संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ७० द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ७० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ७० Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं ग्राहयेत् सद्गुरोर्मनून् ।सहस्रशाखाध्यायी च सर्वयज्ञेषु दीक्षितः ॥१॥तापसो विप्रवर्योऽपि न गुरुः स्यादवैष्णवः ।महाभागवतो यश्च मम ध्यानपरायणः ॥२॥भक्तिमार्गप्रदेष्टा वैष्णवो गुरुर्भवेद् बुधः ।आचार्यः सद्गुरुः साधुर्भवबन्धविदारकः ॥३॥तस्मान्मन्त्रान् हि गृह्णीयादोंकारसहितान् शुचिः ।आदौ सर्वत्र मन्त्राणां योजयेत् प्रणवं प्रभुम् ॥४॥ओंकारोऽहं परव्रह्म प्रणवो मन्त्रनायकः ।ओमित्येकाक्षरं पूर्वं चतुर्थ्यन्ता ममाऽभिधा ॥५॥ततश्च द्व्यक्षरं नाम नमः इत्येवं पूरयेदपि ।'ओं श्रीकृष्णनन्दजाय नमः' एवं वदेद् गुरुः ॥६॥मन्त्रचतुष्टयं श्रेष्ठं मन्त्रदशकमुत्तमम् ।सप्त द्वादश च द्वे च गायत्र्यश्चोत्तमा मम ॥७॥त्रयोदश तथा मन्त्रास्त्रयः श्रेष्ठाः सदा मम ।त्रयस्त्रिंशदवतारमन्त्राः श्रेष्ठास्तथा मम ॥८॥त्रयोस्त्रिंशच्छ्रियो मन्त्राः श्रेष्ठाः सर्वे मता मम ।एको वा सर्व एवापि ह्यनेके वा यथेष्टकम् ॥९॥ग्राह्या मन्त्रा हि शिष्येण गुरुः परीक्ष्य वाऽर्पयेत् ।पञ्चदशोर्ध्वशतमन्त्रदेवोऽस्मि हरिः स्वयम् ॥१०॥त्रयस्त्रिंशन्मम मन्त्राश्चान्ये मद्रूपवर्णिनः ।रूपरूपितादात्म्याद्वै युज्यन्ते मयि सर्वशः ॥११॥यो भक्तो यत्स्वरूपस्य तन्मन्त्रं शृणुयाद् गुरोः ।परब्रह्मतरोः शाखाः शतं च दश पंच च ॥१२॥तानि तानि च रूपाणि तत्तन्मन्त्रैः प्रपूज्य च ।आराध्य मत्स्वरूपाणि यास्यन्त्येव हि मां हरिम् ॥१३॥परब्रह्मसम्प्रदायाः सर्वे मेंऽगानि पद्मजे ।मदुत्पन्नमिदं सर्वं मत्तो नैवातिरिच्यते ॥१४॥अनादिश्रीकृष्णनारायणे प्रोता मयीश्वराः ।अवतारास्तथा मुक्ता जीवाः प्रोता हरौ मयि ॥१५॥अवतारिण्य एवेमाः शक्तयो मयि संस्थिताः ।सर्वा मन्त्रस्वरूपिण्यः प्रोता मयि हरौ प्रभौ ॥१६॥इतिविज्ञाय मन्त्राणां शतं पंचदशाधिकम् ।विद्वान् विज्ञाय दद्याद्वै विदुषे त्वधिकारिणे ॥१७॥स स्याद् आचार्यसम्राट् वै सर्वमन्त्रप्रदो गुरुः ।'परब्रह्मसम्प्रदायाऽऽचार्यसम्राट' निगद्यते ॥१८॥न्यूनमन्त्रप्रदा न्यूना आचार्यास्ते भवन्ति वै ।स्वतःप्रकाशोभगवान् स्थाप्यते वै मया गुरुः ॥१९॥'परब्रह्मसम्प्रदायाऽऽचार्यसम्राट् मनुप्रदः ।सर्वमनूपदेष्टा स मत्स्वरूपो भवत्यपि ॥२०॥त्वं लक्ष्मीश्च तथा गुर्वी स्थाप्यते वै मया प्रिये ।'परब्रह्मसम्प्रदायाचार्यसम्राज्ञी' मन्त्रदा ॥२१॥सर्वमनूपदेष्ट्री त्वं मत्स्वरूपात्मिका ह्यसि ।किं च लक्ष्मि शृणु चान्यन्मन्त्रे यन्नाम विद्यते ॥२२॥स तन्मनोस्तथाऽऽचार्यः, मदंशो वर्तते सदा ।सा तन्मनोस्तथाऽऽचार्याणी च बोध्या मदाज्ञया ॥२३॥एवं मनून् नियुञ्जीत गृह्णीयाच्च गुरोर्मुखात्॥सबीजोऽयं भवेन्मन्त्रो गुरोस्तैजसभासुरः ॥२४॥दैवबलो गुरोर्बली मनुर्मोक्षप्रदो भवेत् ।शिष्यबलोऽधिकः स्याद्वै मनुर्भुक्तिप्रमुक्तिदः ॥२५॥बीजं सर्वत्र मन्त्रेषु कृष्णकान्तोऽहमेव तु ।नित्याऽनपायिनी शक्तिः श्रीर्लक्ष्मीर्विद्यते मनौ ॥२६॥ओंकारो मेऽभिधानं श्रि! अकाराऽहं परेश्वरः ।उकारः श्रीस्त्वमेवासि मकारो भक्त एव मे ॥२७॥अकारोऽहं परात्मा च उकारश्चेश्वरा मताः ।मकारश्च जीववृन्दा तदात्मा ओं मतो मम ॥२८॥अकारश्चानिरुद्धश्च उकारस्तु प्रद्यम्नकः ।मकारः संकर्षणस्त्रेधा ओमित्यहं श्रीहरिः ॥२९॥अकारश्च स्वयं विष्णुरुकारः शंकरस्तथा ।मकारश्च विश्वसृड् वै त्रेधाऽहं परमेश्वरः ॥३०॥अकारश्चाऽक्षरं ब्रह्म उकारो मुक्तकोटयः ।मकारश्चावतारा मे त्रेधाहं पुरुषोत्तमः ॥३१॥अकारो ब्रह्मसृष्टिर्मे उकारश्चेश्वरसृजिः ।मकारो जीवसृष्टिश्च त्रेधाहं परमेश्वरः ॥३२॥अकारोऽहं परब्रह्म उश्च ब्रह्मप्रिया मम ।मश्च हरिप्रियाः सर्वास्त्रेधाऽहं परमः प्रभुः ॥३३॥अहं स्वामी स्वामिनी त्वं शेषा दासास्तथा परे ।एवं मे विद्यते हार्दं प्रणवार्थे हि दासता ॥३४॥दासा दास्यो मम भक्ताः परतन्त्राः सदा मम ।देहेन्द्रियमनोऽहंधीगुणा भक्तस्य मे वशाः ॥३५॥मय्यर्पिता हि ते दिव्या मत्तन्त्रा मत्प्रजीवनाः ।अतो मम पदस्थस्य मदिच्छाधीनवर्तनम् ॥३६॥ममैव सर्वसंकल्पात् प्रारब्धं तस्य विद्यते ।ममैव लक्ष्मि सामर्थ्यान्नाऽलभ्यं तस्य विद्यते ॥३७॥मय्यर्पितभरः श्रीशे मत्कर्मैव समाचरेत् ।परमात्मा ह्यहं स्वामी भक्तस्तु दास एव मे ॥३८॥इच्छया विनियोक्तव्यो भवेद् दासो हि सर्वदा ।दासी भृत्या किंकरी च नियोक्तव्या ममाऽऽश्रिता ॥३९॥ममाऽहं मत्स्वरूपौ वै मम भक्तस्य नेतरौ ।तस्माद् देहादिबन्धैः स मुक्तो नित्यो ममाऽऽश्रयात् ॥४०॥कुर्वन्नपि हि कर्माणि मत्कृतान्येव तानि वै ।न लेपं लभते तैश्च भक्तो मे बन्धवर्जितः ॥४१॥माया भक्तस्य मे दिव्या भक्तं रञ्जयति ध्रुवम् ।आनन्दयति दिव्या सा मोक्षार्थं योजयत्यपि ॥४२॥एवं लक्ष्मि मम मनोर्माहात्म्यमुदित तव ।अनादिश्रीकृष्णनारायणोऽहं चाऽक्षराधिपः ॥४३॥पुरुषोत्तमसंज्ञोऽहं चाऽवतारी परेश्वरः ।परमेश्वर एवाऽहं परमात्मा सनातनः ॥४४॥पूर्णब्रह्म परब्रह्म भगवान् सर्वकारणम् ।ममाऽवताराः कृष्णाद्या वासुदेवादयोऽपि च ॥४५॥भूमादयोऽपीश्वराश्च राधालक्ष्म्यादिशक्तयः ।ममांऽशा विष्णुरुद्राऽजा देवाश्चांऽशकलांऽशकाः ॥४६॥मानवाद्यास्तदंशाश्च तिर्यञ्चः पादपास्तथा ।किंचिदंशांशसंभूताः सृष्टयः सन्ति चैव मे ॥४७॥तत्र नारायणश्चाऽहं नारा इत्यात्मसंहतिः ।तत्राऽयनं करोम्येव ततो नारायणोऽस्म्यहम् ॥४८॥नराज्जातेषु तत्त्वेषु वासी नारायणोऽस्म्यहम् ।नारे चराचरे लोकेऽन्तःस्थो नारायणोऽस्म्यहम् ॥४९॥सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।यस्मान्मत्तः समुत्पन्नः सोऽहं वै परमेश्वरः ॥५०॥यद्भूतं यच्च भाव्यं च यस्मात् सर्वं परेश्वरात् ।अमृतत्वस्य चेशानः सोऽहं श्रीपुरुषोत्तमः ॥५१॥वासुदेवो यतो भाति हिरण्यगर्भ इत्यपि ।सविता च यतो भाति सोऽहं श्रीपुरुषोत्तमः ॥५२॥वेदादिश्च परा वाणी यस्य भाषा सुसंस्कृता ।स्वरो यस्य प्रकण्ठाद्वै सोऽहं श्रीपुरुषोत्तमः ॥५३॥परमात्मा तु यश्चास्ते मायी च माययाऽर्चितः ।मायेशो मायया शून्यः सोऽहं श्रीपुरुषोत्तमः ॥५४॥पादे सृष्टिस्त्रिपादे चाऽक्षरं धामाऽस्ति यस्य वै ।भूलीलाश्रीपतिर्योऽस्ति सोऽहं श्रीपुरुषोत्तमः ॥५५॥यज्ञनारायणश्चाऽहं सर्वनारायणोऽस्मि च ।भिन्ननारायणरूपः सोऽहं श्रीपुरुषोत्तमः ॥५६॥यन्मूर्तेर्मूर्तयः सन्ति विप्राद्या मानवाः सुराः ।चन्द्रः सूर्योऽग्निर्द्युर्विद्युत् सोऽहं श्रीपुरुषोत्तमः ॥५७॥एतादृशस्य मे दास्यं नरनारीभिरादरात् ।मन्त्रं लब्ध्वा प्रकर्तव्यं रहस्यं मोक्षदं हि तत् ॥५८॥विश्वतः पाणिपादोऽहं चक्षुष्मान् विश्वतस्तथा ।विश्वानि भुवनान्येव धामानि त्वपि सन्ति मे ॥५९॥एवं बृहत्स्वरूपोऽहं श्रीपतिः पुरुषोत्तमः ।ईश्वर्या वै त्वया साकं दिव्यमंगलरूपवान् ॥६०॥बृहद्देहो मानवर्ज्यो युवा हरिः पतिस्तव ।रेमे रेमे त्वया लक्ष्म्या श्रिया साकं हि शाश्वतः ॥६१॥अहं जगज्जनन्या वै कुमारो नित्ययौवनः ।कन्दर्पांऽर्बुदलावण्यस्तिष्ठामि परमे पदे ॥६२॥मुक्तिस्थानं परं व्योम मुक्तमुक्तानिकाश्रितम् ।शाश्वतानन्दसौख्यादिसंभृतं चाऽक्षरं मम ॥६३॥गोलोकश्चापि वैकुण्ठोऽव्याकृतोऽमृत इत्यपि ।भोगार्थानि हि धामानि मया कृतानि सन्ति वै ॥६४॥हिरण्मयास्तथा वैराजाद्याश्च मायिकास्तथा ।सादाशैवा वैष्णवाश्च प्राधानिकाश्चभूमयः ॥६५॥आवरणानि सर्वाणि सत्यादिमानवादयः ।पातालान्ताश्च लीलायाः क्रीडासौभाग्यसंभृताः ॥६६॥सर्वे लोका मम क्रीडालीलाद्यर्था मया कृताः ।भोगे नित्या स्थितिर्मे धामस्ववताररूपिणः ॥६७॥लीलां तु संहरे लक्ष्मि मायामयं हि तद् यतः ।त्रिपाद्व्याप्यक्षरं धाम परमं मे हि शाश्वतम् ॥६८॥त्रिपाद् विभूतिर्नित्या सा तत्र धामानि यानि मे ।गोलोकादीनि सर्वाणि नित्यान्येव पराणि हि ॥६९॥पादोऽस्यैश्वरजैवादिलोका अनित्यसंज्ञकाः ।लीलात्मका हि ते सर्वे क्रीडार्थं वै मया कृताः ॥७०॥नित्येऽक्षरे च गोलोके वैकुण्ठेऽव्याकृतेऽमृते ।अच्युतः शाश्वतो दिव्यः सदा यौवनमाश्रितः ॥७१॥तिष्ठाम्यनादिश्रीकृष्णनारायणः पुमुत्तमः ।श्रीकृष्णश्च तथा नारायणो भूमा तथा प्रभुः ॥७२॥वासुदेवः सदा लक्ष्मि तव रूपैः समन्वितः ।मुक्तानिकाब्रह्मप्रियाहरिप्रियाभिः संयुतः ॥७३॥राधाविरजागोपीभिर्गोलोके मम शक्तिभिः ।लक्ष्मीहरिणीकमलादिसेवितो विकुण्ठके ॥७४॥रमाश्रीपार्षदानीभिः सेवितोऽव्याकृते प्रभुः ।वासुदेवीपद्मिनीभिः सेवितोऽमृतधामनि ॥७५॥मुक्तैर्गोपैः सेवकैश्च पार्षदैरभिसेवितः ।अवतारस्वरूपोऽहं भिन्नरूपो वसामि वै ॥७६॥नित्यसंभोगमीश्वर्या श्रिया लक्ष्म्या च राधया ।त्वया च रमया वासुदेव्या कमलया सह ॥७७॥विन्देऽहं सर्वदा लक्ष्मि भूम्या च दिव्यया सदा ।नित्या सा त्वं जगन्माता मम श्रीरनपायिनी ॥७८॥सर्वगता सदा विभ्वी हीशानां जगतां सदा ।सर्वतः पाणिपादाढ्या सर्वतोऽक्षिशिरोमुखी ॥७९॥परमेशी जगन्माता नारायणी हिरण्मयी ।त्वत्तनावास्थितं सर्वं जगत् स्थावरजंगमम् ॥८०॥जगत्स्थितिलयौ स्यातां तवोन्मीलनमीलनात् ।सर्वस्याद्या महाब्राह्मी महालक्ष्मीः परेश्वरी ॥८१॥लक्ष्याऽलक्ष्यस्वरूपा त्वं कृत्स्नं व्याप्य व्यवस्थिता ।विभूतिस्त्वं परे धाम्नि राधा गोलोकवासिनी ॥८२॥लक्ष्मीर्वैकुण्ठवासा च रमाऽव्याकृतवासिनी ।पद्माऽमृतनिवासा च विभूतिश्चाऽऽक्षरी मम ॥८३॥ईश्वराणां च लोकेषु जीवानामण्डकेषु च ।लीलैश्वर्यवपुस्त्वं वै भवसि भूमिकात्मिकाः ॥८४॥ईश्वराणां भूमयश्चाऽऽलयाः प्रासादकोटयः ।स्मृद्धयो वाटिकाः क्षेत्रदिव्यविषयभूमयः ॥८५॥भवत्येव भवतीति लीला मे सर्वसम्पदः ।आवरणानि तत्त्वानि त्वं सादाशैवगानि च ॥८६॥वैष्णवानि च तत्त्वानि मायिकान्यपि यानि च ।हैरण्मयानि तत्त्वानि वैराजादीनि यानि च ॥८७॥सत्यादिद्युनिवासानि मानवान्यपि यानि च ।पातालेषु तथा यानि तत्त्वानि भोगभूमयः ॥८८॥जलभूतैजसवायुमयानि यानि सन्ति च ।तानि सर्वाणि ते लक्ष्मि लीलारूपाणि सन्ति वै ॥८९॥रूपरसगन्धस्पर्शरूपा त्वं स्वररूपिणी ।लक्ष्मीरूपत्वमापन्ना धनद्रव्यादिनामिका ॥९०॥एवं जगत्स्वरूपा त्वं जगतः श्रीः श्रिता हिमाम् ।वेदा वेद्यं समस्तं वै तव रूपं हि पद्मजे ॥९१॥स्त्रीरूपमखिलं लक्ष्मि तव रूपं वपुस्तव ।सौन्दर्यं शीलमौज्ज्वल्यं सौभाग्यं मार्दवं सुखम् ॥९२॥लावण्यं चापि सौगन्ध्यं चाकर्षणं रसादिकम् ।तवैवं रूपं कमले सर्वनारीषु संस्थितम् ॥९३॥ब्राह्मी नारायणीश्रीश्चाऽऽक्षरी मुक्तानिका रमा ।ब्रह्मप्रिया च कमला हरिप्रिया च माणिकी ॥९४॥राधा लक्ष्मीः पराविद्या रमा श्रीश्च नरायणी ।विद्या सरस्वती माता वैष्णवी पद्मिनी सती ॥९५॥पद्मा च पद्मजा चाऽब्धिपुत्री रंभा च राधिका ।भूर्लीला सुखदालक्ष्मीर्हरिणी माधवीश्वरी ॥९६॥गौरी कार्ष्णी कृष्णनारायणी स्वाहा स्वधा रतिः ।सम्पत् स्मृद्धिर्वासुदेवी विरजा च हिरण्मयी ॥९७॥भार्गवी शिवराज्ञीश्री रामा श्रीकान्तवल्लभा ।एतानि तव नामानि सदा प्रातः पठेद्धि यः ॥९८॥स स्मृद्धिं महतीं लक्ष्मीं श्रियमाप्नोत्यनाशिनीम् ।हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् ॥९९॥ज्योत्स्नां हिरण्मयीं लक्ष्मीं विन्दते मत्स्वरूपिणीम् ।उत्कृष्टगन्धरूपादिस्वरूपां पुष्टिवर्धिनीम् ॥१००॥तव दाता प्रभुः श्रीमान् पुरुषोत्तम एव च ।परनारायणः स्वामी वात्सल्यकरुणाऽर्णवः ॥१०१॥सुशीलः सुभगः पूर्णकामश्च सर्वशक्तिमान् ।स्वर्गापवर्गसुखदः शरणं सर्वदेहिनाम् ॥१०२॥सोऽहं मे दासभक्ताय दास्यै साकं त्वयाऽप्यहम् ।मां चाऽर्पयामि देवेशि परस्परात्मवेदिताम् ॥१०३॥श्रीमन्नारायणः स्वामी श्रीपतिः पुरुषोत्तमः ।अनादिश्रीकृष्णनारायणः सोऽहं गतिः परा ॥१०४॥शरणं मन्दिरं वासो बन्धुः पिता पतिः सुहृत् ।माता भ्राता रक्षिता च पालको जगतां प्रभुः ॥१०५॥कल्याणगुणवान् श्रीशः सर्वकामफलप्रदः ।प्राकृतगुणशून्योऽहं निर्गुणो दिव्यमूर्तिमान् ॥१०६॥दिव्याऽसंख्यगुणैश्वर्यरूपलावण्यसंयुतः ।अमृते शाश्वते दिव्येऽनन्तेऽक्षरे परे पदे ॥१०७॥निवसामि ब्रह्मलोके ब्रह्मानन्दसुखान्विते ।अतितेजोमये शुद्धे प्रलयादिविवर्जिते ॥१०८॥असंख्ये चाऽजरे नित्ये जाग्रत्स्वप्नादिवर्जिते ।समानाधिकरहितेऽन्ताऽऽद्यविरहिते शुभे ॥१०९॥अतिसर्वोत्कृष्टतेजोभृते चानन्दसागरे ।यदक्षरं वेदवेद्यं यस्मिन् देवाः साध्या निषेदुः ॥११०॥अधिविश्वे निषेदुश्च देवा विदुस्तदासते ।तदक्षरं मे परमं सदा पश्यन्ति सूरयः ॥१११॥यत्र गावो भूरिशृंगा अयास आसतेऽभितः ।ते ह नाकस्य महिमानं विदुः साध्ययोगिनः ॥११२॥तिष्ठामस्तत्र सततं युवानौ श्रीनरायणौ ।यत्र स्वसारो युवत्यस्त्वदाद्या मम वल्लभाः ॥११३॥तत्प्राप्य न निवर्तन्ते परमाक्षरधाम मे ।एतन्मोक्षपदं दिव्यं प्रयान्ति मन्त्रवेदिनः ॥११४॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने महामन्त्रगूढार्थज्ञानप्राप्यादिनिरूपणनामा सप्ततितमोऽध्यायः ॥७०॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP