संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ८७ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ८७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ८७ Translation - भाषांतर श्रीनारायणीश्रीरुवाच-ब्रह्मपुत्रा ब्राह्मणा ये तनवस्ते भवन्ति मे ।पावनाः सर्वथा लोके सर्ववर्णोत्तमा यतः ॥१॥कामक्रोधमहामोहलोभपाशावृताः सदा ।नारीवन्तो गृहधर्मा आशातृष्णादिसंवृताः ॥२॥ते श्रेष्ठा वा निरालम्बा विरागाः साधवस्तव ।कामक्रोधादिशून्याश्च तृष्णाऽऽशादिविवर्जिताः ॥३॥लोभपाशादिशून्याश्च शुभाः सर्वाश्रमोत्तमाः ।अगृहधर्मा निर्दोषा मोक्षमार्गपरायणाः ॥४॥सन्त_ श्रेष्ठा द्वयोर्मध्ये श्रैष्ठ्यं कुत्र वद प्रभो ।उभे ते वै शरीरे स्तो द्वयोर्भेदोऽस्ति वा न वा ॥५॥श्रीपुरुषोत्तम उवाच-शृणु लक्ष्मि हितं तथ्यं पथ्यं प्रत्यक्षदर्शनम् ।अकामेभ्यस्तु निष्कामाः श्रेष्ठतमा भवन्ति वै ॥६॥सस्त्रीकेभ्यो यतयस्तु सदा श्रेष्ठतमाः प्रियाः ।कामक्रोधमहामोहा नारीयोगे भवन्ति वै ॥७॥रतिप्रिया मे तनवः श्रेष्ठाः श्रेष्ठतमास्तु न ।श्रेष्ठतमाः साधवो मे सर्वमायाविवर्जिताः ॥८॥मायावन्तो गृहस्था वै नित्यं निरययोगिनः ।श्मशानानि नरकाणि नित्यं भजन्ति नारकाः ॥९॥मायाशून्या यतयो वै नित्यं माधवयोगिनः ।वैकुण्ठसमयद्वासान् सेवन्ते हरियोगिनः ॥१०॥त्यागाश्रमात्तु गार्हस्थ्यं निम्नं भवति सर्वदा ।वर्णेषु ब्राह्मणाः श्रेष्ठाः स्त्रीमत्सु न तु सर्वथा ॥११॥वर्णाश्रमेषु वै श्रेष्ठतमा मे साधवो मम ।ब्रह्मचर्यं सदा श्रेष्ठं साधुत्वं श्रेष्ठमेव च ॥१रे॥वानप्रस्थाश्रमः श्रेष्ठो मनाक् न तु च साधुवत् ।रतिप्रिया वृथा मानं वहन्ते नारका यथा ॥१३॥सन्न्यासवन्महत्स्थानं श्रेष्ठं क्वापि न विद्यते ।माया मायिककर्माणि निकृष्टानि स्वभावतः ॥१४॥अमायिकव्रतस्था वै साधवः सर्वतोऽधिकाः ।ईश्वरा अपि दारस्थाः पूजयन्ति सतो जनान् ॥१५॥द्विजा नृपाः सुराश्चापि साधून् प्रपूजयन्ति हि ।सेवावृत्तिचरेभ्यस्तु कृषिकाराः सदोत्तमाः ॥१६॥कर्षुकेभ्यो रक्षकाश्च रक्षकेभ्यस्तु तापसाः ।तापसा ब्राह्मणास्तेभ्यो दारवर्ज्या हि साधवः ॥१७॥ब्रह्मपरा आत्मपरा मुक्तिपरा हि साधवः ।दोषहीना चोर्ध्ववीर्या ब्रह्मसत्त्वा हि साधवः ॥१८॥वर्णानां ब्राह्मणः श्रेष्ठो ब्राह्मणानां तु साधवः ।विप्राणां पूजनीयाश्च पावनानां हि पावनाः ॥१९॥तामस्यो मे तनवस्तु राक्षसा दैत्यदानवाः ।राजस्यो मे तनवश्च क्षत्रियाद्या निजार्थिनः ॥२०॥सात्विक्यो मे तनवश्च विद्यावन्तो द्विजातयः ।निर्गुणा दिव्यतनवः साधवो मे प्रमुक्तिदाः ॥२१॥ततः श्रेष्ठतमा लक्ष्मि! साधवोऽति न तु द्विजाः ।क्षत्रतेजांसि सर्वाणि विप्रतेजसि यन्ति हि ॥२२॥विप्रतेजांसि सर्वाणि साधुतेजसि यन्ति हि ।साधुतेजांसि सर्वाणि लीयन्ते मयि माधवे ॥२३॥मत्सदृशाः सदा सन्तो विप्राणां तारका भुवि ।पापप्रज्वालकाः सन्तो मोक्षदा दारयोगिनाम् ॥२४॥तपस्तेजो व्रतं सत्यं चमत्कारः सुशीलता ।पुण्यं स्रवन्ति चैतानि नारीयोगेन देहिनः ॥२५॥साधूनां तानि सर्वाणि वर्धन्ते शीलयोगिनाम् ।नारायणा इव सन्तो जायन्ते वै नरायणाः ॥२६॥ततः श्रेष्ठा ब्राह्मणाश्च सन्तः श्रेष्ठतमाः सदा ।ब्रह्मा रुष्टः पुरा सनत्कुमाराय हि साधवे ॥२७॥तोलयामास वै श्रैष्ठ्यं साधुत्वब्राह्मणत्वयोः ।साधुत्वं श्रेष्ठतमतां प्राप्तं द्विजत्वसन्निधौ ॥२८॥पश्चात्पुनश्चैकतुलामध्ये न्यधाद्धि विप्रताम् ।क्षत्रियतां वैश्यतां च शूद्रतां ब्रह्मचारिताम् ॥२९॥गृहितां वनितां चापि ततोऽन्यस्यां न्यधादजः ।साधुत्वं केवलं सत्ये पश्यतां सर्वदेहिनाम् ॥३०॥साधुत्वं गौरवं प्राप्तं सप्तभ्यश्चैव सर्वथा ।तस्माच्छ्रेष्ठतमं सृष्टौ साधुत्वं मोक्षणेष्वपि ॥३१॥श्रेष्ठं पात्रं ब्राह्मणा वै श्रेष्ठतमं तु साधवः ।महाभागवताः श्रेष्ठा गृहिणस्तेषु साधवः ॥३२॥त्यागवन्तः सदा श्रेष्ठा नारायणपरायणाः ।भारवाहा न वै श्रेष्ठा गन्धज्ञा उत्तमा यथा ॥३३॥तथा दारवहा नैव श्रेष्ठाः श्रेष्ठास्तु साधवः ।लक्ष्मि! चाऽहं गृहस्थोऽस्मि पूजयामि सतो जनान् ॥३४॥मुक्ता ये ब्रह्मलोकस्थाः सर्वे ते साधवो मम ।तान् जपामि पूजयामि नारायणनरायणान् ॥३५॥विप्रविप्रान् ब्राह्मणानां ब्राह्मणान् ब्रह्मयोगिनः ।शीलिनां शीलिनश्चापि यतीनां च यतीन्परान् ॥३६॥अस्वादरसलुब्धाँश्च ह्यनिन्द्रियसुखान् सतः ।अप्रमदागन्धसहान् पूजयामि निरन्तरम् ॥३७॥न मे लक्ष्मि रोचतेऽयं गृहाश्रमो हि कल्मषी ।भक्तानीनां भवतीनामिच्छया चाऽभवं गृही ॥३८॥ये यथा मां प्रपद्यन्ते तांस्तथैव भजामि वै ।प्रतिज्ञा मे सदा चास्ते भक्तेच्छापूरको ह्यहम् ॥३९ ॥कामिनीनां कामदानैश्चार्तानां चार्तिनाशनैः ।अर्थार्थिनामर्थदानैः पूरयामि मनोरथान् ॥४०॥ज्ञानिनां निर्गुणो भूत्वा करोमि मोक्षणं प्रिये ।साधवो मेऽवतारा वै तेषु वसामि नित्यदा ॥४१॥सत्सु वसामि यावाँश्च विशेषतः समस्ततः ।अन्यत्र तु यथाकार्यं यथाजोषं यथाफलम् ॥४२॥तस्माच्छ्रेष्ठतमा नित्यं साधवः शीलयोगिनः ।अथैकदा स्वयं विष्णुर्लक्ष्मीयुक्तो ययौ वनम् ॥४३॥तपश्चचार बहुधा वर्षपूगसहस्रकम् ।सेवायां वर्तते लक्ष्मीस्तां न पस्पर्श तापसः ॥४४॥तदा लक्ष्मीर्नम्रभावा पप्रच्छ परमेश्वरम् ।कथं न स्पृशसि विष्णो! कारणं नु वदाऽत्र मे ॥४५॥विष्णुः प्राह व्रतश्रेष्ठं नारीस्पर्शो न यत्र तु ।ब्रह्मचर्यं व्रतं तपःसिद्धिप्रदं परात्परम् ॥४६॥स्त्र्यस्पर्शः साधुता श्रेष्ठा साधुत्वं तपसां बलम् ।साधुत्वे जायते सिद्धिस्तपसां चाऽपराजिता ॥४७॥लक्ष्मीः सन्देहमापन्ना स्वयं नारायणोऽपि सन् ।निर्दोषोऽपि कथं वक्ति प्रभुः प्राकृतजीववत् ॥४८॥अथ विष्णुस्तपःपूर्णसिद्ध्युत्तरं श्रियः खलु ।सन्देहनाशनार्थं वै ययौ वैकुण्ठमेव तु ॥४९॥तत्र नारायणो देवो लक्ष्म्या साकं विराजते ।सोऽपि नित्यं सतः साधून् पूजयत्येव योगिनः ॥५०॥इत्येवं सम्प्रदर्श्यैव लक्ष्मीं ततो ययौ परम् ।गोलोकं श्रीकृष्णधाम तत्र कृष्णः सराधिकः ॥५१॥नित्यं साधूनर्चयतीत्येवं प्रदर्श्य वै ततः ।ययौ विष्णुश्चाऽक्षराख्यं धाम धामोत्तमं परम् ॥५२॥तत्राऽनादिकृष्णनारायणो ब्रह्मप्रियाऽन्वितः ।साधून् मुक्तान् पूजयति दर्शयामास तच्छ्रियम् ॥५३॥ततो लक्ष्म्यास्तु सन्देहो निवृत्तो मूलतः खलु ।अथ विष्णुर्निजे रूपे लक्ष्मीमन्तर्विभाव्य च ॥५४॥लक्ष्म्यै सन्दर्शयामास लक्ष्म्या रूपं सनातनम् ।ब्रहाचर्यस्वरूपं यच्छीलं सा लक्ष्मीरेव ह ॥५५॥इच्छया वर्तते नारी वस्तुतः शीलरूपिणी ।अभिन्ना भगवत्येव सा त्वं लक्ष्मि! मम प्रिया ॥५६॥वर्तसे शीलरूपेति साध्वीरूपेति मत्प्रिया ।ब्रह्मशीलं चाति चाति प्रियं मे नाऽपरं तथा ॥५७॥तद्रूपा त्वं प्रिया नित्यं नेतरन्मे प्रियं ततः ।त्वत्स्वरूपाश्च मे सन्तः सर्वे प्रियतमा मम ॥५८॥साधवो हृदयं मेऽस्ति लक्ष्मीर्मे हृदयं तथा ।कौस्तुभो मे हृदयेऽस्ति श्रीवत्सो हृदये च मे ॥५९॥श्रीवत्साः साधवो मे वै हृदये मे वसन्ति हि ।श्रीपतिश्च यथा चाहं सत्पतिश्च तथाऽस्मि च ॥६०॥प्रेमपतिः सदा चास्मि शीलपतिः सदाऽस्मि च ।साधुपतिः सदा चाऽस्मि लक्ष्मीपतिः सदाऽस्मि च ॥६१॥लक्ष्मि चिह्नं प्रेमरूपं शीलाख्यं मयि वर्तते ।तद्यत्र विद्यते तद्धि लक्ष्मीति परिकीर्त्यते ॥६२॥तद्वती त्वं मदिच्छाऽसि साधवो मम मूर्तयः ।शीलं मम गुणः शश्वत् सोऽहं साधुस्वरूपवान् ॥६३॥अतः श्रेष्ठतमाः सन्तः सर्वसृष्टिभ्य एव ह ।कियन्तो ब्राह्मणास्तत्र नारीकल्मषयोजिताः ॥६४॥न देवा नेश्वराश्चापि साधुतुल्याः कथञ्चन ।नर्षयः पार्षदाश्चापि नारीयोगमुपागताः ॥६५॥तेभ्यो मे साधवः श्रेष्ठतमा लक्ष्मि परात्पराः ।शीलयुक्तं तपः श्रेष्ठं तादृक्तपस्तु साधुषु ॥६६॥तस्माद् वै साधवः श्रेष्ठास्तव पूज्याः सदा रमे ।अथ ते संशयो मा स्यात् कथं श्रेष्ठा हि साधवः ॥६७॥अश्वपट्टसरःक्षेत्रे भज साधून् समागतान् ।अतिथीन् त्यागयोगाँश्च सम्मानय समर्हणैः ॥६८॥तेषामाशीर्वचोभिश्च परमं श्रेय ईयते ।तेषां प्रसन्नताजन्यं पुण्यं भवेद्धि शाश्वतम् ॥६९॥तेषां सेवाफलं कोटिगोलोकानन्दसदृशम् ।जायते च ततः सर्वा ब्रह्मप्रिया हरिप्रियाः ॥७०॥साधुसेवां प्रकुर्वन्तु तोषयन्तु सतो जनान् ।निर्विकारान् मोक्षदांश्च मायापारकरान् गुरून् ॥७१॥दुर्गा चण्डी महाकात्यायनी हत्वा महासुरान् ।महिषादींस्ततः शंभुं पप्रच्छ परमेश्वरी ॥७२॥अहिंसा परमो धर्मः स्वयं शंभो निगद्यसे ।हिंसा क्षयकरी सा च मया कृताऽतिदारुणा ॥७३॥निपातिता हि बहवो विदारिता हि काश्यपाः ।दानवाश्चासुरा दैत्या ये ये रणे समागताः ॥७४॥तेषां पापं तथा तेषां नारीणां रोदनादिकम् ।वैधव्यजं च मे पापं बालाऽनाथनिकन्दनम् ॥७५॥कथं वै परिहर्तव्यं मया केन हि शोधिना ।कर्मणा वा व्रतेनापि प्रायश्चित्तेन वा वद ॥७६॥श्रुत्वा शंभुस्तदा प्राह त्वं साक्षात्पारमेश्वरी ।दिव्या ब्राह्मी महाशक्तिर्यत्र पापं न विद्यते ॥७७॥नित्यशुद्धस्वरूपाऽसि त्वं लक्ष्मीस्त्वं रमा रतिः ।त्वं माया त्वं महालक्ष्मीः पापं ते नैव विद्यते ॥७८॥अहं संहारकृद् रुद्रो रुद्राणी त्वं विनाशिनी ।महाकाली महाशक्तिः पावनी लोकभक्षिणी ॥७९॥मत्स्वरूपा सदा त्वं वै ब्रह्माऽहं परमेश्वरः ।नारायणी जगद्धात्री शिवा पुण्यमयी शुभा ॥८०॥सती साध्वी वह्निरूपा शुद्धाऽसि पौरुषोत्तमी ।तथापि ते मनःशान्त्यै लोकसंग्रहहेतवे ॥८१॥दर्शयामि तथा तत्त्वं समाचर महेश्वरि ।पापक्षालनशक्तं वै तीर्थं व्रतं तपस्त्रयम् ॥८२॥तेभ्यश्च बलवद् दुर्गे साधुसेवनमुत्तमम् ।साधूनां दर्शनं पुण्यं स्पर्शनं सम्प्रतोषणम् ॥८३॥वन्दनं दास्यमेवाऽपि पादसंवाहनादिकम् ।प्रसन्नताकरं सर्वं सद्यःपापप्रणाशकम् ॥८४॥तत् त्वं याहि विशालां च साधुर्यत्र स्वयं हरिः ।धर्मपुत्रः परमात्मा नारायणो विराजते ॥८५॥सदा व्रती तापसश्च ब्रह्मचारी गुरुर्मम ।तत्सेवया महापापादीनां नाशो भविष्यति ॥८६॥तत्राऽन्ये साधवो दिव्या महाभागवताः सति! ।वर्तन्ते भक्तिसम्पन्ना दर्शनान्मोक्षदायिनः ॥८७॥पावना ब्रह्मरूपाश्च नित्यमायान्ति तत्र च ।नारदाद्यास्तथा सनत्कुमाराद्या हि साधवः ॥८८॥लोमशाद्याः साधवश्च तेषां दर्शनसेवनात् ।बदर्याश्रमवासात् स्यात् सर्वकल्मषनाशनम् ॥८९॥इत्युक्ता प्राह शंभुं तु सती यामि तवाऽऽज्ञया ।यदि ते रोचते शंभो ह्यागन्तव्यं त्वया प्रभो ॥९०॥तथाऽस्त्विति हरो मत्वा ययौ देव्या समं गणैः ।बदरीं व्योममार्गेण नेमे नारायणं गुरुम् ॥९१॥सती नेमे ततो नारायणाय विनिवेद्य तत् ।साधुसेवात्मकं सर्वं सेवनं प्रचकार सा ॥९२॥नारायणस्याऽऽसनस्य बदर्याः सन्निधेस्तथा ।भूभागस्य सदा प्रातर्मार्जनं च जलार्पणम् ॥९३॥पत्रपुष्पार्पणं मालार्पणं ध्यानं च दर्शनम् ।जपं चेत्यादि दुर्गा सा प्रचकार यथायथम् ॥९४॥शंभुश्चापि महर्षीणां सेवनादि चकार ह ।साधूनां च यथापेक्षं स्वागतादि चकार ह ॥९५॥एवं वै मासमात्रं श्रीनारायणस्य सद्गुरोः ।सती सेवां प्रचकार प्रसन्नो भगवान् हरिः ॥९६॥उवाच तां वद दुर्गे! कथं किं समपेक्षसे ।दुर्गा प्राह कृपासिन्धो! तवाऽस्मि वैष्णवी सुता ॥९७॥शंभोः प्राप्ता मया दीक्षा पावनी दीक्षया सदा ।तथापि लोकरक्षार्थं दैत्यानां नाशकारिणी ॥९८॥जाताऽस्मि तेन हत्यादिमहापापाभिशंकिनी ।हराऽऽज्ञया क्षालयितुं शरणं ते समागता ॥९९॥साधोर्नारायणस्य श्रीहरेस्ते सेवया प्रभो ।सर्वपापानि नश्यन्तु चेच्छा मे हृदि वर्तते ॥१००॥श्रुत्वैवं श्रीहरिर्नारायणः प्राह शिवे! त्वयि ।पापलेशो न चैवाऽस्ति ब्राह्मी त्वं पारमेश्वरी ॥१०१॥वर्तसे शिवशक्तिस्त्वं महापातकनाशिनी ।तथापि लोकलाभार्थं करोषि तादृशं व्रतम् ॥१०२॥तव पापानि सर्वाणि दैत्यहत्यात्मकानि वै ।शान्तानि पावनी त्वं वै साधोर्ममैव दर्शनात् ॥१०३॥साध्वर्षीणां सेवनाच्च नष्टान्यद्यानि ते सति ।इत्युक्त्वा भगवान्नारायणो वारि ददौ तदा ॥१०४॥कमण्डलोः प्रसादाख्यामृतं वारि पपौ सती ।अथ शिवा शिवो नैजगणैः साकं हरिं प्रभुम् ॥१०५॥प्रपूज्याऽऽज्ञां समादाय कैलासं प्रति जग्मतुः ।इत्येवं शंभुना लक्ष्मि माहात्म्यमुत्तमं सताम् ॥१०६॥सेवायाः फलरूपं च दर्शितं पापनाशकम् ।स्वर्गमोक्षप्रदं भुक्तिप्रदं मुक्तिप्रदं तथा ॥१०७॥धनसम्पत्प्रदं चापि साधुसेवनमुत्तमम् ।वंशप्रदं तारकं च दारिद्र्यदुःखनाशकम् ॥१०८॥अज्ञानतिमिरघ्नं च नारायणाप्तिकारकम् ।सुखदं धामदं चापि साधूनां सेवनं रमे! ॥१०९॥पठनाच्छ्रवणाच्चाऽस्य स्मरणाद्वाचनादपि ।भुक्तिः स्वर्गं भवेच्चापि मुक्तिः स्यात्पारमेश्वरी ॥११०॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने विप्रगृहिभ्यः साधवः सर्वथा श्रेष्ठतमा इत्यर्थे विष्णोर्निदर्शनं दुर्गाया अपि साधुसेवानिदर्शनं चेत्यादिनिरूपणनामा सप्ताऽशीतितमोऽध्यायः ॥८७॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP