संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ४८ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ४८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ४८ Translation - भाषांतर श्रीनारायणीश्रीरुवाच-यथा तुष्यति भगवान् परमेशः परात्परः ।तन्ममाऽऽख्याहि सर्वज्ञ कान्त कारुण्यवारिधे ॥१॥श्रीपुरुषोत्तम उवाच-नारायणं परं कान्तं सच्चिदानन्दविग्रहम् ।भज सर्वात्मना कान्ते! मां यद्यानन्दमिच्छसि ॥२॥रिपवस्तां न हिंसन्ति न बाधन्ते ग्रहादयः ।राक्षसाश्चापि नेक्षन्ते नारीं विष्णुपरायणाम् ॥३॥भक्तिर्दृढा भवेद् यस्याः परेशे परमात्मनि ।तस्याः श्रेयांसि सिद्ध्यन्ति भक्तियुक्ताऽधिका ततः ॥४॥पादौ तौ सफलौ तस्या यौ विष्णुगृहगामिनौ ।तौ करौ सफलौ तस्या मम पूजापरौ तु यौ ॥५॥ते नेत्रे सफले तस्याः पश्यतो ये श्रियः पतिम् ।सा जिह्वा मंगला तस्या हरेर्नामपरा तु या ॥६॥ते श्रौत्रे सफले तस्याः श्रीकथासारग्राहके ।सा त्वग् वै पावनी तस्या या हरिस्पर्शवेदिनी ॥७॥रसना सा रसवती यया प्राप्तो हरेः रसः ।घ्राणं पुण्यं हि तस्यास्तद् यच्छ्रीमद्गन्धवेदि वै ॥८॥सा कटिर्या तु हर्यर्थं गुप्तं हर्यर्थमेव च ।वक्षश्चाप्यपि हर्यर्थं गण्डौ हर्यर्थमेव यौ ॥९॥कपोलं चापि हर्यर्थं हर्यर्थं जघनं तथा ।सक्थिनी चापि हर्यर्थं जङ्घे हर्यर्थमेव च ॥१०॥औष्ठौ चापि तु हर्यर्थं केशा हर्यर्थमेव च ।शयनं चापि हर्यर्थं जागरणं हरेः कृते ॥११॥यस्या रमणं हर्यर्थं विलासोऽपि हरेः कृते ।हावा भावाश्च हर्यर्थं नृत्यं हर्यर्थमित्यपि ॥१२॥गायनं हसनं चापि दृष्टिर्हर्यर्थमेव या ।मानसं चिन्तनं चापि बुद्धिर्हर्यर्थमेव या ॥१३॥अहंभावोऽपि हर्यर्थं क्रिया हर्यर्थमेव च ।शृंगारोऽस्याश्च हर्यर्थं रूपं हर्यर्थमेव च ॥१४॥अलंकाराश्च हर्यर्थं भूषा हर्यर्थमेव च ।कज्जलं चन्दनं तैलं हर्यर्थं कबरी तथा ॥१५॥धम्मिलाश्चापि हर्यर्थं पुष्टिर्हर्यर्थमेव च ।व्रतं शीलं तथा शुद्धिः स्नानं हर्यर्थमेव च ॥१६॥संस्काराश्चापि हर्यर्थं तानं हर्यर्थमेव च ।भानं लज्जा प्रमोदश्च प्रीतिर्हर्यर्थमेव च ॥१७॥सौकुमार्यं च माधुर्यं दीप्तिर्हर्यर्थमेव या ।प्रसाधनं च हर्यर्थं प्रोत्साहोऽपि हरेः कृते ॥१८॥उत्सवाश्चापि हर्यर्थं शोभा हर्यर्थमेव च ।उपार्जनं व्ययश्चापि यत्नो हर्यर्थमेव च ॥१९॥सुखं रतिर्महानन्दः सर्वं हर्यर्थमेव च ।गृहं क्षेत्रं सम्पदश्च सर्वं हर्यर्थमेव च ॥२०॥सुताः पुत्र्यश्च गावश्च हर्यर्थं वाजिनस्तथा ।गजा यानविमानानि यस्या हर्यर्थमेव च ॥२१॥वाटिका सस्यसम्पच्चोपस्कराश्च हरेः कृते ।निमेषं श्वासरक्षा च चेतनोऽपि हरेः कृते ॥२२॥गुणभावाश्च हर्यर्थं भावनाऽपि हरेः कृते ।उत्थानमुदयश्चापि विरामोऽपि हरेः कृते ॥२३॥अनावरणभावश्च हृदयं च हरेः कृते ।गोप्यं मन्त्रो रहस्यं च सर्वं यस्या हरेः कृते ॥२४॥कलाः शिक्षाऽभ्यसनं च रागः शान्तिर्हरेः कृते ।आरम्भाश्च प्रपूर्तिश्च पाचनं च हरेः कृते ॥२५॥भ्रमणं व्यवहारश्च स्फुर्तिश्चास्या हरेः कृते ।लोभः कामश्च संकल्पश्चोत्सवश्च हरेः कृते ॥२६॥यज्ञा दानं भजनं च धर्मश्चास्या हरेः कृते ।पुष्पशय्या उरःशय्या चोर्ध्वशय्या हरेः कृते ॥२७॥मण्डपो मण्डपी रासो लीला लौल्यं हरेः कृते ।भ्रमणं हरणं चापि वर्तनं च हरेः कृते ॥२८॥लेखनं खेलनं चापि कौशल्यं च हरेः कृते ।चातुर्यं चापि चापल्यं दिव्यताऽपि हरेः कृते ॥२९॥अप्यंगानां मोडनं च स्वेदश्चोत्तेजनं तथा ।राजसो वेग एवापि सर्वं हर्यर्थमेव च ॥३०॥भोजनं पानमुद्गारो धातुलाभो हरेः कृते ।समयश्चापि संकेतो वाटश्चापि हरेः कृते ॥३१॥मार्गणं चाऽन्वेषणं च प्रतीक्षणं हरेः कृते ।आनन्देच्छा हरेरेव हर्यर्थं चान्तरं स्थलम् ॥३२॥अन्तर्बहिर्हरिर्यस्याः स्नेहमूर्तिर्हरेर्हि सा ।सत्यसारमिदं सर्वं न कान्तः केशवात्परः ॥३३॥असारे खलु संसारे सारः कान्तो हरिर्महान् ।संसारपाशाः सुदृढा अभक्ताया भवन्ति ते ॥३४॥भक्तायास्ते गुणदा वै विपाशाश्च भवन्ति वै ।आनन्दमतुलं मे च वशीकृत्वा समर्जयेत् ॥३५॥स्थानं रूपं तथाऽऽनन्दः सुखं वक्तुं न शक्यते ।निर्देष्टुं चापि च द्रष्टुं शक्यते नाऽकृतात्मभिः ॥३६॥सर्वोपाधिविनिर्मुक्तश्चानन्दोऽतिशयो हरेः ।परब्रह्ममयं भुक्त्वाऽऽनन्दं ब्राह्मी भवेत् सती ॥३७॥तत्कथायां च रमते सत्कथां च करोति या ।सत्संगो नित्यमेवाऽस्याः प्रीतो भवामि पद्मजे ॥३८॥नामसंकीर्तनं मे च क्षुत्तृट्प्रस्खलनादिषु ।करोति सततं या तु तस्याः प्रीतो भवामि वै ॥३९॥या तु वधूः पतिप्राणा पतिपूजापरायणा ।तस्यास्तुष्टः सदा चास्मि ददामि स्वपदं प्रियम् ॥४०॥असूयारहिता या तु तथाऽहंकारवर्जिता ।दासीभावपरा साध्वी तस्यास्तुष्यामि सर्वथा ॥४१॥तस्माद् ब्रह्मप्रियाः सर्वा हरिप्रिया मदात्मिकाः ।भजताऽत्र हरिं कान्तं मां प्रियं कृष्णवल्लभम् ॥४२॥शरीरं मृत्युवासं वै हासवासं हि कर्मिणाम् ।जीवितं चञ्चलं विद्युल्लोलाश्च सम्पदस्तथा ॥४३॥राजादिभिर्धनं बाध्यं स्मृद्धयः क्षणभंगुराः ।निद्राढ्यं चायुषार्धं चोपार्जनार्थं तथाऽर्धकम् ॥४४॥भोगार्थं च तदर्धं तु बाल्यं सौषुप्तमित्यपि ।विचार्येति सती कुर्याद् वयस्येव ममाऽर्चनम् ॥४५॥वपुर्विनाशनिलयं चापदां परमं पदम् ।अकस्माद् भिन्नमार्गं च तेन भक्तिं प्रसाधयेत् ॥४६॥असारभूते संसारे सारे मयि समर्पणम् ।सर्वात्मना प्रकुर्याद्वै ज्ञात्वा नारी प्रमोक्षणम् ॥४७॥देहयोगनिवृत्त्यर्थं सद्य एव नरायणम् ।अनादिश्रीकृष्णनारायणं भजेत मां सती ॥४८॥कोटिजन्मसहस्रेषु स्थावरादिषु योषितः ।संभ्रान्तायाः कथंचिद्वै मानुष्यं समुपस्थितम् ॥४९॥तत्र दानं चार्चनं च जन्मान्तरतपःफलम् ।भक्तिश्चाशीर्वादफलं सेवा सौभाग्यमित्यपि ॥५०॥मानुष्यं दुर्लभं प्राप्य या हरिं नार्चयेत् सती ।मूर्खी सैव जडबुद्धिर्नारी पुनर्भविष्यति ॥५१॥तस्याश्चातीव मूर्खाया विवेकः किं करिष्यति।आराधितो हरिः कृष्णो ददात्यभिमतं फलम् ॥५२॥चण्डालो वा निकृष्टो वा मलिनः पापवानपि ।गणिका वा शीलहीना व्यवायादिपरायणा ॥५३॥अशुद्धा वा सूतिका वा विष्णुभक्ता द्विजाधिका ।विष्णुभक्तिविहीना तु द्विजाऽपि श्वपची च वा ॥५४॥तस्माद्धरिं प्रसेव्यैव तोषयेत्परमेश्वरम् ।मयि तुष्टेऽखिलं तुष्टं सर्वात्माऽहं यतोऽस्मि च ॥५५॥हस्तिपदे सर्वपदं गगने सार्वभौतिकम् ।अनादिश्रीहरौ तद्वन्मयि सर्वं प्रतिष्ठितम् ॥५६॥जन्ममृत्यू प्रान्तभागौ तन्नाशो मम सेवया ।ध्यातः स्मृतः पूजितो वा प्रणतो वोद्धराम्यहम् ॥५७॥संसारपाशविच्छेदं करोमि कृपया सदा ।मन्नामोच्चारणादेव महापातकनाशनम् ॥५८॥मन्मूर्तेः स्मरणादेव ब्रह्मभावो भवेदपि ।मत्सतीसेवया मोक्षगामित्वं स्याद् द्रुतं प्रिये ॥५९॥नीयमाना यमभटैरशक्ता स्वविमोचने ।अपुण्याऽपि स्मरेन्मां च तामुद्धरामि कष्टतः ॥६०॥विद्राव्य याम्यदूताँश्च नयामि मत्पदं प्रियाम् ।स्मरन्ती मां शरणाप्तामबलां दीनमानसाम् ॥६१॥अनाथां परवशगां पुण्यपुञ्जविवर्जिताम् ।आलम्बवर्जितां निराधारामुद्धारयाम्यहम् ॥६२॥यावन्नेन्द्रियवैकल्यं यावद्व्याधिर्न बाधते ।तावत् प्रसेव्य मां साध्वी मुक्तिमार्गं हि क्लृप्तयेत् ॥६३॥कृष्णः सर्वात्मना पूज्यो ध्येयश्च माधवः सदा ।हरिः सेव्यः सदा साध्व्या प्रसादनीयः केशवः ॥६४॥अनाराध्य जगन्नाथं ब्रह्मप्रियान्तरस्थितम् ।परमानन्दलाभो न संसेव्य तं सुखं व्रजेत् ॥६५॥अच्युताऽनन्तगोविन्दकृष्णमाधवकेशव ।अनादिश्रीकृष्णनारायण दामोदर प्रभो ॥६६॥हरे कृष्ण विभो राम नारायण नरायण ।ऋषीकेशाऽक्षरातीत परब्रह्म परेश्वर ॥६७॥पुरुषोत्तम मुक्तेश ब्रह्मेश च जनार्दन ।भगवन् व्यापक स्वामिन्नुच्चारयेत् सती सदा ॥६८॥एवं मां भजमानाया दूरे नाऽहं वसामि वै ।सा मय्यहं च तस्यां च वर्तामि सर्वदा प्रिये ॥६९॥नारायण जगन्नाथ कम्भरात्मज कामद ।गोपालकृष्णतनय वासुदेव जनार्दन ॥७०॥कान्त दान्त महानन्दप्रद श्रीपरमेश्वर ।सतीनाथ सतांनाथेतीरयन्ति मुहुर्हि याः ॥७१॥तासां पूजां प्रकुर्वन्ति ब्रह्माद्या अपि देवताः ।वन्दितास्ता भवन्त्येव सर्वत्र कमला यथा ॥७२॥यत्प्रभावं न जानन्ति या मायाऽऽवृतमानसाः ।हृत्पद्मस्थं नं जानन्ति तासां हानिर्महत्तमा ॥७३॥हरिः श्रद्धावतां तुष्येन्न धनैर्न च बान्धवैः ।नाऽऽत्मगुणैर्न तपसा भक्त्या तुष्येज्जनार्दनः ॥७४॥सेवया चातितुष्येच्च पूजया स्मरणेन च ।आत्माऽर्पणेन तुष्येच्च तोषयन्तु ततः प्रियाः ॥७५॥पुत्रमित्रस्मृद्धयश्च बह्व्यो भवन्ति सम्पदः ।हरिपूजारतानां वै दुर्लभाः सन्ति ता नहि ॥७६॥इहाऽमुत्र सुखवाञ्च्छावती सम्पूजयेद्धरिम् ।अनादिश्रीकृष्णनारायणं मां पुरुषोत्तमम् ॥७७॥न नमेद्विष्णवे यस्या मस्तकं, मोक्षदायिने ।कर्मणां भेदिने तस्या देहो बोध्योऽघशेवधिः ॥७८॥हरिभक्तियुतो देहो दिव्यो बोध्यः स्त्रिया अपि ।श्रेष्ठा भक्त्या भवन्त्येव भक्तिहीना कनिष्ठिकाः ॥७९॥पूजनीयास्ततो लक्ष्मि योषितो भक्तिसंभृताः ।सम्मार्जनादिभिर्यास्तु मम शुश्रूषणे रताः ॥८०॥सतां समागमकर्त्र्यस्ता यान्ति परमं पदम् ।हरिधर्मरताः शान्ता हरिपादाब्जसेविकाः ॥८१॥हरिकार्यपराः कृष्णकृष्णरटनतत्पराः ।रोमरोमसु कृष्णस्य प्रेमनिस्यन्दराजिताः ॥८२॥अहं कृष्णाऽप्यहं कृष्णा चेष्टा एवं समाश्रिताः ।गृहाण वंशीं कुञ्जे च समायाहीति शब्दिताः ॥८३॥एकान्तं त्वं गृहाणाऽत्र रहस्यं मे प्रदेहि च ।प्रेमरसं महानन्दं मां प्रपायय कुञ्जगाम् ॥८४॥अन्तर्भावरसं कृष्ण संगमोत्थं प्रपायय ।तादात्म्यस्नेहमापन्नां कुरु स्पष्टां च किंकरीम् ॥८५॥अंकदासीं रायनस्य सखीं विधेहि माधव ।निर्जनस्य सरसश्च विधेहि पद्मिनीं प्रभो ॥८६॥पयःफेननिभरात्रेर्विधेहि शारदीं विभो ।वसन्तस्य च वल्लीषु विधेहि कोकिलां हरे ॥८७॥शैत्यर्तोर्मां कृपां कृत्वा कम्बलिनीं विधेहि च ।सर्वयज्ञस्य कार्यस्य वेदीं विधेहि मां त्विह ॥८८॥विश्रान्त्यर्थं कृपासिन्धो तूलिकां मां विधत्स्व नु ।अग्नितप्तस्य कान्तस्य शीतां कान्तां विभावय ॥८९॥निरालम्बसमाधेश्च ब्रह्मानन्दीं प्रियां कुरु ।मायायुक्तस्य कृष्णस्य मुक्तानिकां पुजस्व माम् ॥९०॥सर्वाकृष्टस्य चित्तस्य मग्नस्थलीं विधापय ।प्रेमप्रवाहसरितां सामुद्रिकीं निभालय ॥९१॥अमानोद्गतमोदस्य भिन्नमूर्तिं स्वकां कुरु ।समरस्मरयुक्तस्य वाहिनीं तव मां कुरु ॥९२॥कौस्तुभस्य वियुक्तस्याऽऽसनीभूतं च हृत् कुरु ।प्रेमबिम्बाधरस्यात्राऽऽधारलतां सुयोजय ॥९३॥पद्मपत्रायतनेत्रे नेत्रयोर्बिम्बके कुरु ।पूर्णाऽमावार्धितुल्यायाः कौमुदीशो भवाऽत्र मे ॥९४॥साध्व्या स्वामी चकोरायाश्चन्द्रः कृष्णो भवाऽत्र मे ।शलभायाश्चाऽनलश्च तिम्याः कण्टरसो भव ॥९५॥चातक्यास्तु स्वातिवर्षा मयूर्या जलदो भव ।नववध्वा वरश्रेष्ठ कृष्णनारायणो भव ॥९६॥विरहाग्निप्रदावाया योगिवारिप्रदो भव ।भवाब्धिगर्तमग्नायाः करग्राहो हरिर्भव ॥९७॥नेत्रे हृदि च मनसि चेतने निहितो भव ।सर्वेन्द्रियेषु सुखदश्चान्तरेषु स्थिरो भव ॥९८॥आनखशिखमासाद्य यावान् यावत्सु मे वस ।इत्येवं शिवराज्ञीश्रि! मयि तादात्म्ययोजनम् ॥९९॥यायाद् या सा ब्रह्मप्रिया हरिप्रिया भवेदिह ।पठनाच्छ्रवणादस्य राधालक्ष्मीसमा भवेत् ॥१००॥मम तादात्म्ययोगोऽयं कल्पभक्त्या भवेन्ननु ।नरो नारी च सम्पाद्य मदात्मकत्वमाव्रजेत् ॥१०१॥अपात्रं भक्तिहीनं वै नाऽयं पचति तस्य वै ।वधूगीतां पुरा श्रुत्वा सदाचारपरा भवेत् ॥१०२॥सती भूत्वा निर्गुणं च भक्तियोगं ततश्चरेत् ।पुरुषोत्तमयोगं च प्रपात्य तन्मयी भवेत् ॥१०३॥ततः साक्षात् परब्रह्मयोगयुक्ता भवेद् ध्रुवा ।तया तादात्म्ययोगोऽयं प्राप्यते मत्कृपावशात् ॥१०४॥सर्वा वध्वो भवन्त्येवं परिपूर्णतमे मयि ।लोकनार्यस्तथा भूत्वा भविष्यन्ति मदात्मिकाः ॥१०५॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने अक्षरातीततादात्म्ययोगनिरूपणनामाऽष्टचत्वारिंशोऽध्यायः ॥४८॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP