संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ७४ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ७४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ७४ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं माहात्म्यं चाधिकं मम ।भुक्तिमुक्तिप्रदं चापि नैर्गुण्यदिव्यताप्रदम् ॥१॥केन मे तु भवेत् प्रीतिः कथं तुष्टो भवामि च ।तुष्टेन च मया तूर्णं दिव्यो विधीयतेऽनुगः ॥२॥कथयामि समासेन शृणु त्वं परमेश्वरि ।प्रजानां रक्षणं येन कृतं सेवा कृता यया ॥३॥सतां च पूजनं येन कृतं मे पूजनादिकम् ।मोक्षश्चोद्घाटितो येन ज्ञानोपदेशकीर्तनैः ॥४॥तेषां तुष्यामि कमले साधूनां मण्डलेऽस्मि च ।साधूनां तोषणाल्लक्ष्मि तुष्याम्यहं सदा प्रिये ॥५॥सज्जनानां परिवादो मम विद्वेषणं महत् ।सज्जनानां पूजनेन पूजितोऽहं न संशयः ॥६॥नित्यभिवाद्याः सन्तश्च भोजनीया निरन्तरम् ।सेवनीयाः साधवस्ते प्रतिमा मम मूर्तयः ॥७॥तेषां तुष्यामि भक्तानां सत्सेवां ये प्रचक्रिरे ।न तेषामशुभं किञ्चित्कल्मषं चापि विद्यते ॥८॥साधुं साध्वीं सतीं देवं पूजयेन्नित्यमुत्सुकः ।पूजितं हि जगत्तेन सदेवाऽऽसुरमानुषम् ॥९॥तेन रूपेण पूजां वै गृह्णाम्यहं सदा प्रभुः ।पूजा ममैषा न त्वन्या सत्सु साध्वीष्वहं स्थितः ॥१०॥यत्र प्रतिष्ठा मे चास्ते तान् विहायेतरं वृथा ।साभिमाना जना वेगात् पूजयन्त्यज्ञसत्तमाः ॥११॥नाऽहं तत्प्रतिगृह्णामि न सा तुष्टिकरी मम ।मम सम्बन्धमाप्ता ये तेषां पूजा गरीयसी ॥१२॥चक्रं मे पूजनीयं वै पादौ पूज्यौ सदा मम ।वाराहाद्यवतारा मे पूजनीयाश्च साधवः ॥१३॥चक्रेण निहता दैत्याः पद्भ्यां क्रान्ता वसुन्धरा ।वाराहाद्यवतारैश्च ह्यसुरा विनिपातिताः ॥१४॥साधुरूपैर्जनानां च मोक्षदानं ददाम्यपि ।साध्वी धर्मवती नारी भक्तशक्तिर्निगद्यते ॥१५॥तथा धर्मो रक्ष्यते मे पिता जन्म वहाम्यहम् ।माता साध्वी सदा बोध्या भक्तिरूपा न संशयः ॥१६॥दासी लक्ष्मीस्वरूपा च सर्वदा मम धारिणी ।परितुष्टो भवाम्येषां पूजनात् सर्वतोऽधिकः ॥१७॥तेषु मां पूजयिष्यन्ति नास्ति तेषां पराभवः ।अपि साधुं सतीं दृष्ट्वा ब्रह्मचारिणमागतम् ॥१८॥नत्वा दत्वाऽऽहुतिं भुञ्ज्यादमृतं तद्धि भोजनम् ।साध्वीं सन्ध्यामुपासित्वा साध्वादित्यं नमेत्ततः ॥१९॥सर्वतीर्थेषु स स्नातो मुच्यते सर्वकिल्बिषैः ।साधुरूपं धर्मदेवं पालयेत् स्वगृहे सदा ॥२०॥सत्संगं धर्ममेवाऽप्य पालयेद् भक्तराट् मम ।सतां प्रसन्नता मे च येन धर्मः स वै मतः ॥२१॥सतामुद्वेगजननं ह्यधर्मः स तु मे मतः ।मम भक्ता न तुष्यन्ति येन तेन नु किं हि मे ॥२२॥येन तुष्यन्ति मे सन्तस्तदेव मम सद्धनम् ।कल्ये ह्युत्थाय सततं स्प्रष्टव्याः साधवो मम ॥२३॥गावो घृतं दधि चाहं सर्षपाः साधिकास्तथा ।स्प्रष्टव्याः प्रातरुत्थाय येन कल्मषनाशनम् ॥२४॥स्त्रीघ्ना गोघ्नाः कृतघ्नाश्च ब्रह्मघ्ना गुरुतल्पगाः ।शुद्ध्यन्ति साधुसंस्पर्शात् साधोश्च सेवनान्मम ॥२५॥सन्तो गावोऽनलाः साध्व्यः स्प्रष्टव्या न पदा द्विजाः ।पादेन स्पर्शने पुण्यं स्प्रष्टुः सर्वं विनश्यति ॥२६॥परमान्नं प्रदातव्यं भोजने तेभ्य उत्तमम् ।मिष्टान्नं च प्रदातव्यं शाश्वतीतृप्तिदं शुभम् ॥२७॥आतिथ्यं सततं कुर्याद् दीपं दद्यात् सतां गृहे ।सतो वन्देत् प्रसेवेत ह्येषः श्रेष्ठतमो वृषः ॥२८॥अपि क्रतुशतैरिष्ट्वा क्षयं गच्छति तद्धविः ।न तु नश्यन्ति ते धर्माः साधवो यैः प्रतोषिताः ॥२९॥यो यजेताऽश्वमेधेन वाजपेयशतेन च ।अवाक्शिराऽवलम्बेत सत्रं कुर्यान्निरन्तरम् ॥३०॥न यस्य हृदयं शुद्धं साधवो मे न सेविताः ।मम सेवा कृता नैव मायानिरयगो हि सः ॥३१॥साधुसेवा शुद्धता च हृदयस्य हि मोक्षदे ।शुद्धेन मनसा कृत्वा स्वल्पमपि प्रमुच्यते ॥३२॥श्रद्दधानेन कर्तव्यं गुरूणां वचनं सदा ।सतां सेवा प्रकर्तव्या तेजस्वी तेन जायते ॥३३॥अहन्यहनि यो दद्यात् कपिलां द्वादशीः समाः ।मासि मासि च सत्रेण यो यजेत सदा जनः ॥३४॥गवां शतसहस्रं च यो दद्याज्ज्येष्ठपुष्करे ।ततोऽधिकं फलं तस्य तुष्यन्ति यस्य साधवः ॥३५॥श्रूयन्ते यानि तीर्थानि जलस्थलमयानि वै ।सिद्धदेवादिजुष्टानि सेवितानि महर्षिभिः ॥३६॥अभिषेकः समस्तेषां साधुचरणवारिभिः ।अल्पं शीतं जलं दत्तं साधवेऽन्नं समर्पितम् ॥३७॥दातुः पुण्योदका नाम नदी प्रैते विधीयते ।अक्षयं सलिलं तत्र शीतलं ह्यमृतं भवेत् ॥३८॥अन्नं तथाऽमृतं तत्र पद्यते परलोकिनः ।अन्यच्चापि प्रदत्तं तत्परलोकेऽभिपद्यते ॥३९॥लोके ह्युऽच्छिष्टकाः प्रायो बहुच्छिद्रा हि मानवाः ।त्यक्तशीलसमाचारान् प्रविशन्ति पिशाचकाः ॥४०॥मानवा ये सतां सेवापरायणाः शुभाश्रयाः ।तान् पिशाचा नाऽऽविशन्ति भक्तान् पुण्यकृतान्नरान् ॥४१॥साधुजनो यत्र यत्र भुनक्ति देवतार्पितम् ।साध्या रुद्रास्तथाऽऽदित्या विश्वेदेवास्तथाऽश्विनौ ॥४२॥मरुतो वसवश्चापि प्रतिभुञ्जन्ति तद्गताः ।ऋषीणां देवतानां च पितॄणां मे हरेस्तथा ॥४३॥मुक्तानामीश्वराणां च प्रसादालय एव सः ।यो भवेत् साधुसाध्वीनां सेवाकृत् तोषकृत्तथा ॥४४॥कृत्वाऽपि पापकं कर्म मत्साधुशरणं गतः ।मुच्यते पापकोटिभ्यः पूतो भवति पावकः ॥४५॥पापिनः पावयेत् साधुर्मम सेवाजितात्मवान् ।मम संगं सदा कुर्यात् पापिसंगं विवर्जयेत् ॥४६॥ब्रह्मदृष्ट्याऽर्पयेद् दानं साधुदृष्ट्याऽर्पयेत्तथा ।हरिदृष्ट्याऽर्पयेल्लक्ष्मि तद्दानं शाश्वतं भवेत्। ॥४७॥अन्नदानं वारिदानं ज्ञानदानं शुभं परम् ।अभीदानं ब्रह्मदानं मोक्षदानं परात्परम् ॥४८॥आत्मदानं सदा देयं तत्समं नेतरद् भुवि ।दत्तात्रेयो हरिः साधुः शिष्येभ्यो ब्रह्मनिर्गुणम् ॥४९॥दाने दत्वा ययौ धामाऽक्षरतुल्यं स्वकैः सह ।कपिलश्च तथा साधुर्हरिर्दत्वा विवेकजम् ॥५०॥ज्ञानं मोक्षं च शिष्येभ्यो ययौ धाम निजं परम् ।ऋषभोऽपि समादिश्य शिष्येभ्यो ब्रह्म शाश्वतम् ॥५१॥हरिः सोऽपि ययौ धाम निजं सर्वसुखास्पदम् ।एवमन्येऽपि सन्तश्च ययुर्दानपरायणाः ॥५२॥ब्रह्मदानप्रदानेन शाश्वतं चाऽक्षरं पदम् ।साधुव्रताश्च राजानो ब्रह्मभावं विलोक्य च ॥५३॥अदेयमपि दत्त्वैव ब्रह्मणे स्वर्गिणोऽभवन् ।शिबिरौशीनरः प्राणान् प्रियस्य तनयस्य च ॥५४॥ब्रह्मिष्ठार्थमुपाकृत्य महत्स्वर्गमितो गतः ।प्रतर्दनः काशिकेशः प्रदाय तनु वै निजम् ॥५५॥ब्रह्मिष्ठायाऽतुलां कीर्तिं लब्ध्वा मोक्षपदं गतः ।रन्तिदेवश्च सांकृत्यो वसिष्ठाय महात्मने ॥५६॥अर्घ्यं पूजां प्रदायैव ययौ मोक्षपदं शुभम् ।देवावृधो ययौ धाम दत्त्वा छत्रं च काञ्चनम् ॥५७॥ब्रह्मिष्ठाय महायज्ञे शतशलाकमुत्तमम् ।अम्बरीषोऽपि राष्ट्रं वै दत्त्वा सर्वं प्रभोः कृते ॥५८॥ब्रह्मलोकं ययौ भक्त्या महाभागवतः शुभः ।वृषादर्भिश्च सर्वस्वं दत्त्वा धाम ययौ मम ॥५९॥निमि राष्ट्रं हरये मे दत्त्वा धाम ययौ मम ।कन्यां दत्वा ह्यगस्त्याय वैदर्भिर्मोक्षमाप्तवान् ॥६०॥पर्शुरामः क्षितिं दत्त्वा विप्रेभ्यस्तीर्थमावसत् ।वामनोऽपि क्षितिं दत्त्वा विप्रेभ्यश्च ततः परम् ॥६१॥स्वर्गं दत्त्वा हि देवेभ्यो ययौ धाम निजं हरिः ।रामादित्योऽपि विप्रेभ्यः क्षितिं दत्त्वाऽक्षरं ययौ ॥६२॥कन्यामांगिरसे दत्त्वा मरुत्तोऽप्यक्षरं ययौ ।मित्रसहो वसिष्ठाय भार्यां दत्त्वा दिवं ययौ ॥६३॥सहस्रचित्यो राजर्षिः प्राणान् दत्त्वा दिवं ययौ ।शतद्युम्नः क्षितिं दत्त्वा मौद्गल्याय दिवं ययौ ॥६४॥शाण्डिल्याय क्षितिं दत्त्वा सुमन्युर्धाम मे ययौ ।द्युतिमान् पृथिवीं दत्त्वा ऋचीकायाऽक्षरं ययौ ॥६५॥मदिराश्वः सुतां दत्त्वा हिरण्यायाऽक्षरं ययौ ।शान्तां दत्वा लोमपादः ऋष्यशृंगाय स्वर्ययौ ॥६६॥भगीरथः सुतां हंसीं दत्वा कौत्साय स्वर्ययौ ।पृथ्व्यामन्ये भविष्यन्ति राजानो दानयोगिनः ॥६७॥साधुभ्यो दानमर्पय्य यास्यन्ति परमं पदम् ।लक्ष्मि सखीस्तव सर्वा दत्त्वा मह्यं प्रजेश्वराः ॥६८॥याता यास्यन्ति मद्धाम नारायणपरायणाः ।मत्साधूनां सेवका ये सेविका धर्मसंयुताः ॥६९॥भक्तियुता भावयुतास्तादात्म्येन स्थिता मयि ।नरा नार्यः प्रयास्यन्ति मम धामाऽक्षरं परम् ॥७०॥धर्मादर्थाद्भयात्कामात्कारुण्यात्साधवे सदा ।देयं स्वल्पं च बहु वा तद्धि मोक्षाय कल्प्यते ॥७१॥धर्मार्थं स्वर्गलोकार्थं दातव्यं सुखकीर्तये ।पुनश्चास्माच्च लब्धव्यं भविष्यतीति तत्फलम् ॥७२॥एवमर्थार्थिना देयं साधवेऽनन्तसत्फलम् ।विपत्काले भये प्राप्ते नाशे प्राप्ते च वस्तुनः ॥७३॥दातव्यं वस्तु सर्वस्वं साधवे चाऽफलेच्छुना ।प्रियतार्थं प्रदातव्यं सकामं साधुमूर्तये ॥७४॥दीनाय च दरिद्राय दातव्यं करुणान्वितम् ।साधवे मम भक्ताय विप्रायापि शुभं शुभम् ॥७५॥हरेः प्रसन्नतार्थं च दातव्यं मोक्षदं हि तत् ।कर्तव्यं मम चैतद्वै विचार्येत्थं समर्पयेत् ॥७६॥साधवे निर्गुणं चैतन्नारायणाय मेऽपि च ।दद्यान्नारायणस्येदं नेदं ममेति निर्गुणम् ॥७७॥अनन्तफलदं तद्वै महानन्दप्रदं भवेत् ।धाम्नि मे तत्फलं दास्ये ददामि भूतलेऽपि च ॥७८॥दात्रे ददामि चाऽसंख्यानन्दवार्धिं परेऽक्षरे ।एवं लक्ष्मि सतां सेवाकर्तुर्मे परमं पदम्॥७९॥शाश्वतं चाऽऽयतौ चास्ति ममैश्वर्यादिसंभृतम् ।स्वल्पं बहुतमं कृत्वा ददाम्यक्षरधामनि ॥८०॥श्रीनारायणीश्रीरुवाच-कीदृक् स्वल्पस्य दत्तस्य फलं ददासि दर्शय ।कृपया मे हरे कृष्ण परेश्वर कृपां कुरु ॥८१॥श्रीपुरुषोत्तम उवाच--पश्य लक्ष्मि समायान्तं विप्रं भक्तं ममाऽन्तिकम् ।स्वल्पदानेन तस्मै वै दास्याम्यहं ह्यनन्तकम् ॥८२॥इत्युक्ते दीनवद् विप्रो नाम्ना परशुचन्द्रकः ।कदर्यो गृहसर्वस्वं समादाय समाययौ ॥८३॥पत्नीपुत्रविहीनो वै कृष्णनारायणं जपन् ।स्कन्धे कोष्ठलिकां स्थालीकलशस्रुक्समन्विताम् ॥८४॥वहन् कट्यां जीर्णवस्त्रं बद्ध्वा यष्टिं करे दधन् ।तन्दुलान् प्रस्थमानाँश्च धौत्रं प्रावरणं तथा ॥८५॥शिरस्त्राणं दधन् मूर्ध्नि ह्येतावन्मात्रसम्पदा ।युतो नारायण कृष्ण पुरुषोत्तममाधव ॥८६॥गृणन् चाग्रे वस्तुजातं धृत्वा च पादयोस्तदा ।रक्ष शरण्य कृष्ण त्वं मोक्षं देहि पदे तव ॥८७॥इत्ययाचत तन्दुलान् ददौ च भर्जितान् हि तान् ।चकार दण्डवत्तत्र लुलोठ प्राऽऽर्प्य मस्तकम् ॥८८॥नेत्रे प्रमील्य च क्षणं सुष्वाप भूतले पुरः ।अनादिश्रीकृष्णनारायणोऽहं भक्तवत्सलः ॥८९॥किंकरोम्यस्य भक्तस्य शरणागतरक्षकः ।वद लक्ष्मि! मृतश्चाऽयं प्राणान् त्यजति सन्निधौ ॥९०॥इत्युक्त्वा तण्डुलान् स्वल्पान् मुखे क्षिप्त्वा ह्यभक्षयम् ।पश्यैतस्य फलं चाऽस्मै ददामि धाम चाऽक्षरम् ॥९१॥तावत्तत्र समायातं विमानं पार्षदान्वितम् ।आरुरोह स विप्रोऽपि दिव्यदेहः कृपान्वितः ॥९२॥विमानं व्योममार्गेण स्मृद्धं धामाऽक्षरं ययौ ।पश्य लक्ष्मि मम धाम्नि प्रासादोऽस्य कृते मया ॥९३॥क्लृप्तः स्मृद्धियुतो भक्ष्यभोज्यपेयादिकाऽन्वितः ।दिव्यदृष्ट्या पश्य सर्वं स्मृद्धं फलं मयाऽर्पितम् ॥९४॥कामगं च विमानं वै तस्याऽर्थे चार्पितं मया ।ब्रह्माऽमृतं तथाऽनन्तं चार्पितं तान्दुलं फलम् ॥९५॥पेयं सर्वविधं चापि स्वर्णाम्बराणि वै तथा ।शरणागतभक्तस्य भोग्यार्थं चार्पितानि वै ॥९६॥अथाऽऽलोक्य प्रसन्ना श्रीर्लक्ष्मीर्मुमोद चान्तरे ।विप्रदेहः सरस्येव कृष्णेच्छया ममज्ज ह ॥९७॥स्वयं गतियुतो भूत्वा विलयं तत्र वै गतः ।महाश्चर्यं च सर्वाभ्यो लक्ष्मीश्चोक्तवती त्विदम् ॥९८॥सर्वा ब्रह्मप्रियाद्याश्चालोकयामासुरेव तम् ।दिव्यदृष्ट्या महिमानं कृष्णनारायणस्य मे ॥९९॥पश्यैवं महिमा मेऽस्ति सर्वस्याऽपि महत्फलम् ।पठतां शृण्वतां चापि तथैव फलमुत्तमम् ॥१००॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्तानेऽनादिश्रीकृष्णनारायणभक्तस्य महिमकथने हरेस्तुष्टिसाधनानां वर्णनं, कदर्यस्य परशुचन्द्रकस्य विप्रस्याऽल्पदानस्याऽनन्तफलप्राप्तिश्चेत्यादिनिरूपणनामा चतुःसप्ततितमोऽध्यायः ॥७४॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP