संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः २३२

त्रेतायुगसन्तानः - अध्यायः २३२

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
राधिके चाश्विनशुक्लप्रतिपद्वासरे प्रगे ।
राजारायनृपोक्त्या श्रीहरिः सज्जो बभूव ह ॥१॥
खण्डराष्ट्रात्मके राज्ये लापलात्रीपुरीं ययौ ।
समुद्रतटवासिन्या नगर्याश्चोपसागरे ॥२॥
महोद्याने द्वीपकल्पे मन्दिरे समवातरत् ।
राजा पुपूज कनकैर्यौतकैर्विविधैरपि ॥३॥
हीरकैः रत्नवर्यैश्च मौक्तिकैर्मणिभिस्तथा ।
नगर्यां वाद्यघोषैश्च महासम्मानपूर्वकम् ॥४॥
राजारायनृपः कृष्णं भ्रामयामास सर्वतः ।
हरिस्तत्र महोद्याने कृतसेवः कृतश्रमः ॥५॥
कृतारामः समुवाच दिनद्वयं प्रशान्तये ।
आश्विनस्य तृतीयायां दैत्यो वै नवजीवनः ॥६॥
मायावी बहुवेगश्च महाद्रितुल्यविग्रहः ।
समाकर्षन् बहून्मेघान् केशैर्मस्तकसंभवैः ॥७॥
गदया विद्युतो वेगान् संनिघ्नन् बहुसत्त्वया ।
आकाशं गर्जयन् हास्यैः समुद्रं क्षोभयन्नखैः ॥८॥
गृहाणिच्छादयन् देहस्थौल्येन निशि चाययौ ।
ज्ञात्वा दिव्यं विमानं स हस्तैक्येनाप्यतोलयत् ॥९॥
रुद्रो विज्ञाय दैत्यं तं गर्जनां प्रचकार ह ।
कोऽयं विमानं स्पृशति गच्छ दूरं मृतोऽसि वा ॥१०॥
श्रुत्वैतद् व्यनदच्छीघ्रं प्राट्टहासं मुमोच ह ।
गदया सहितो व्योम्नि गर्जन् जगाद भीतिकृत् ॥११॥
कस्त्वं विमानभूपोऽसि विमानं कस्य वा वद ।
अहं नेष्ये विमानं वा युद्धार्थं भव चित्तवान् ॥१२॥
शंकरः प्राह मा युद्धं समिच्छ याहि दूरतः ।
युद्धे ते नास्ति वै श्रेयो विमानं मुञ्च सत्वरम् ॥१३॥
दैत्यः प्राह विना युद्धं विजयो न भवेदिह ।
नेष्ये विमानं सर्वाश्च हरिष्ये योषितस्त्वितः ॥१४॥
इत्युक्त्वा गदया रुद्रं तताड मूर्ध्नि वेगतः ।
शंकरो वेगवान् शीघ्रं शूलेन तां बिभेद ह ॥१५॥
गदा भग्ना हि दैत्यस्य समुद्रे पतिता यदा ।
तावत् समुद्रवेलास्तु जलप्लुतास्तदाऽभवन् ॥१६॥
अथ वै गदया शून्यो दैत्यः क्षोभमवाप ह ।
किं कृत्वा चापि किं हृत्वा विद्रवामीत्यचिन्तयत् ॥१७॥
राजसौधे महोद्याने राजारायनृपस्य वै ।
कनिष्ठा भगिनी याऽऽसीत् सुप्ता मात्रा समं तु ताम् ॥१८॥
उत्तोल्य च निधायैव स्कन्धे व्योमगतोऽभवत् ।
विद्युन्मणिः रुरोदाति कुमारी दैत्यवाहिता ॥१९॥
हाहाकारो महानासीत् त्राहि त्राहीति नादिनाम् ।
मानवानां निनादा वै सभयास्त्वभवँस्तदा ॥२ ०॥
राजारायपतिः श्रुत्वा प्रबुबोध क्षणान्तरे ।
अनादिश्रीकृष्णनारायणश्चाप्युत्थितोऽभवत् ॥२१॥
प्रजाः प्रबुबुधुश्चापि कोलाहलसमन्विताः ।
महीमाना योषितश्चोन्निद्रा जाताः समन्ततः ॥२२॥
वृत्तान्तं शंकरेणोक्तं कन्यामादाय दैत्यराट् ।
नवजीवननामा वै द्रुतं धावति चाम्बरे ॥२३॥
एष नातिदूरगोऽस्ति त्वम्बरे याति पश्चिमे ।
मारणीयो मया कृष्ण तवाऽऽज्ञां प्राप्य सर्वथा ॥२४॥
तथास्त्विति हरिः प्राह राजारायपतिर्नृपः ।
मातोवाच तदाऽप्येवं तुभ्यं दत्ता हि कन्यका ॥२५॥
रक्ष रक्ष महाकृष्ण रक्ष शीघ्रं निवारय ।
कृष्णः प्राह तु राजानं विमानं सज्जमाविशन् ॥२६॥
एष प्रयामि रक्षार्थं त्वं विमानेऽत्र मे शुभे ।
यद्वा तव विमानेऽत्र मात्रा सहानुयाहि माम् ॥२७॥
एवमुक्त्वा हरिः शीघ्रं पश्चिमां ककुभं प्रति ।
दैत्यस्याऽनुजगामैव शीघ्रं कुटुम्बसंयुतः ॥२८॥
राजाऽपि स्वविमानं वै तत्पश्चाद् भृत्यसेवितः ।
वेगेनाऽवाहयद् व्योम्नि सूर्यतुल्योऽनुगोऽभवत् ॥२९॥
हरेर्विमानं वीक्ष्यैव तथा राजविमानकम् ।
दैत्यो भयेन दुद्राव व्योम्नि कन्यायुतोऽपि सन् ॥३०॥
वायुवेगेन लघुना वर्ष्मणा चोड्डितोऽभवत् ।
समुद्रोपरि दुद्राव रात्रौ सहस्रयोजनम् ॥३१॥
विमानं श्रीहरेः पश्चाद् राज्ञो विमानमित्यपि ।
अन्वधावद्धि वेगेन धर्तुं तं दैत्यपुंगवम् ॥३२॥
दैत्योऽपि बहुवेगेन दुद्रावाऽऽप्रातरेव ह ।
तावद् द्वीपः समायातः समुद्रान्तर्गतो महान् ॥३२॥
नवजीवनदैp-यश्चाऽप्यवाततार तां भुवम् ।
शतयोजनविस्तीर्णो द्वेधा भिन्नां जलान्तराम् ॥३४॥
प्राकारनगरीशोभां दैत्यलैन्यभयंकराम् ।
राजसौधादिशोभाढ्यां दैत्यावासमयीं पुरीम् ॥३५॥
शीघ्रं प्रविश्य दैत्यो वै ननर्दाऽन्यान् न्यबोधयत् ।
भेरीं प्रताडयामास युद्धावेदनकारिणीम् ॥३६॥
श्रुत्वा जरामहानादं दैत्या जगर्जुरुत्सुकाः ।
योधनार्थे धृतशस्त्रा निर्जग्मुः पर्वता इव ॥३७॥
नवजीवोऽपिए शीघ्रं तां कन्यां निक्षिप्य गह्वरे ।
योधनार्थ त्वाजगाम दैत्यसैन्यसमन्वितः ॥३८॥
श्रीहरिर्यौवनं रूपं धृत्वा चक्रं सुदर्शनम् ।
ययौ तद्गह्वरं कन्यां निनाय स्वविमानके ॥३९॥
अन्या मायामयीं कन्यां कृत्वा मृदा यथातथम् ।
निक्षिप्य गह्वरे सर्व दैत्यमोहकरीं प्रभुः ॥४०॥
यथार्था भगिनीं राज्ञे त्वर्पयामास वै द्रुतम् ।
दैत्यास्त्वेतदजानन्तो युद्धायाऽभ्यपतन् बलात् ॥४१॥
कन्याभ्रात्रा च मात्रा सा कृष्गाऽर्पणं निवेदिता ।
हरेः कण्ठे करं दत्वा पतिं वव्रे विमानके ॥४१॥
करमालां वरमालां प्रगृह्य कृष्णकामिनी ।
अभवत् सा ततः श्रीमान् बालकृष्णः परेश्वरः ॥४३॥
ईशानाय ददावाज्ञां हन्तुं दैत्यान्मृधे तदा ।
शंकरो द्राक् जटां क्रोधाद् विकीर्य गणनायकान् ॥४४॥
दशलक्षानसृजत्तु रुद्ररूपान् भयंकरान् ।
संकल्पजन्यहेतींश्च योद्धुमाज्ञां ददौ तदा ॥४५॥
उत्प्लुत्योत्प्लुत्य दैत्याँस्ते निजघ्नुर्वै त्रिशूलकैः ।
आमध्याह्नं महद्युद्धं दैत्यनाशकरं ह्यभूत् ॥४६॥
सर्वे दैत्या विनष्टाश्च विंशतिलक्षसंख्यकाः ।
हाहाकारो महानासीत् स्त्रीणां प्ररोदनान्यपि ॥४७॥
दयालुः श्रीबालकृष्णस्तासां सुखाप्तये गणान् ।
आज्ञां चकार तद्देशे निवासार्थं गृहाश्रमे ॥४८॥
सर्वासां दैत्यपत्नीनां पाणिग्रहान् व्यधुर्गणाः ।
शांकरास्ते सुताः सर्वे वैष्णवाः कृष्णनोदिताः ॥४९॥
तां तां पत्नीं समगृह्य तत्तद्देशगृहाणि वै ।
ययुः सर्वे गणास्तत्र राजानं कामनायकम् ॥५०॥
कामनायकनामानं गणं चकार माधवः ।
अभिषिच्य महद्राज्ये गणकोटिं तथा ददौ ॥५१॥
महोत्सवं शुभं कृत्वा वल्लीलिङ्गपुरं प्रभुः ।
भ्रमित्वा श्रीहरिः सर्वं पावनं प्रचकार ह ॥५२॥
ततो विमानमारुह्य समुल्लंघ्य च खाडिकाम् ।
दिनेदिष्ठां पुरीं गत्वा भ्रमित्वाऽथ गणेश्वरान् ॥५३॥
वासयित्वा तत्कृतां सुपूजां लब्ध्वा परेश्वरः ।
राजानं भोजनं कर्तुमाज्ञां प्रदाय मापतिः ॥॥५४॥
मिलित्वा स्वविमाने वै भोजनानि हरिर्ददौ ।
वैमानिकेभ्यः सर्वेभ्यः सायं दत्वाऽभयं धनम् ॥५५॥
द्विनेदिष्ठपुरे राजसौधे निशामुवास सः ।
आश्विनशुक्लपञ्चम्यां प्रगे निद्रां विहाय च ॥५६॥
श्रीहरिः स्वविमानेन वीक्ष्य द्वीपं समन्ततः ।
राजानं तन्मातरं च ससैन्यं गन्तुमेव तु ॥५७॥
निजराज्यं समाज्ञाप्य ततः कुटुम्बसंयुतः ।
हरिर्विमानमारुह्य महीमानसमन्वितः ॥५८॥
व्योममार्गेण वै शीघ्रं समुल्लंघ्य तु वारिधिम् ।
त्रासमानद्वीपमायात् हम्बार्तनगरीं प्रति ॥५९॥
वैमानिका हि मध्याह्ने जगृहुर्भोजनानि वै ।
ततो महर्षयो भक्ता उष्णालयप्रदेशजाः ॥६०॥
पूर्वं प्ररक्षितास्ते तु दर्शनार्थं विमानकैः ।
समाययुर्हरिस्तेषां स्वागतानि व्यधान्मुदा ॥६१॥
पूजां लब्ध्वाऽऽशिषो दत्वा विमानेन हरिर्द्रुतम् ।
समुद्रं तु समुल्लंघ्य अल्लालीनगरीं ययौ ॥६२॥
उष्णालये भूशिरसो भागे वन्दारुकालये ।
उषित्वा रजनीं त्वेकां प्रातः कृत्वा प्रभोजनम् ॥६३॥
वृन्दारुकर्षिणा प्रातः कृतपूजो नरायणः ।
समुत्थाय ययौ विमानेन कुटुम्बशोभितः ॥६४॥
उत्तरस्यां तु काष्ठायां पञ्चाशद्योजनान्तरे ।
स्थितं सिंहलनामानं द्वीपं प्रापाऽब्धिमध्यगम् ॥६५॥
मध्याह्ने भोजनं कृत्वोड्डीय विमानगो हरिः ।
सायं पम्पासरः प्राप्य रात्रिं तीरे निनाय च ॥६६॥
सप्तम्यां वै ततः प्रातर्विमानमधिरुह्य च ।
गोपनार्थं निजं तीर्थं सौराष्ट्रे त्वाययौ प्रभुः ॥६७॥
मध्याह्ने गोपनाथे तु कृत्वा पूजनभोजने ।
आश्विनशुक्लसप्तम्यां सायंकाले शनैः प्रभुः ॥६८॥
कुंकुमवापिकाक्षेत्रं त्वाययौ व्योममार्गगः ।
कुंकुमवापीजनताविरहार्ताः प्रतीक्षणम् ॥६९॥
कुर्वन्त्यः कृशतां प्राप्ता विनेक्षां श्रीहरेः सदा ।
ता नराः प्रमदा बाला बालिकाः स्वामिसेवकाः ॥७०॥
व्योम्नि तेजः समुदायं विलोक्याऽसुप्रियागमम् ।
प्रतर्क्यातिमुदा त्वश्वपट्टसरोवरान्तिके ॥७१॥
महोद्याने दुद्रुवुश्च दर्शनार्थं समुत्सुकाः ।
विमानं तावदेवाऽपि सन्निधौ समुपागतम् ॥७२॥
जयशब्दास्तूर्यनादाः शंखानां ध्वनयस्तथा ।
गीतिका योषितां चापि समन्तादभवँस्तदा ॥७३॥
क्षेत्रपालाश्च तीर्थानि देवास्तत्र निवासिनः ।
मुक्तास्तथेश्वराश्चाप्यवताराः पार्षदादयः ॥७४॥
महर्षयश्च राजन्या विप्राः सत्यश्च साधवः ।
योगिनः सिद्धपुरुषाः सन्तस्तथा व्रतस्थिताः ॥७५॥
अक्षरभूनिवासिन्यः कन्यकाश्च कुमारकाः ।
सौभाग्यवत्यो नार्यश्च सर्वमांगलिकान्विताः ॥७६॥
शीघ्रं प्रययुः कृष्णस्य स्वागतार्थं सरोन्तिकम् ।
लोमशाश्रमवासाश्च तथाऽऽम्रवणवासिनः ॥७७॥
तापसाः प्रययुः कृष्ण आयात इति हर्षिताः ।
चन्दनं पुष्पमालादि गन्धाक्षतफलानि च ॥७८॥
गन्धसारान् गृहीत्वापि त्यक्त्वा कार्याणि वै गृहे ।
सीम्नि विसृज्य कार्याणि कर्षुकाद्यास्तथा वने ॥७९॥
वनकार्याणि विसृज्य व्यापारादि वणिग्जनाः ।
सर्वे द्रुतं ययुश्चाऽश्वपट्टसरोऽभि वै हरेः ॥८०॥
स्वागतार्थं पूजनार्थं ययुस्त्यक्त्वा निजालयान् ।
हरेर्विमानं त्वरितं तत्र भूमौ ह्यवातरत् ॥८१॥
वर्धितं चन्दनाद्यैश्च पुष्पैरक्षतकुंकुमैः ।
भगवान् श्रीहरिस्तूर्णं विमानाग्रे स्थितोऽभवत् ॥८२॥
दर्शनं प्रददौ सर्वजनेभ्यो वै समन्ततः ।
कुशलं परिपप्रच्छ सर्वेषां स्नेहपूरितः ॥८३॥
सर्वे त्वनामयं प्राणपतेः पप्रच्छुरुत्सुकाः ।
ततः प्रेमाश्रुसहिता हरिं चाश्लिष्य वै मुहुः ॥८४॥
पुष्पहारान् हरेः कण्ठे न्यधुश्चन्दनकुंकुमैः ।
अक्षताद्यैर्गन्धसारैरर्हणं वै तदा व्यधुः ॥८५॥
पुंवर्गः सम्प्रणनाम श्रीमद्गोपालपादयोः ।
नारीवर्गः प्रणनाम कंभरापादयोर्मुहुः ॥८६॥
गणवर्गः प्रणनामेशानस्य पादयोस्तदा ।
योगिनीमण्डलाद्यं च ननाम सतीमीश्वरीम् ॥८७॥
ब्रह्मप्रियाभ्यः सर्वाभ्यो नमश्चक्रुर्हि योषितः ।
गौरीर्हारीतकीश्चामरीश्च वै ब्राह्मिलीस्तथा ॥८८॥
नेमिरे नूतनाः कृष्णवधूर्वै सर्वयोषितः ।
अथ वाद्यैश्च गीतैश्च मंगलैर्मन्दिरे हरेः ॥८९॥
प्रावेशयद्धरिं त्वार्ष्यः कुटुम्बसहितं मुदा ।
मुनयः ऋषयः सर्वे पूजां चक्रुश्च दण्डवत् ॥९०॥
प्रजाश्चागत्य कुशलं पप्रच्छुर्विरहातुराः ।
हरिः कुशलमापृच्छ्य शुभां संभावनां व्यधात् ॥९१॥
कृतकार्याणि भक्तेभ्यस्त्वावेदयन्निशामुखे ।
ततश्चोत्थाय प्रययौ स्नानसन्ध्याकृते प्रभुः ॥९२॥
विनिर्वर्त्याऽर्हणं पश्चाद् भोजनानि व्यधापयत् ।
लोमशं सम्प्रपूज्यैव शंकरं पितरौ तथा ॥९३॥
महर्षीन् यवक्रीतादीन् भोजयामास माधवः ।
ब्रह्मप्रियास्तथा कृष्णो भोजयामास कन्यकाः ॥९४॥
सर्वाः कान्ता भोजयित्वा लोमशस्याऽऽश्रमे शुभे ।
सर्वास्ताः प्रेषयामास ब्राह्मीनां मण्डले तदा ॥९५॥
बालकृष्णश्च दिव्यानि सर्वोपकरणान्यदात् ।
बहुरूपधरः कृष्णस्ताभ्यः सुखं ददौ निशि ॥९६॥
एवं वै राधिके पृथ्व्यां सर्वदेशेषु सर्वतः ।
सर्वभक्तान् पावयित्वा राजतेऽक्षरक्षेत्रगः ॥९७॥
कुंकुमवापिका धन्या धन्यास्ताः कन्यका अपि ।
धन्या देशाश्च ते साक्षान्नारायणप्रसंगगाः ॥९८॥
इमं दिव्यं चरित्रं ये श्रोष्यन्ति भुवि मानवाः ।
पठिष्यन्ति कीर्तयिष्यन्त्यपि भावभरा जनाः ॥९९॥
तेषां पापविनाशः स्याद् भुक्तिः श्रेष्ठतमाऽत्र वै ।
मुक्तिश्चाऽन्तेऽक्षरलोके स्यादेवाऽत्र न संशयः ॥१००॥
यज्ञानां च कथां दिव्यामृषीणां भूभृतां तथा ।
भक्तानां च कथां केऽपि कीर्तयिष्यन्ति मानवाः ॥१०१॥
तेषां यज्ञफलं स्याच्च स्मृद्धयः स्युश्च तद्गृहे ।
ब्रह्मप्रियाणां चरितं श्रुत्वाऽऽप्स्यन्ति दिवं परम् ॥१०२॥
जपयज्ञफलं तीर्थफलं व्रतफलं तथा ।
सर्वपूजाफलं स्याच्च श्रवणादस्य भामिनि! ॥१०३॥
एतद्दिव्यं चरित्रं वै प्रथमं पारमेश्वरम् ।
पृथ्व्यामभूत् सार्वभौमं भविष्यन्त्यपराण्यपि ॥१०४॥
संकृतान्यवतारैश्च मदाद्यैर्भगवत्कुलैः ।
भक्तैर्भागवतैश्चापि कल्याणदानि राधिके! ॥१०५॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने आश्विनशुक्लप्रतिपदि लापलात्रीपुरीं हरिर्ययौ, तत्र सामुद्रो दैत्यश्चागत्य नृपस्वसारं विद्युन्मणिनाम्नीं जहार, राजा च हरिश्च विमानाभ्यां तमनु दुद्रुवतुः, नवजीवद्वीपं गत्वा दैत्येन युद्धम्, शंकरोत्थदशलक्षगणैर्विंशतिलक्षदैत्यानां नाशः, कामनायकगणाय राज्यं ददौ हरिः, विद्युन्मणिनाम्नी कन्या हरिं वव्रे, द्विनेदिष्ठपुरं पावयित्वा पञ्चम्यां विमानेन त्रासमानद्वीपमागत्य ततो वृन्दारुकामागत्य ततः सिंहलद्वीपमागत्य पम्पासरश्चागत्याऽऽश्विनशुक्लसप्तम्यां सायंपूर्वं कुंकुमवापिकामवाप, स्वागतं कुशलं भोजनं शयनादिकं चेद्यादिनिरूपणनामा द्वात्रिंशदधिकद्विशततमोऽध्यायः ॥२३२॥

N/A

References : N/A
Last Updated : May 02, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP