संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः २०७ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः २०७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २०७ Translation - भाषांतर पुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं क्षेत्रपस्य कथां शुभाम् ।नाम्ना नाञ्जकदेवस्य मम भक्तस्य तारणीम् ॥१॥नाञ्जभक्तोऽभवच्छूरः सीमक्षेत्रप्ररक्षकः ।कुंकुमे लौमशे क्षेत्रे शस्त्रास्त्रविन्महाबलः ॥२॥सीम्नि वसति नित्यं स नगरे याति चोत्सवे ।सस्यरक्षाकरो नाञ्जो वाटिकानां च रक्षकः ॥३॥खलस्थाऽन्नकणगञ्जरक्षकश्च स एव सः ।रात्रिन्दिवं भ्रमत्येषो रक्षार्थं परितः क्षितौ ॥४॥चौरापहारकेभ्यश्च रक्षां करोति सर्वथा ।कर्षुकाणां च धनिनां नागरिकादिसम्पदाम् ॥५॥पत्रकाण्डादिकानां च सञ्चयानां तु सीमसु ।नित्यं मां भजते नाम्ना श्रीकृष्णश्रीनरायण ॥६॥मालामावर्तयत्येव मार्गेषु सीमभूमिषु ।नाञ्जस्य नाम संश्रुत्वा चौरा नायान्ति तां दिशम् ॥७॥भक्तो भक्तौ निपूणोऽति धर्मेऽपि पूजनेऽपि मे ।भजने कीर्तने ध्याने यत्नवान् वर्तते सदा ॥८॥साधूनां रक्षणे शूरो गवां च दीनयोषिताम् ।साध्वीनां च सतीनां च वृद्धानां रक्षणे तथा ॥९॥देवानां दैववृक्षाणां देवभुवां च रक्षणे ।श्रद्धावान् सेवकश्चाऽयं निर्मानो दासवत् सदा ॥१०॥एवंविधोऽयं भक्तो मे लक्ष्मि प्रातः सदा मम ।पूजनं संविधायैव वीक्षार्थं चाऽटवीं प्रति ॥११॥सर्वदिक्षु प्रयात्येव दुष्टानां शासनाय वै ।एकदा पूर्वदिग्भागे प्रातः क्रोशद्वयं ययौ ॥१२॥दूरेऽमरापुरतो वै मृदंगपुरसन्निधौ ।तत्र शत्रुंजयादेशाल्लुण्टकाः समुपाययुः ॥१३॥बहवोऽश्वसमारोहाः सशस्त्रा अन्नहारिणः ।कर्षुकाणां खलभूमेरपहर्तुं खलेषु ते ॥१४॥विविशुर्वाटिकाभागे कर्षुकास्तु भयं गताः ।रक्षकं नैव चासाद्य ह्याक्रुश्य कणसञ्चयान् ॥१५॥विहाय प्रययुर्दूरं तत्र नाञ्जः समाययौ ।कथं विमनसो यूयं नाञ्जः पप्रच्छ कर्षुकान् ॥१६॥कर्षुका जगदुस्तं च लुण्टका अन्नहारकाः ।प्रसह्य खलभूमेश्च हरन्त्यन्नानि नोऽधुना ॥१७॥रक्षां कुरु बलं ते चेल्लुण्टकेभ्यः प्ररक्षक! ।श्रुत्वा तूर्णं हरिकृष्णं स्मृत्वा मां पुरुषोत्तमम् ॥१८॥अश्ववारः स्वयं शीघ्रं दुद्राव तत्स्थलीं प्रति ।यत्र ते लुण्टकाश्चाऽन्नसञ्चयान् वै हरन्ति ह ॥१९॥अश्वेषूष्ट्रेषु चान्नानि निक्षिप्य ते वहन्ति वै ।तान् दृष्ट्वा शूरभाषाभिर्गर्जनां नाञ्जको व्यधात् ॥२०॥लुण्टका बलिनो यूयं मातृजाः पितृजाः ऋताः ।मां विजित्य ततो यान्तु जितान्नानान्यथा त्विति ॥२१॥श्रुत्वा बलोद्भवं शब्दं सन्मुखा युद्धवेदिनः ।अभवन् शस्त्रयुक्तास्ते नाञ्जस्य विजयाय वै ॥२२॥शस्त्राणां सहसा क्षेपः सान्निध्ये समजायत ।प्रावर्तत तदा युद्धं बाणैः शस्त्रैश्च तोमरैः ॥२३॥एको नाञ्जस्तु विंशत्या सह युद्ध्यति मध्यगः ।शस्त्रक्षतोऽपि बहुधा मां स्मरन् बहु युद्ध्यति ॥२४॥नाञ्जस्य भल्लकैर्विद्धा दश वक्षस्सु वै मृताः ।चौरास्ततो हि चौराणां खङ्गाघातैर्मुहुर्मुहुः ॥२५॥नाञ्जो निपतितो भूमौ मूर्छायां मां स्मरन् मुहुः ।तदाऽहं तत्स्थले शूरः खड्गध्रः पार्श्वतो द्रुतम् ॥२६॥आविरासं महादेहो वज्रांगो युद्धकोविदः ।खड्गशस्तान् शेषचौरान् बिभेदाऽत्यविचारयन् ॥२७॥सर्वे मृतिं गताश्चौरा विंशतिस्तत्र वै द्रुतम् ।एकविंशस्त्वेकचौरो रामरामेतिसंवदन् ॥२८॥मृत्यवे संययौ मूर्छामाप्तः शीघ्रं विसंज्ञकः ।ततोऽहं दयया स्पृष्ट्वा रामनामपरायणम् ॥२९॥उज्जीवयन् प्रभक्तं तं नीरुजं समकारयम् ।उत्थितः स ततो भक्तो नाम्ना महामयाभिधः ॥३०॥प्रार्थयन्मां तु नाञ्जस्योज्जीवनार्थं दयावशः ।ततो नाञ्जं कराभ्यां संस्पृशन्नहं मुहुर्मुहुः ॥३१॥मूर्छां तस्य व्यपनीयौत्थापयं तं सुखान्वितम् ।अनादिश्रीकृष्णनारायणं दृष्ट्वा च तौ तदा ॥३२॥तुष्टुवतुः सार्दभावौ मृतानां प्राणलब्धये ।अहो नारायणस्त्वं वै रामो राक्षसमोक्षकृत् ॥३३॥अहो नृसिंहो भगवान् भवान् दैत्यविनाशकृत् ।अहो कृष्ण हरे राम त्वं गजोद्धारकारकः ॥३४॥त्वमेवाऽऽसुरनाशार्थं वर्तसे भक्तवत्सलः ।पापिनां पापनाशश्च जायते तव दर्शनात् ॥३५॥स्पर्शनात् स्मरणाच्चापि पापिनोऽत्र तरन्ति हि ।विश्वंभरो भवानास्ते पोषको रक्षकोऽपि च ॥३६॥हन्ता संकर्षणो रुद्रः कालो भवान् प्रकाशते ।रक्ष रक्ष कृपासिन्धो मृतानुज्जीवयाऽत्र वै ॥३७॥चौरयोगेन भक्तोऽपि संगाच्चौरः प्रजायते ।भक्तो महामयश्चाहं चौर्यकार्येऽभिसंहतः ॥३८॥तथापि रामनाम्ना त्वं भक्तं रक्षितवानिह ।नाञ्जं रक्षितवानत्र रक्षा तद्योगतो मम ॥३९॥जाताऽत्र भगवन् कृष्ण भक्तेच्छासंप्रपूरक ।भक्तयोगं गताश्चेमे रक्षणीया दयालुना ॥४०॥मृताश्चेज्जीविताः स्युस्ते भजिष्यन्ति नरायणम् ।अथवा ते रुचिस्तेषां मोक्षणे चेत्तथा कुरु ॥४१॥इत्युक्तोऽहं तदा लक्ष्मि मृतानां मोक्षहेतवे ।स्वर्गवासं प्रथमं वै कृपया समकल्पयम् ॥४२॥पापान्येषां भक्तयोगान्मद्योगादविनाशयम् ।याम्यदुःखानि सर्वाणि तच्छिरोभ्यो व्यनाशयम् ॥४३॥स्मृत्वा देवविमानं च कृत्वा तान् देवविग्रहान् ।अप्रेषयं दिवं तूर्णं विंशतिं समरे मृतान् ॥४४॥महामयं तथा नाञ्जं भक्तं करेण वै मुहुः ।स्पर्शं कृत्वा च नीरुजं यथापूर्वमकारयम् ॥४५॥पुष्टौ विगतदुःखौ तौ बोधितौ च मया तदा ।अनित्योऽयं हि संसारो देहोऽनित्यो गृहादयः ॥४६॥अनित्याः सर्वमायोत्थाः पदार्थाः क्षयगोचराः ।तथाप्यज्ञा जना नीतिं विहायोत्पथगामिनः ॥४७॥हिंसायां सम्प्रवर्तन्तेऽपहारे नाशने मुहुः ।सतां योगं न कुर्वन्ति भजन्ते न परेश्वरम् ॥४८॥शास्त्रकथां न शृण्वन्ति पापं कुर्वन्त्यसंशयाः ।तेन याम्यमहादुःखान्यनुभवन्ति दण्डिताः ॥४९॥पशूनां पक्षिणां जन्मान्यपि गृह्णन्ति पापिनः ।दुःखोत्तरं च दुःखं सम्प्राप्नुवन्ति विधर्मिणः ॥५०॥परान्नहरणे जन्म मूषकाणां प्रजायते ।घृतदुग्धादिहरणे मार्जारजन्मवान् भवेत् ॥५१॥शाकमूलादिहरणे मायूरं जन्म चाप्यते ।वस्त्रोपकरणाऽऽच्छेदे माहिषं जन्म जायते ॥५२॥फलपत्रादिहरणे वानरत्वं प्रजायते ।स्वर्णरत्नादिहरणे भल्लुकत्वं प्रजायते ॥५३॥जलपानादिहरणे प्रेतता निर्जले वने ।दारापुत्र्यादिहरणे षण्ढत्वं गणिकाजनुः ॥५४॥वाद्यवादित्रहरणे भाण्डत्वं नटता तथा ।विश्वासघातकानां तु वृकता कृकलासता ॥५५॥अपहारकृतां चाऽश्वजन्म वाहनजीविनाम् ।ऋणिनां तु वृषभत्वं निन्दकानां तु मूकता ॥५६॥षण्ढोक्षत्वं कामिनां च कामिनी तु पिशाचिनी ।प्रतारको भिक्षुकश्च भवेद् दारिद्र्यदुःखवान् ॥५७॥देवान्नधनभोक्ता च भवेच्छ्वा काक उन्दुरुः ।कुलहन्ता नकुलः स्यान्नारीहन्ता तु राक्षसः ॥५८॥धर्महन्ता भाग्यहीनो वाराहो जायते वने ।भक्तिहन्ता नारकी स्यान्निर्वंशो यमदूतकः ॥५९॥मद्यपो मूत्रकीटः स्याद् वृश्चिको विषभक्षकः ।क्रुद्धः सर्पो भवेच्चापि नीलमर्कटिकस्तथा ॥६०॥इत्येवं कर्मजन्मानि ज्ञात्वा तानि विवर्जयेत् ।शुभं कुर्यान्मानवेन देहेन नाऽशुभं क्वचित् ॥६१॥शुभं धर्मं शुभं ज्ञानं शुभं वैराग्यमित्यपि ।शुभां भक्तिं प्रकुर्याच्च मोक्षदं सत्समागमम् ॥६२॥निर्दंभं सत्परिचर्यां कुर्याद्धरेः सतां सदा ।कृष्णमन्दिरवाट्यादि कारयेल्लेपमार्जने ॥६३॥पादसंवाहनं देहमर्दनं च सतां क्रियात् ।नैवेद्यं भोजनं वारिपानं दद्यात्तु शार्ङ्गिणे ॥६४॥सद्यो दद्याद् यथेष्टं च सेवेत गुरुमण्डलम् ।कथां च शृणुयान्नित्यं नामकीर्तनमाचरेत् ॥६५॥आत्मनिष्ठया वर्तेत ब्रह्मरूपेण चात्मना ।जानीयान्मां हरिं दिव्यं सर्वदोषविवर्जितम् ॥६६॥वार्तां मदीयां कुर्याच्च स्नेहं कुर्यात् सदा मयि ।मायामायिककार्येषु रागहीनस्तथा भवेत् ॥६७॥साधुसेवां च सत्संगं प्रकुर्वीत सदा शुभम् ।विषयेषु प्रकुर्याच्चाऽरुचिं चान्तेर्मतिर्भवेत् ॥६८॥अनादिश्रीकृष्णनारायणे मतिं दृढां क्रियात् ।अन्यत्र मानसं नैव धारयेत्तु कदाचन ॥६९॥प्रेम्णैव कारयेत् कुर्यात् सेवां मेऽलंकृतिं तथा ।मम मूर्तिं धारयेच्च मानुषीं देवतां च वा ॥७०॥मम भक्तेषु वै प्रीतिं कुर्यान्नान्यत्र कुत्रचित् ।स्त्रीपुत्रादौ बन्धनं तु स्नेहं सदा विवर्जयेत् ॥७१॥कृष्णसम्बन्धिनीष्वेव क्रियासु व्यापृतो भवेत् ।कृष्णसम्बन्धशून्याभ्यो निवर्तेत समाहितः ॥७२॥नित्यं पूजा मम कुर्यात् प्रार्थयेच्च निजं हितम् ।नारायण हरे कृष्ण विष्णो स्वामिन् परेश्वर ॥७३॥अधर्ममार्गगाल्लोकात् पाहि मां नास्तिकात्तथा ।समागमं ते भक्तानां देहि नित्यं शुभं कुरु ॥७४॥असतां संगमो मा स्यात्तथा रक्षां सदा कुरु ।चौराणां पापिनां संगं निन्दकानां न मेऽर्पय ॥७५॥मद्यमांसाशनानां च संगं व्यवायिनां न मे ।मूर्तिखण्डनकर्तॄणामुपासनाविनाशिनाम् ॥७६॥संगं मे माऽर्पय कृष्ण शरणागतवत्सल ।भक्तिं विना दिनं वन्ध्यं मा मे यातु तथा कुरु ॥७७॥मनोवृत्तिः सदा कृष्णे तिष्ठेत्तथाविधापय ।सांसारिकेषु चित्तं मे विरागं स्यात्तथा कुरु ॥७८॥सतां समागमं कृष्ण तव मूर्तेः समागमम् ।चिरं च दर्शनं ते च देहि हृद्वासमाचर ॥७९॥बहिर्वा चान्तरे वा ते दर्शनं दिव्यमेव तत् ।सर्वदा स्यात्तथा कृष्णाऽन्तर्दृष्टि देहि मे शुभाम् ॥८०॥अन्ते धामाऽक्षरं देहि तव मूर्त्या विराजितम् ।अर्थयामि तथा कृष्ण मुक्तिं ते सेवनात्मिकाम् ॥८१॥इत्येवमर्थयेन्नित्यं भगवन्तं हरिं तु माम् ।भक्तौ युवां यतस्तस्मादहं दृष्टिपथं गतः ॥८२॥कल्याणं भवतोरस्तु प्रयामि मम मन्दिरम् ।इत्युक्त्वा कर्षुकान् धैर्यं दत्वा श्रीभगवाँस्ततः ॥८३॥ 'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।दत्वा मन्त्रं कर्षुकेभ्यो भक्ताभ्यां च तिरोऽभवत् ॥८४॥कर्षुकास्ते चमत्कारं वीक्ष्य चक्रुर्ममाश्रयम् ।पूजनं भजनं चेति क्षेत्रपोऽपि विशेषतः ॥८५॥महामयोऽपि सहसा नारायणसमागमात् ।निरामयोऽभवल्लक्ष्मि! नाञ्जोऽपि चाऽञ्जनोज्झितः ॥८६॥ते सर्वे नित्यदा भेजुर्मां श्रीराधारमांपतिम् ।पूजनं भोजने ध्यानं रमणे स्मरणं मम ॥८७॥चक्रुश्च कीर्तनं नित्यं देहान्ते च ततः परम् ।विमानेनाऽऽययौ चाहं विष्णुविमानशोभनः ॥८८॥पार्षदैः सहितश्चाऽश्वपट्टसीम्नि तदा द्रुतम् ।कर्षुकान्निजलोकं च निन्ये दिव्यशरीरिणः ॥८९॥नाञ्जं भक्तं पुनर्निन्ये निन्ये निरामयं ततः ।एवं धामाऽक्षरं प्राप्ता भक्ता मे क्षेत्रपा अपि ॥९०॥लक्ष्मि क्षेत्रोद्भवं धान्यं नूतनं मे समर्पयेत् ।चिर्भटं मक्किकां चापि पत्रं पुष्पं समर्पयेत् ॥९१॥कन्दं फलं च दण्डं च मिष्टं शाकं च मञ्जरीम् ।स्तम्बं नालं च काण्डं च शाखां वा मे समर्पयेत्। ॥९२॥कणं च बदरं वापि मृदं वा पावनीमपि ।अर्पयेन्मां तु यो भक्त्योद्धरामि तं समर्पकम् ॥९३॥समिधस्तुलसीपत्रं चन्दनद्रुं फलद्रुमम् ।तृणं दर्भं चांकुरं वाऽर्पयेन्मे मुक्तिभाक्तु सः ॥९४॥कार्पासं पूलकं वापि शिम्बिं वा कोशमेव वा ।गुच्छं वा कुण्डिकां वा मेऽर्पयेन्मोक्षगतो भवेत ॥९५॥तिलान् वा गोधुमकाँश्च चणकान् द्विदलास्तथा ।निवारान् वा सारिका वा खर्जुरं वा समर्पयेत् ॥९६॥शर्करां वा हरिद्रां वा लवणं चार्द्रकं च वा ।आरनालं च विविधं लविंगं पूगिकाफलम् ॥९७॥एलां च केसरं वापि मेऽर्पयेन्मुक्तिभाग् भवेत् ।आसनं वापि पात्रं वा लतां वा वेत्रमित्यपि ॥९८॥यानं वस्त्रं चर्वणं च तैलं सुगन्धमुत्तमम् ।शृंगारं चार्पयेन्मह्यं जायते मोक्षभाग्धि सः ॥९९॥दुग्धं रसं च पक्वान्नं मिष्टपानं च शीतलम् ।व्यजनं व्यञ्जनं चापि मेऽर्पयेन्मोक्षभाग् भवेत् ॥१००॥आत्मार्पणेन सर्वे वै कमले यान्ति मत्पदम् ।पठनाच्छ्रवणादस्य स्मरणादपि मोक्षभाग् ॥१०१॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने क्षेत्रपस्य नाञ्जभक्तस्य महामयभक्तस्य कर्षुकाणां च चौरेभ्योरक्षणं भगवता कृतमित्यादिनिरूपणनामा सप्ताधिकद्विशततमोऽध्यायः ॥२०७॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP