संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|

त्रेतायुगसन्तानः - अध्यायः १२७

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
शृणु त्वं राधिके! तत्राऽप्याश्चर्यं समभूद्धि यत् ।
पूर्वं भूकम्पयोगेन मृताश्चापगतिं गताः ॥१॥
लक्षाधिकास्तु ये प्रेताः समानपर्वतस्थिताः ।
आययुर्द्विकलं तीर्थं मोक्षार्थे कृष्णसन्निधौ ॥२॥
केचिद्वै वक्रवदनाः केचिच्छुष्ककलेवराः ।
अन्ये तु कटिभग्नाश्च पृष्ठलग्नोदराः परे ॥३॥
सकेशा मक्षिकाव्याप्ताश्चान्ये मशकजालिनः ।
क्षुत्तृषादुःखिनश्चान्येऽन्धाः पङ्गुवृक्णकाः परे ॥४॥
कुष्ठिनोऽङ्गादिविकलाः श्वासकासादिरोगिणः ।
लम्बजलोदराश्चान्ये निर्नेत्राः कर्णवर्जिताः ॥५॥
पृष्ठपादाः पृष्ठमुखा विकराला दरिद्रकाः ।
सहस्रशो दुःखिनस्ते समाययुर्हरेः पुरः ॥६॥
दुःखनाशार्थमेवैते प्रार्थयामासुरच्युतम् ।
अनादिश्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ॥७॥
भूकम्पे हि वयं नष्टा गृहपातार्दनैः पुरा ।
वृक्षपाताऽर्दनैश्चापि भूस्फाटे पतिता अपि ॥८॥
विवरेषु सजलेषु मग्ना नष्टा मृतास्तदा ।
आकस्मिकैश्च मरणैः प्रेता वयं हि दुःखिनः ॥९॥
योग्या उद्धर्तुमेवाऽत्र भवतैव न चेतरैः ।
तस्मादुद्धर पापिष्ठयोनेरस्मान् कृपां कुरु ॥१०॥
इत्यर्थितः श्रीभगवान् जलं चिक्षेप तेषु ह ।
अञ्जलिना कृतं प्रासादिकं प्राप्तं च तैस्तदा ॥११॥
दग्धपापा अभवँश्च जलं ययाचिरे पुनः ।
पानार्थं प्रददौ तेभ्यः कृष्णो जलं तु सारसम् ॥१२॥
आनीतं निजकार्यार्थं पाययामास तान्प्रभुः ।
पीत्वा पीत्वाऽतितृप्तास्ते ययाचिरेऽथ भोजनम् ॥१३॥
भगवान् प्रददौ तेभ्यो मिष्टान्नं शार्करं शुभम् ।
सघृतं पायसान्नं च कल्पधेनुसमुद्भवम् ॥१४॥
भुक्त्वा तृप्ताः पुनर्जाता ययाचिरे विरोगिताम् ।
हरिस्तेभ्यो ददौ रम्यमारोग्यं सौम्यवर्ष्म च ॥१५॥
ययाचिरे ततो मोक्षं दिव्यदेहैः प्रसेवनम् ।
हरिस्तेभ्यो ददौ मोक्षं दिव्येदेहैर्ययुश्च ते ॥१६॥
वैकुण्ठं परमं लोकं विमानैः सूर्यसन्निभैः ।
नराश्च पार्षदा जाताश्चतुर्मुजाः सुभासुराः ॥१७॥
नार्यश्च पार्षदान्यश्च चतुर्भुजाः सुभाग्यिकाः ।
मुक्तरूपा हि जाता वै मोक्षस्थाननिवासिनः ॥१८॥
इत्येवं कृपया तेभ्यो बालकृष्णः श्रियः पतिः ।
ददौ वैकुण्ठमेवाऽद्य स्वयोगेन क्षणान्ननु ॥१९॥
कृपैव कारणं चात्र न पुण्यं भक्तिरित्यपि ।
शरणागतपालत्वं कारणं कृपयाऽन्वितम् ॥२०॥
राधिके च ततः कृष्णो महाराजो रमापतिः ।
माणिक्याकान्त ईशेशः थर्कूटस्थं जगाद ह ॥२१॥
थर्कूटस्थमहाराज! शृणु ज्ञातव्यमत्र यत् ।
धर्मो ज्ञानं विरागश्च भक्तिश्चेति चतुष्टयम् ॥२२॥
त्वया पाल्या हि चत्वारः कर्तव्यार्थाः सदा भुवि ।
लोकेऽस्मिन् सुखदास्ते च परत्राऽऽनन्ददायकाः ॥२३॥
प्रजानां पालनं कार्यं दया कार्या प्रजादिषु ।
दीनाऽनाथेषु योषित्सु सत्सु वृद्धजनादिषु ॥२४॥
परोपकारः कर्तव्यः परात्मसुखकारकः ।
परपीडा न कर्तव्या युद्धधर्मं विना क्वचित् ॥२५॥
शरणापन्नजीवानां रक्षा कार्या त्वया सदा ।
यन्मुखे भगवन्नाम स पूज्योऽदण्ड्य एव च ॥२६॥
वैष्णवाः सर्वथा पूज्या दानमानाऽर्हवस्तुभिः ।
विनयेन च वाक्येन सेवया दासधर्मया ॥२७॥
सात्त्वतानां संगमश्च कर्तव्यो हृद्येन वै ।
राजसानां संगमस्तु कर्तव्यो वर्ष्मणा मनाक् ॥२८॥
तामसानां संगमस्तु कर्तव्यो वै मृषानिभः ।
यथा राज्यं विनश्येन्न बन्धनं स्वस्य नो भवेत् ॥२९॥
विघ्ना नेयुर्यथा चापि कर्तव्यं तत्तथा सदा ।
विश्वासः सर्वथा कार्यः सत्सु भागवतेषु वै ॥३०॥
राज्ञ्यां पुत्रे प्रधाने वा विश्वसेत् सावधानकः ।
निजान् निजान्न मन्वीत यावन्न स्यात्परिक्षणम् ॥३१॥
स्वार्थमात्रपरान् गृध्नायुतान् राज्ये न विश्वसेत् ।
निस्पृहान् विश्वसेत् भक्त्या साधुमार्ग स्थितान् जनान् ॥३२॥
एकाकी न मिलेत् कंचिद् भयस्थानं हि निर्जनम् ।
भोजनं नापि गृह्णीयात् विनाऽन्यग्रहपूर्वकम् ॥३३॥
पेयं स्पृश्यं ददेत् कश्चिन्न गृह्णीयादचिन्तयन् ।
भोग्यानां जडवस्तूनां विनाऽन्यस्मिन् समर्पणम् ॥३४॥
स्वार्थार्थं नोपयुञ्जीत कणमात्रमपि क्वचित् ।
अपि भ्राता सुतश्चापि द्रष्टव्यस्त्ववधानिना ॥३५॥
प्रजा नोद्वेजनीयाश्च हिंसितव्या न देहिनः ।
नमन्तं विश्वसेन्नैव इषन्मिलत्प्रनेत्रकम् ॥३६॥
शून्यगृहे वसेन्नैव विना शस्त्रं न वै वसेत् ।
चेटीं विना वसेन्नैव राज्ञ्या सहाऽपि निर्जने ॥३७॥
बहुपत्नीर्न वै कुर्यान्न दास्यां सुरतं श्रयेत् ।
विना धर्मं न गच्छेच्च पदं कृत्यार्थमेव वा ॥३८॥
न स्वपेन्निर्भयो भूत्वा पार्श्वे साधून्प्ररक्षयेत् ।
धर्मस्थाने न वै कामं प्रयुञ्जीत कदाचन ॥३९॥
कामस्थाने न वै ज्ञानं प्रयुञ्जीत विरागिताम् ।
वैराग्यस्य तपसश्च स्थाने युञ्ज्यान्न लालसाम् ॥४०॥
चारान् युञ्ज्यात् परस्थाने स्वराज्येऽपि गृहे स्थले ।
देहेन्द्रियादिराज्येऽपि चारान् युञ्जीत धर्मजान् ॥४१॥
विवेकं च प्रधानं वै कृत्वा कार्याणि वर्तयेत् ।
प्रधानो विमनाः स्याच्चेत् कार्यरोधं समर्थयेत् ॥४२॥
वृद्धादनुभवं प्राप्य शान्तिदं शाश्वतं चरेत् ।
सद्योजातं बालकं च महत्यर्थे न संश्रयेत् ॥४३॥
मोक्षार्थे हितद्ं स्वल्पं महान्तं वा समाश्रयेत्॥
वुथाऽऽयासप्रदां बुद्धिं विवासयेद् वृकीमिव ॥४४॥
शान्तिप्रदां मतिं हृस्वां सुवासयेत् सतीमिव ।
जडं चापि जनं रक्षेद् स्तम्भमिव विपत्स्थले ॥४५॥
विद्वांसमपि रक्षेन्न चाततायिक्रियापरम् ।
अरण्ये वा मृगयायां नैकाकी विचरेन्नृपः ॥४६॥
जलाशये च कूपादौ विश्वसेन्न निजं जनम् ।
पुरोहितं पुरस्कृत्य ससैन्यश्चाऽटवीं चरेत् ॥४७॥
तत्रापि चाटवीज्ञं हि कुर्यादग्रगतः सदा ।
वर्षायां नाऽटवीं गच्छेदुत्सवे विप्लवे तथा ॥४८॥
रात्रौ वेषान्तरेणाऽपि परीक्षेत प्रजासुखम् ।
नापितात् तन्तुवायाच्च भाराच्चाटाच्च तस्करात् ॥४९॥
स्वयं तद्रूपमासाद्य महीमानो भवेत् क्वचित् ।
सर्वं विज्ञाय वृत्तान्तं प्रजासुखं समाचरेत् ॥५०॥
नापितादौ निजान् भृत्यान् तद्रूपैः प्रेरयेत् पुरा ।
ततः स्वयं च तद्रूपो भूत्वा गच्छेन्न चान्यथा ॥५१॥
नारी भूत्वा ब्राह्मकाले जलार्थं जलहारिणी ।
स्वदासीभिर्जलहारिणीभिर्गच्छेज्जलस्थलीम् ॥५२॥
विजानीयाच्च ताभ्यश्च वार्तया च प्रजाहितम् ।
स्वभृत्यानां स्वाश्रितानां स्वस्त्रीणां वर्तनादिकम् ॥५३॥
दीनाऽनाथदरिद्राणां ज्ञात्वा दुःखानि नाशयेत् ।
नास्तिक्यं च प्रतारित्वं कौटिल्यं नाशयेत्तथा ॥५४॥
कथाद्वारा दण्डद्वारा दुष्टाः प्रजाः प्रशिक्षयेत् ।
विधवाभ्यश्चान्नवस्त्राश्रयान् दद्याद् दयापरः ॥५५॥
विद्यादानं दापयेच्च शिक्षाज्ञानं प्रदापयेत् ।
कलाज्ञानं शिल्पविद्यां विकासयेत् सदा नृपः ॥५६॥
नराणां मानवानां तु चाऽण्डकोशान्न छेदयेत् ।
नारीणां बालरक्षादि परद्वारा न कारयेत् ॥५७॥
मातृद्वारा बालरक्षापुष्टिशिक्षादि कारयेत् ।
ऋतुधर्मान्न वै रुन्ध्याच्छासनेन कदापि वै ॥५८॥
आर्तवं फलपुष्पादि विकारयेन्न चौषधैः ।
मानवं तु पराधीनं पशुवन्न प्रवाहयेत् ॥५९॥
मारयेन्न च निष्कामं निष्प्रयोजनमक्रियम् ।
विघ्नरूपं च वाऽयोग्यं मानवं वै कदाचन ॥६०॥
मोक्षधर्मं तादृशाय समर्पयेद्धिताय वै ।
लोकानां च हितार्थाय देवकार्याणि चार्पयेत् ॥६१॥
मानवं दुर्लभं कुर्यात् तुषवन्न कदाचन ।
विकासं साधयेन्नूत्नं विकासं न विलोपयेत् ॥६२॥
कृषिं विकासयेत् सर्वविकासोत्तमरूपिणीम् ।
शैल्प्यं विकासयेच्चापि विज्ञानं तात्त्विकं तथा ॥६३॥
रासायनं तान्त्रिकं यान्त्रिकं च मान्त्रिकं तथा ।
दैविकं व्योममार्गीयं विकासयेद् यथाबलम् ॥६४॥
श्रेष्ठे संकरतां नैव कुर्यान्निम्नत्वदायिनीम् ।
निम्ने श्रैष्ठ्यप्रदां कुर्यात् कलां विभूतिदायिनीम् ॥६५॥
दूरश्रवणदृश्यादि विकासयेद्धि तात्त्विकम् ।
पृथ्वीप्रवेशमार्गादि विकासयेत्तु योगिवत् ॥६६॥
जलतेजोऽन्तरीक्षादिगमनं च विकासयेत् ।
पराण्डगमनं चापि लोपयेन्न कदाचन ॥६७॥
ऋषिपितृसुरादीनां दैत्यमानवरक्षसाम् ।
समाजं कारयेच्छ्रेष्टं मिथः परिचयार्थकम् ॥६८॥
यज्ञान्निर्वर्तयेत्तस्मात् सर्वमेधान्नृपः स्वयम् ।
स्याच्च परिचयस्तेन सर्वलोकनिवासिनाम् ॥६९॥
पूज्यपूजादिसत्कारक्रमोत्क्रमं न चाचरेत् ।
गुरूणां पूज्यताभावं वर्धयेत् सर्वथा नृपः ॥७०॥
स्वर्गवत् सर्ववस्तूनां कल्पनिधीन् प्ररक्षयेत् ।
प्रजाः सर्वाः सुरवच्च मोदन्ते यत्तथाऽऽचरेत् ॥७१॥
राजा प्रजानां सुखदो यथाऽहं परमेश्वरः ।
मया वासः सदा राज्ञि क्रियते राजधर्मिणा ॥७२॥
मत्स्वरूपस्ततो राजा पुत्रवत्पालयेत्प्रजाः ।
धर्ममर्थं च कामं च मोक्षं प्रदापयेत्ततः ॥७३॥
परमेशाऽऽराधनातः पातयेन्न प्रजाः क्वचित् ।
पतनं मोक्षहानिश्चोन्नतिर्मोक्षाऽविसर्जनम् ॥७४॥
मुख्यं वै मानवे भावे ध्येयं मत्वा चरेद् वृषम् ।
भक्तिच्युतिर्यथा न स्यात्तथा ध्येयं सुभावयेत् ॥७५॥
तद्विना राजसंज्ञा तु जारसंज्ञा भवेद् भुवि ।
नाम्ना थर्कूटराजा त्वं थुरानन्दमयो भव ॥७६॥
मदुक्तधर्मलोपे तु दुःखं वै स्यात् क्वचित् त्वयि ।
तस्माद्वै सावधानस्त्वं प्ररक्ष मम देशनाः ॥७७॥
सारद्वयं हरौ भक्तिः सतां समागमः शुभः ।
सर्वथा कारयेत्तौ च राजा राजार्थसार्थकः ॥७८॥
प्रजानां पालनं चात्र परत्र मोक्षदायकम् ।
स्वमोक्षदायकं चापि कर्तव्यं राजधर्मिणा ॥७९॥
पाल्यधर्मविरुद्धार्थं कुर्वाणानां प्रशासनम् ।
दैवधर्मप्रवृत्तानामुत्तेजनं परार्थिनाम् ॥८०॥
मुक्तिध्येयाऽनुसन्धानं कर्तव्यं राजधर्मिणा ।
राज्यप्रशासने नियोक्तव्यास्तद्बुद्धिशालिनः ॥८१॥
राज्ञा मानुषदेहस्य फलं साध्यं तु मोक्षणम् ।
अध्रुवस्य तु संस्कारे फलं नाऽऽप्येत वै ध्रुवम् ॥८२॥
राज्यं प्रशास्त्वा विधिना मोक्षशासनमाचरेत् ।
तदा राज्यं प्रदद्याच्च पुत्रादिभ्योऽथ संव्रजेत् ॥८३॥
यदि प्रव्राजनं नेष्टं तदापि राजकर्मसु ।
आराधनात्मकं कर्म विशेषयेत् प्रधानतः ॥८४॥
परराष्ट्रस्य विजयो विजयो न ध्रुवो मतः ।
ब्रह्मराष्ट्रस्य विजयो विजयः स ध्रुवो मतः ॥८५॥
देहेन्द्रियादिशयनं शयनं न ध्रुवं सुखम् ।
वासनाशयनं प्रोक्तं शयनं वै ध्रुवं सुखम् ॥८६॥
भुक्तानां स्मरणे लीने संस्कारे लयितां गते ।
तृष्णाक्षयं सुखं चात्मानन्दतुल्यं प्रजायते ॥८७॥
ब्रह्मराज्यं महाराज्यं प्राप्तव्यं तत्तु भूभृता ।
यन्न सान्तं न वै हार्यं न चोद्वेगप्रदं क्वचित् ॥८८॥
व्यापारस्तादृशः कार्यः श्रेष्ठिना फलवर्धकः ।
हानिप्रदस्तु सन्त्याज्यो व्यापारः पुरुषार्थिना ॥८९॥
राज्याद् राज्योत्तमं राज्यं यथा प्राप्येत तच्चरेत् ।
न कुर्याद् राज्यनाशे तु नारकित्वप्रदं तु यत् ॥९०॥
पुण्यं साधुपदं श्रेष्ठं स्वर्गं मच्चरणाब्जकम् ।
भोगो मन्मूर्तिसंयोगो लब्धव्यास्ते तु वैष्णवैः ॥९१॥
दुःखं साम्राज्यबन्धश्च नरकं वासनागणः ।
प्रमादालस्यकं मृत्युस्त्यक्तव्यास्ते तु वैष्णवैः ॥९२॥
साम्राज्यं मेऽक्षरप्राप्तिः कुटुम्बं मुक्तमण्डलम् ।
प्रासादः स्वयमेव स्यान्मुक्तो मेऽक्षरधामनि ॥९३॥
यद्राज्यं मम साम्राज्यं तद्राज्यं तस्य मे भवेत् ।
तस्मै ददामि मे राज्यं भक्तायाऽऽत्मनिवेदिने ॥९४॥
राजन् मां भज भक्त्यैव दासीव सर्वदा प्रभुम् ।
मोक्षं दास्ये यथाकाले भक्तिं कारय मे भुवि ॥९५॥
कुरु मे मंदिरं रम्यं प्रतिष्ठापय मां प्रभुम् ।
राधालक्ष्मीरमाब्रह्मविद्याश्रीमाणिकीयुतम् ॥९६॥
प्रवाहं मम पूजायाश्चाऽखण्डितं प्रवर्तय ।
करिष्ये तव सेवायाः स्वीकारं प्रतिमास्थितः ॥९७॥
इत्येवं श्रीबालकृष्णस्वामीश्रीपुरुषोत्तमः ।
राधिके! थर्कूटनाम्ने ह्युपादिशत् कुटुम्बिने ॥९८॥
राजा तु कारयामास मन्दिरं सुमहत्तमम् ।
तत्र संस्थाप्य मूर्तिस्ता असेवयत्तु दासवत् ॥९९॥
अनादिश्रीकृष्णनारायणश्रीभगवत्प्रभुः ।
प्रतिपद्रात्रिविगमे प्रातः थर्कूटसंज्ञकम् ॥१००॥
प्राह तृतीययज्ञार्थं वीरजारस्य राष्ट्रके ।
गन्तव्यं प्रातरेवाऽद्य गमिष्यामि त्वया सह ॥१०१॥
इत्युक्त्वा तु द्वितीयायां प्रातरेव हरिः स्वयम् ।
राज्ञा राज्ञ्या तदा नैजाः पञ्चाशत्कन्यकाः शुभाः ॥१०२॥
विधिना चार्पितास्ताश्च गृहीत्वा यौतकं तथा ।
पूजां संगृह्य च दत्वाऽऽशीर्वादान् शोभनान् शुभान् ॥१०३॥
प्रजादिभ्यो विमानेन ओबीरात्रीशसंगमम् ।
ययौ शीघ्रं ददर्शाऽपि प्रदेशान्मण्डपान्वितान् ॥१०४॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रेतोद्धारः, थर्कूटस्थनृपतये राजनीतिसद्धर्मोपदेशादि चेतिनिरूपणनामा सप्तविंशत्यधिकशततमोऽध्यायः ॥१२७॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP