संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १४६ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १४६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १४६ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं भक्तस्य गायकस्य मे ।जपतो मेऽभिधानानि दिव्यता चाऽत्र जायते ॥१॥यत्र मे गायनं लक्ष्मि भजनं मम कीर्तनम् ।महोत्पाता न वै तत्र जायन्तेऽपि कदाचन ॥२॥मम भक्तिविहीनानां महोत्पाता भवन्ति वै ।तेषां शान्तिः प्रकर्तव्याऽन्यथा नश्यन्ति मानवाः ॥३॥श्रीनारायणीश्रीरुवाच-महोत्पातेषु जातेषु का शान्तिस्तेषु विद्यते ।सर्वदेहिहितार्थं मे ब्रूहि शान्तिं तथाविधाम् ॥४॥श्रीपुरुषोत्तम उवाच-शृणु लक्ष्मि महोत्पाता दिव्याऽन्तरिक्षभूमिजाः ।जायन्ते यत्र ये तेषां शान्तिं वदामि तत्त्वतः ॥५॥सौम्या शान्तिस्तु दिव्येषु ह्यन्तरिक्षेषु चाऽभया ।वैष्णवी शान्तिरिष्टा च भौमोत्पातेषु पद्मजे ॥६॥विजिगीषुः परं शत्रुं भूतिकामश्च यो भवेत् ।परैरभिचारितश्च शत्रुनाशेच्छुकश्च यः ॥७॥महद्भयविनाशार्थमभयां शान्तिमाचरेत् ।साधुभिश्चापि विप्रैश्च कारयेच्छान्तिमुत्तमाम् ॥८॥राजयक्ष्माभिभूतस्तु क्षतक्षीणोऽतिरोगवान् ।यज्ञकामो धर्मकामः सौम्यां शान्तिं प्रकारयेत् ॥९॥भूकम्पेऽन्नविनाशे च दुर्भिक्षे चातिवर्षणे ।शलभादिभयोत्पन्ने चौरप्रमत्तजे भये ॥१०॥शान्तिं तु वैष्णवीं तत्र विष्णुभक्तः प्रकारयेत् ।पशूनां मारणे प्राप्ते नराणामपि मारणे ॥११॥देहिनां दारुणे मृत्यौ रौद्रीं शान्तिं विधापयेत् ।यज्ञं च हवनं चापि चरेद् रुद्रादिपूजनम् ॥१२॥वेदनाशे शास्त्रनाशे नास्तिकेषु जनेषु च ।अपूज्यपूजने जाते ब्राह्मीं शान्तिं समाचरेत् ॥१३॥परमेष्ठिप्रपूजादि कारयेद् वेदवेदिभिः ।भविष्यत्यभिषेके च परचक्रभयेऽपि च ॥१४॥स्वराष्ट्रभेदेऽरिवधे रौद्रीं शान्तिं प्रकारयेत् ।त्र्यहातिरिक्ते पवने झंझावातेऽतिदारुणे ॥१५॥सर्वविगर्हिते भक्ष्ये वातजे विकृते भये ।व्याधौ वा वातजे जाते वायवीं शान्तिमाचरेत् ॥१६॥अनावृष्टिभये जाते चातिवृष्टिभयेऽपि च ।विकृतिवर्षणे जाते विकृते च जलाशये ॥१७॥जलोत्पन्ने भये तत्र वारुणीं शान्तिमाचरेत् ।अभिशापभये जाते मन्त्रशापभयेऽपि च ॥१८॥मिथ्याशापभये प्राप्ते भार्गवीं शान्तिमाचरेत् ।जाते प्रसववैकृत्ये गर्भरोगे च प्रस्रवे ॥१९॥शुष्के च प्रसवे कुर्याच्छान्तिं प्राजापतीं रमे ।उपस्काराणां वैकृत्ये भवनानां तथा रमे ॥२०॥शकटानां वाहनानां त्वाष्ट्रीं शान्तिं समाचरेत् ।बालानां बालिकानां च विकृतौ च भयेऽपि च ॥२१॥विनाशे चाजीवने च कौमारीं शान्तिमाचरेत् ।दावभये वह्निभये त्वाग्नेयो शान्तिमाचरेत् ॥२२॥आज्ञाभंगे तु सञ्जाते जाते भृत्यादिसंक्षये ।अश्वादीनां विकारे तु रोगात्मके ह्युपस्थिते ॥२३॥गीतिकादौ विकारे च कण्ठादिपतनेऽपि च ।गलरोगे व्रणादौ च गान्धर्वीं शान्तिमाचरेत् ॥२४॥गजानां तु विकारेऽपि शान्तिमाङ्गीरसीं चरेत् ।पिशाचादिभये जाते भूतप्रेतादिवल्गने ॥२५॥डाकिन्यादिकृते कष्टे नैर्ऋतीं शान्तिमाचरेत् ।अपमृत्युभये प्राप्ते दुःस्वप्ने चाऽवलोकिते ॥२६॥नारके वा तादृशे वा प्राप्ते दुःखे यमादिभिः ।असद्गतौ याम्यवासे याम्यां शान्तिं विधापयेत् ॥२७॥धननाशे द्रव्यनाशे भूषारत्नादिनाशने ।सम्पदां च विनाशे तु कौबेरीं शान्तिमाचरेत् ॥२८॥वृक्षाणां चापि सस्यानां कन्दानां फलिनां तथा ।वल्लीनां च कणानां च मूलानां फलवैकृतौ ॥२९॥अर्थानां भूतियोगानां नाशे शान्तिं तु पार्थिवीम् ।कारयेद् वेदविद्भिस्तां शान्तिकर्माऽभिवेदिभिः ॥३०॥प्रथमे दिनयामे च रात्रौ वा समुपद्रवे ।हस्ते स्वातौ च चित्रायामादित्ये चाश्विने तथा ॥३१॥अर्यम्णि चापि जाते वा तथाऽन्योपद्रवेषु च ।अद्भुतेष्वपि जातेषु वायवीं शान्तिमाचरेत् ॥३२॥द्वितीये दिनयामे तु रात्रौ वा समुपद्रवे ।पुष्याग्रे च विशाखासु पित्र्यासु भरणीषु च ॥३३॥उत्पातेषु तथा भाग्ये त्वाग्नेयीं शान्तिमाचरेत् ।तृतीये दिनयामे च रात्रौ च समुपद्रवे ॥३४॥रोहिण्यां वैष्णवे ब्राह्मे वासवे वैश्वदैवते ।ज्येष्ठायां च तथा मैत्र्ये ह्युपद्रवेषु सर्वथा ॥३५॥ऐन्द्रीं शान्तिं कारयेच्च विप्रैर्मन्त्रप्रवेदिभिः ।चतुर्थे दिनमाने तु रात्रौ वा समुपद्रवे ॥३६॥सार्पे पौष्णे तथाऽऽर्द्रायामहिर्बुध्न्ये च दारुणे ।मूले वरुणदैवत्ये वारूणीं शान्तिमाचरेत् ॥३७॥मित्रमण्डलवेलासु जायमाने ह्युपद्रवे ।अद्भुतेषु विचित्रेषु शान्तिद्वयं प्रकारयेत् ॥३८॥शान्तिर्वर्म भवत्येव रक्षत्युपद्रवादितः ।शान्तिः पत्नी हि धर्मस्य दक्षस्य दुहिता मता ॥३९॥धर्मयुक्ता मया चापि युक्ता बलेन योजिता ।मम शक्तिस्वरूपा च मद्बलेनाऽभिवेशिता ॥४०॥तत्तद्देवबलैः पुष्टा हरत्यद्यान्युपद्रवान् ।उपघाताः पलायन्ते शान्तिनामककर्मभिः ॥४१॥जनापचारान्नियतमपरज्यन्ति देवताः ।देवनामपरागाच्च ह्युपसर्गः प्रवर्तते ॥४२॥दिव्यान्तरिक्षभौमाख्यस्तच्छान्तिस्तत्र शान्तिदा ।ग्रहर्क्षवैकृतो दिव्यश्चोपसर्गः प्रकीर्तितः ॥४३॥उल्कापातो दिशां दाहः परिवेषस्तथैव च ।गन्धर्वनगरं चापि वृष्टिस्तु विकृता तथा ॥४४॥रक्तवृष्टिर्विषतापश्चान्तरिक्षोपसर्गकाः ।चरस्थिरभवौ भौमो भूकम्पश्चापि भूमिजः ॥४५॥जलाशयानां वैकृत्यं भौमः सोऽप्युपसर्गकः ।भौमे त्वल्पफलं ज्ञेयं चिरेण स विपच्यते ॥४६॥अभ्रजो मध्यफलदो मध्यकालफलप्रदः ।अद्भुते तु समुत्पन्ने यदि वृष्टिः शिवा भवेत् ॥४७॥सप्ताहाभ्यन्तरे ज्ञेयमद्भुतं निष्फलं भवेत् ।अद्भुतानां निवृत्तिस्तु विनाशान्त्या न जायते ॥४८॥त्रिभिर्वषैरद्भुतं स्यात् सुमहद्भयकारणम् ।राज्ञः शरीरे लोके वा पुरद्वारे पुरोहिते ॥४९॥पाकमायाति पुत्रेषु तथा कोशे च वाहने ।ऋतुस्वभावाज्जायन्ते ह्यद्भुता उपसर्गकाः ॥५०॥शान्तिकर्मोपशमिताः शुभावहा भवन्ति ते ।कालमासप्रभेदे तु शुभास्ते शान्तिमन्तरा ॥५१॥वज्राशनिमहीकम्पाऽसस्थनिर्घातनिस्वनाः ।परिवेषरजोधूमरक्ताऽर्काऽस्तमयोदयाः ॥५२॥द्रुमोद्भेदकरस्नेहो बहुशः सफलद्रुमः ।गोपक्षिमधुवृद्धिश्च शुभाः फाल्गुनचैत्रयोः ॥५३॥ऋक्षोल्कापातकलुषं कपिलाऽर्केन्दुमण्डलम् ।कृष्णं श्वेतं च पीतं च धूसरं ध्वान्नलोहितम् ॥५४॥रक्तं पुष्पारुणं सान्ध्यं नमः क्षुब्धार्णवोपमम् ।सरितां चाम्बुसंशोषश्चैते ग्रीष्मे शुभावहाः ॥५५॥शक्रायुधपरिवेषो विद्युदुल्काधिरोहणम् ।कम्पोद्वर्तनवैकृत्यं हसनं दारुणं क्षितेः ॥५६॥नद्योदपाने सरसां विधूनतरणप्लवाः ।शृङ्गिणां च वराहाणां वर्षासु शुभदा हि ते ॥५७॥शीतानिलतुषाराश्च नर्दनं मृगपक्षिणाम् ।रक्षोभूतपिशाचानां दर्शनं वागमानुषी ॥५८॥दिशो धूमान्धकाराश्च सनभोवनपर्वताः ।उच्चैः सूर्योदयाऽस्तौ च हेमन्ते चेच्छुभावहाः ॥५९॥दिव्यस्त्रीरूपगन्धर्वविमानाद्भुतदर्शनम् ।ग्रहनक्षत्रताराणां दर्शनं वागमानुषी ॥६०॥गीतवादित्रनिर्घोषो वनपर्वतसानुषु ।सस्यवृद्धी रसोत्पत्तिः शरत्सु चेच्छुभावहाः ॥६१॥हिमपाताऽनिलोत्पातविरूपाद्भुतदर्शनम् ।कृष्णाञ्जनाभमाकाशं तारोल्कापातपिञ्जरम् ॥६२॥चित्रगर्भोद्भवः स्त्रीषु गोऽजाश्वमृगपक्षिषु ।पत्राऽङ्कुरलतानां च विकाराः शिशिरे शुभाः ॥६३॥देवतार्चाः प्रनृत्यन्ति वेपन्ते प्रज्वलन्ति च ।वमन्त्यग्निं तथा धूमं स्नेहं रक्तं तथा वसाम् ॥६४॥आरमन्ति रुदन्त्येताः प्रस्विद्यन्ति हसन्त्यपि ।उत्तिष्ठन्ति निषीदन्ति प्रधावन्ति धमन्ति च ॥६५॥विक्षिपन्ति भुञ्जते वा कोशप्रहरणध्वजान् ।अवाङ्मुखा वै भवन्ति स्थानात् स्थानं भ्रमन्ति च ॥६६॥एवमाद्या हि दृश्यन्ते विकाराः सहसोत्थिताः ।लिङ्गायतनवप्रेषु तत्र वासं न रोचयेत् ॥६७॥राज्ञी वा व्यसनं तत्र स च देशो विनश्यति ।देवयात्रासु चोत्पातान् दृष्ट्वा देशभयं वदेत् ॥६८॥पितामहस्य हर्म्येषु तत्र वासां न रोचयेत् ।पशूनां रुद्रजं दुःखं नृपाणां लोकपालजम् ॥६९॥सेनापतीनां वै स्कन्दविशाखादिसमुद्भवम् ।लोकानां विष्णुवस्वीन्द्रविश्वकर्मसमुद्भवम् ॥७०॥विनायकोद्भवं दुःखं नायकानां च शासिनाम् ।देवप्रेष्यानृपप्रेष्यादेवस्त्रीणां नृपस्त्रियाः ॥७१॥वासुदेवोद्भवं ग्रहोद्भवं दुःखं न चान्यथा ।देवतागतदुःखेषु श्रुतिवेत्ता पुरोहितः ॥७२॥देवतार्चां स्नापयेच्चाच्छादयेच्च विभूषयेत् ।पूजयेद् गन्धमाल्यान्नमधुपर्कादिसम्पदा ॥७३॥उपतिष्ठेच्च विधिवज्जुहुयात् सप्तरात्रकम् ।अग्नौ ततो नित्यमेव भोजयेद् ब्राह्मणान् सतः ॥७४॥साधून् साध्वीर्मिष्टभोज्यमिष्टपानैः सदक्षिणम् ।प्राप्तेऽष्टमे दिने धेनुभूरत्नदानमाचरेत् ॥७५॥कांचनानि प्रदद्याच्च ग्रहशान्तिं समापयेत् ।शान्तिपाठान् कारयित्वा पापं समुपशामयेत् ॥७६॥एवं कृते तु ते विघ्नाः शान्तिं यान्ति न संशयः ।अथाऽनग्निर्दीप्यते चेद् राष्ट्रे यस्य निरिन्धनः ॥७७॥न दीप्यते चेन्धनवान् तद्राष्ट्रं पीड्यते नृपैः ।प्रज्वलेदप्सु मांसं वा तथाऽऽर्द्रं वापि किञ्चन ॥७८॥प्राकारस्तोरणं द्वारं नृपवेश्म सुरालयम् ।एतानि यत्र दीप्यन्ते तत्र राज्ञो भयं भवेत् ॥७९॥विद्युता वा प्रदह्यन्ते तदापि नृपतेर्भयम् ।स्वामिनो वा भयं तत्र यत्राग्निश्चाऽस्थले भवेत् ॥८०॥अनैशानि तमांसि स्युर्विना पांसुरजांसि च ।धूमश्चाऽनग्निजो यत्र तत्र विद्यान्महाभयम् ॥८१॥तडित् त्वनम्रे गगने भयं स्याद् ऋक्षवर्जिते ।दिवा सतारे गगने भयं तथैव जायते ॥८२॥ग्रहनक्षत्रवैकृत्ये तारविषमदर्शने ।पुरवाहनयानेषु चतुष्पान्मृगपक्षिषु ॥८३॥आयुधेषु च दीप्तेषु धूमायत्सु तथैव च ।निर्गमस्तु च कोशात्तु संग्रामस्तुमुलो भवेत् ॥८४॥विनाऽग्निं विस्फुलिंगाश्च दृश्यन्ते यत्र कुत्रचित् ।स्वभावाच्चापि पूर्यन्ते धनूँषि विकृतानि च ॥८५॥विकारश्चायुधानां स्यात् तत्र संग्राममादिशेत् ।त्रिरात्रोपोषितस्तत्र जुहुयाद्वै पुरोहितः ॥८६॥समिद्भिः क्षीरवृक्षाणां सर्षपैश्च घृतेन च ।अग्निमन्त्रैर्हवनेन शान्तिस्तेषां प्रजायते ॥८७॥साधून् सतीर्ब्राह्मणाँश्च बालाँश्च बालिकाः स्त्रियः ।भोजयेत् पूजयेद् देवान् महोत्सवं प्रकारयेत् ॥८८॥सुवर्णंं धनरत्नानि दद्याद् गा भुवमम्बरम् ।अग्निजोपद्रवाणां शस्त्राणां शान्तिस्तदा भवेत् ॥८९॥पुरेषु येषु दृश्यन्ते पादे पादे प्रगामिनः ।रुदन्तो वा हसन्तो वा स्रवन्तो वा रसान् बहून् ॥९०॥अरोगाश्च विना वातं शाखां मुञ्चन्ति वै द्रुमाः ।फलं मूलं तथा कालं दर्शयन्ति त्रिहायना ॥९१॥एवं वै स्वं दर्शयन्ति फलं पुष्पं तथाऽऽन्तरे ।क्षीरं स्नेहं तथा रक्तं मधु तोयं स्रवन्ति च ॥९२॥शुष्यन्त्यरोगाः सहसा शुष्का रोहन्ति वा पुनः ।उत्तिष्ठन्तीह पतिताः पतन्ति च तथोत्थिताः ॥९३॥एवं तत्र फलं लक्ष्मि शृणु भिन्नं वदामि ते ।रोदने व्याधिरायाति हसने देशविप्लवः ॥९४॥शाखाप्रपतने स्याद्वै संग्रामो योधृनाशकः ।बालानां मरणं कुर्याद् बालवल्ली प्रपुष्पिता ॥९५॥स्वराष्ट्रभेदं कुरुते फलपुष्पमथाऽऽन्तरे ।क्षयः स्याद् गोक्षीरे चापि स्नेहे दुर्भिक्षमापतेत् ॥९६॥वाहनापचयो मद्ये रक्ते संग्राम आपतेत् ।मधुस्रावे भवेद् व्याधिर्जलस्रावे न वर्षति ॥९७॥अरोगशोषिता वृक्षा दुर्भिक्षं सूचयन्ति वै ।शुष्केषु सम्प्ररोहस्तु वीर्यमन्नं हिनस्ति च ॥९८॥उत्थाने पतितानां च भयं भेदकरं भवेत् ।स्थानात् स्थानं तु गमने देशभंगस्तदा भवेत् ॥९९॥ज्वलत्स्वपि तु वृक्षेषु रुदत्स्यपि धनक्षयम् ।एतत् पूजितवृक्षेषु सर्वं राज्ञो विपद्यते ॥१००॥पुष्पे फले वा विकृते राज्ञौ मृत्युं द्रुमो दिशेत् ।एवं वृक्षेषु जातेषु शीघ्रमाच्छाद्य तद्द्रुमान् ॥१०१॥गन्धमाल्यादिभिः सर्वान् भूषयेत्पूजयेत्तथा ।वृक्षोपरि महच्छत्रं कुर्यात् पापोपशान्तये ॥१०२॥शिवं विष्णुं श्रियं शिवामभ्यर्चयेद् द्रुमेषु वै ।पशुं चान्नं त्वर्पयेच्च रुद्रशान्तिं प्रकारयेत् ॥१०३॥रुद्रेभ्य इति वृक्षेषु हुत्वा रुद्रो जपेत्ततः ।पायसाऽऽज्यमध्वाढ्यैः प्रपूज्य भूदानमाचरेत् ॥१०४॥गीतं नृत्यं प्रकुर्याच्च रुद्रशान्तिस्ततो भवेत् ।एवं लक्ष्मि प्रजाराजभयं सर्वं व्यपोहति ॥१०५॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने दैवाऽन्तरिक्षभौमोत्पातानां शान्तिकर्माचारादिकथननामा षट्चत्वारिंशदधिकशततमोऽध्यायः ॥१४६॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP