संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः ५६

त्रेतायुगसन्तानः - अध्यायः ५६

लक्ष्मीनारायणसंहिता


श्रीराधिकोवाच-
कः स राजा जुमासेम्लाह्वयस्त्वासीत्पुरा प्रभो ।
के तत्सेनापतयश्च येषां कृष्णाश्रयोऽभवत् ॥१॥
श्रीकृष्ण उवाच-
शृणु तां राधिके पूर्वां कथां दैवसुयोगिनीम् ।
अवधानं परं दत्वा मयोक्ता पापनाशिनीम् ॥२॥
स्वायंभुवस्य पुत्रोऽभून्मनुर्नाम प्रियव्रतः ।
तस्याऽऽसीत् सवनो नाम पुत्रस्त्रैलोक्यविश्रुतः ॥३॥
स चाऽनपत्यो निधने सति प्रेतगतिं गतः ।
तस्य भार्याऽरुदत् तत्र सुवेदा शोकविह्वला ॥४॥
न ददाति शवं दग्धुं समाधृत्य स्थिता पतिम् ।
नाथनाथेति बहुशः सविलापा त्वनाथवत् ॥५॥
तामाह व्योमवाणी मा रुदिहि त्वं शुचं त्यज ।
यदि चास्ते तव स्नेहः सत्यं चापि व्रतं महत् ॥६॥
तदा सतीवृषं धृत्वा व्रजाऽग्नौ पतिना सह ।
सुवेदाऽऽश्रुत्य तां वाणीं सती प्रत्युत्तरं ददौ ॥७॥
नाऽहं शोचामि मां देव मन्दभाग्यां निजार्थिका ।
किन्त्वेनं पुत्रहीनं वै शोचामि गतिवर्जितम् ॥८॥
अपुत्रस्य गतिर्नास्ति नोद्धारो नरकादपि ।
न च श्राद्धाऽभिलाषाऽपि तेन वै रौरवं ध्रुवम् ॥९॥
अपुत्रस्य तु कान्तस्य कामिन्यपि तथाविधा ।
गतिहीना रौरवार्हा तस्मात्पुत्रसमिच्छया ॥१०॥
शोचामि श्रेयइच्छार्थं देव श्रेयः कुरु प्रभो ।
व्योमवाणी ततः प्राह राज्ञि रुदिहि मा शुचा ॥११॥
स्वामिनस्ते सप्तपुत्रा भविष्यन्ति न संशयः ।
वह्निमारोह शीघ्रं त्वं श्रद्दधस्व सती भव ॥१२॥
राज्ञी प्राह विना देहं मम मे स्वामिनस्तथा ।
मानवा वै कथं पुत्रा भविष्यन्ति वदाऽधुना ॥१३॥
व्योमवाणी तदा प्राह तव सत्येन सुन्दरि! ।
दाहे सत्येव च द्वयोरत्र देहौ पुनर्नवौ ॥१४॥
मानसौ दिव्यतत्त्वौ च क्षणान्तरे भविष्यतः ।
राज्ञा दत्तोऽत्र गर्भस्ते धातुरूपो भविष्यति ॥१५॥
धातोर्द्वारा तव पत्युर्भविष्यन्ति सुपुत्रकाः ॥
इत्युक्ता सा सत्यधर्मं त्वालम्ब्य पतिवर्ष्म तत् ॥१६॥
ददौ काष्ठे स्थापयितुं ततः स्वयं चितां प्रति ।
ययौ हुताशमासाद्य चित्ते ध्यात्वा पतिं सुतान् ॥१७॥
प्रपन्ना ज्वलनं साध्वी दिव्यदेहा बभूव ह ।
राजा दिव्यश्रिया युक्तश्चोत्थितः सह भार्यया ॥१८॥
युतः सुनाभपुत्र्या स उत्पपात तदा तु खम् ।
विमानं त्वम्बरे सर्वैदिव्यं दृष्टं सुवर्चुलम् ॥१९॥
तत्र सा महिषी तूर्णं रजस्वला ह्यजायत ।
इतिजातं महाश्चर्यं यथा मतिस्तथा गतिः ॥२०॥
यद्यपि दिव्यदेहे च देवीषु वह्निजासु च ।
तात्कालिको रजोधर्मो नोचितस्तत्र वै क्षणात् ॥२१॥
तथापि वासनायोगाद् भावनावशतस्तथा ।
आशीर्वादेन च व्योमवाण्या रजस्वलाऽभवत् ॥२२॥
विमानं चाम्बरे तत्र पञ्चरात्रं स्थिरं ह्यभूत् ।
इष्यमाणमपि गन्तुं दिवं यातुं शशाक न ॥२३॥
सर्वैर्विलोकितं व्योम्नि दृश्यते चन्द्रसूज्ज्वलम् ।
तर्क्यते कथमेतद्वै स्वर्गं याति न तिष्ठति ॥२४॥
मेघच्छन्नमभूदूर्ध्वं चान्तरीक्षगतं पुनः ।
मेघोपरि भ्रमन्नास्ते तदूर्ध्वं नैव गच्छति ॥२५॥
राजा भार्यासहायश्च पञ्चदिनानि खे स्थितः ।
षष्ठेऽहनि ऋतौ दानं ददौ पत्न्यै सुतेच्छुकः ॥२६॥
किन्तु दैवान्महिष्यास्तु भाग्ये नाऽऽसन् सुताः खलु ।
शुक्रं गर्भे स्थिरं नाऽभूत् तेन प्राच्यवताऽम्बरात् ॥२७॥
शुक्रपातोत्तरं राजा महिष्या भार्यया सह ।
जगाम च विमानेन ब्रह्मलोकं हि राधिके! ॥२८॥
शुक्रं यत्राऽपतद् भूमौ ऋज्यावसथमण्डले ।
सप्तधा भेदमापन्नं चोज्ज्वलं जलबुद्बुदम् ॥२९॥
एकः कणो महानेभ्यः शीघ्रं भूमौ पपात ह ।
अन्ये कणास्तु षट् वायुहताः प्रत्येकसप्तधा ॥३०॥
पुनः प्रत्येकं च सप्त, ते षट्न्यूनं शतत्रयम् ।
कणास्ते वह्निवर्णा वै राजतं वर्षणं यथा ॥३१॥
सूर्यकरैश्चाकचक्यमापन्नास्तारका इव ।
मणयो वा किमेते च किं वा चामृतबिन्दवः ॥३२॥
इति मत्वा ऋषिपत्न्यः कणान् धर्तुं करैर्निजैः ।
दद्रुवुः पतनाग्रे च तावत्ते वह्निसदृशाः ॥३३॥
आकृष्टा दैवगत्या च देहेष्वदृश्यतां गताः ।
यथा श्वासेन साकं तु वारिकणास्तथा च ते ॥३४॥
महान् कणोऽपि च मणेर्भ्रान्तिमुद्भावयँस्तदा ।
संग्रहीतुं द्रुतं यान्तीं सुमादां समपद्यत ॥३५॥
नलिनी पुष्यती चित्रा विशाला हरिताऽनिला ।
एवमाद्यास्तु ता गर्भयुक्ताः समभवँस्ततः ॥३६॥
ब्रह्मतेजोविहीनास्ता जाताः पत्न्यस्तपस्विनाम् ।
ऋषयो वृत्तमाज्ञाय ब्रह्मतेजोविहीनताम् ॥३७॥
दृष्ट्वा ज्ञात्वाऽन्यगर्भाढ्यास्तत्यजुर्वर्षमात्रकम् ।
अन्यगर्भा हि ताः सर्वा हिमशैलं विहाय च ॥३८॥
व्योम्ना पश्चिमवार्धिं संययुः पुत्रप्रसूतये ।
नारायणीं नदीं प्राप्य अब्रिक्तं स्थलमुत्तमम् ॥३९॥
न्यूषुर्यथावकाशं च फलमूलाऽनिलाऽशनाः ।
सुषुविरे सुताँस्तत्र समकालान् हि योषितः ॥४०॥
रुदन्ति स्म च ते सर्वे भैरवं दैवयोगतः ।
तेषां रुदितशब्देन सर्वं चापूरितं जगत् ॥४१॥
अत्राऽऽजगाम भगवान् ब्रह्मा लोकपितामहः ।
समभ्येत्याऽब्रवीद् बालान् मा रुदत महाबलाः ॥४२॥
मरुद्देशेऽम्बरे गर्भदानात् क्षत्रियपुत्रकाः ।
क्षत्रियायां प्रविश्यैव निर्गता वायुवेगतः ॥४३॥
मरुतां स्पर्शयोगेन ब्राह्मणीषु प्रवेशिताः ।
ब्राह्मणैः सम्परित्यक्ताः प्राप्ताः स्थ जन्म चात्र वै ॥४४॥
एवं पितृपरित्यक्ताः पितृवैरकराः सदा ।
विप्रक्षत्रियवैराढ्या भूतलेऽत्र भविष्यथः ॥४५॥
एवं वै वैरभावेन यद्यपि ब्रह्मक्षत्रियाः ।
मालिन्यं वैरमासाद्य म्लेच्छा दैत्या भविष्यथ ॥४६॥
असंस्कारास्तथा विप्रक्रियाशून्या भविष्यथ ।
मरुतां चाम्बरे शुक्रोत्सर्गेण मरुतां गणाः ॥४७॥
कदाचिद् दितिजा यूयं पुनर्दैत्या भविष्यथ ।
दैत्या अपि सजीवाश्च महेन्द्रेण पुनः पुनः ॥४८॥
गर्भे वज्रेण निकृत्ता देवा अपि भविष्यथ ।
देवत्वे कारणं तत्र शृणुताऽत्र वदामि वः ॥४९॥
अनादिश्रीकृष्णनारायणः श्रीभगवान् स्वयम् ।
महायुद्धनिमित्तेन देशेऽत्राऽप्यागमिष्यति ॥५०॥
तद्धस्तजललाभेन चरणामृतपानतः ।
पावित्र्यं भवतां शीघ्रं तदा त्वत्र भविष्यति ॥५१॥
तेन पुण्येन च यूयं देवत्वं समवाप्स्यथ ।
मरुतो नाम देवा वै यूयं ख्याता भविष्यथ ॥५२॥
एवमुक्त्वा तु तान् बालान् ब्रह्मा लोकपितामहः ।
रक्षितुं च पोषयितुं त्रिशतं योषितां तदा ॥५३॥
स्वपृष्ठोत्पादितं दुग्धप्रदं म्लेच्छस्वभावजम् ।
ददौ तत्र तथा दासान् शतानि त्रीणि सन्ददौ ॥५४॥
पृष्ठान् कृष्णवर्णांश्च क्रूरस्वभाववर्तिनः ।
धर्मकर्मविहीनाँश्च संस्कारकृतिवर्जितान् ॥५५॥
कल्पनामात्रकार्यस्थान् दत्वा तेभ्यः शिशूँस्ततः ।
अमातृजा नरास्ते चाऽमातृजाभिः सहाऽवसन् ॥५६॥
दम्पतीत्वं सदा प्राप्ता न्यवसँश्च सुखेन ते ।
तेभ्य आरभ्य एवाऽत्र दुग्धभिन्ना प्रभुज्यते ॥५७॥
असहोदरवैवाह्यं तदारभ्य प्रवर्तते ।
एवं ब्रह्मा तु सर्वेभ्यो दत्वा शिशून् ततः परम् ॥५८॥
विप्रपत्नीः समग्राश्च सूतकाऽन्तेऽतिनिर्मलाः ।
शुद्धाः कृत्वा सह नीत्वा ययौ हेमाद्रिमुत्तमम् ॥५९॥
यत्र ते ऋषयः सन्ति ब्रह्मचर्यव्रतस्थिताः ।
व्योममार्गेण च ब्रह्मा विमानाग्र्यादवातरत् ॥६०॥
हस्ते कमण्डलुं कृत्वा वेदाशीर्वादमुच्चरन् ।
ऋषयो ब्राह्मणा दृष्ट्वोत्तस्थुर्मग्नाः पितामहम् ॥६१॥
नेमुश्च दण्डवत् पृथ्व्यां सम्भूयाऽप्यासनं ददौ ।
पूजां चक्रुर्यथार्हा च ब्रह्मा तत उवाच तान् ॥६२॥
विप्राः सर्वं भवत्येव परमेशसमिच्छया ।
उत्पत्तिः प्रलयश्चेति पोषणं च हरीच्छया ॥६३॥
ईशस्तज्ज्ञानयत्नेच्छाः कालोऽदृष्टं स्वकर्म च ।
यत्रैकतां समायान्ति तत्र कार्यं भवेत् तदा ॥६४॥
मनोः पुत्रस्य विप्रा वै सवनस्य तु धातुतः ।
भवतां वै प्रियास्वेव जाताः त्रिशतपुत्रकाः ॥६५॥
पञ्चन्यूना हि ते सर्वे मया संरक्षिताः सदा ।
पश्चिमायां भुवि दृप्ता युष्मद्धर्मविवर्जिताः ॥६६॥
ता एता योषितो वश्च शुद्धाः संस्कारकर्मभिः ।
समानीता मया युष्मत्सेवायां शुद्धभावनाः ॥६७॥
विमाने तास्तु वर्तन्ते गृह्णतैताः पुनः स्वकाः ।
इत्युक्ता ब्राह्मणाः पत्नीनामान्याश्रुत्य हर्षतः ॥६८॥
बाढं बाढं तथा कुर्मो गृह्णीमो वैधसीं श्रुतिम् ।
आज्ञां भवन्मुखोत्पन्नां समानय पितामह ॥६९॥
ब्रह्मा श्रुत्वा विमानं तच्चाम्बरात् पृथिवीं प्रति ।
आह्वयत्त्वागतं शीघ्रं पत्न्यस्तस्मादवातरन् ॥७०॥
ताः सर्वा ब्रह्मवाक्येन निपेतुः स्वामिपादयोः ।
स्वामिनो जगृहुस्ताश्च प्रेम्णा कुशलपूर्वकम् ॥७१॥
महोत्सवं तदा चक्रुर्हवनं जनभोजनम् ।
देवानां पूजनं चापि ततोऽजं ते व्यसर्जयन् ॥७२॥
ब्रह्मा विमानगो नैजं धाम जगाम सत्वरम् ।
ऋषिपत्न्यो ब्रह्मतेजोमय्यः शुशुभिरे ह्यति ॥७३॥
एवं ते दैत्यरूपा वै जाता आसन् हि राधिके ।
तत्र कणो महान् यस्तु जुमासेम्लाभिधानकः ॥७४॥
राजाऽभूदब्रिक्तानां तु देशानां सर्वतो बली ।
जन्मतो युद्धवेत्ताऽस्त्रशस्त्रबोधभरोऽसुरः ॥७५॥
आकाशे शुक्रयोगे च मरुतां स्पर्शसंभवात् ।
व्योमगः सोऽभवद् वायुतुल्यश्चातिप्रतापवान् ॥७६॥
अन्ये तेऽपि कणाः सर्वे सर्वे मरुत्समाश्रयात् ।
व्योमगाश्चाऽभवन् दैत्यास्ते नृपस्य हि सैन्यपाः ॥७७॥
अस्त्रशस्त्रविदः सर्वे बलिनोऽसुरवर्तनाः ।
ततः प्रजाः समभवन् कोटिशः कालवेगतः ॥७८॥
भ्रातरश्च भगिन्यश्च असहोदरजा यदि ।
परस्परं हि युज्यन्ते विवाहविधिना ततः ॥७९॥
तेषां तासां पश्चिमं वै यानं प्रथमतोऽभवत् ।
मातृणां पश्चिमं यानं तेन पश्चिमनम्रकाः ॥८०॥
पश्चिमं सर्वमेवेमे वृषं गृह्णन्ति सर्वदा ।
सुमादायां समुत्पन्नो जुमासेम्लाऽभवन्नृपः ॥८१॥
अन्ये तु सैन्यपा जाता बहुशस्त्रधरा हि ते ।
अथ मृता विमानेन सह युद्धे तु ते तदा ॥८२॥
स्वर्गं गत्वा पुनस्तत्र महामरोः क्षितौ पुनः ।
ऋतध्वजस्य पुत्राणां पुत्रास्ते मसतः सुराः ॥८३॥
भविष्यन्ति जले ग्राहीजठरे धातुपानतः ।
ऋतध्वजसुताः मेरौ करिष्यन्ति तपः परम् ॥८४॥
तपोविघ्नार्थमिन्द्रश्च प्रेषयिष्यति पूतनाम् ।
अप्सरसं च तां दृष्ट्वा स्नान्तीं सुरूपयौवनाम् ॥८५॥
मन्दोदवाहिनीनद्यां क्षरिष्यन्ति च तापसाः ।
तद्धातुं पास्यति ग्राही तत्पुत्रा जलजाश्च ते ॥८६॥
मरुताख्या भविष्यन्ति व्योममार्गानुगाः सुराः ।
अथ पुनः पृथिव्यां ते वपुष्मन्तो नृपस्य तु ॥८७॥
ज्योतिष्मान्नामकः पुत्रस्तत्पत्न्यां धर्मयोषिति ।
देवाचार्यसुतायां वै सुश्रोण्यां मरुतस्तु ते ॥८८॥
भविष्यन्ति पुत्ररूपा देवा व्योमविहारिणः ।
ततः पुनर्दन्तध्वजान्मानुषात्तपतो भुवि ॥८९॥
होमं प्रकुर्वतो वह्नौ स्वशरीरस्य सर्वथा ।
वीर्यभागात्ततो वह्नेः समुद्भूताः सुतास्तदा ॥९०॥
भविष्यन्ति मरुतस्ते देवा व्योमविहारिणः ।
ततः पुनः पृथिव्यां च रिपुजिन्नृपतेर्गृहे ॥९१॥
सूर्यपुत्र्यां सुरत्यां च भार्यायां मरुतो हि ते ।
मृतायां च चितावह्नौ भविष्यन्ति सुराः सुताः ॥९२॥
सर्वे व्योमविहाराश्च देवा दैवतयोगिनः ।
ततः पुनर्मंकणकऋषेर्धातोः प्रपातनात् ॥९३॥
तुषितां पितृकन्यां च दृष्ट्वा स्नान्तीं सुयौवनाम् ।
सप्तसारस्वते तीर्थे भविष्यन्ति मरुद्गणाः ॥९४॥
सरस्वतीजलेभ्यस्ते मरुतो देवतास्तदा ।
व्योमविहारिणः सर्वे भविष्यन्ति च राधिके ॥९५॥
ततः पुनः कश्यपस्य पत्न्यां दित्यां च ते सुराः ।
भविष्यन्ति चेन्द्रवज्रहतास्ते मरुतः सुराः ॥९६॥
दैत्या अपि हरेर्योगादेवं दैत्यसमुद्भवाः ।
देववासा देवकार्या देवभावाः पुनः पुनः ॥९७॥
भविष्यन्ति तथा सृष्ट्यन्तरेऽप्येवं पुनः पुनः ।
इत्येवं कथितो राधे तेऽत्र मरुत्समुद्भवः ॥९८॥
यथा चासुरभावाश्च यथा देवस्वभाविनः ।
त एते मरुतो देवा उद्धृताः कृपया तदा ॥९९॥
अनादिश्रीकृष्णनारायणेन परमात्मना ।
अब्रिक्ते तु प्रदेशे वै मिषेण संगरस्य ह ॥१००॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने मरुद्देवानां दैत्यरूपेणोत्पत्तिः, पुनर्देवत्वप्राप्तिः, जन्मान्तरादिकथनम्, अब्रिक्तीयमुख्यदैत्यजन्मवृत्तान्त इत्यादिनिरूपणनामा षट्पञ्चाशत्तमोऽध्यायः ॥५६॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP