संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः १४२

द्वापरयुगसन्तानः - अध्यायः १४२

लक्ष्मीनारायणसंहिता


श्रीनारायणीश्रीरुवाच-
नारायण जगत्कान्त सर्वरक्षक सर्वग ।
कथं त्रिकालजं मृत्युं जयति मानवो भुवि ॥१॥
मृत्युरनिपरावृत्तो बलवान् केन वार्यते ।
केन रूपेण वा मृत्युर्मानवान् परिधावति ॥२॥
श्रीपुरुषोत्तम उवाच-
शृणु श्रीशिवराज्ञीश्रि नारायणीरमेऽपि च ।
लक्ष्मि समुद्रजे चापि शृणु चाक्षरमाणिकि ॥३॥
गरुडो मम भक्तो वै समासीनोऽभवद्गृहे ।
जपन् मालां मम ध्यायन् मन्मूर्तिं दिव्यरूपिणीम् ॥४॥
पृष्टस्तदा जनकेन कश्यपेन सुतो निजः ।
कथं पुत्र महाभक्त योगिन् मृत्युर्निवर्तते ॥५॥
केन रूपेण मृत्युर्वै समायाति हरत्यपि ।
कथं निःस्पर्शनं तस्य देहिनस्त्विह चर्यते ॥६॥
श्रुत्वा पक्षी च पितरं समुवाच वदामि तत् ।
भक्त्या निवर्तते मृत्युराश्रयात्परमात्मनः ॥७॥
दण्डी शस्त्रधरो भिक्षुर्नग्नादिः कालदूतकः ।
समायाति वर्ष्म धृत्वा तद्दंशेन न जीवति ॥८॥
चितावल्मीकशैलादौ कूपे च विवरे तरोः ।
दंशे दंष्ट्रात्रयं लग्नं दष्टो देही न जीवति ॥९॥
षष्ठ्यां च कर्कटे मेषे मूलाऽऽश्लेषामघादिषु ।
कक्षाश्रोणिगले सन्धौ शंखकर्णोदरादिषु ॥१०॥
वक्त्रे बाहौ च ग्रीवायां पृष्ठे दष्टो न श्रीपति ।
शेषोऽर्कः फणिपश्चन्द्रस्तक्षको भौम ईरितः ॥११॥
कर्कोटो ज्ञो गुरुः पद्मो महापद्मस्तु भार्गवः ।
शंखः शनैश्चरो राहुः कुलिकश्चेति ते ग्रहाः ॥१२॥
तत्तद्ग्रहेषु तज्जातिसर्पदष्टो न जीवति ।
पादांऽगुष्ठः प्रतिपदः स्यात् पादपृष्ठौ द्वितीयका ॥१३॥
गुल्फौ नु वै तृतीया स्याज्जानुनी च चतुर्थिका ।
लिंगं भगं पञ्चमीति नाभिः षष्ठीस्तिथिर्मता ॥१४॥
हृदयं सप्तमी प्रोक्ता स्तनौ चाष्टमिकादिनम् ।
कण्ठस्तु नवमी प्रोक्ता दशमी नासिकापुटौ ॥१५॥
नेत्रे चैकादशी बोध्या कर्णौ द्वादशिका मता ।
भ्रुवौ त्रयोदशीरूपे शंखश्चतुर्दशी मता ॥१६॥
मस्तकं पञ्चदशिका तत्तिथौ तत्स्थले दशेत् ।
तदा कालकवलेन दष्टो देही न जीवति ॥१७॥
पुंसो दक्षिणभागे तु नार्या वामे त्विदं मतम् ।
एतादृशक्षणे दष्टा न जीवन्ति कदाचन ॥१८॥
किन्तु 'ओं गरुड स्वाहा' जपेल्लक्षप्रवर्तनम् ।
जपन् स्पृशेत्पदांगुष्ठे तले पृष्ठे च गुल्फके ॥१९॥
जंघायां जानुभागे च सक्थ्नोलिंगे भगे कटौ ।
जघने नाभिदेशे च नितम्बे चोदरे हृदि ॥२०॥
स्तनयोः पार्श्वदेशे च बाह्वोश्च करयोस्तले ।
अंगुलिषु कफोणे च कण्ठे गले कृकाटके ॥२१॥
हनौ मुखे गण्डके च नासायां च कपोलके ।
कर्णयोः कर्णपृष्ठे च ललाटे नेत्रयोर्भ्रुवोः ॥२२॥
कपाले मस्तके चापि शिखायां विन्यसेन्मुहुः ।
स एव गरुडो देही जायते मन्त्रमन्त्रणात् ॥२३॥
नाक्रमन्ति च तच्छायां स्वप्नेऽपि विषपन्नगाः ।
कालरूपाश्चापि सर्पास्तद्भयाद् विद्रवन्ति वै ॥२४॥
विषं मन्त्रस्य विन्यासात् सर्वं नश्यति लीयते ।
'ओं शेषेश्वर नागिनीपते गरुडपृष्ठग ॥२५॥
आस्तीकवाक्फलद श्रीहरे विषिविषं हर' ।
इतिमन्त्रं लक्षवारं जपेत् सिद्धो भवेत्ततः ॥२६॥
प्रयुञ्जीत महाकालोऽप्यपि दूरायते भयात् ।
ममाऽनादिकृष्णनारायणनामजपात्तदा ॥२७॥
महाकालोऽपि संयाति विप्रकृष्टो भयान्मम ।
जीवाऽयोग्योऽपि देह्यत्र जीवत्येव न संशयः ॥२८।.
श्रीधरस्याऽर्चनं कुर्यात् परिवारान्वितस्य मे ।
ध्यात्वाऽऽत्मानं श्रीधराख्यं शंखचक्रगदाधरम् ॥२९॥
ओं श्रीमते पुरुषोत्तमाय नमः परात्मने ।
अक्षराय नमश्चेति माणिक्यायै नमो नमः ॥३०॥
पद्मावत्यै जयायै च ललितायै नमो नमः ।
सुखदायै च प्रज्ञायै लक्ष्म्यै चापि नमो नमः ॥३१॥
राधिकायै क्रियायै च ज्ञानायै च नमो नमः ।
इच्छायै कमलायै च महालक्ष्म्यै नमो नमः ॥३२॥
ओं ह्रीं श्रीधरायापि विष्णवे मे नमो नमः ।
अभिषेकं तथा वस्त्रं ततो यज्ञोपवीतकम् ॥३३॥
गन्धं पुष्पं तथा धूपं दीपमन्नं प्रदक्षिणम् ।
दद्याज्जपेन्मनुं मे च ध्यायेन्मां च हृदि स्थितम् ॥३४॥
शुद्धस्फटिकसंकाशं कोटिसूर्यसमप्रभम् ।
प्रसन्नवदनं सौम्यं स्फुरन्मुकुटकुण्डलम् ॥३५॥
किरीटिनमुदारांगं वनमालाविभूषितम् ।
परब्रह्मस्वरूपं मे चिन्तयेच्छोभनं परम् ॥३६॥
श्रीनिवासाय कृष्णाय नमः श्रीपतये नमः ।
श्रीधराय सशार्ङ्गाय श्रीप्रदाय नमो नमः ॥३७॥
श्रीवल्लभाय शान्ताय श्रीमते ते नमो नमः ।
श्रीपर्वतनिवासाय नमः श्रेयस्कराय च ॥३८॥
श्रेयसाम्पतये चापि श्रीविश्रामाय ते नमः ।
नमः श्रेयःस्वरूपाय श्रीकराय नमो नमः ॥३९॥
श्रिया साकं शयानाय शरण्याय नमो नमः ।
पुष्पाञ्जलिं ततो दत्वा श्रीश्वरं वै विसर्जयेत् ॥४०॥
एवं पूजाप्रकर्ता च निर्विषो जायते ध्रुवम् ।
स विधूयेत पापानि मे प्रयाति परं पदम् ॥४१॥
'ओं श्रीं ह्रीं श्रीधराय श्रीविष्णवे जिष्णवे नमः' ।
सर्वव्याधिहरश्चायं सर्वपीडाहरो मनुः ॥४२॥
सर्वपापहरश्चापि भुक्तिमुक्तिप्रदायकः ।
सर्वगरलसंहर्ता ह्यभिचारविनाशकः ॥४३॥
सर्वेष्टपूरकश्चापि मम धामप्रदोऽपि च ।
मत्स्वरूपः स्वयं भूत्वा जपेज्जीवेन्न संशयः ॥४४॥
यन्मासे यदृतौ यश्च सूर्येण सह भोगवान् ।
सर्पोऽपि वर्तते तस्य नाम्ना शपथमादिशेत् ॥४५॥
तेन सर्पविषं तूर्णं शाम्यत्येव न संशयः ।
शृणु लक्ष्मि कथयामि माससर्पार्कप्रभृतीन् ॥४६॥
सप्तकं सह वसति व्यूहं सूर्यात्मनो हरेः ।
एकः सूर्यः क्रियाकल्पैर्बहुधा वर्ण्यते तथा ॥४७॥
धाता सूर्योऽप्सरा पुञ्जिकस्थली हेतिराक्षसः ।
नागो वासुकी रथकृद्यक्षः पुलस्त्यऋषीश्वरः ॥४८॥
तुम्बुरुश्चापि गन्धर्वश्चैत्रेऽनुवर्तयन्ति ते ।
सूर्योऽर्यमाऽप्सरा पुञ्जिकस्थली हेतिराक्षसः ॥४९॥
नागः कच्छनीरोऽथौजा यक्षः पुलहो वै ऋषिः ।
नारदश्चापि गन्धर्वो वैशाखे वर्तयन्ति ते ॥५०॥
मित्रः सूर्योऽप्सरा मेनका पौरुषेयराक्षसः ।
नागस्तक्षको रथस्वनो यक्षोऽत्रिः ऋषिस्तथा ॥५१॥
हाहा चैवापि गन्धर्वो ज्येष्ठेऽनुवर्तयन्ति ते ।
वरुणः सूर्योऽप्सरा रंभा चित्रस्वनस्तु राक्षसः ॥५२॥
शुक्रो नागः सहजन्यो यक्षो वशिष्ठकः ऋषिः ।
हूहूश्चैवापि गन्धर्वश्चाषाढे वर्तयन्ति ते ॥५३॥
इन्द्रः सूर्योऽप्सरा प्रम्लोचा वर्यो राक्षसस्तथा ।
नाग एलापत्रः श्रोत्रा यक्षोऽङ्गिराः ऋषिस्तथा ॥५४॥
विश्वावसुश्च गन्धर्वः श्रावणे वर्तयन्ति ते ।
विवस्वान् सूर्योऽप्सराऽनुम्लोचा व्याघ्रस्तु राक्षसः ॥५५॥
शंखपालो नाग आसारणो यक्षो भृगुः ऋषिः ।
उग्रसेनस्तु गन्धर्वो भाद्रपदे भवन्ति ते ॥५६॥
पूषा सूर्योऽप्सरा घृताची वातो राक्षसस्तथा ।
नागो धनञ्जयो यक्षः सुरुचिर्गौतमः ऋषिः ॥५७॥
सुषेणश्चेति गन्धर्वो माघमासे भवन्ति ते ।
पर्जन्योऽर्कोऽप्सरा सेनजिती वर्चास्तु राक्षसः ॥५८॥
नाग ऐरावतो यक्षः ऋतुर्भारद्वाजः ऋषिः ।
विश्वो गन्धर्व इत्येते फाल्गुनेऽनुव्रजन्ति वै ॥५९॥
अंशुः सूर्योऽप्सरा चोर्वशी विद्युच्छत्रुराक्षसः ।
नागो महाशंखस्तार्क्ष्यो यक्षश्च कश्यपः ऋषिः ॥६०॥
ऋतुसेनश्च गन्धर्वो मार्गशीर्षे भवन्ति ते ।
भगः सूर्यः पूर्वचितिरप्सराः स्फूर्जराक्षसः ॥६१॥
नागः कर्कोटक ऊर्णो यक्ष आयुः ऋषिस्तथा ।
अरिष्टनेमिर्गन्धर्वः पौषेऽनुवर्तयन्ति ते ॥६२॥
त्वष्टा सूर्योऽप्सरास्तिलोत्तमा ब्रह्मापेतरक्षः ।
नागः कम्बलः शतजिद्यक्षो जमदग्निः ऋषिः ॥६३॥
धृतराष्ट्रस्तु गन्धर्वश्चाश्विने वर्तयन्ति ते ।
विष्णुः सूर्योऽप्सरो रंभा मखापेतस्तु राक्षसः ॥६४॥
नागोऽश्वतरो यक्षः सत्यजिद्विश्वामित्रः ऋषिः ।
सूर्यवर्चास्तु गन्धर्वः कार्तिके वर्तयन्ति ते ॥६५॥
स्थानाभिमानिनो ह्येते गणा द्वादशसप्तकाः ।
सूर्या भिन्नानि तेजांसि पाकान् प्ररचयन्ति च ॥६६॥
अप्सरसश्च गन्धर्वा नृत्यगीतिं चरन्ति वै ।
विद्याग्रामणितो यक्षा रथं संयोजयन्त्यपि ॥६७॥
सर्पास्ते रज्जवो भूत्वा यन्ति वै रथबन्धनम् ।
राक्षसाः पृष्ठतो यान्तः प्रेरयन्ति रथं खलु ॥६८॥
ऋषयो वेदमन्त्रैश्च स्तुवन्ति रथिनं प्रभुम् ।
वालखिल्यादयस्ते वै चास्तं प्रति नयन्त्यपि ॥६९॥
एतेषामेव देवानां यथावीर्यं यथातपः ।
यथायोगं यथाधर्मं यथातत्त्वं यथाबलम् ॥७०॥
तथा तपत्यसौ सूर्यस्तेषामिद्धस्तु तेजसा ।
भूतानामशुभं सर्वं व्यपोहति स्वतेजसा ॥७१॥
मानवानां शुभैरेतैर्ह्रियते दुरितन्तु वै ।
दुरितं शुभचाराणां व्यपोहति ममाज्ञया ॥७२॥
तपन्तश्च जपन्तश्च ह्लादयन्तश्च वै प्रजाः ।
गोपायन्ति स्म भूतानि चेहन्ते ह्यनुकम्पया ॥७३॥
तस्माल्लक्ष्मि स्मृताः सूर्या रक्षन्ति दिनकालतः ।
अप्सरसश्चोन्मादनविभ्रमाद् रक्षयन्ति च ॥७४॥
राक्षसा निशि रक्षौघै रक्षन्ति दुष्टकालतः ।
नागा नागविषाद्यैश्च रक्षन्ति पूजितास्तदा ॥७५॥
यक्षा रक्षन्ति च यक्षवासाद्यैर्विवरैः सदा ।
ऋषयस्तपसा मन्त्रै रक्षन्ति पूजिताश्च ते ॥७६॥
गन्धर्वाः पूजिता लोकान् रक्षन्ति सम्पदाम्प्रदाः ।
एवं कालमयाः सर्वे स्वस्वकालेन योजिताः ॥७७॥
पूजिता वन्दिताश्चापि प्रसन्ना रक्षयन्ति ते ।
अथ लक्ष्मि कथयामि मन्त्रं मृत्युञ्जयं वरम् ॥७८॥
येन मृत्युर्भवेज्जन्मवता जप्तेन सञ्चितः ।
अहं नारायणोऽनादिः परमेशोऽस्ति मद्वपुः ॥७९॥
महाकालो मम शक्तिस्तत्पुत्री मृत्युरेव ह ।
ममैश्वर्यस्य पुत्री सा मृत्युर्मया विनिर्मिता ॥८०॥
कालजिदहं भगवान् मृत्युजिदहं माधवः ।
मम नाम जपेन्नित्यं मृत्युञ्जयेति वै नमन् ॥८१॥
'ओं नमो मृत्युञ्जयाय स्वाहा' जपेदहर्निशम् ।
तेन मृत्युः स्वयं तस्मान्निवर्तते न संशयः ॥८२॥
दुःस्वप्नानि प्रणश्यन्ति दुष्टारि शकुनान्यपि ।
दुष्टग्रहा निवर्तन्ते दुर्भाग्यं लीयतेऽपि च ॥८३॥
महाभयं विलीयेत चेतयो यन्ति वै लयम् ।
उपद्रवाः प्रणश्यन्ति दैवाश्च भौतिकाश्च ये ॥८४॥
आध्यात्मिका व्याधयश्चाधयो नश्यन्त्युपाधयः ।
आकस्मिकानि दुःखानि विलीयन्ते द्रवन्ति च ॥८५॥
यत्राऽहं तत्र वै नास्ति दुःखं मनाक् कुतोऽति च ।
स्मृतोऽहं सततं लक्ष्मि पूजितोऽहं वसामि च ॥८६॥
हृदये तत्र चानन्दः शाश्वतो वै मया सह ।
भवत्येव हि भक्तानां यत्र श्रीस्तत्र मोदनम् ॥८७॥
अहं त्वं चाक्षरं ब्रह्म मुक्ता वसन्ति तद्धृदि ।
कालो मृत्युश्च पापानि पावनानि हि तत्र तु ॥८८॥
सुखदान्येव जायन्ते सद्भाग्यानि भवन्ति च ।
अभक्तस्यैव लोकेऽत्र पीडा ग्रहादिसंभवा ॥८९॥
नागादिसंभवा चापि दुःखदारिद्र्यसंभवा ।
अनाश्रितानां दुष्टाश्च भवन्ति पीडका रमे ॥९०॥
ममाऽऽश्रितेभ्यस्त्वरितं पलायन्ते हि पीडकाः ।
यमदूताः पलायन्ते निमित्तानि च मृत्यवः ॥९१॥
आत्मानमात्मना साकं योजयेद् भक्तिवर्मकः ।
अन्तरात्मात्मको भूत्वा तादात्म्येनाऽऽस्थितो भवेत् ॥९२॥
कर्मणा मनसा वाचा देहेनेन्द्रियधारया ।
मम तादात्म्यमाप्तस्य कालगन्धो न वर्तते ॥९३॥
मायागन्धो न चाऽऽस्तेऽस्य मृत्युगन्धस्ततः कुतः ।
मोदते मम पार्श्वेऽयं ममांशो ममतां गतः ॥९४॥
यथा श्रीमोर्दते लोके रमा लक्ष्मीः प्रमोदते ।
अनन्तो मोदते यद्वद् गरुडोऽपि प्रमोदते ॥९५॥
सनत्कुमारः सततं शंकरो मोदते यथा ।
यथा विष्णुर्मोदते च नारायणः प्रमोदते ॥९६॥
नरो नारायणश्चापि हरिःकृष्णोऽपि मोदते ।
तथा प्रमोदते भक्तः कालपाशविवर्जितः ॥९७॥
नारी नामजपा या सा माणिक्या सदृशी भवेत् ।
माणिक्याश्रीः सदाऽधिष्ठानात्मिका मम पद्मजे ॥९८॥
यत्राऽहं तत्र सर्वाण्यैश्वर्याणि मम सन्ति हि ।
कालमायादिके तत्र कर्म दुःखं न विद्यते ॥९९॥
'अनादिश्रीकृष्णनारायणाय ओं नमो नमः' ।
इत्येवं जपतो लक्ष्मि पातकं न स्पृशेत् क्वचित् ॥१००॥
इत्युक्तं मे मन्त्रबलं बाध्यते दुर्लभं बलात् ।
मम नामबलं सर्वबलाधिकं प्रविद्यते ॥१०१॥
मम मूर्तिबलं सर्वबलाधिकं सदा प्रिये ।
मद्बलं चापि सर्वेभ्यो बलेभ्योऽधिकमेव ह ॥१०२॥
तदादाय जयेत् कालं मायां पापं च कर्म च ।
संसारस्य विषं चापि शत्रून् विषयगोचरान् ॥१०३॥
सर्वं विषं विजित्यैवाऽमृतं पीत्वा मदात्मकम् ।
भुक्तिं मुक्तिं लभेन्मर्त्योऽमरः प्रजायतेऽक्षरे ॥१०४॥
पठनाच्छ्रवणादस्य स्मरणाच्चिन्तनादपि ।
कालमायाभयं त्यक्त्वा मोदते मत्कृताश्रयः ॥१०५॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने कालमृत्युस्वरूपतद्बलप्रदर्शनं तज्जयार्थं तत्तन्मन्त्रजपस्य परमेश्वरादिपूजनप्रकारस्य च निरूपणनामा द्वाचत्वारिंशदधिकशततमोऽध्यायः ॥१४२॥

N/A

References : N/A
Last Updated : May 04, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP