संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः ३० त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः ३० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ३० Translation - भाषांतर श्रीकृष्ण उवाच-श्रूयतां राधिके वृत्तं तत्रत्यं प्रातरागते ।यज्जातं तद्वदाम्यत्र कृष्णनारायणस्य ते ॥१॥शावदीनो नृप उद्घोषयामास प्रजाजने ।पुत्रार्थं बलिदानार्थं बालः प्राप्तः सुलक्षणः ॥२॥करे मीनध्वजधनुःशूलचक्रादिरेखितः ।माघ्यां च पूर्णिमायां च बलिदानं भविष्यति ॥३॥पञ्चदशदिनान्यत्र वर्तन्ते शुक्लपक्षके ।प्रतिपत्तः समारभ्य नित्यं देवीप्रपूजनम् ॥४॥कर्तव्यं पुत्रकांक्षार्थिजनैर्नित्यं महोत्सवम् ।श्वः प्रतिपद्दिने प्रातर्बालमादाय मन्दिरम् ॥५॥अहं राजा गमिष्यामि देव्यग्रे गुरुणा सह ।अपाकस्य च बालस्य देव्यग्रे पाकतां गुरुः ॥६॥म्लेच्छकाण्डैर्मद्यदानैः सुरासंस्कारकैस्तथा ।करिष्यति विधानेन बालो देवीपशुस्ततः ॥७प्रजायते देवरूपस्तस्य सेवा जनैः सदा ।भोजनैः सेवनैर्वस्त्रैर्जलैः पानैः प्रमर्दनैः ॥८॥यानखेलनक्रीडाभिः कर्तव्या सर्वमानवैः ।बालार्चने महादेवी प्रसन्ना संभविष्यति ॥९॥तस्मात् पशुः पूजनीयो दानमानाऽर्हणादिभिः ।एवमुद्घोषितं राज्ञा प्रजास्वप्रसरत् क्षणात् ॥१०॥प्रातः प्रतिपदि क्ष्मेशः स्नात्वा सैन्येन शोभितः ।सोत्सवो बालमादाय स्वांके देवीगृहं ययौ ॥११॥म्लेच्छमन्त्रैस्तु गुरुणा बालो देवीपशुः कृतः ।संस्कृतः पूजितश्चापि महान्महोत्सवः कृतः ॥१२॥शावदीना महाकाली दृष्ट्वा श्रीपुरुषोत्तमम् ।लज्जामवाप शीघ्रं सा मूर्तेर्दूरं गताऽभवत् ॥१३॥शुशोच परमं देवी सर्वान् हन्तुं समिच्छति ।किन्तु कृष्णस्य कर्तव्यं पालनीयं भवेदिति ॥१४॥विचार्याऽऽज्ञां विना नैव किंचित् कर्तुं समिच्छति ।इति मौनाऽभवद्देवी यावत्पूजा निवर्तिता ॥१५॥अथ दानानि बहूनि राजा प्रादान्महोत्सवे ।बालकृष्णोऽपि परवत् पारवश्योऽभवत्तदा ॥१६॥प्राकृतो बालसदृशो बालोऽभवन्निजेच्छया ।देवीगृहे दृष्टिसौधे रक्षितो निशि केवलैः ॥१७॥बालकैः कन्यकाभिश्च सह तत्र प्रसन्नहृत् ।भवेत् तथा सेव्यते च सर्वैरप्युपचारकैः ॥१८॥अर्धरात्रे गते सर्वे निद्रामापुस्ततः सती ।शावदीना महाकाली श्रीहरेः सन्निधौ शुभा ॥१९॥कन्या भूत्वा चाजगाम वेपमाना च किंकरी ।पादयोर्मस्तकं धृत्वा विमुञ्च्याऽश्रूणि जिह्वया ॥२०॥प्रविलिह्य हरेः पादौ क्षमस्वेति जगाद सा ।नेमे मुहुस्तथाऽऽज्ञां चार्थयामास हरेर्हि सा ॥२१॥नाथाऽपराधिनश्चैते राजाद्याः पुत्रलालसाः ।हन्तव्यास्ते मया सर्वे देह्याज्ञां मे करोति तत् ॥२२॥यतिदीनो गुरुस्तस्य शावदीनश्च भूपतिः ।कासदीनश्च सौराष्ट्रसरोवार्ष्ववमार्गकः ॥२३॥म्लेच्छाश्च सिद्धयतयो हन्तव्यास्ते मया प्रभो ।अन्येऽपि चेत् सहायस्था हन्तव्यास्ते मयाऽत्र वै ॥२४॥ओमित्याह हरिस्तस्यै शावकाल्यै पुमुत्तमः ।खड्गं भल्लं तथा शक्तिं परशुं पाशमित्यपि ॥२५॥दण्डं वज्रं चर्मासिं मुद्गरं गदां त्रिशूलकम् ।अंकुशं मूशलं चक्रं सशरं धनुषं तथा ॥२६॥शंखं चेति तदा हेतीनष्टादशकरेषु सा ।धृत्वा प्रातर्नृपगेहे प्रविवेश रुषान्विता ॥२७॥केसरिस्था क्रूररूपा वह्निनेत्रा विषोल्बणा ।नृपं जग्राह केशेषु शिरश्चिच्छेद चासिना ॥२८॥गुरुं द्वेधा विभिद्यैव शूलेन च ततः परम् ।हत्वा कासं सिद्धयतीन् म्लेच्छांश्च तत्सहायदान् ॥२९॥कारागृहपतीन् हत्वा मोचयामास बालकान् ।हाहाकारो महानासीदन्तःपुरजनेषु वै ॥३०॥कुपिता राजपूज्या सा कुलदेवीति वै जगुः ।नाशयामास राजानं गुरुं यतीन् तथाऽपरान् ॥३१॥बालानां वधपूर्वं वै पापं राज्ञः समागतम् ।बाला नैव कदाचिद्वै पीडनीया यतो जनैः ॥३२॥बालत्रासप्रदातॄणां सर्वनाशो भवेदिह ।बाला निर्दोषपुष्पाणि न हन्तव्यानि वै हृदा ॥३३॥बाला ईशनिवासास्ते ज्वालनीया न वै क्वचित् ।कायादिदोषहीनास्ते ब्रह्मसाधुस्वरूपिणः ॥३४॥अर्चनीया रञ्जनीयास्तोषणीया हि बालकाः ।दातव्यं भोजनं तेषां सर्वदाऽभयदानकम् ॥३५॥दातव्यस्त्वाश्रयस्तेषां मा दातव्यं मृतेर्भयम् ।अपक्वफलरूपास्ते पराधीनप्रजीवनाः ॥३६॥मातापितृसमाधारा न हन्तव्याः कदाचन ।बालोद्वेगफलं तत्र मरणं जायते हि तत् ॥३७॥उद्वेजयिता बालानामपहर्ता जनोऽधमः ।राजाऽवाप फलं तूर्णं मरणं धर्मघातकः ॥३८॥अथ केसरिपृष्ठस्था ययौ बालगृहाणि सा ।यत्र कारागृहवासे ते हि तिष्ठन्ति बालकाः ॥३९॥यत्रास्ते गरुडश्चक्रं तथा कृष्णनरायणः ।तत्रेयं सहसा याता युद्धरूपधरा सती ॥४०॥क्रौर्यं त्यक्त्वाऽतिसौम्याऽभूद् द्विभुजा कन्यका शुभा ।हसमाना च तान् बालानाह पश्यत मां प्रति ॥४१॥बालैस्त्वालोकिता साऽपि स्वस्वमातृस्वरूपिणी ।द्रागेव तद्गलं धृत्वा रेमिरेऽङ्के हि बालकाः ॥४२॥अति प्रसन्नतां प्राप्ता मेनिरे रक्षणं निजम् ।अथ सा बालकृष्णं वै नेमे क्षमामयाचत ॥४३॥पयः फलानि प्रददौ सर्वबालेभ्य ऐश्वरी ।अर्भका भक्षयामासुर्बभूवुः सुखिनस्तथा ॥४४॥अथ श्मशानयात्रां च प्रजाश्चक्रुर्नृपस्य वै ।राज्ञस्तु विधवाः सर्वा देवीमागत्य चुक्रुशुः ॥४५॥कन्यास्ता रुरुदुः सर्वा गुर्वादीनामपि स्त्रियः ।देवी मूर्तेर्विनिर्गत्य कन्यारूपा व्यजायत ॥४६॥साक्षाद् भूता हि सर्वासामुवाच मधुरं वचः ।मा शोकं कुरुत श्रेष्ठाः राज्ञा प्राप्तं फलं निजम् ॥४७॥अहं भवामि यत्पत्नी तं राजा हन्तुमुद्यतः ।अनादिश्रीकृष्णनारायणः कान्तोऽस्ति मे प्रभुः ॥४८॥मीनध्वजधनुःशूलचक्रधारी जनार्दनः ।बालरूपो भवत्येव कारागारगतोऽत्र सः ॥४९॥मे पतिर्मत्पशुः राज्ञा कृतः पुत्रे हयाऽपि तु ।तत्फलं मरणं तस्य मया दत्तं महाघिने ॥५०॥भवतीनां महाश्रेयो भविष्यति हरिकृतम् ।अनादिश्रीकृष्णनारायणं स्तुवन्तु मुक्तये ॥५१॥इत्युक्ता राधिके सर्वा ययुर्नारायणं प्रति ।तुष्टुवुः परया प्रीत्या पापमोक्षणहेतवे ॥५२॥हरिस्ताभ्यो निजं रूपं दर्शयामास धामगम् ।पार्श्वे लक्ष्मी स्वरूपा च शावदीनां सतीं प्रियाम् ॥५ ३॥गरुडं बालकं चापि चक्रं सुदर्शनं तथा ।ततो वै दर्शयामास चाश्वपट्टसरोवरम् ॥५४॥कुंकुमवापिकाक्षेत्रं लोमशस्याश्रमं तथा ।कोट्यर्बुजाऽब्जकन्याश्च दिव्यतां पारमेश्वरीम् ॥५५॥दृष्ट्वाऽऽश्चर्यं परं प्राप्ता मातरः कन्यकास्तथा ।ययाचिरे वरं शीघ्रमस्माकं त्वं पतिर्भव ॥५६॥अथ कृष्णस्तु सर्वाभ्यो यथेष्टं वै वरं ददौ ।गरुडं प्राह यास्यामः श्रीमद्बदरिकावनम् ॥५७॥सुदर्शनं सह नीत्वा गरुडस्थो हरिस्तदा ।सस्मार दिव्ययानं च योजनायतमुज्ज्वलम् ॥५८॥सौवर्णं निजधामस्थं शीघ्रं चोपस्थितं हि तत् ।सपार्षदे विमाने च सर्वाः स्त्रीः कन्यकास्तथा ॥५९॥शावदीनां महाकालीं निषाद्य श्रीहरिः स्वयम् ।प्रातः राजमुकुटं च भक्तं जल्लाउद्दीनकम् ॥६०॥तृतीयां चार्पयित्वा व्योम्ना बद्र्याश्रमं ययौ ।गंगायां स्नापयित्वा च देहशुद्धिं विधाय च ॥६१॥सर्वाभ्यः पाययामास श्रीहरेश्चरणामृतम् ।नरनारायणपूजां कारयित्वा ततो हरिः ॥६२॥कुरुक्षेत्रं त्वाययौ च दशक्रोशविशालकम् ।पावनं परमं श्रेष्ठं हिमाद्रेः पादमाश्रितम् ॥६३॥श्रीराधिकोवाच-कुरुक्षेत्रं कदा केन कृतं तद् विस्तराद् वद ।कथं वै पावनं तद्धि प्रशस्तं गण्यते सदा ॥६४॥श्रीकृष्ण उवाच-सोमवंशोद्भवो राजा ऋक्षो नाम महाबलः ।कृतस्यादौ समभवद् ऋक्षात्संवरणोऽभवत् ॥६५॥स तु पित्रा निजे राज्येऽभिषिक्तो बाल एव सः ।बाल्येऽपि धर्मनिरतो मद्भक्तः स सदाऽभवत् ॥६६॥पुरोहितस्तु तस्याऽऽसीद् वसिष्ठो वरुणात्मजः ।स तं त्वध्यापयामास सांगान्वेदानुदारधीः ॥६७॥अनध्याये दिने राजा ययौ वनानि वीक्षितुम् ।वैभ्राजं सुवनं रम्यं विवेश बहुविस्तरम् ॥६८॥द्वैतवनं विवेशाऽसौ रुड्रागौ द्वौ गतौ यतः ।स वनान्तं ददर्शाऽथ फुल्लकोकनदावृतम् ॥६९॥तत्र ददर्श देवानां कन्यकास्तासु मध्यगाम् ।सूर्यपुत्रीं तपतीं स ददर्श सर्वतोऽधिकाम् ॥७०॥तत्र लग्नमना राजा ययौ मेरुं प्रति प्रभुः ।प्रतिष्ठानपुरं रम्यं तिष्ठत्येव च तां स्मरन् ॥७१॥यदा नाऽयं गृहं प्रत्यायातस्तथा पुरोहितः ।ज्ञात्वा तं मेरुसंस्थं च तपतीलग्नमानसम् ॥७२॥समुत्पत्य वसिष्ठः प्राययौ भास्करमण्डलम् ।ननाम भास्करं सूर्यो ननामैनं पुपूज च ॥७३॥पप्रच्छाऽऽगमने हेतुमृषिः सूर्यमुवाच ह ।समायातोऽस्मि देवेश याचितुं त्वां महाद्युते ॥७४॥सुतां संवरणस्यार्थे त्वं तापीं दातुमर्हसि ।तापीं पृष्ट्वा ततः सूर्यो ददौ तापीं जहर्ष च ॥७५॥ऋषिर्नीत्वा राज्यमायात् सम्वरणोऽपि चाययौ ।तं दृष्ट्वा चकमे तापी तस्मै महर्षिणाऽर्पिता ॥७६॥तस्यां पुत्रोऽभवत् काले कुरुर्नाम्ना स वै कृतः ।षोडशाब्दः समुवाह सुदाम्नो नृपतेः सुताम् ॥७७॥कीर्तिनाम्ने धुरं दत्वा राज्यस्य वनमाविशत् ।सौदाम्न्या सह पत्न्या वै तेपे द्वैतवने नृपः ॥७८॥तत्र देवीं हरिजिह्वां स ददर्श सरस्वतीम् ।सुदर्शनस्य जननीं ब्रह्मपुत्रीं च प्लक्षजाम् ॥७९॥स्नात्वा तत्र जलं पीत्वा ब्रह्मवेदीमुपाययौ ।उत्तरा सा ब्रह्मवेदिरुच्यते यज्ञभूमिका ॥८०॥मध्यमा ब्रह्मवेदिस्तु प्रयागराज उच्यते ।प्राग्वेदिका गयावेदिर्विरजा दक्षिणा तु वै ॥८१॥प्रतीची पुष्करा वेदिस्त्रिभिः कुण्डैरलंकृता ।स्यमन्तपञ्चकं धर्मस्थानं चोत्तरवेदिका ॥८२॥आसमन्ताद् योजनानि पञ्च पञ्च च सर्वतः ।तदमन्यत राजर्षिः क्षेत्रं पुण्यं महाफलम् ॥८३॥ह्रदं कृत्वा पर्णशालां विधाय वासमाचरत् ।कृत्वा सीरं रुद्रवृषं यमस्य महिषं तथा ॥८४॥वोढारं संविधायैव स्वयं कृष्टुं समुद्यतः ।कर्षन्तं तं महेन्द्रश्चागत्य पप्रच्छ कारणम् ॥८५॥राजन् किमिदं कार्षेयं भवान् कर्तुमिहोद्यतः ।राजाऽब्रवीत् तपः सत्यं शौचं दानं दया क्षमा ॥८६॥योगश्च शीलवृत्तिश्चेत्यष्टकं चात्र विद्यते ।इन्द्रः प्राह तथा राजन् भूयात्तवाऽभिवाञ्च्छितम् ॥८७॥इन्द्रे गते तु राजाऽसौ कर्षति स्म निरन्तरम् ।सप्तक्रोशाधिकां भूमिं सीरकृष्टां चकार सः ॥८८॥ततोऽहं राधिके विप्रो भूत्वाऽगच्छं नृपान्तिकम् ।अपृच्छं च त्वया राजन् कथं वै क्लेश उह्यते ॥८९॥तदाऽष्टांगो महाधर्मः समाख्यातो नृपेण मे ।ततो मयाऽस्य गदितं नृप बीजं क्व वर्तते ॥९०॥स चाऽऽह मम देहेऽत्र मानसं बीजमस्ति हि ।तमब्रुवं देहि मह्यं बीजं निष्कास्य देहतः ॥९१॥वाटिकां खलु वप्स्यामि सीरं कर्षतु वै भवान् ।ततो नृपतिना बाहुर्दक्षिणः प्रसृतः कृतः ॥९२॥मया चक्रेण छिन्नः सोऽभवत्तत्र सहस्रधा ।एवं वामभुजः पादौ कटितश्च द्विधा कृताः ॥९३॥तानि बीजानि जातानि कोट्यधिकानि सर्वतः ।अथ स मे शिरः प्रादात् तेन प्रीतोऽस्मि तस्य च ॥९४॥वरदोऽस्मीत्यथेत्युक्ते कुरुर्वरमयाचत ।यावदेतन्मया कृष्टं धर्मक्षेत्रं तदस्तु ते ॥९५॥स्नातानां च मृतानां च महापुण्यफलं त्विह ।उपवासश्च दानं च स्नानं जाप्यं च पूजनम् ॥९६॥होमयज्ञादिकं सर्वमत्राऽक्षयं भवेत् प्रभो ।तथा भवान् सुरैः सार्धं ब्रह्मणा शंभुना तथा ॥९७॥वसाऽत्र पुण्डरीकाक्ष मन्नामव्यञ्जकेऽत्र वै ।इत्येवमुक्तस्तेनाऽहं तदा बाढमुवाच तम् ॥१८॥तथा च त्वं दिव्यवपुर्भव भूयोऽपि स्वस्तिमान् ।अन्तकाले चिरकाले लयमेष्यसि मत्तनौ ॥९९॥शाश्वती तव कीर्तिश्च भविष्यति मदाश्रयात् ।अत्र त्वं याजको यज्ञान् यजिष्यसे सहस्रशः ॥१००॥क्षेत्रस्य रक्षकान् चन्द्रयक्षं पन्नगवासुकिम् ।विद्याधरं शंकुकर्णं सुकेशं राक्षसं तथा ॥१०१॥अजावनं च नृपतिं महादेवं च पावकम् ।ददामि तेऽत्र बलिनोऽष्टसहस्राणि धन्विनाम् ॥१०२॥कुरुजांगलमध्ये च पृथूदकं सरो महत् ।नदी सरस्वती चापि वर्तते पावनी शुभा ॥१०३॥सरस्वतीदृषद्वत्योरन्तरे कुरुजांगले ।ब्रह्मसरः शुभं तीर्थं समन्तादर्धयोजनम् ॥१०४॥आद्यैषा ब्रह्मणो वेदिस्ततो रामह्रदः स्मृतः ।कुरुक्षेत्रं ततः प्रोक्तं धर्मक्षेत्रं हि पावनम् ॥१०५॥तरन्तुकारन्तुकयोरन्तरं यत्तु विद्यते ।रामह्रदपञ्चकाच्च यदन्तरं हि विद्यते ॥१०६॥कुरुक्षेत्रं विशालं तत् समन्तपञ्चकाऽऽह्वयम् ।तत्राऽनादिकृष्णनारायणो व्योम्ना समाययौ ॥१०७॥सरस्वत्यां दृषद्वत्यां ब्रह्मसरसि योषितः ।स्नापयित्वा च यानेन क्षणमात्रेण राधिके ॥१०८॥अश्वपट्टसरःक्षेत्रे लोमशाश्रममाययौ ।बालकाः कन्यका नार्यो देवी च गरुडो हरिः ॥१०९॥अवतेरुः क्षितिं तत्र जयशब्दास्तदाऽभवन् ।अवाद्यन्त च वाद्यानि देवीशंखोऽप्यवाद्यत ॥११०॥लोमशाद्या ऋषयश्च प्रजाः शीघ्रं समाययुः ।आभाष्य मंगलाचारमकुर्वन् ब्राह्मणादयः ॥१११॥सस्नुः सरोवरे भुक्तवन्तो भोज्यानि सर्वशः ।आरामं कृतवन्तश्च प्रवासादागमश्रमाः ॥११२॥जयोत्सवः कृतो रात्रौ राज्ञो नाशः प्रवर्णितः ।बालका निजपितृभ्यश्चार्पिता हरिणा तदा ॥११३॥कन्यका योषितः सर्वा लोमशाय निवेदिताः ।आश्रमे रक्षणार्थं च मन्त्रदानार्थमित्यपि ॥११४॥लोमशश्च पवित्राभ्यो ददौ मत्रं च मालिकाः ।'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ॥११५॥वैष्णव्यस्ता दिव्यरूपा अभवन् ब्रह्मतेजसा ।मातरस्ता भजनं च चक्रुः कृष्णकृपावशात् ॥११६॥दिव्यदेहा विमानैश्च ययुर्वैकुण्ठमेव ताः ।कन्यकास्तत्र तस्थुश्च श्रीहरेरिच्छया सदा ॥११७॥इत्येवं रक्षिता बाला म्लेच्छा विनाशितास्तथा ।पठनाच्छ्रवणाच्चास्य स्वर्गमोक्षफलं भवेत् ॥११८॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रभोः राजकृतदेवीपशुसंस्कारः, देव्या राजादिसंहारः, बद्रीं कुरुक्षेत्रं कुंकुमवापिकां प्रत्यागमनम्, बालकानां तज्जनकेभ्योऽर्पणम्, मातॄणां मुक्तिश्चेत्यादिनिरूपणनामा त्रिंशत्तमोऽध्यायः ॥३०॥ N/A References : N/A Last Updated : April 30, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP