संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः १९६

द्वापरयुगसन्तानः - अध्यायः १९६

लक्ष्मीनारायणसंहिता


श्रीपुरुषोत्तम उवाच-
एवं नारायणीश्रि वै तदा मया शुभावहम् ।
उपदिष्टं मोक्षदं तत्स्त्रीभ्यां च हर्षुलाय च ॥१॥
अथापि विद्रुमवल्ली वृद्धाऽपत्यादिवर्जिता ।
मां पप्रच्छा हरेकृष्ण यथा पुत्रवती त्वहम् ॥२॥
भवाम्यपि तथा कान्त कृपां विधेहि वै मयि ।
अहं तस्यास्तु भक्ताया भाग्यं प्रार्थनया तथा ॥३॥
सेवया च नवं तत्राऽकरवं पुत्रदं शुभम् ।
तथाऽस्त्वेवं मयोक्ता सा प्रसन्ना समजायत ॥४॥
उपदेशो मया तेभ्यः पुनर्दत्तोऽतिशोधनः ।
भक्तिर्यस्य भवेत् कृष्णनारायणे मयि प्रभौ ॥५॥
प्रत्यक्षे तस्य वर्तेत कार्यं कृष्णवचोऽनिशम् ।
कृष्णभक्ता वदेयुर्यत् कार्यं तदपि सत्वरम् ॥६॥
एवंविधाऽभिलाषी च प्रतीक्षेत हरेर्वचः ।
तथामूर्तिं मम चित्ते धारयेद्वै निरन्तरम् ॥७॥
नित्यं नवनवश्रद्धो धारयेन्न समुत्सृजेत् ।
मन्येत पूर्णकामं च मम ध्यानपरायणः ॥८॥
चिरं ध्यायन्मय मूर्ति ततो याति परां गतिम् ।
साधुसेवां प्रकुर्याद्वा तथा याति परं पदम् ॥९॥
साधूनां च गुणानेव गृह्णीयाद् दुर्गुणाँस्त्यजन् ।
न्नाकृतौ परमेशे च साधौ चापि गुणान्नयेत् ॥१०॥
सतां प्रसन्नताहेतुं सदाचारं चरेत् सदा ।
आचारे वचने कार्ये सतां योगे प्रसेवने ॥११॥
संशयं नैव कुर्वीत कुसंगः संशयो ह्यतः ।
विश्वासेन प्रकुर्वीत सतां चेष्टं हरेस्तथा ॥१२॥
तदेव मुक्तिदं स्याद्वै निःसंशयो जयं व्रजेत् ।
अधमोद्धारकश्चाऽहमुद्धरामि मदाश्रितम् ॥१३॥
सोत्साहेन तु सेवायां वर्तितव्यं सतां हरेः ।
सोत्साहानां सेवकानां नैवाऽसाध्यं हि किञ्चन ॥१४॥
नानाविधपदार्थानां प्राप्तिर्मत्प्राप्तितो भवेत् ।
मत्सुखेन सदाऽऽनन्दवन्तो भवन्ति मच्छ्रिताः ॥१५॥
अन्तरा मां पदार्थानां त्यागं करोति सर्वथा ।
सर्वदा मां भजते यः स मुक्तः स च मे प्रियः ॥१६॥
निजेन्द्रियाणां व्यापारा अर्पणीया परात्मनि ।
तदा दिव्यक्रियाः सर्वा भवन्ति मत्परायणाः ॥१७॥
वर्तते तस्य तृप्तिश्च साक्षात् कृष्णस्य योगतः ।
साक्षाद्धरेस्तु संयोगस्तथा ब्रह्मदशा निजा ॥१८॥
यस्याऽस्ति तस्य कर्तव्यशेषो नास्ति प्रमुक्तये ।
ज्ञानेन्द्रियाणि सर्वाणि यद्गृह्णन्ति निजाऽदनम् ॥१९॥
अदनं तद्धरिः साक्षाद्धरेर्गुणाश्च शाश्वताः ।
एवं कर्मकराणां चेन्द्रियाणां विषयो हरिः ॥२०॥
भवेद् यस्य तु तस्याऽत्राऽऽनन्दो भवेद्धि शाश्वतः ।
दिव्यगुणादिसंप्राप्तौ सर्वं कृष्णमयं भवेत् ॥२१॥
एवमत्रैव कर्तव्यं भवितव्यं तथा सदा ।
रूपं सतां हरेश्चापि रसः सतां हरेस्तथा ॥२२॥
गन्धः सतां हरेश्चापि शब्दः सतां हरेस्तथा ।
स्पर्शः सतां हरेश्चापि शुद्धिकृन्मोक्षकृत् सदा ॥२३॥
सतां हरेर्दर्शनं च स्पर्शनं देहसेवनम् ।
पादसम्मर्दनं चापि पावनं शोधकं सदा ॥२४॥
सतां हरेर्गृहे वासस्तदाज्ञापालनं तथा ।
असंशयस्तदाचारे पावनो मोक्षदः सदा ॥२५॥
भोक्तव्यं भोग्यमेवाऽऽर्प्य श्रीकृष्णे नाऽन्यथा क्वचित् ।
कृष्णाय कृष्णमूर्त्यात्मसत्पुरुषाय वाऽर्पयेत् ॥२६॥
अर्पितं दिव्यतां याति तद्भोक्ता मोक्षगो भवेत् ।
हरेर्योगान्निर्गुणं तत्तद्भोक्ता निर्गुणो भवेत् ॥२७॥
सद्योऽन्तःकरणं शुद्धं करोति निर्गुणं हि तत् ।
बन्धनं नैव जायेत निर्गुणस्योपभोगतः ॥२८॥
एवं विज्ञाय पञ्चाऽपि तथाऽन्ये विषया अपि ।
सेव्याः शुद्धिकरा दिव्या प्रसादरूपिणः सदा ॥२९॥
अनर्पिता न वै सेव्याः परिहार्या हि दूरतः ।
एवं वै वर्तमानानां विक्षेपो नैव जायते ॥३०॥
बन्धनं न भवेच्चापि पुण्या मुक्तिः करे स्थिता ।
शुद्ध्यन्ति सर्वकामाश्च सिद्ध्यन्ति कामिताः सदा ॥३१॥
मम वासः सदा तस्यान्तरे भवति सौख्यदः ।
एवं विविच्य कर्तव्यः सतां संगो हरेस्तथा ॥३२॥
सत्संगः सर्वदा कार्यो निःश्रेयसप्रदो हि सः ।
नास्ति तादृक् पदार्थो वा वस्तु यन्मम योगतः ॥३३॥
नोपेयाद् दिव्यभावं वा मोक्षदं न भवेदिति ।
सर्वं पवित्रं मद्योगाच्छ्रेष्ठं निकृष्टमित्यपि ॥३४॥
एवं ज्ञात्वाऽर्पणीयं मे सर्वं वर्ष्म च दैहिकम् ।
एवं शरणमाप्तस्याऽप्यहं तस्य भवामि हि ॥२५॥
ब्रह्मात्मनिष्ठायुक्तस्य गुरुधर्मयुतस्य च ।
रागशून्यस्य सर्वत्र स्नेहयुक्तस्य वै मयि ॥३६॥
मम माहात्म्यविज्ञस्य मम प्रसादशेवधेः ।
ममैश्वर्यं समस्तं वै धाम्नि तस्य भवत्यपि ॥३७॥
मम प्रसन्नतालभ्यमैश्वर्यं तेन चाऽर्ज्यते ।
सतां समागमान्नित्यं सिद्धधर्मं समालभेत् ॥३८॥
मुक्तिदः सिद्धधर्मो वै तमर्जयेत् सतां श्रयात् ।
साध्यधर्मो हरिश्चाऽहं प्राप्यो भवामि सिद्धतः ॥३९॥
यस्य साक्षाद्धरेः प्राप्तिः साक्षाद् योगः प्रसेवनम् ।
सर्वदा दर्शनं चास्ति तथापि मायिकं सुखम् ॥४०॥
यदि वाञ्च्छति तस्यात्मा न तृप्तो निरयाभिगः ।
स एव ज्ञानहीनो वै बोध्यो यो न तृषां त्यजेत् ॥४१॥
सदसद्बोधमासाद्य मायासुखं ततस्त्यजेत् ।
आत्मसुखं परित्यज्य मायासुखे प्रमोदते ॥४२॥
तस्य शाश्वतकार्याणि नैव सिद्ध्यन्ति कान्यपि ।
आत्मस्थस्य हरेर्मे च सुखं भुंक्ते तु यो जनः ॥४३॥
स एव विद्वान् मुक्तात्मा भक्तात्मा सर्वतोऽधिकः ।
उपासनाबलेनाऽयं जायते हि नरायणः ॥४४॥
नारी नारायणी स्याच्च राधा लक्ष्मीर्यथा रमा ।
सत्समागममाप्तस्य निजात्मपरमात्मनोः ॥४५॥
साक्षाद् वै दर्शनं दिव्यं जायते नाऽत्र संशयः ।
सत्संगो विद्यते यस्य तस्य चात्मप्रदर्शने ॥४६॥
परमात्मदर्शनेऽपि स्वातन्त्र्यं कृपया भवेत् ।
आत्मदर्शनयत्नोद्योगिनः सत्संगवर्तिनः ॥४७॥
मम प्रतापमालम्ब्य चान्तर्दृष्टिं विधाय च ।
वीक्षते स्वस्वरूपं चेद् भास्वद्भासुरमीक्षते ॥४८॥
आत्मप्रकाशे विमले साक्षान्मां परमेश्वरम् ।
वीक्षते बालकृष्णं वै शाश्वतानन्दवान् भवेत् ॥४९॥
भक्ता त्वैकान्तिकी या च नारी वाऽपि नरोऽपि वा ।
मदर्थकृतसर्वस्वा मां प्रयाति परे पदे ॥५०॥
क्रियासु क्रियमाणासु सर्वास्वपि हरिः स्वयम् ।
चिन्तनीयो धारणीयो यथादृष्टो यथाश्रुतः ॥५१॥
भोजनीयः सेवनीयो रञ्जनीयो हरिस्त्वहम् ।
तेन भक्ताः प्रयान्त्येव ब्रह्मधामाऽक्षरं परम् ॥५२॥
शान्तचित्ते वीक्षणीयः श्रीकृष्णोऽन्तर्दृशा चिरम् ।
सर्वानन्दाः प्रापणीया मम मूर्तेस्तदात्मतः ॥५३॥
जीवोऽयं देहिनां देहे संसारेऽपारसागरे ।
चतुरशीतिलक्षेषु देहेषु खनियोगिषु ॥५४॥
उत्पन्नो बहुवारं वै स्त्री वा पुमान् पुनः पुनः ।
नरा भुक्तास्तथा नार्यो भुक्ताश्चाऽनेन वै मुहुः ॥५५॥
पीतानि सर्वदुग्धानि गर्भकुट्यो विलोकिताः ।
मरणं जननं चापि दृष्टं पुनः पुनस्तथा ॥५६॥
अहन्ता ममता चापि देहे दैहिकवस्तुषु ।
कृताऽपि बहुधा यत्र देहे स्थितिमवाप्तवान् ॥५७॥
विस्मृतानि समस्तानि पूर्ववर्ष्माणि तानि वै ।
इदं जन्मान्तरे प्राप्ते विस्मर्यते तथैव ह ॥५८॥
तदिदं चात्र देहे वै संगस्त्याज्यो यथोचितः ।
अहन्ता ममता त्याज्या ज्ञानेन पूर्वगे यथा ॥५९॥
विवेकेन विषयेष्वासक्तिं त्यक्त्वा हरौ मयि ।
सज्जेत देहवान् यः स मुक्तो भवति मच्छ्रयात् ॥६०॥
मुक्त्यर्थं च विवेकार्थं माहात्म्यार्थं ममापि च ।
सेव्याः सन्तः सदा पूताः पावना मत्स्यरूपिणः ॥६१॥
सेवया च ततः प्राप्यैकान्तिकत्वं च दिव्यताम् ।
धामाऽक्षरं परं प्राप्याऽक्षरसाधर्म्ययोगतः ॥६२॥
सेवन्ते कोटिशो मुक्ता यथा मां सेवते त्वयम् ।
तन्मुक्तपंक्तौ स्थातव्यमित्येवं मां प्रसेवयेत् ॥६३॥
सुखं चान्यत् समग्रं तु तुच्छं च क्षणिकं तथा ।
विचार्यैकान्तभक्तिं मे कुर्याद् रहस्यवेदिनीम् ॥६४॥
अलोभि स्वमनः कार्यं मायिके विषये त्विह ।
येनाऽत्र रम्यरूपादौ लोभो नैव प्रजायते ॥६५॥
तद्बलेन हरेर्धाम प्रतियानेऽपि मार्गगाः ।
आयान्ति सिद्धयस्तासु लोभश्चास्य न वै भवेत् ॥६६॥
परं पारं प्रकृतेः स प्रयात्येव ममाश्रितः ।
अनन्यचेता भूत्वैव भुंक्ते मत्सुखमूर्जितम् ॥६७॥
यस्य क्रियासु सर्वासु मम मूर्तिस्मृतिर्भवेत् ।
तस्यैव स्थिरता स्याद्वै सर्वथा स्वामिनी प्रभौ ॥६८॥
यद्यत्सुखेप्सा यस्य स्यात् तत्तत् सुखं मदग्रतः ।
ग्रहणीयं नाऽन्यतस्तु सर्वं ददामि तस्य वै ॥६९॥
मम राज्यं भक्तराज्यं भेदस्तत्र न विद्यते ।
तस्माद् राज्ञ्या सदा भाव्यं न भाव्यं वेश्यया क्वचित् ॥७०॥
इत्येवं तु मया लक्ष्मि ह्युपदिष्टं ततश्च ते ।
पुपूजुर्मां परमया भक्त्या व स्नेहार्द्रमानसाः ॥७१॥
फलान्युत्तमजातीनि भोजयामासुरुत्सुकाः ।
अथापि साधुरूपं मां प्रसादयितुमुत्सुकाः ॥७२॥
सेवयितुं समुत्साहा उषितुं चक्रुराग्रहम् ।
अथाऽह साधुरूपो वै तेषामाग्रहतस्तदा ॥७३॥
उषितुं च दिवारात्रमधिकं स्वीचकार ह ।
दिवसे तूष्णवार्भिस्ते स्नापयामासुरादरात् ॥७४॥
पुष्पाणां बहुभिर्हारैः पुष्पनिर्मितभूषणैः ।
पुष्पवस्त्रैः पुष्पशृंगारकैरर्हणमादधुः ॥७५॥
मुकुटः पीतपुष्पाणां कटके चांगदे तथा ।
विभूषाः पीतपुष्पाणां कृतास्तैश्च धृता मया ॥७६॥
अम्बराणि समस्तानि सप्तरूपसुमानि वै ।
सुगन्धीनि विचित्राणि धृतानि च मया तदा ॥७७॥
दोला कदम्बवृक्षस्य शाखायां रज्जुभिः कृता ।
बद्धा सुपल्लवपुष्पतोरणाद्यैर्विभूषिता ॥७८॥
निषाद्य मां तु दोलायां त्रयस्ते भावगर्भिताः ।
आन्दोलयामासुरिष्टं स्वामिनं प्राणरक्षकम् ॥७९॥
पाययामासुरिक्षूणां रसं नारंगिणां तथा ।
नालीकेरजलं चापि मिष्टवारि सुगन्धि च ॥८०॥
रात्रौ वाद्यविशेषैश्च कीर्तनं चक्रुरुत्सुकाः ।
सहस्रशो जनास्तत्राऽऽययुर्दर्शनकांक्षिणः ॥८१॥
पावनास्ते ततो जाता दर्शनस्पर्शनादिभिः ।
प्रसादग्रहणैश्चापि ययुस्ते तु निजालयान् ॥८२॥
हर्षुलश्चापि तत्पत्न्यौ सिषेविरे च मां निशि ।
सर्वार्पणेन निर्दोषबुद्ध्या दिव्यप्रसेवनैः ॥८३॥
अथ या श्रेष्ठभार्या सा नाम्ना विद्रुमवल्लकी ।
सर्वसुप्त्युत्तरं चार्धरात्रोत्तरं रहः स्वयम् ॥८४॥
प्रच्छन्नैकाकिनी तत्राऽऽगत्य मां परमेश्वरम् ।
देहसम्मर्दनेनैव सिषेवे पुत्रकामिनी ॥८५॥
शनकैर्मम कर्णे सा कृत्वाऽऽननं च मौनवत् ।
अर्थयामास भगवन पुत्रं मे देहि केशव ॥८६॥
प्रसन्नोऽहं सेवया च भक्तायाः सर्वथा हरिः ।
तथाऽस्त्विति मया स्पृष्टा पुत्रवती भवेति च ॥८७॥
समुद्घाटितभाग्या सा प्रसन्ना बहुधाऽभवत् ।
यथेष्टं सेवयामास मां ततोऽधिकभावना ॥८८॥
सुप्तोऽहं सा च पत्युश्च सेवायां प्रगता तदा ।
लन्धमनोरथा जाता सगर्भा शोभना तथा ॥८९॥
अथ प्राप्ते तु समये सुषुवे बालकं शुभम् ।
पुत्रं समुज्ज्वलं त्वेकं हर्षुलो हर्षमाप ह ॥९०॥
विद्रुमवल्लकी त्वेवं लब्ध्वा पुत्रं ततः परम् ।
मानपात्रं सदा जाता सर्वसौभाग्यसुन्दरी ॥९१॥
एवं लक्ष्मि मया भक्ता तारिता सेवया तदा ।
प्रसन्नेन मया साऽपि तारिता बालहत्यया ॥९२॥
बालश्चोज्जीवितश्चापि सेवाऽपि स्वीकृता तथा ।
एवमेव हि भक्तानां करोमि रक्षणं सदा ॥९३॥
जीवास्तु देहसंयुक्ता यावन्तः सन्ति तावता ।
सदोषा एव वर्तन्ते किन्तु भक्त्या तरन्ति ते ॥९४॥
भक्त्याऽहं तारयाम्येतान् पापाँश्चापि नरान् द्रुतम् ।
अथाऽहं गन्तुकामश्च पूजितो वन्दितश्च तैः ॥९५॥
साधुवेषेण सहसा चान्तर्हितोऽभवं क्षणात् ।
हर्षुलाद्या यथादृष्टं ध्याने सस्मरुरन्वहम् ॥९६॥
भक्तिं चक्रुर्भावतस्ते साधुसेवां च चक्रिरे ।
भुक्त्वा भोगांश्च विपुलाम् ययुस्ते स्वर्गमुत्तमम् ॥९७॥
स्वर्गात् स्वर्गोत्तरं प्राप्य मम धामाऽक्षरं ययुः ।
एवं निष्कामसेवाभिर्यान्ति ब्रह्म निरामयम् ॥९८॥
सेवया लभ्यते पुत्रः सेवया लभ्यते सुखम् ।
सेवया लभ्यते चाप्यभयं निष्पापता तथा ॥९९॥
सेवया भोगकोट्यश्च सेवया शाश्वतं सुखम् ।
सेवया श्रीहरिश्चाऽहं प्राप्यः पूर्णेष्टसम्प्रदः ॥१००॥
भक्त्या भक्तान् तारयामि गृह्णामि सेवया ततः ।
तादात्म्येनाऽऽनन्दयामि सर्वं ददामि तत्परम् ॥१०१॥
पठनाच्छ्रवणाच्चाऽस्य स्मरणात् सेवनात्तथा ।
भुक्तिर्मुक्तिर्भवेदेव स्मृद्धिश्च शाश्वतीर्भवेत् ॥१०२॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने हर्षुलाख्यभक्तस्योद्याने श्रीहरेरुपदेशो हर्षुलस्य ज्येष्ठपत्न्या अपि पुत्रलाभश्चेत्यादिनिरूपणनामा षण्णवत्यधिकशतमोऽध्यायः ॥१९६॥

N/A

References : N/A
Last Updated : May 05, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP