३५

लक्ष्मीनारायणसंहिता


श्रीपुरुषोत्तम उवाच-
शृणु लक्ष्मि ततश्चोर्ध्वं प्राकट्यं मेऽप्सरोऽब्दके ।
वेधसः पञ्चचत्वारिंशाऽब्दे कल्पे सहस्रके ॥१॥
द्वितीये च मनौ सर्वाप्सरसां भक्तिभावनैः ।
आकृष्टोऽहं मोक्षदाताऽनादिकृष्णनरायणः ॥२॥
आविरासं पृथिव्यां वै शृणु तत्पद्मजे यथा ।
स्वर्गे सत्ये महेन्द्रस्य सभायां देवकोटिषु ॥३॥
तथाऽन्यत्र प्रशंसा वै सर्वत्र मम जायते ।
रूपे गुणे स्वभावे चैश्वर्ये सुखे विलासने ॥४॥
स्पर्शे शब्दे विहारे च शीले तृप्तौ रसे बले ।
आनन्दे सहवासे च योगे हास्ये च नर्मणि ॥५॥
शयने सेवने मोहे हावे भावे विकर्षणे ।
मोदे प्रमोदे रमणे उत्सवे भोजने स्थितौ ॥६॥
आसने वाहने याने गृहे पाने च नर्तने ।
शृंगारे च सुगन्धे च वीर्ये पराक्रमे कृतौ ॥७॥
रञ्जने च क्रियायां च प्रसन्नत्वे प्रभोगने ।
अनादिश्रीकृष्णनारायणतुल्यो न चापरः ॥८॥
एवं प्रशंसां श्रुत्वैवाऽप्सरसः कोटिशो दिवि ।
स्पृहां चक्रुर्मम योगे भागे विलासने रतौ ॥९॥
तास्तु भोगान् विहायैव मम प्राप्त्यर्थमुत्सुकाः ।
व्रतानि चक्रुर्बहूनि मानव इव योषितः ॥१०॥
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।
अस्मत्पतिर्भवेद्येन तृप्ताः स्याम हि सर्वथा ॥११॥
इति संकल्प्य सर्वास्ताः पूजनं मम सव्यधुः ।
मयाऽप्याकाशवाण्या वै ताभ्यस्ततो निवेदितम् ॥१२॥
सर्वा भवन्तु मानुष्यो निजांशैः कन्यकाः शुभाः ।
राजपुत्र्यो विप्रपुत्र्यो भक्तपुत्र्यश्च सर्वथा ॥१३॥
अद्यारभ्य यथेष्टं वै गृह्णन्तु जन्म भूतले ।
मेरोः पश्चिमतो भागे खण्डे हेमरथाह्वये ॥१४॥
तत्राऽहं मानवो मिलिष्यामि वै क्षत्रपुंगवः ।
वर्चिष्णुवंशमूर्धन्यः परब्रह्म स्वयं हरिः ॥१५॥
इत्युक्तास्ता अप्सरसो दध्रुर्जन्मानि सर्वशः ।
अहं साकं त्वया लक्ष्मि खण्डे हेमरथाभिधे ॥१६॥
वर्चिष्णुक्षत्रियवंशे बृहदिन्द्रनृपालये ।
प्रभास्वतीमहिष्यां वै प्रादुरासं द्रुतं तदा ॥१७॥
शंखचक्रगदापद्मकौस्तुभादिविराजितः ।
भक्तौ मे पितरौ धन्यं भाग्यं मेनात एव च ॥१८॥
देवदुन्दुभयो नेदुर्महर्षयोऽपि मंगलम् ।
स्मरणं पूजनं चक्रुर्वर्धयामासुरीश्वराः ॥१९॥
पुष्पवृष्टिर्व्योममार्गादभवच्छुभशंसिका ।
उत्सवं चक्रिरे राजा प्रजाः सुरा महर्षयः ॥२०॥
अथ त्वं रुक्मचम्पाया राज्ञ्या गवेन्द्रभूपतेः ।
कुक्षौ तदाऽभवः प्रादुः सर्वसौभाग्यसुन्दरी ॥२१॥
शातकुंभाऽऽभदेहा च सर्वलक्ष्मसमन्विता ।
प्राप्ते विवाहयोग्ये च काले मह्यं समर्पिता ॥२२॥
तव पित्रा तथा मात्रा प्रदत्ता मम भामिनी ।
मया च विधिना तत्र विवाहिताऽतिसुन्दरी ॥२३॥
सम्राजस्तस्य राज्ञश्चोत्सवे वैवाहिके मम ।
आदेशान्नृपवंशाश्च श्रेष्ठिवंशास्तथा परे ॥२४॥
द्विजवंशाः क्षत्रवंशा वैश्यवंशाः समाययुः ।
अप्सरसश्च याः कन्या मां स्वप्ने ददृशुर्निशि ॥२५॥
विवाहो जायते नश्च हरिणा परमात्मना ।
तव विवाहरात्रौ ता ददृशुर्मां पतिं प्रभुम् ॥२६॥
अथ ता निर्णयं चक्रुर्मदर्थं वै स्वयंवरे ।
पतिं स्वयं ग्रहीष्यामो वरमालाप्रदानतः ॥२७॥
अथाऽह परमात्मा च महैश्वर्यसमन्वितः ।
तासां मदर्थकन्यानां पितृभ्यां दर्शनं ददौ ॥२८॥
स्वप्ने ताभ्यां निजा पुत्री मह्यं दत्तेति चोत्सवे ।
तत उत्थाय पितरौ सर्वासां वै स्वभावतः ॥२९॥
तां तां सुतां दत्तवन्तौ मह्यं श्रीपरमात्मने ।
कोटिशोऽप्सरसो मां वै प्राप्य कान्तं यथेप्सितम् ॥३०॥
आनन्दं परमं प्रापुः सुखं प्रापुरनुत्तमम्।
एकमन्वन्तरं राजा चक्रवर्ती तदाऽभवम् ॥३१॥
नाम्ना सम्राड्बृहद्ब्रह्मनारायणनृपेश्वरः ।
मम पुत्रास्तदा कोट्यर्बुदाब्जाः पुत्रिकास्तथा ॥३२॥
तथासंख्या अभवँश्च राजवंशेषु चार्पिताः ।
मम पौत्राश्च दौहित्रा ब्रह्मक्षत्रविशात्मकाः ॥३३॥
प्रजात्मकास्तथा जाता राजानोऽपि च भूतले ।
मन्वन्तरान्ते पत्नीस्ता मोक्षयित्वा ततः परम् ॥३४॥
अहं वनं जगामाऽपि साकं त्वया नरायणि! ।
अरण्ये चाऽदृश्यभावं त्वया साकं गतोऽभवम् ॥३५॥
एवं ममापि लोकेषु पूजा ततः प्रवर्तिता ।
अनादिश्रीबृहद्ब्रह्मनारायणस्य सर्वदा ॥३६॥
रुक्मवत्या त्वया सार्धं चाऽऽकल्पान्तं हि पद्मजे ।
स्मर सर्वं शिवराज्ञि! प्राकट्यं ते च मेऽपि च ॥३७॥
एवमन्येऽप्यवतारास्तत्कल्पे बहवोऽभवन् ।
पठनाच्छ्रवणाच्चापि भुक्तिर्मुक्तिः परा भवेत् ॥३८॥
सर्वतीर्थफलं स्याच्च यावद्व्रतफलं तथा ।
यावद्दानफलं चापि यावच्छ्रौतफलं भवेत् ॥३९॥
सर्वपापविनाशः स्यात् सर्वाऽऽनन्दाप्तिरित्यपि ।
सर्वप्रमोदभाक् स्याच्च मम प्राप्तिस्तथा भवेत् ॥४०॥
अथाऽपरं प्रवक्ष्यामि प्राकट्यं मम तच्छृणु ।
वेधसो वत्सरे षटचत्वारिंशे ब्रह्मसारसे ॥४१॥
कल्पे नवशते षष्ठे मनौ चाद्ये कृते पुरा ।
ब्रह्मणा निर्मिता विप्रा मेधावन्तो महर्षयः ॥४२॥
ऊषुस्ते भूतले कर्मभूमौ त्वरव्यवासिनः ।
प्रत्यक्षदर्शिनः सर्वे सर्वधर्मपरायणाः ॥४३॥
ब्रह्मविद्याऽभवत् तेषां स्वाभाविकी प्रवर्तिका ।
अथ त्रेतायुगे प्राप्ते सांऽशे ह्रासं गता तदा ॥४४॥
तर्कवादा अभवँश्च महर्षयः परस्परम् ।
विस्मृतयोऽभवँश्चापि कालेनाऽविद्यया हताः ॥४५॥
ततश्चाराधयामासुर्मां श्रीशं पुरुषोत्तमम् ।
अनादिश्रीकृष्णनारायणं श्रीपरमेश्वरम् ।
अहमाविर्भवं तेषां मध्ये ज्ञानप्रदापकः ॥४६॥
विद्यामध्यापयामास ब्राह्मीं परां तथाऽपराम् ।
वेदविद्या तथा चात्मविद्यां धर्मक्रियात्मिकाः ॥४७॥
विद्याश्चान्या महर्षिभ्योऽध्यापयामास त्रै तदा ।
कुतर्कनाशिनीं पूजाभक्तिबोधभृतां शुभाम् ॥४८॥
मोक्षदां स्वर्गदां विद्यामध्यापयं हितप्रदाम् ।
महर्षीणां गुरुश्चाऽहं वेदविद्याप्रदोऽभवम् ॥४९॥
ब्रह्मस्वरर्षिपुत्रः सन् गौरवे च पदे स्थितः ।
विप्रो भूत्वाऽवर्तयं वै महर्षिगणसेवतः ॥५०॥
आद्वापरान्तायुष्कोऽहं त्वया साकं सुविद्यया ।
हृदन्तरर्षिसुतया नाम्ना सुविद्यया श्रिया ॥५१॥
अनादिश्रीगुरुनारायणः श्रीपुरुषोत्तमः ।
स्मर त्वं त्वां सर्वविद्याधिष्ठात्रीं तु तदा प्रिये ॥५२॥
एवमन्येऽप्यवतारा बहवोऽपि तदाऽभवन् ।
जानाम्येतानहं सर्वान् स्मर तान् परमेश्वरि! ॥५३॥
पठनाच्छ्रवणाच्चास्य तमो लीयेत मूलतः ।
ब्रह्मप्रकाशो जायेत तथाऽऽत्मदर्शितां व्रजेत् ॥५४॥
इत्येवं मम कमले प्राकट्यं कथितं तव ।
अथाऽन्यदपि कथये परब्रह्मण एव मे ॥५५॥
स्वर्धूनीवत्सरे सप्तचत्वारिंशे तु वेधसः ।
कल्पेऽष्टादशके त्रिंशच्छतोत्तरेऽष्टमे मनौ ॥५६॥
राजाऽभवन्मम भक्तो बृहद्धर्मा जनेश्वरः ।
स तु यज्ञं राजसूयं समारभत शोभनम् ॥५७॥
राजधान्यां प्रसिद्धायाम् ओजस्वत्यां नृपः स्वयम् ।
इष्टींश्च पशुयागौ च सोमयागान् व्यधापयत् ॥५८॥
नवत्रिंशद्विशिष्टैकशतमिष्टीनकारयत् ।
षट्सोमयज्ञकान् सप्त दर्वीहोमानकारयत् ॥५९॥
फाल्गुने शुक्लपक्षस्य प्रथमे प्रतिपद्दिने ।
समारभद्धि तज्यज्ञं वर्षमेकं तु तत्र च ॥६०॥
चातुर्मास्याऽनुष्ठानं त्वकारयद्विधिना नृपः ।
वैश्वानरस्य च पर्जन्यस्येष्टिं चाप्यकारयत् ॥६१॥
आग्नेयं सौम्यं सावित्रं सारस्वतं ततः परम् ।
पौष्णं च मारुतं वैश्वदेवं द्यावापृथिव्यकम् ॥६२॥
यागानेतानष्टसंख्यान् वैश्वदेवाख्यपर्वणि ।
अकारयत् स्वयं राजा तत्र क्रमाच्च देवताः ॥६३॥
अग्नयेऽष्टाकपालं च पुरोडाशं समार्पयत् ।
सोमाय च चरुं सवित्रे द्वादशकपालकम् ॥६४॥
चरुं समार्पयत् सरस्वत्यै चरुं ददौ तथा ।
पूष्णे पिष्टचरुं मरुते तु सप्तकपालकम् ॥६५॥
पुरोडाशं ददौ विश्वेदेवेभ्य आमिक्षकां ददौ ।
द्यावापृथिवीभ्यां ददावेककपालकं शुभम् ॥६६॥
पुरोडाशं ततस्तत्र मधुं च माधवं तथा ।
शुक्रं शुचिं घृतहोमैरतर्पयन्नृपः स्वयम् ॥६७॥
एवं कृत्वा वैश्वदेवपर्व ततो द्वितीयकम् ।
वरुणप्रघासपर्व चक्रे तु विधिना नृपः ॥६८॥
आग्नेयं सौम्यं सावित्रं सारस्वतं च पौष्णकम् ।
ऐन्द्राग्नं मारुतं चापि वारुणं कायमेव च ॥६९॥
अकारयन्नवयागान् तत्राग्निं स्तोममित्यपि ।
सवितारं तथा सरस्वतीं पूषाणमित्यपि ॥७०॥
इन्द्राग्नी मरुतश्चापि वरुणं कं क्रमेण वै ।
तत्तद्द्रव्यैर्नृपः सम्यगवर्तयत् हवादिभिः ॥७१॥
नभं नभस्यम् इषं चोर्जं चेति हुत्वाऽप्यतर्पयत् ।
अवभृथं चकाराऽपि नियमान् जगृहेऽपि च ॥७२॥
ततश्च तृतीयं साकमेधपर्वाऽप्यकारयत् ।
अनीकवत्यादीष्टीश्च महाहवींषि चेत्यपि ॥७३॥
पितृयज्ञं त्र्यम्बकहवींषि चापि व्यधापयत् ।
ऋषभं चाह्वयच्चापि क्रीडनेष्टिं ह्यकारयत् ॥७॥
सहं सहस्यं तपसं तपस्यं चेत्यतर्पयत् ।
ततश्च विधिना महापितृयज्ञे ह्यकारयत् ॥७५॥
पितृमन्तं बर्हिषदोऽग्निष्वात्तानप्यतर्पयत् ।
पिण्डान् ददौ च विधिना त्र्यम्बकहवींषि ददौ ॥७६॥
रुद्राय होमं प्रददौ चकाराऽदितिदैवतम् ।
यागं च चरुणा पश्चात् शुनासीरीयपर्वकम् ॥७७॥
कारयामास नृपतिराग्नेयादीन् यथायथम् ।
कारयामास च तथा ऐन्द्राग्नं वैश्वदैवकम् ॥७८॥
शुनासीरीयकं वायव्यं सौर्यं यागमित्यपि ।
अकारयत्तथा तत्तद्देवताश्चाप्यतर्पयत् ॥७९॥
अधिकमासनाम्ना चैककपालं ददौ तथा ।
ऐष्टिकानि समस्तानि सम्वत्सरेण चाऽकरोत् ॥८०॥
ततो राजा पवित्रादीन् षट् सोमयागकानपि ।
क्रमेणाऽऽकारयच्चापि सहस्रधेनुदक्षिणाः ॥८१॥
ददौ चाप्यनुमत्यादीनष्टौ यागान् व्यधापयत् ।
अनुमत्यै पुरोडाशमष्टाकपालकं ददौ ॥८१॥
आदित्यं च चरुं चापि प्रददौ नृपतिस्तथा ।
आग्नावैष्णवकं चैकादशकपालकं ददौ ॥८३॥
अग्नीषोमीयकं चैकादशकपालकं ददौ ।
ऐन्द्रं चैकादशकपालकं चाग्नेयकं ततः ॥८४॥
अष्टाकपालकं चैन्द्रं दधि नृपो ददौ तया ।
ऐन्द्राग्नं द्वादशकपालं चरुं वैश्वदैवतम् ॥८५॥
सौम्यं श्यामाकं च चरुं सारस्वतं चरुं ददौ ।
अष्टाकपालमाग्नेयं रौद्रं गावीधुकं चरुम् ॥८६॥
ऐन्द्रं दधि यवमयं वारुणं च चरुं ददौ ।
अपामार्गकृतान् होमान् नृपश्चाकारयत्ततः ॥८७॥
धात्रे ददौ पुरोडाशं तद् द्वादशकपालकम् ।
अनुमत्यै चरुं राकायै चरुं च ददौ नृपः ॥८८॥
सिनीवाल्यै चरुं कुह्वै चरुं ददौ च दक्षिणाः ।
गोवृषभौ ददौ चाथ ततोऽन्यहवनान्यपि ॥८९॥
आग्नावैष्णवमेकादशकपालं ददौ नृपः ।
पुरोडाशं तथेन्द्रावैष्णवं च तादृशं ददौ ॥९०॥
वैष्णवं त्रिकपालं च प्रददौ नृपतिस्तथा ।
अग्नीषोमीयकं चैकादशकपालकं तदा ॥९१॥
पुरोडाशं ददाविन्द्रासोमीयकं च तादृशम् ।
सौम्यं चरुं ददौ चापि सौमपौष्णं चरुं ददौ ॥९२॥
ऐन्द्रापौष्णं चरुं पौष्णं च ददौ नृपस्तथा ।
ततो वैश्वानरीयां द्वादशकपालिकां शुभाम् ॥९३॥
इष्टिं चकार च वारुणं चरुं प्रददौ ततः ।
बार्हस्पत्यं चरुमैन्द्रमैकादशकपालकम् ॥९४॥
पुरोडाशं ददौ चाथाऽऽदित्यं चरु ददौ ततः ।
नैऽर्ऋतं च चरुमष्टाकपालमग्निदैवतम् ॥९५॥
पुरोडाशं ददौ दशकपालं वारुणं तथा ।
पुरोडाशं ददौ सप्तकपालं मारुतं तथा ॥९६॥
सावित्रं द्वादशकपालं पुरोडाशकं ददौ ।
आश्विनं द्विकपालं च पुरोडाशं ददौ तथा ॥९७॥
पौष्णं चरुं रौद्रमपि चरुं ददौ नृपस्ततः ।
द्वादशेष्टीस्ततो राजा कारयामास भूसुरैः ॥९८॥
चकार दीक्षणीयेष्टिं मित्रं बृहस्पतिं तथा ।
अयजच्च ततश्चाग्नीषोमीयेऽष्टौ हवींषि च ॥९९॥
ददौ यथाऽग्नये पुरोडाशमष्टाकपालकम् ।
सोमाय श्यामाकचरुं ददौ स्वयं नृपस्ततः ॥१००॥
सवित्रे द्वादशकपालं पुरोडाशकं ददौ ।
गावीधुकं च रुद्राय चरुं ददौ नृपस्ततः ॥१०१॥
चरुं नैवारकं बृहस्पतये च ददावपि ।
इन्द्रायैकादशकपालं पुरोडाशकं ददौ ॥१०२॥
मित्राय च चरुं वरुणाय यवमयं चरुम् ।
एवं दत्वा सर्वयागान् कृत्वा राजा स्थितोऽभवत् ॥१०३॥
ब्रह्मा राज्ञः करं स्पृष्ट्वा प्रजाभ्यः सन्न्यवेदयत् ।
अयं राजा भवतीनाम् अङ्गीचक्रुः प्रजाः नृपे ॥१०७॥
अभिषेकं जलैश्चक्रुः राजाषट्होममाचरत् ।
सर्वद्रव्यादिसम्पन्नं देवताह्लादकारकम् ॥१०५॥
पार्थहोमोत्तरं भूपौ रथं समारुरोह च ।
रथमोचनहोमाँश्च कृत्वाऽसनस्थितो नृपः ॥१०६॥
कथां शृण्वन् भूसुरेभ्यो दत्वा स्वर्णं ततः परम् ।
वैश्वदेवं तथा माहेन्द्रयागं च व्यधात्ततः ॥१०७॥
अवभृथेष्टिं कृत्वा च हवींषि दश चातनोत् ।
अष्टाकपालमाग्नेयं पुरोडाशं ददौ ततः ॥१०८॥
सारस्वतं चरुं चापि ददौ राजा ततः परम् ।
सावित्रं द्वादशकपालं पुरोडाशकं ददौ ॥१०९॥
पौष्णं चरुं तथा बार्हस्पत्यं चरुं ददावपि ।
ऐन्द्रमेकादशकपालं ददौ च नृपस्ततः ॥११०॥
वारुणं च दशकपालं सौम्यं च चरुं ददौ ।
त्वाष्ट्रमष्टाकपालं च वैष्णवं त्रिकपालकम् ॥१११॥
पुरोडाशं ददौ चैवं संसृपामप्यवर्तयत् ।
दक्षिणाः प्रददौ श्रेष्ठां राजा स्वयं च मण्डपे ॥११२॥
अध्वर्यवे स्वर्णमयौ दर्पणौ रत्नशोभितौ।
उद्गात्रे मालिकां हिरण्मयीं होत्रे तु वर्तुलाम् ॥११३॥
प्रस्तोत्रे प्रतिहर्त्रे च ददावश्वं सभूषणम् ।
ब्रह्मणे बालगर्भिणीर्दश गाः सन्ददौ नृपः ॥११४॥
मैत्रावरुणाय च वन्ध्यां गां ददौ नृपतिस्तदा ।
ब्राह्मणाच्छंसिने बलीवर्दं ददौ नृपस्तदा ॥११५॥
नेष्टे पोत्रे प्रददौ च धौताम्बरे शुभे तदा ।
अच्छावाकाय शकटं यवपूर्णं ददौ तदा ॥११६॥
अग्नीधे ऋषभं चापि ददौ नृपस्तथाविधिम् ।
दशपेयं क्रतुं कृत्वा व्रतं जग्राह वै ततः ॥११७॥
केशानामवपनाख्यं सम्वत्सरावधि नृपः ।
ततश्चातिरात्रसंस्थात्मकं सोमक्रतुं व्यधात् ॥११८॥
व्युष्टिद्विरात्रमेवापि क्षत्रधृतिं व्यधापयत् ।
सौत्रामणिं चकारापि विधिना नृपतिस्ततः ॥११९॥
ऐन्द्रं तथाऽऽश्विनं सारस्वतं चैन्द्रवायोधसम् ।
पयोग्रहात्मकं होमं ददौ राजा ह्यवभृथम् ॥१२०॥
चकारैवं च दानानि ददौ राजा बहून्यपि ।
इयेष राज्यं दत्वैव दीक्षां च साधवीं शुभाम् ॥१२१॥
ग्रहीतुं स्वेष्टदेवाद्वै विप्रेभ्यः स न्यवेदयत् ।
सर्वां पृथिवीं विप्रेभ्यो ददौ दाने हि दक्षिणाम् ॥१२२॥
व्रतं त्वनशनं चक्रे सपत्नीको मदर्थकः ।
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ॥१२३॥
स्वयमागत्य मां दीक्षयित्वा साधुं व्यधापयेत् ।
राजसूयादियज्ञानां फलं हरौ तदाऽऽर्पयत् ॥१२४॥
अहं तन्निश्चय ज्ञाच्वा विप्राणां प्रार्थनामपि।
भक्तेच्छापूरणार्थं वै त्वया साकं हि पद्मजे ॥१२५॥
आविर्बभूव सहसा कोटिभास्करसन्निभः ।
स्वागतं मे च ते चक्रुः पूजनं च ततोऽप्यहम् ॥१२६॥
ददौ राज्ञे महादीक्षां साधवीं मोक्षदां शुभाम् ।
राज्ञ्यै दीक्षां ददौ चापि वीक्ष्य विप्रा महर्षयः ॥१२७॥
लक्षमिता महादीक्षां जगृहुर्मत्त एव ते ।
अहमाचार्यरूपश्च साधुधर्मानबोधयम् ॥१२८॥
वैष्णव्यस्ताः प्रजा जाताः समस्ता मोक्षगाः प्रिये ।
त्वं सतीनां महाचार्याणी तदा संव्यजायथाः ॥१२९॥
अनादिश्रीमहाचार्यनारायणोऽभवं ततः ।
अनादिश्रीमहाचार्याणीश्रीयुतो हरिः स्वयम् ॥१३०॥
सद्भिः सम्प्रार्थितश्चाहं मन्वन्तरं भुवस्तले ।
व्यचरं दिव्यरूपो वै मोक्षधर्मपरायणः ॥१३१॥
स्मर त्वं त्वां च मां लक्ष्मि! महाचार्यस्वरूपिणौ ।
एवमन्येऽप्यवतारा ममाऽभवन् सहस्रशः ॥१३२॥
राजा नाम्नाऽभवत् राजसूयायनो हि दीक्षितः ।
राज्ञी च राजसूयश्रीरभवत् साध्विका तदा ॥१३३॥
पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिर्भवेत् प्रिये ।
स्वर्गो मोक्षो भवेच्चापि रागो विरागतां व्रजेत् ॥१३४॥
अविद्या विलयं गच्छेदीयुर्बन्धा विलोपताम् ।
दिव्यरूपो भवेत् पुण्यशालिसेव्यो भवेदिह ॥१३५॥

इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसः पञ्चचत्वारिंशे वत्सरेऽप्सरसां मानुषीभूतानां मनोरथपूरणार्थम् अनादिश्रीबृहद्ब्रह्मनारायणस्य रुक्मवतीश्रीसहितस्य, षट्- चत्वारिंशे वत्सरे च महर्षिभ्यो ब्रह्मविद्यादिदानार्थम् अनादि- श्रीगुरुनारायणस्य सुविद्याश्रीसहितस्य, सप्तचत्वारिंशे वत्सरे च हरिभक्तस्य बृहद्धर्मनृपतेः राजसूययज्ञे सर्वस्वदानोत्तरं साध्वी- महादीक्षार्थं प्रार्थितस्याऽनादिश्रीमहाचार्यनारायणस्य आचार्याणीश्रीयुतस्य च प्राकट्यमित्यादि-
निरूपणनामा पञ्चत्रिंशोऽध्यायः ॥३५॥

N/A

References : N/A
Last Updated : May 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP