संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १८३ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १८३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १८३ Translation - भाषांतर पुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं शत्रूंजयानदीतटे ।आसीद् भक्तः सागराख्यः शूद्रोऽरण्यप्रपालकः ॥१॥सपुत्रपरिवारोऽयं सशस्त्रोऽरण्यरक्षणम् ।करोति पालिकाताने पालिकाराज्ययोजितः ॥२॥एकदाऽरण्यभागेषु पालिकातानजो नृपः ।ययौ वै मृगयार्थं सः परिमेयसुभृत्ययुक् ॥३॥अरण्यं तत्प्रविष्टोऽयं राजा च सागरं तु तम् ।भृत्यं निन्ये सह तत्र मृगादिमार्गदर्शकम् ॥४॥शूद्रोऽप्ययं हरेर्भक्तो हिंसां नैव करोति सः ।अहिंसको हि राजानं हिंसापापभयात् खलु ॥५॥उद्वाटं मृगशून्यं वै प्रदेशं प्रति नीतवान् ।अत्र मृगाः समायान्ति प्रयान्ति च वसन्त्यपि ॥६॥इत्युक्त्वा नीतवान् क्ष्मेशं वनपालाभिधं नृपम् ।यत्र जलं वनं रम्यं प्रदेशाश्चापि सुन्दराः ॥७॥क्वचित् क्वचिज्जनवासास्तं प्रदेशं तु नीतवान् ।आसायं तु समारण्येऽटवीतोऽप्यटवीं भ्रमन् ॥८॥अत्र मृगस्तत्र मृगश्चेत्येवं सम्प्रदर्शयन् ।राजानं भ्रामयामास जपन् श्रीपुरुषोत्तमम् ॥९॥आन्तरे प्रार्थयन् मां वै क्षमस्व भगवन्मम ।अपराधं नृपेणात्र सार्धं वै मृगयोद्भवम् ॥१०॥नाऽहमिच्छामि वनजान् मृगान् हन्तुं स्वयं क्वचित् ।अन्यद्वारा तथा हिंसा कारयितुं क्वचित् प्रभो ॥११॥अतो मया नृपश्चाऽयमुद्वाटेन प्रणीयते ।यत्र मृगा न प्राप्यन्ते हिंसा मे न यथा भवेत् ॥१२॥हिंसापापं नैव स्यात्तत्तथा रक्ष हि माधव ।कश्चिद्वन्यः पशुस्त्वत्र मार्गे नैव मिलेन्नृपम् ॥१३॥अन्तर्यामिंस्तथा सर्वं विधेहि क्लृप्तनं प्रभो ।एवं मां प्रार्थयन् भक्तः शूद्रोऽपि धर्मवान् शुचिः ॥१४॥यात्यग्रे तं नृपं कर्षन् मृगवासोऽत्र तत्र च ।वर्णनं बहुधा कुर्वन् राजन् खड्गोऽत्र वै भवेत् ॥१५॥अत्र चित्रमृगः स्याच्च शृंगी सृमरश्चात्र तु ।गवयश्चात्र शशको गेण्डुको वा भवेदिह ॥१६॥तरक्षुर्वा कृष्णमृगो वराहो वा भवेदिह ।एवमाशां बन्धयँश्च यात्यग्रेऽग्रे समुत्सुकः ॥१७॥जलं फलानि राज्ञेश्चार्पयत्यपि प्रसेवते ।तथापि स तु राजा न तुष्टिमेति मृगान् विना ॥१८॥एवं सायं समयो वै वनान्तरे व्यजायत ।मृगाऽलब्धौ नृपश्चापि निराशोऽप्यभवत्तदा ॥१९॥सर्वे तेऽस्तंगते चार्के विशश्रमुर्वनान्तरे ।सरस्तटे वटाधो वै बुभुक्षिता निराशयाः ॥२०॥अथात्र भाग्ययोगेन वनेचरस्तदा परः ।अरण्यं स्वं भ्रमित्वैव स्वगृहं प्रतियाति यः ॥२१॥स तत्र वटवृक्षाऽधः श्रुत्वा शब्दाँस्तु मानवान् ।पार्श्वसृत्या निर्गतोऽपि वटाश्रयं समाययौ ॥२२॥अपश्यत्तत्र राजानं परिमेयजनान्वितम् ।ननाम भावतश्चैतान् तस्थौ पप्रच्छ तं नृपम् ॥२३॥कथं राजन्नत्र रात्रौ विश्रामश्चाद्य विद्यते ।दासवर्गस्य कार्यं चेत्तिष्ठामि सेवनाऽऽज्ञया ॥२४॥दासोऽहं वनमार्गज्ञो वन्यज्ञो वनवासकृत् ।वने सर्वं विजानामि नृपाज्ञां वितरामि च ॥२५॥श्रुत्वा राजा तु वृत्तान्तं दिनचर्यां च निष्फलाम् ।मृषामृगयाभ्रमणं सर्वं जगाद वै तदा ॥२६॥अथ श्रुत्वा दक्षगर्वोऽपरो वनेचरो नृपम् ।राजन्नैतद्वनं तादृङ् मृगाधिवासितं क्वचित् ॥२७॥केनाऽयं दर्शितः पन्थाः केवलक्लेशदायकः ।वनेऽत्र न मृगाः सन्ति काष्ठहारा भ्रमन्ति यत् ॥२८॥मृगाणां तु वनं चान्यद् दक्षिणे सरितस्तटे ।वर्तते तत्र मृगयासाफल्यं जायते सदा ॥२९॥केनचिद् भ्रामितस्त्वं वै राजन्नत्र प्रवर्तसे ।वृथाप्रयासो भवतो वनेऽत्र कष्टमेव ह ॥३०॥एवमुक्तस्तदा राजा ज्ञातवान् स्वप्रतारणम् ।सागरेण हि शूद्रेण कृतं वृथाऽटनं प्रति ॥३१॥अहो विश्वासघाता वै मानवा नृपतिं क्वचित् ।विमार्गे सम्प्रकृष्यैव नयन्ति मरणं प्रति ॥३२॥विश्वासो नैव कर्तव्यो वने गृहे रणे तथा ।अज्ञातानां क्वचिद् भूपैर्विश्वासे कष्टमाप्नुयात् ॥३३॥सागरेण वयं चात्र प्रतारिता मृगार्थिनः ।अमृगाढ्ये वने दूरं भ्रामिता निष्फलीकृताः ॥३४॥सोऽयं दण्डस्य पात्रं वै विद्यते छद्मवृत्तवान् ।त्यक्तव्यो दण्डदानेन शिक्षा देया मयाऽत्र ह ॥३५॥एवं विचार्य नृपतिर्दक्षगर्वाभिधं परम् ।वनेचरं तदा प्राह तिष्ठ वा याहि ते गृहम् ॥३६॥प्रातश्चात्र समायाहि मृगयार्थं वने सह ।दास्येऽहं चेप्सितं ते वै पारितोषिकमुत्तमम् ॥३७॥मृगयाणां सुलाभे वै नान्यथा याहि तिष्ठ वा ।दक्षगर्वो नमस्कृत्याऽऽवश्यकतां प्रदर्श्य च ॥३८॥ययौ नैजं गृहं रात्रौ नाऽऽयात् प्रातश्च तत्स्थलम् ।राजाऽपि क्रोधमापन्नः प्रातरेव तु सागरम् ॥३९॥पप्रच्छ त्वं कथं त्वत्र वने मां नीतवान् वद ।मृगया यत्र नैवास्ति वृथाऽरण्ये भ्रमोऽभवत् ॥४०॥दुःखं त्वया कृतं त्वेतत्तस्माद्दण्ड्योऽसि सर्वथा ।मासिकं वेतनं त्वं वै प्राप्नोसि मम कोशतः ॥४१॥अहं प्रतारितश्चात्र त्वया भृत्येन वै यतः ।ततोऽहं प्रकरोम्यत्र दण्डं ते कपटार्थिनम् ॥४२॥इत्युक्त्वा भूपतिश्चान्यान् भृत्यानाह द्रुतं वचः ।पाषाणैरस्य दुष्टस्य प्रकोष्ठौ पादयोरिह ॥४३॥चूर्णयन्तु निक्षिपन्तु वटोऽधो दुष्टमानवम् ।इत्युक्तास्ते परे भृत्या भटा आसन् प्ररोषिणः ॥४४॥ते धृत्वा प्रस्तरान् कष्टाँश्चूर्णयामासुरुल्बणाः ।पादयोर्घूटिके चोभे भङ्क्त्वा तं वटमूलके ॥४५॥प्रक्षिप्य प्रययुः सर्वे सनृपास्ते ततः स्थलात् ।मृगयार्थं चापरं वै वनं गर्वान्विताः खलाः ॥४६॥अथाऽयं सागरस्तत्र मत्वा दैवात् समागतम् ।कष्टं रुरोद बहुधा स्मृत्वा मां पुरुषोत्तमम् ॥४७॥कथं हे भगवन्नत्र भक्तरक्षां करोषि न ।पापिनां तु तथा नाशं कृष्ण कथं करोषि न ॥४८॥हिंसायां तु महत्पापं विदित्वा मृगरक्षया ।मया राजा तूद्वारं वै प्रवर्तितो दयालुना ॥४९॥त्वद्भक्तोऽहं दयासिन्धो दयावान् मृगबालकान् ।मृगान् हन्तुं कथंकारं नयामि हिंसकं नृपम् ॥५०॥अहिंसायाः फलं हिंसात्मकं प्राप्तं मयाऽद्य तत् ।कष्टं कृष्ण त्वया चापि सह्यते स्वाश्रितस्य यत् ॥५१॥आश्चर्यं परमं त्वेतद् भक्तरक्षां करोषि न ।हरे कृष्ण हरे विष्णो हरे नारायण प्रभो ॥५२॥अनादिश्रीकृष्णनारायण जिष्णोऽवनं कुरु ।वने वटेऽत्र गहने यदि नायास्यसि द्रुतम् ॥५३॥कश्चिज्जनोऽपि दिवसे तदा मे मृत्युरत्र वै ।भवेच्चरणकष्टेन जलं कश्चिन्न दास्यति ॥५४॥प्राणावने प्रयास्यन्ति गतिर्दुष्टा भविष्यति ।कुटुम्बिनो मे नैवापि वेत्स्यन्ति मृत्युमत्र मे ॥५५॥हरेनाथ हरेकृष्ण बालकृष्ण प्रभो हरे ।हरे श्रीकम्भरापुत्र राधापते रमापते ॥५६॥शीघ्रमायाहि कमलापते लक्ष्मीपते प्रभो ।पद्मावतीपते प्रज्ञापते श्रीमाणिकीपते ॥५७॥मुक्तपते ब्रह्मपते सृष्टिपते जगत्पते ।भक्तपते दीनपते ब्रह्मप्रियापते हरे ॥५८॥शीघ्रमायाहि भगवन् भक्तरक्षार्थदेहवान् ।सौराष्ट्राधिपते श्रीमद्गोपालबालकप्रभो ॥५९॥कथंकारमिदं कष्टं पादसन्धिप्रचूर्णजम् ।सहे वै भगवन्नत्र प्राणा मूर्छा प्रयान्ति वै ॥६०॥इत्युक्ता मां प्रणम्यैव मूर्छाभावमुपागतः ।लक्ष्मि यावत् सागरो मे भक्तस्तावदहं द्रुतम् ॥६१॥तत्पार्श्वे प्रययौ शीघ्रं वनेचरस्वरूपवान् ।पत्राणि सन्धिनीवल्ल्या नीत्वा तद्रसमुत्तमम् ॥६२॥निष्कास्याऽङ्गुलिभिस्तत्र ददौ भग्नप्रदेशयोः ।तावत् प्रघूटिके चापि प्रकोष्ठौ सन्धितौ द्रुतम् ॥६३॥अस्थिनी च यथापूर्वं जातौ स्वस्थौ नीरुग्णकौ ।सशक्तौ चापि रक्ताढ्यौ मया स्पृष्टौ पुनः पुनः ॥६४॥मूर्छाया वारणं चापि कृतं भक्तस्य वै मया ।उत्थापितश्च कष्टं तद् दूरीकृतं समस्ततः ॥६५॥भोजितः सुप्रसादं च जलं तदा प्रपायितः ।स्नेहितः प्रेमदृष्ट्या च प्रापितश्च गृहं निजम् ॥६६॥वनेचरस्वरूपं मां पुपूज बहुभावतः ।गृहे रम्यासनं दत्वा परिचर्यां चकार मे ॥६७॥तस्य पत्नी हीरुकाऽपि पुत्राः पुत्र्यश्च सेवनम् ।चक्रुर्मे बहुधा लक्ष्मि मध्याह्ने भोजनादिभिः ॥६८॥मया भुक्तं जलं पीतं सेवा चांगीकृता तथा ।पादसम्मर्दनगात्रमर्दनादिस्वरूपिणी ॥६९॥अथाऽयं सागरो भक्तः पप्रच्छ मां निजं प्रति ।हरे नाथ कृपासिन्धो कष्टमेतत् कथं मम ॥७०॥पादभञ्जनरूपं वै केन पापेन चागतम् ।न हिंसिता मया जीवा न मांसमदिरादिकम् ॥७१॥स्पृश्यतेऽपि हरेकृष्ण नाऽसत्यं क्रियते क्वचित्॥न चौर्यं पारदार्यं वा क्रियते वै कदाचन ॥७२॥प्राणिरक्षाकृते त्वेतत् प्रतारणं नृपस्य तु ।कृतं मया प्रभो नाऽत्र पापं मया कृतं भवेत् ॥७३॥कथं मे पादहननं कथं कष्टं जनस्य ते ।वद नाथ यथार्थं मे कर्म वा तादृशं भवेत् ॥७४॥अत्र जन्मनि नैवाऽहं कृतवान्न स्मराम्यपि ।अज्ञातेन कृतं चेत् स्याद् वद मे संशयापहम् ॥७५॥तदाऽहं कमले तस्मै न्यवेदयं पुराकृतम् ।नाऽत्र जन्मनि तस्याऽभूत् कर्म क्रूरं हि तादृशम् ॥७६॥ततोऽहं कथयामास शृणु सागर प्राक्कृतम् ।त्वमासीर्वै हस्तिपको राज्ञो गजस्य रक्षकः ॥७७॥अस्य राज्ञः पितुर्धर्मपालस्य गजरक्षकः ।नाम्ना धरोदरस्त्वं वै शूद्रः कुटुम्बवानिह ॥७८॥भृत्यतां विदधन् हस्तिपालने त्वेकदा भवान् ।गजस्य तु मदप्राकट्ये युवानं गजं तदा ॥७९॥उन्मादिनं वशं कर्तुं प्रयत्नं बहुधा व्यधात् ।गोक्षुराद्यैर्लोहजैश्च न्यस्तैः पादतलेषु वै ॥८०॥तथा लोहार्गलैश्चापि लोहशृंखलिकादिभिः ।भल्लैश्चोग्रैश्च वंशैश्च दीर्घैश्च लोहजैः फलैः ॥८१॥पादौ विभिद्य करिणः कृत्वा शक्तिविहीनकम् ।गतिशून्यं गतं तत्र भवान् रुरोध सर्वथा ॥८२॥अधिकं पादयोस्तस्य मूढमारममारयत् ।भग्नमस्थि गजस्यापि पादस्यैकस्य वै तदा ॥८३॥अथाप्युत्थातुकामं तं हस्तिनं तु भवान् पुनः ।लोहदण्डैश्चाग्रपदे मारयामास निर्दयः ॥८४॥अस्थि द्वितीयपादस्य चूर्णतां पार्श्वतोऽगमत् ।एवं पादद्वयास्थिनी भग्ने ते क्रूरतावशात् ॥८५॥हस्तिना त्वं तदा शप्तो रक्षको मारको भवान् ।ममैव तु करेणैव भग्नपादो भविष्यसि ॥८६॥स त्वं कालेन निधनं गतोऽसि सागरोऽद्य वै ।हस्ती च निधनं प्राप्रो राजपुत्रोऽयमस्ति सः ॥८७॥वनपालाभिधः सोऽयं भग्नपादः पुरा गजः ।राजाऽद्य वर्तते त्वं चारण्यपालोऽद्य वर्तसे ॥८८॥तव पादौ तेन भग्नौ पुराभग्नस्य तत्फलम् ।मा शोकं कुरु भक्तोऽसि रक्षितोऽसि मयाऽद्य वै ॥८९॥न कृतं तु पुरा कर्म कंचित् त्यजति देहिनम् ।त्वया प्राप्तं कृतं कर्म फलरूपेण भक्तक ॥९०॥किन्तु भक्त्या मया रक्षा कृता चाहिंसया तव ।राज्ञोऽपराधः स्वल्पोऽपि निमित्तोऽत्र व्यजायत ॥९१॥अरण्ये पादभंगे ते मा शोकं कर्तुमर्हसि ।भज मां परमात्मानं पश्य मे रूपमैश्वरम् ॥९२॥अहं नारायणः साक्षाच्चतुर्भुजोऽस्मि चागतः ।याहि त्वद्यैव राजानं सायं गृहं समागतम् ॥९३॥वद मे सर्ववृत्तान्तं रक्षाकरं सुखप्रदम् ।सोऽपि श्रुत्वा नृपो मे संभजनं वै करिष्यति ॥९४॥तव योगेन मुक्तिं वै करिष्यामि नृपस्य ह ।मा भयं कुरु भक्तेन्द्र त्वया साकं भवाम्यहम् ॥९५॥इत्युक्त्वा भगवाँस्तत्र तिरोदधे तु पद्मजे ।भक्तो ययौ निशायां तु नृपगृहं स्मरन् हरिम् ॥९६॥राज्ञे सर्वं तु वृत्तान्तं कथयामास शोभनम् ।श्रुत्वा राजा विस्मितोऽभूद् ययाचे च क्षमां मुहुः ॥९७॥भक्तरक्षाकरं मां च तुष्टाव शरणं गतः ।विदित्वा प्राग्जन्म नैजं गजात्मकं मुहुर्मुहुः ॥९८॥आश्चर्यं परमं प्राप्य मत्वा देहं तु गत्वरम् ।भक्तो भूत्वा प्रभेजे मां कुटुम्बसहितो नृपः ॥९९॥पिता च बान्धवाश्चापि भेजिरे मां ततः सदा ।कृत्वा राज्यं सतां सेवां भक्तिं कृत्वा यथाक्षणम् ॥१००॥प्रापुस्ते मां परमेशं श्रीधामाऽक्षरसत्पदम् ।पठनाच्छ्रवणाच्चास्य लक्ष्मि भुक्तिश्च मोक्षणम् ॥१०१॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने सागराख्यशूद्रस्य भग्नपादस्य भगवत्कृतनीरुजपादत्वं तत्पूर्वभववृत्तान्तं चेत्यादिनिरूपणनामा त्र्यशीत्यधिकशततमोऽध्यायः ॥१८३॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP