संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः १५२

द्वापरयुगसन्तानः - अध्यायः १५२

लक्ष्मीनारायणसंहिता


श्रीपुरुषोत्तम उवाच-.
शृणु नारायणीश्रि त्वं पापोद्धारकरान् सुतान् ।
धर्मस्य बलयुक्तान् वै यदाश्रयेन मोक्षणम् ॥१॥
धर्मदेवात्तु कामं वै श्रद्धा तु सुषुवे सुतम् ।
मदर्थं योजितः कामो मोक्षाय परिकल्पते ॥२॥
धर्मदेवात्तु दर्पं वै श्रीः पुत्रं सुषुवे शुभम् ।
मदर्थं योजितो दर्पो मोक्षाय परिकल्पते ॥३॥
धर्मदेवात्तु नियमं धृतिस्तु सुषुवे सुतम् ।
मदर्थं योजितश्चायं मोक्षाय परिकल्पते ॥४॥
धर्मदेवात्तथा तुष्टिः सन्तोषं सुषुवे सुतम् ।
मदर्थं योजितश्चाऽयं मोक्षाय परिकल्पते ॥५॥
धर्मदेवात्तथा पुष्टिर्लोभं तु सुषुवे सुतम् ।
मदर्थं योजितो लोभो मोक्षाय परिकल्पते ॥६॥
धर्मदेवात्तथा मेधा श्रुतं तु सुषुवे सुतम् ।
मदर्थं योजितश्चायं मोक्षाय परिकल्पते ॥७॥
धर्मदेवात्तथा पुत्रं दण्डं तु सुषुवे क्रिया ।
मदर्थं योजितो दण्डो मोक्षाय परिकल्पते ॥८॥
दण्डानुजं नयं चापि विनयं च नयाऽनुजम् ।
त्रयस्ते योजिता मत्तो मोक्षायैते भवन्ति वै ॥९॥
धर्मदेवात्तथा बुद्धिर्बोधं तु सुषुवे सुतम् ।
मदर्थं योजितो बोधो मोक्षाय परिकल्पते ॥१०॥
धर्मदेवात्तथा लज्जा सुनयं सुषुवे सुतम् ।
सुनयो योजितः कृष्णे मोक्षाय परिकल्पते ॥११॥
धर्मदेवात्तथा वपुर्व्यवसायमसूयत ।
मदर्थं व्यवसायश्च योजितो मोक्षदो भवेत् ॥१२॥
धर्मदेवात्तथा शान्तिः क्षेमं तु सुषुवे सुतम् ।
मदर्थं योजितः क्षेमो मोक्षाय परिकल्पते ॥१३॥
धर्मदेवात्तथा सिद्धिः सुखं तु सुषुवे सुतम् ।
सुखस्तु योजितः कृष्णे मोक्षाय परिकल्पते ॥१४॥
धर्मदेवात्तथा कीर्तिः सुषुवे च यशः सुतम् ।
यशः संयोजितं कृष्णे मोक्षाय परिकल्पते ॥१५॥
धर्मपौत्राश्च वै सर्वे मदर्थं यदि योजिताः ।
ते सर्वेऽपि तु मोक्षाय भवन्ति पापनाशकाः ॥१६॥
कामपुत्रो महानन्दो हर्षपुत्रोऽतिमानकः ।
नियमस्य विरामस्तु सन्तोषस्य तु तर्पणः ॥१७॥
लोभस्य सञ्चयः पुत्रः श्रुतस्य निर्णयः सुतः ।
दण्डस्य कृच्छ्रसंज्ञश्च नयस्य वर्धनः सुतः ॥१८॥
विनयस्य सुतश्चाभ्युदयो बोधस्य शन्तनुः ।
सुनयस्य सुतस्तेजो व्यवसायस्य आयकः ॥१९॥
क्षेमस्य रक्षणं पुत्रः सुखस्य मोदसंज्ञकः ।
यशसश्चोत्सवः पुत्रः पौत्रा धर्मस्य वै मयि ॥२०॥
योजिता मोक्षदाः सर्वे पापानां नाशका रमे ।
सतां योगेन योक्तव्या दिव्यास्ते तारयन्ति वै ॥२१॥
शृणु लक्ष्मि पापदान् वै पुण्यक्षयकरानपि ।
अधर्मस्य सुतान् दुष्टक्रियाचारप्रवर्तकान् ॥२२॥
हिंसा पत्नी त्वधर्मस्य तस्यां जज्ञेऽनृतं सुतः ।
असत्यमनृतं प्रोक्तं दुःखदं पापकारि तत् ॥२३॥
तस्य स्वसा निर्ऋतिश्च तत्सुतौ नरकं भयम् ।
माया च वेदना चेति कन्यके द्वे तथा मते ॥२४॥
मायासुतस्तथा मृत्युः सर्वभूतापहारकः ।
वेदनायाः सुतश्चापि दुःखाख्यः समजायत ॥२५॥
मृत्योर्व्याधिजराशोकतृष्णाक्रोधाश्च जज्ञिरे ।
निर्ऋतिः संप्रजज्ञे च विनाशं दुःसहं सुतम् ॥२६॥
ब्रह्मा तु निर्ऋतेः पुत्रं दुःसहं क्षुधितं कृशम् ।
काकस्वनं निम्नमुखं समुवाच वचो हितम् ॥२७॥
मा त्वं खाद जगच्चेदं वृत्तिं ददामि ते सुत ।
अधार्मिकस्य वासस्ते वासो भवतु सर्वदा ॥२८॥
पर्युषितं सकीटं च तथा श्वभिरवेक्षितम् ।
भग्नभाण्डगतं चापि मुखवातोपसंहतम् ॥२९॥
उच्छिष्टं स्विन्नमेवापि चाऽवलीढमसंस्कृतम् ।
उदक्योपहतं भुक्तमुदक्या तव तद् भवेत् ॥३०॥
अश्रद्धया हुतं दत्तमस्नातैर्यदवज्ञया ।
त्यक्तं दुष्टं च सर्वं ते मया यक्ष समर्पितम् ॥३१॥
पंक्तिभेदे च कपटे पाकभेदे प्रतारणे ।
कलहे च कुमेले च भविता वसतिस्तव ॥३२॥
अपोष्यमाणे वृद्धे च बद्धे गवि ह्यपोषिते ।
बालानां पोषणहीने गृहे वासः सदा तव ॥३३॥
वृथोपवासिनो मर्त्यान् द्यूतस्त्रीव्यसनस्थितान् ।
बैडालवृत्तिकाँश्चापि शठानभिभविष्यसि ॥३४॥
दुःखदानां तु पापानां तथा विश्वासघातिनाम् ।
शरणार्थिविरुद्धानां गृहे वासः सदा तव ॥३५॥
त्वया गेहे निर्दये वै सदा स्थेयं हि दुःसह ।
न स्थेयं धार्मिके गेहे देवगेहे कदाचन ॥३६॥
यः संस्कृतादो विधिना शुचिरन्तस्तथा बहिः ।
अलोलुपो जितकामस्तद्गेहं चापवर्जय ॥३७॥
यत्र मैत्री गृहे बालवृद्धयोषिन्नरेषु च ।
तथा स्वजनवर्गेषु गृहं तच्चापि वर्जय ॥३८॥
योषितोऽभिरता यत्र न बहिर्गमनोत्सुकाः ।
लज्जान्विताः सदा गेहं यक्ष! तत्परिवर्जय ॥३९॥
वयःसम्बन्धयोग्यानि शयनान्यशनानि च ।
यत्र गेहे सतां सेवा तद्गृहं त्वं विवर्जय ॥४०॥
यत्र कारुणिका नित्यं साधुकर्मस्ववस्थिताः ।
सामान्योपस्करैर्युक्तास्तद्गृहं संविवर्जय ॥४१॥
यत्रासनस्थाः सहसोत्तिष्ठन्ति गुरुसन्निधौ ।
वृद्धानां सन्निधौ चापि तद्गृहं संविवर्जय ॥४२॥
तरुगुल्मादिभिर्द्वारं न विद्धं यस्य वेश्मनः ।
उद्यानशोभं भवनं श्रेयस्तत्परिवर्जय ॥४३॥
यत्र पुंसां मर्मभेदो जायते न ध्वनिर्गृहे ।
वाणी वा तादृशी नास्ति तद्गृहं परिवर्जय ॥४४॥
देवतापितृमर्त्यानामतिथीनां च पूजनम् ।
तत्प्रसादाशनं यत्र तद्गृहं परिवर्जय ॥४५॥
सत्यवाक्यान् क्षमाशीलानहिंस्रान्नानुतापिनः ।
पुरुषान्प्रमदाश्चापि त्यजेथाश्चाऽनसूयकान् ॥४६॥
भर्तृशुश्रूषणे युक्तामसत्स्त्रीसंगवर्जिताम् ।
कुटुम्बभर्तृशेषान्नपुष्टां च त्यज योषितम् ॥४७॥
ब्राह्मणं वेदविज्ञानं सात्त्विकं देवपूजकम् ।
अध्वरादिपरं तुष्टं शान्तं त्यज सदा शुभम् ॥४८॥
क्षत्रियं रक्षकं चापि दातारं धर्ममार्गगम् ।
न्यायमात्रपरं भक्तं त्यज दुःसह! सद्बलम् ॥४९॥
वैश्यं तु व्यवसायस्थं सत्यधर्मपरायणम् ।
अहिंसकं दानपरं भक्तं गोसेवकं त्यज ॥५०॥
शूद्रं सेवापरं भक्तं शान्तिं निष्कपटं त्यज ।
पत्नी पतिर्यत्र रतौ परस्परसहायिनौ ॥५१॥
धर्मपरौ मोक्षपरौ तद्गृहं सर्वथा त्यज ।
यत्र पुत्रो गुरोः पूजां देवानां च तथा पितुः ॥५२॥
पत्नी च भर्तुः कुरुते तत्र दुःसह मा वस ।
प्रातः सायं कृतलेपं देवपूजाभिसंस्कृतम् ॥५३॥
गृहं सतां पादपूतं न त्वं शक्नोषि वीक्षितुम् ।
भास्कराऽदृष्टशय्यानि नित्याग्निसलिलानि च ॥५४॥
सूर्यावलोकदीपानि दानद्वारर्द्धिमन्ति च ।
सतां प्रसादपात्राणि लक्ष्म्या गेहानि भाजनम् ॥५५॥
यत्र नारायणश्चापि लक्ष्मीश्चापि प्रपूज्यते ।
यत्र वै साधवः साध्व्यस्तत्राऽलक्ष्मीभयं कुतः ॥५६॥
यत्रोक्षा चन्दनं वीणा आदर्शो मधुसर्पिषी ।
मिष्टाज्यताम्रपात्राणि तद्गृहं न तवाश्रयः ॥५७॥
यत्र कण्टकिनो वृक्षा यत्र मादकवल्लिकाः ।
भार्या विवाहशून्या च वल्मीक! तत्र संवस ॥५८॥
यत्र गृहे नराः पञ्च स्त्रीत्रयं गोत्रयं तथा ।
अन्धकारो निरग्निश्च तद्ग्रहं वसतिस्तव ॥५९॥
एकच्छागं द्विवालेयं त्रिगवं पञ्चमाहिषम् ।
षडश्वं सप्तमातंगं गृहं शोषय दुःसह ॥६०॥
कुद्दालदात्रपितकं तद्वत् स्थाल्यादि भाजनम् ।
सर्वाण्युपकरणानि मुसलोलूखलौ तथा ॥६१॥
स्त्रीणां खट्वी तथा चान्यत् क्षिप्तं यत्र च तत्र च ।
अमार्जितं च मलिनं गृहं तव प्रतिश्रयम् ॥६२॥
मुसलोलूखले स्त्रीणामासनं चाप्युदुम्बरे ।
अवस्करे मन्त्रणं च तद्गृहे वस दुःसह ॥६३॥
लंघ्यन्ते यत्र धान्यानि पक्वाऽपक्वानि वेश्मनि ।
तद्वच्छात्राणि तत्र त्वं यथेष्टं चर दुःसह ॥६४॥
स्थालीपिधाने यत्राग्निर्दत्तो दर्वीफलेन वा ।
गृहे तत्र हि रिष्टानामशेषाणां समाश्रयः ॥६५॥
मानुषास्थि गृहे यस्य दिवारात्रं मृतस्थितिः ।
तत्र दुःसह वासस्ते तथाऽन्येषां च रक्षसाम् ॥६६॥
यत्र पद्ममहापद्मौ युवती मोदकाशिनी ।
वृषभैरावतौ यत्र तद्गृहं त्यज सर्वथा ॥६७॥
अशस्त्रा देवता यत्र सशस्त्रश्चाऽहवं विना ।
कल्प्यन्ते मनुजैरर्च्यास्तत् परित्यज मन्दिरम् ॥६८॥
पौरजानपदा यत्र प्राक्प्रसिद्धमहोत्सवाः ।
क्रियन्ते पूर्ववद्गेहे तत्र गृहे न संवस ॥६९॥
शूर्पवातघटोऽम्भोभिः स्नानं वस्त्राम्बुविप्रुषैः ।
नखाग्रसलिलैश्चापि तान् याहि हतलक्षणान् ॥७०॥
देशाचारयुतं ज्ञातिधर्मयुतं च सोत्सवम् ।
जपहोमपरं देवमंगलेष्टियुतं गृहम् ॥७१॥
शौचाचारयुते लोकशस्यं पूज्यं सदाश्रयम् ।
गृहं मा स्पृश तत्रत्यान् मा विलोकय दुःसह ॥७२॥
इत्येवं दुःसहस्यादौ लक्ष्मि ब्रह्मा ददौ गृहम् ।
निवासार्थं ह्यधर्मस्य सहयुग् दुःसहोऽभवत् ॥७३॥
दुःसहस्याऽभवद्भार्या मलिनीनाम नामतः ।
कलिपुत्री कलहज्ञा क्लेशधर्मावलम्बिनी ॥७४॥
तस्याः पुत्रा अष्टसंख्याः कन्याश्चाष्टौ भयप्रदाः ।
दन्ताकृष्टिस्तथोक्तिश्च परिवर्तस्तृतीयकः ॥७५॥
अङ्गधृक् शकुनिश्चापि गण्डप्रान्तरतिस्तथा ।
गर्भहा सस्यहा चेति कन्यानामान्यपि शृणु ॥७६॥
नियोजिका तु प्रथमा द्वितीया तु विरोधिनी ।
स्वयंहारकरी चापि भ्रामणी ऋतुहारिणी ॥७७॥
स्मृतिहन्त्री बीजहन्त्री विद्वेषिणी तथाऽष्टमी ।
भयदास्तास्तदेतेषां तासां कार्याणि मे शृणु ॥७८॥
दन्ताकृष्टिः प्रसूतानां बालानां दशनस्थितः ।
करोति स ज्वरोत्पादं तच्छान्तिः सितसर्षपैः ।
शयनस्योपरिक्षिप्तैः क्षौमवस्त्रविधारणात् ॥७९॥
तथोक्तिनामको वक्ति दुःसहस्याऽस्तु संस्थितिः ।
तच्छान्त्यर्थं तु मांगल्यं कीर्तनीयो जनार्दनः ॥८०॥
परिवर्तः करोत्येव गर्भाणां परिवर्तनम् ।
रक्षां कुर्वीत रक्षोघ्नमन्त्रैश्च सितसर्षपैः ॥८१॥
अङ्गधृक् स्फुरणं दुष्टं चांगानां प्रकरोति वै ।
कुशैस्तस्यांकसंस्पर्शान्निवृत्तिर्जायते तदा ॥८२॥
काकादिपक्षिसंस्थश्च शकुनिः शकुनं सदा ।
करोति दुष्टमेवाऽत्र कार्यत्यागो निवर्तनम् ॥८३॥
गण्डकालक्षणान्ते च गण्डप्रान्तो वसत्यपि ।
सर्वारम्भान् प्रहन्त्येव देवस्तुत्या निवारणम् ॥८४॥
गोमूत्रसर्षपस्नानैस्तदृक्षग्रहपूजनैः ।
धमोत्सवादिकरणैर्गण्डवान् याति वै लयम् ॥८५॥
गर्भहा गर्भनाशी वै नित्यं शौचाद् विनश्यति ।
दैवमाल्यादिरक्षादिमन्त्रेभ्यः स तु नश्यति ॥८६॥
सस्यहा क्षेत्रभूभागे सस्यर्द्धिमुपहन्ति च ।
तस्माद् रक्षां प्रकुर्वीत जीर्णोपानद्विधारणात् ॥८७॥
तथाऽपसव्यगमनाच्चाण्डालस्य प्रवेशनात् ।
बहिर्बलिप्रदानाच्च सतां चरणवासनात् ॥८८॥
चौर्यव्यवायमद्यादौ नियोजिका तु मानवान् ।
नियोजयति तच्छान्तिं कुर्यात् साधुसमागमात्। ॥८९॥
दीक्षादिग्रहणाद्धर्माद् व्रतात्तीर्थनिषेवणात् ।
विरोधिनी कुरुते वै दम्पत्योश्च विरोधनम् ॥९०॥
बन्धूनां सुहृदां पित्रोः पुत्रैः परस्परं सदा ।
तस्याः शान्तिं प्रकुर्वीत शास्त्राचारनिषेवणात् ॥९१॥
स्वयंहारकरी कन्या धान्यं खलाद्धरत्यपि ।
गोभ्यः पयस्तथा सर्पिः पयसोऽपि हरत्यपि ॥९२॥
समृद्धिमृद्धिमद्द्रव्यादपहन्ति महानसात् ।
अर्धसिद्धं तथाऽन्नं च यदन्नागारसंस्थितम् ॥९३॥
संपरिवेषितं चान्नं साऽर्ध भुंक्ते च भुंजता ।
उच्छेषण मनुष्याणां हरत्यन्नं हि सा तथा ॥९४॥
कर्मान्तागारशालाभ्यः सिद्धर्द्धिं सा हरत्यपि ।
गोस्त्रीस्तनेभ्यश्च पयः क्षीरहर्त्री तदैव सा ॥९५॥
दध्नो घृतं तिलात्तैलं सुरागारात् तथा सुराम् ।
रागं कुसुंभकादीनां कार्पासात् सूत्रमित्यपि ॥९६॥
तच्छान्त्यर्थं प्रकुर्याच्च द्वन्द्वं शिखण्डिनोः शुभम् ।
कृत्रिमां च स्त्रियं तत्र गृहे न्यसेत् स्थलेऽपि च ॥९७॥
रक्षामन्त्रं तथा लक्ष्म्या रक्षामन्त्रं समुच्चरेत् ।
'लक्ष्मि लक्ष्मि महालक्ष्मि ललिते कम्भरे सति ।
हारिकां हन दुष्टां त्वं हारिका नाशमेतु च ॥९८॥
इति प्रार्थ्य गृहे भस्म स्थले गोष्ठे निधापयेत् ।
होमाग्निदेवताधूपभस्मादिभिर्विनश्यति ॥९९॥
उद्वेगं जनयत्यन्या ह्येकस्थाननिवासिनः ।
पुरुषस्य तु दुःखदा भ्रामणी सा भवत्यपि ॥१००॥
तस्याथ रक्षां कुर्वीत विक्षिप्तैः सितसर्षपैः ।
आसने शयने चोर्व्यां यत्रास्ते स तु मानवः ॥१०१॥
अथ पुष्पं हरत्यन्या स्त्रीणां सा ऋणहारिणी ।
कुर्वीत तीर्थदेवौकश्चैत्यपर्वतसानुषु ॥१०२॥
नदीसंगमखातेषु स्नपनं तत्प्रशान्तये ।
चिकित्साशः प्रयुञ्जीत वरौषधमृतुप्रदम् ॥१०३॥
स्मृतिं हरति नारीणां नराणां स्मृतिहा हि सा ।
विविक्तदेशसेवित्वाच्छ्रीहरेर्भजनात्तथा ॥१०४॥
स्निग्धभोजनपानाञ्च तस्याश्चोपशमो भवेत् ।
बीजाहापरिणी चाऽन्या वीर्यं रजो हरत्यपि ॥१०५॥
हरेः प्रसादमेध्यान्नभोजनैस्तीर्थयात्रया ।
तस्याश्चोपशमः प्रोक्तो हस्ते कामफलधृतेः ॥१०६॥
द्वेषिणी द्वेषमादध्याच्छान्त्यर्थं जुहुयात्तिलान् ।
मधुक्षीरवृताक्तांश्च मित्रविन्देष्टिमाचरेत् ॥१०७॥
एतेषां तु कुमाराणां कन्यकानां च पद्मजे ।
अन्यान्यपि ह्यपत्यानि वच्मि नामक्रियादिकम् ॥१०८॥
दन्ताकृष्टेः कन्यके द्वे विजल्पा कलहा तथा ।
उभे क्लेशप्रदे शान्तिः कर्तव्या होमकर्मणा ॥१०९॥
दूर्वांकुरान्मधुघृतक्षीराक्तान् बलिकर्मणि ।
विक्षिपेज्जुहुयाच्चैवानलं मित्रं च कीर्तयेत् ॥११०॥
तथोक्तेः कालजिहाख्यः पुत्रोऽसाधून् प्रबाधते ।
परिवर्तसुतौ द्वौ तु विरूपविकृतौ रमे ॥१११॥
तौ तु वृक्षाग्रपरिखाप्राकारांऽभोधिसश्रयौ ।
गर्भहानिकरौ तस्माद् गर्भिणी नाऽभिरोहयेत् ॥११२॥
वृक्षमट्टं परिखां च प्राकारं च महोदधिम् ।
अङ्गधृगः सुतो लक्ष्मि पिशुनो नाम नामतः ॥११३॥
सोऽस्थिमज्जागतः पुंसां बलमर्त्त्यजितात्मनाम् ।
शकुनेः पञ्चपुत्राश्च श्येनः काकः कपोतकः ॥११४॥
गृध्रश्चोलूक इत्येते श्येनो मृत्युप्रदो मतः ।
कः कालकरश्चापि ह्युलूको राक्षसप्रदः ॥११५॥
गृद्धो व्याधिप्रदश्चापि कपोतो यममार्गदः ।
तस्य श्येनादयो यस्य निलीयेयुः शिरस्यथ ॥११६॥
नरस्तद्वर्जयेद् गेहं कपोताक्रान्तमस्तकम् ।
श्येनः कपोतो गृध्रश्च काकोलूकौ गृहे रमे! ॥११७॥
प्रविष्टः कथयेदन्तं वसतां तत्र वेश्मनि ।
स्वप्नेऽपि हि कपोतादेर्दर्शनं नहि शस्यते ॥११८॥
गण्डप्रान्तरतेः पुत्रा राजस्वल्यनिवासिनः ।
श्राद्धपर्वनिवासाश्च नाभिगच्छेत्तदा स्त्रियम् ॥११९॥
गर्भहस्य सुतो निघ्नो मेहिनी चापि कन्यका ।
प्रविश्य गर्भमत्त्येको भुक्त्वा मोहयतेऽपरा ॥१२०॥
जायन्ते बालकास्तस्मान्मण्डुकाः कच्छपाः सृपाः ।
पुरीषं वा भवत्येव तस्माद् गर्भवती सती ॥१२१॥
श्मशानकटभूमिं चतुष्पथं वर्जयेन्निशि ।
वृक्षच्छायां वर्जयेच्चोत्तरीयं न परित्यजेत् ॥१२२॥
शस्यहस्य सुतश्चैकः क्षुद्रको हन्ति ऋद्धिकाम् ।
अमंगल्यदिने वप्तुः क्षेत्रं फलति नैव ह ॥१२३॥
नियोजिकायाः कन्याश्च मत्तोन्मत्ता प्रमत्तिका ।
नवा चेति विशन्त्येता नाशाय सर्वदेहिनाम् ॥१२४॥
अधर्माद्यैर्योजयन्ति परस्त्रीनरसंगमे ।
विरोधिन्यास्त्रयः पुत्रा नोदको ग्राहकस्तथा ॥१२५॥
तमःप्रच्छादकश्चेति ह्याचारवर्जिते गृहे ।
पैशुन्यं कुरुते त्वाद्यो गृह्णाति ग्राहको हि तत् ॥१२६॥
तृतीयस्तमसा क्रोधं जनयन्त्यतिदुःखदाः ।
स्वयंहार्यास्त्रयः पुत्राश्चौर्येण जनिता रमे! ॥१२७॥
सर्वहार्यर्धहारी च वीर्यहारी तथैव च ।
अनाचारगृहे क्लेशगृहे वसन्ति ते सदा ॥१२८॥
भ्रामण्याः काकजंघाख्यः पुत्रो धर्मविवर्जिते ।
रमते गायति चापि भुनक्ति हास्यमेति च ॥१२९॥
कन्यात्रयं च कुचहा व्यंजनहा च जातहा ।
यस्या न क्रियते लोकः सम्यग् वैवाहिको विधिः ॥१३०॥
कालातीतोऽथवा तस्या हरत्येका कुचद्वयम् ।
वृद्धिश्राद्धमदत्वा च तथाऽनर्च्य च मातरम् ॥१३१॥
विवाहितायाः कन्याया हरति व्यंजनं परा ।
तृतीया त्वम्वग्निमध्ये विधूपे सूतिकागृहे ॥१३२॥
अदीपशस्त्रमुसलेभूतिसर्षपवर्जिते ।
प्रविश्य जातमपत्यं हरते तद्विनश्यति ॥१३३॥
सा जातहारिणी नाम सुघोरा पिशिताशना ।
तस्मात् सुरक्षणं कार्यं यत्नतः सूतिकागृहे ॥१३४॥
स्मृतिहापुत्रको नाम्ना प्रचण्डश्चाऽत्तुकामनः ।
लीकाश्च चण्डपुत्रास्ते सर्वे चाण्डालयोनयः ॥१३५॥
लीकास्त्वधर्मवंशं वै वासयन्ति हरन्ति च ।
बीजहा बीजनाशार्थं यतते शुद्धिवर्जिते ॥१३६॥
विद्वेषिणीसुतौ पुंसामपकारप्रकाशकौ ।
एकस्तु स्वगुणान् लोके प्रकाशयति पाप्यपि ॥१३७॥
द्वितीयस्तु गुणान् मैत्रीं लोकस्थामपकर्षति ।
इत्येते दौसहाः सर्वे यैः प्रजाः कष्टमाप्नुयुः ॥१३८॥
तेषां शान्तिः प्रकर्तव्या तत्तद्बलिक्रियाऽर्हणैः ।
मखै रौद्रैर्वैष्णवैश्च दैवैर्भौतैश्च चाण्डिकैः ॥१३०१॥
हरेः सम्पूजनैर्भक्त्या व्रतैराराधनैरपि ।
सतां सेवाविशेषैश्च चमत्कारिसदर्हणैः ॥१४०॥
इत्येवं कथितं लक्ष्मि पाषानां पापनाशनम् ।
शान्त्यादिकर्मभिश्चापि प्रसंगाद् रिष्टकानि च ॥१४१॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने धर्मवंशवर्णनमधर्मवंशवर्णनं दुःसहस्य निवासस्थानानि दुःसहवंशानामुपद्रवादिवर्णनमित्यादिनिरूपणनामा द्वापञ्चाशदधिकशततमोऽध्यायः ॥१५२॥

N/A

References : N/A
Last Updated : May 04, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP