संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २५५ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २५५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २५५ Translation - भाषांतर श्रीकृष्ण उवाच-राधिके च ततश्चाश्वपट्टलो लोमशं मुनिम् ।योगस्य च बलं चाप्यबलं पप्रच्छ कीदृशम् ॥१॥अश्वपाटल उवाच-ऋषे योगबलं कीदृग् वेत्तमिच्छामि चाबलम् ।येन मुक्तो भवेद्वापि चावष्टभ्येत निर्बलः ॥२॥श्रीलोमश उवाच-शौचं तपो दया सत्यमहिंसा स्तेयवर्जनम् ।प्राणरोधो वृत्तिरोधो ध्यानं समा हि योगिनाम् ॥३॥अभ्यासो बलवान् यस्य तस्य योगः प्रसिद्ध्यति ।निर्बलस्याऽभ्यसनं च निर्बलं तेन बन्धनम् ॥४॥कामं लोभं च मोहं च स्नेहं क्रोधं च रागिताम् ।योगाच्छित्वाऽप्यबलस्तु पुनस्तेष्वपि सज्जते ॥५॥यथा मत्स्याः स्थूलदेहा छित्वा जालं पुनर्जलम् ।विशन्ति निर्बलास्तद्वत् षट्कं विशन्ति वै पुनः ॥६॥यथा च बलवन्तो वै मृगाः पाशान् विभिद्य च ।परं वनान्तरं यान्ति तद्वद् योगिवराः परम् ॥७॥मायापारं प्रयान्त्येव बलिष्ठात्मपरायणाः ।यथा च बलहीना वै शशाद्या बन्धनानि वै ॥८॥आसाद्य नहि निर्गन्तुं समर्था योगिनस्तथा ।निर्बला न समर्था वै निर्गन्तुं जालतो बहिः ॥९॥झषाश्च निर्बला जालं छित्वा प्रयान्ति नैव ह ।निर्बला योगिनस्तद्वन्मायां छित्वा प्रयान्ति न ॥१०॥शकुना बलिनो जालं छित्वा यान्ति दिगन्तरम् ।योगिनो बलिनो मायां छित्वाऽम्बरं प्रयान्ति हि ॥११॥बलवाँश्च यथा वह्निः सर्वं दहति चागतम् ।बलिष्ठा योगिनो मायां दहन्त्येव स्वतेजसा ॥१२॥निर्बलस्तु यथा वह्निः शाम्यत्येवापि दारुभिः ।योग्यपि निर्बलः षट्के पराभवं प्रयाति वै ॥१३॥नदीस्रोतो बलहीनं त्वाकृष्य नयते जले ।षट्कं तद्वन्निर्बलं चाकृष्य नयति मायिके ॥१४॥वारणः सबलः स्रोतो विष्टभ्नाति च गच्छति ।बलिष्ठश्च तथा योगी षट्कं निवार्य गच्छति ॥१५॥सबलास्तु प्रमुच्यन्ते निर्बला यान्ति बन्धनम् ।प्रलयोत्थमहादित्यो यथा शोषयते जगत् ॥१६॥मोक्षबलोत्थितयोगी दोषान् शोषयते तथा ।योगिनो योगबलतो विशन्तीश्वरमन्दिरम् ॥१७॥देवानामालयान् प्रजापतिस्थानानि वापि च ।सर्वदाऽभ्यासशीलस्य बलं योगस्य वर्धते ॥१८॥ततः पुनर्विभिद्यैव मायां प्रयान्ति चाक्षरम् ।कृताभ्यासो यथा धन्वी कुशलो लक्ष्यवेधकः ॥१९॥विध्वा लक्ष्यं जयं याति तथाऽक्षरं प्रयाति सः ।मस्तके स्नेहपात्रं च कृताभ्यासो निधाय च ॥२०॥यथा रज्ज्वा नटो यात्यस्खलितो जयमेति च ।तथाऽभ्यासबलर्द्धिश्चाक्षरं योगी प्रयाति हि ॥२१॥यथाऽभ्यासो कर्णधारो नावा पारं प्रयाति च ।तथा युक्तो बलेनापि जगत्पारं प्रगच्छति ॥२२॥सारथिश्च बली चाश्वान्नियम्य याति निश्चितम् ।तथा युक्तो योगिवर्यो यात्यक्षरं ध्रुवं पदम् ॥२३॥निजात्मनि परेशं यः पश्यत्येव च योगवित् ।मायाजालं स वै छित्वा प्रयात्येव परं पदम् ॥२४॥चक्रेषु देहसंस्थेषु संविहृत्य मलानि तु ।दग्ध्वा दग्ध्वा ब्रह्ममार्गं याति वियाति वै बलात् ॥२५॥यथेष्टं च यदा कल्पयत्येव गन्तुमक्षरम् ।तदा वर्ष्म विहायैव स्वतन्त्रो याति धाम तत् ॥२६॥बलिष्ठस्येष्टदेवस्योपास्त्या बलमवाप्नुयात् ।अभ्यासेनात्मयोगेन संयमेन वृषेण च ॥२७॥तपसा ध्यानयोगेन समाधिना बलं व्रजेत् ।किन्तु राजन् महारण्ये पारं केचित्प्रयान्ति वै ॥२८॥बलिष्ठानां विजेतारोऽरण्ये वसन्ति वै यतः ।नारायणं विना पारं गन्तुं सन्देहवत्पदम् ॥२९॥ह्रियन्तेऽपि बलिष्ठा वै प्रबलिष्ठतमाऽरिभिः ।दिव्यैश्वर्यचमत्कारसिद्धिधामनिवासिभिः ॥३०॥अनादिश्रीकृष्णनारायणश्चाग्रे यदा भवेत्॥प्रगच्छन् स नयत्येव जित्वा बलिष्ठसत्तमान् ॥३१॥निजं परं पदं दिव्यं शाश्वतं मोक्षमुत्तमम् ।राजन् देहे गुणान् मत्वा मा भूर्बद्धः कदाचन ॥३२॥विवेकेन प्रमातव्यं कल्माषाणां गृहं वपुः ।अत्र सत्त्वं दशभावं मे निबोध वदामि तान् ॥३३॥आनन्दः प्रीतिरुद्धर्षः प्रकाशः पुण्यकारिता ।सन्तोषमार्जवं श्रद्धा त्याग ऐश्वर्यमित्यपि ॥३४॥तथा रजो नवभावं मे निबोध वदामि तान् ।आस्तिकत्वमकार्पण्यं द्वन्द्वोपसेवनं तथा ॥३५॥कामो द्वेषो मदो दर्पो वादः परुषता तथा ।तथा छाया तमोऽभावं मे निबोध वदामि ते ॥३६॥तामसत्वं मोहनं च धूम्रभावो मतिक्षयः ।निद्रा प्रमाद आलस्यं नाशश्चेति तथाविधाः ॥३७॥बुद्धितत्त्वं सप्तभावं मे निबोध वदामि ते ।अहन्ता ममता मानं दैर्घ्यं चाशा स्वपूज्यता ॥३८॥ईशतेति मनश्चापि षड्भावं तान् वदामि ते ।चाञ्चल्यं वेगवत्त्वं च संशयश्च स्वतन्त्रता ॥३९॥स्निग्धत्वं चाप्यविश्वास्यं मानसे ते मताः सदा ।इन्द्रियं पञ्चभावं च मे निबोध वदामि ते ॥४०॥अतृप्तिः रंजनं चौदासीन्यं चालोचनं गतिः ।चतुर्भावं भूततत्त्वं मे निबोध वदामि तान् ॥४१॥आश्रयो बन्धनं नाशः प्रसवश्चेति सर्वदा ।त्रिभावं कोशतत्त्व च षट्कोशास्ते तनुस्थिताः ॥४२॥रोमलोहितमांसानि मज्जास्थिस्नायवश्च ते ।भावास्तु क्लेद्यता मालिन्यं तथा परिभोग्यता ॥४३॥प्राणो वै द्विस्वभावश्च भावौ द्वौ तौ निबोध मे ।जीवनं भ्रामणं चेति तत्त्वानि कथितानि ते ॥४४॥राजन् तत्त्वविवेकेन भावास्ते दोषरूपिणः ।आत्मनो मोक्षमार्गे वै विघ्नास्ते यदि ते तथा ॥४५॥तान् विविच्यैकभावं वै सुखभावं निजात्मकम् ।परमेशेऽर्पयेद् भक्त्या मोक्षस्तस्य स्थितो ध्रुवः ॥४६॥यद्वा भावान् लोकयित्वा दिदृक्षान्तं विधापयेत् ।मानुषान् विषयान् सर्वान् पैशाचान् विषयाँस्तथा ॥४७॥यक्षाणां विषयाँश्चाप्यौरगाणां विषयाँस्तथा ।गान्धर्वविषयाँश्चापि पितॄणां विषयाँस्तथा ॥४८॥तिरश्चां विषयाँश्चापि मरुतां विषयाँस्तथा ।पतत्रिविषयाँश्चापि राजर्षिविषयाँस्तथा ॥४९॥ब्रह्मर्षिविषयाँश्चाप्यासुराणां विषयाँस्तथा ।विषयान् विश्वदेवानां योगिनां विषयाँस्तथा ॥५०॥प्राजापत्यानैश्वराँश्च ब्राह्मानीश्वरकोटिजान् ।विषयान् सम्परिज्ञाय सुखदुःखेऽनुभूय च ॥५१॥गुणदोषान् विलोक्यैव शान्तिं प्राप्य ततः परम् ।आत्मना च विवेकेनात्मानं मोक्षे निवेशयेत् ॥५२॥ज्ञानविज्ञानसम्पन्नश्चोपायैर्भावितः स्वयम् ।प्राप्नोति मोक्षणं दिव्यं नित्यानन्दाक्षरं पदम् ॥५३॥राजन् संकोचयेत् प्राणं सषट्कोशं च भूतके ।भूतानि मात्रयुक्तानि चेन्द्रियाणि च वै मनः ॥५४॥अहन्तादियुतं बुद्धौ विलोपयेद् विवेकवान् ।बुद्धिं समर्पयेन्नैजे स्वरूपे त्वात्मसंज्ञके ॥५५॥आत्मानं ब्रह्मरूपं च कृष्णनारायणे हृदि ।तं मोक्षे योजयेत्तेन गच्छेदक्षरधाम यत्। ॥५६॥ज्ञात्वा कालस्य कवलान् देवान् प्रजापतीन् ऋषीन् ।सप्तर्षींश्चापि राजर्षीन् सुरर्षींश्च्यावितान् सदा ॥५७॥ब्रह्मर्षींश्चेश्वरर्षींश्च ज्ञात्वा कालकृतान्तकान् ।न तत्र वै चरेद् ध्यानं मोक्षमार्गगतिं चरन् ॥५८॥पापिनां च गतिं ज्ञात्वा याम्यलोकेऽभिसंवृताम् ।विचित्रयोनिजन्मानि प्रेतभावान् विलोक्य च ॥५९॥गर्भदुःखानि वै ज्ञात्वा जन्तूनां कुत्सितानि च ।उपप्लवान् प्रघोराँश्च तारानक्षत्रपातनम् ॥६०॥युगलानामकस्माच्च वियोगं कृपणं तथा ।भूतानां भक्षणं चाप्यन्योन्यं विलोक्य निर्घृणम् ॥६१॥विषयाणां च दौरात्म्यं गतासूनां न जीवनम् ।पापिनां दुःखदाश्चापि गतीर्विज्ञाय दारुणाम् ॥६२॥तिरश्चां दुःखमालक्ष्याऽऽयुषां क्षयं दिने दिने ।देहिनां संक्षयं वीक्ष्य मृत्युदुःखं विलोक्य च ॥६३॥देहदोषान् प्रविज्ञाय नरकागारतां तथा ।न्यस्य देहं ब्रह्मरन्ध्राद् गन्तव्यं परमं पदम् ॥६४॥आश्रयेत् प्राणदेवं च वायुदेवं ततः परम् ।व्योमदेवं ततश्चापि सूर्यरश्मिं ततः परम् ॥६५॥चान्द्ररश्मिं ततश्चापि पुण्यरश्मिं ततः परम् ।सत्यरश्मिं ततश्चापि सत्त्वरश्मिं ततः परम् ॥६६॥ईशरश्मिं ततश्चापि ब्रह्मरश्मिं ततः परम् ।मुक्तरश्मिं ततश्चापि परंब्रह्म समर्जयेत् ॥६७॥परमात्मानमासाद्य तद्भूतायतनाऽमलः ।अमृतं परमं प्राप्तो यत्पुनर्न निवर्तते ॥६८॥परमा सा गतिः राजन् सतां च योगिनामपि ।सात्त्वतानां च भक्तानां हर्यर्थकृतकर्मणाम् ॥६९॥तत्र ज्ञानं हि सार्वज्ञ्यं चैश्वर्यव्रातसंभृतम् ।तृप्तिः सर्वातिरेका चानन्दमात्रापि निर्भरा ॥७०॥असंगस्य हि सार्वज्ञ्यं निर्द्वन्द्वाय सदा मतम् ।अतः सार्वज्ञ्यभावेन युक्तास्ते नित्यतोषिणः ॥७१॥नित्यानन्दा नित्यशान्ता नित्यतृप्ता निराशयाः ।सर्वदर्शिन एवापि संसाराऽदर्शिनो हि ते ॥७२॥संसारदर्शिनश्चापि तत्तद्भावविवर्जिताः ।भावविकृतिशून्याश्च प्रत्याहारादिसिद्धिकाः ॥७३॥ग्राह्याऽग्राह्यसमर्थास्ते सृष्टिदोषविवर्जिताः ।निम्नसृष्टिकृतान् भावान् ज्ञाने सिन्वन्ति नैव ते ॥७४॥अश्वपाटल उवाच-किं तद्धामाऽक्षरं विद्वन् यस्मान्नावर्तते पुनः ।किं च क्षरं ततो भिन्नं यस्मादावर्तते पुनः ॥७५॥श्रीलोमश उवाच-अक्षरं धाम सुभगं राजन् परेश्वरस्य यत् ।अनादिश्रीकृष्णनारायणस्याऽत्यवतारिणः ॥७६॥परब्रह्मण एवैतन्नारायणेश्वरस्य तत् ।पुरुषोत्तमसंज्ञस्याऽक्षरातीतस्य शाश्वतम् ॥७७॥शिवं क्षेमं चाभिलाषोपनीतं सर्वसिद्धिमत् ।सर्वेश्वरेश्वरस्थानं मुक्तावासं परात्परम् ॥७८॥यन्न क्षरति पूर्वेण यावत्कालेन वै क्वचित् ।आयत्या च न वै ग्रस्तं चाव्ययं ब्रह्मधाम तत् ॥७९॥गोलोकाच्चापि वैकुण्ठादूर्ध्वं चानन्तमच्युतम् ।यत्र धामान्यनन्तानि चावतारकृतानि वै ॥८०॥नारायणानां विद्यन्ते नारायणीकृतानि हि ।अवतारा निवसन्ति कोटिशो यत्र धामसु ॥८१॥तानि यत्र प्रभासन्तेऽक्षरं तद्धाम सर्वगम् ।ब्रह्मलोकश्चिदाकाशोऽखण्डतेजोभुवां निधिः ॥८२॥यत्राऽक्षरं ब्रह्म चापि मूर्तिमद् राजते प्रभु ।अक्षरं तत्परं धाम तस्मात्परं हरेः प्रियम् ॥८३॥परंधामाऽस्ति वै यत्र परब्रह्मासनं सदा ।वर्तते सर्वतः श्रेष्ठं गजासनशुभासनम् ॥८४॥ब्रह्मप्रियाः समस्ता वै वर्तन्ते तत्र सेविकाः।अनादिश्रीकृष्णनारायणस्य मुक्तिदासिकाः ॥८५॥मुक्तान्यो वै हरेर्मूर्तेः शक्तयोऽनन्तसिद्धयः ।सिद्धाश्चानन्तसंख्याश्च साध्या देवा वसन्ति ते ॥८६॥अनादयश्च ते मुक्ता वसन्ति धाम्नि तत्परे ।आदिमुक्तास्त्वक्षरे वै वसन्ति धाम्नि सर्वदा ॥८७॥एतदक्षरसंज्ञं तद्धाम मायापरं यतः ।गुणातीतं महानन्दं नित्यानन्दादिसंभृतम् ॥८८॥यद्रोमलेशसौख्येन धामान्यन्यानि यानि च ।आनन्दामृतसौख्यैर्वैं संभृतानि भवन्ति हि ॥८९॥अन्याश्चेश्वरलोकाख्या भुवस्तत्सौख्यसंभृताः ।सृष्टयः सर्वविधिकास्तदानन्देन नन्दिताः ॥९०॥मायात्मिकाः सृष्टयश्च क्षरं क्षरन्त एव वै ।त्रिगुणाश्च तमो माया चाऽव्यक्तं पुरुषाऽऽहितम् ॥९१॥व्यक्तरूपं भवत्येव महत्तत्त्वमहं तथा ।विद्याविद्ये पुण्यपापे विध्यविधी तथाऽपरौ ॥९२॥धर्मो ज्ञानं विरागं चैश्वर्यं व्यक्ते प्रतिष्ठितम् ।तद्विरुद्धं तथा चापि व्यक्ते सर्वं प्रतिष्ठितम् ॥९३॥शब्दः स्पर्शः रसो रूपं गन्धो वै भूतसूक्ष्मकम् ।मनश्चालोचनार्थं च श्रोत्रत्वङ्नेत्रजिह्विकाः ॥९४॥घ्राणं चेति ततोऽन्ये च वाक्पाणिपादपायवः ।उपस्थं चेति कर्मार्थं व्योमानिलानलास्तथा ॥९५॥वारिक्ष्ये च ततश्चान्ये षाट्कौशिकतनुभृतः ।एतत्सर्वं क्षरतेऽहर्निशं तत् क्षरमुच्यते ॥९६॥सर्वेषां देहभावे वै चतुर्विंशतिभूमयः ।न्यूना वा सन्ति क्षरिकाः क्षरं तस्मादुदीरितम् ॥९७॥यत्तु मूर्तिमयं किञ्चित् सर्वं क्षरणधर्मकम् ।जले भुवि तथाकाशे वायौ तेजसि तत्परे ॥९८॥पुण्यस्तरे सिद्धिपरे सत्त्वपटलकेऽपि वा ।क्षराधारं कृत्स्नमेतत् क्षरते व्यक्तसंज्ञितम् ॥९९॥क्षरेऽक्षरं सदा चास्ते ह्यात्मा चाक्षर इत्यपि ।अक्षरे चात्मनि स्थानं यस्य सः परमेश्वरः ॥१००॥स एव हृदि सर्वासु मूर्तिष्वातिष्ठते हरिः ।भज तं श्रीकृष्णनारायणं राजन् रमान्वितम् ॥१०१॥शुक्लरक्तकृष्णसृष्टिस्वामिनं पद्मजेश्वरम् ।पारगं चान्तरस्थं च कांभरेयं प्रियं प्रभुम् ॥१०२॥श्रीकृष्णवल्लभं नाथं कुंकुमवापिकेश्वरम् ।गोपालबालकं राजन् लोमशेष्टं पतीश्वरम् ॥१०३॥अश्वपट्टसरःक्षेत्रादित्यं ब्रह्मप्रियापतिम् ।बालकृष्णं चाक्षरेशं सर्वान्तर्यामिणं प्रभुम् ॥१०४॥सृष्ट्यादौ तु भुवं चेमां भजमानं सुराष्ट्रिकाम् ।महाविष्णुसुतं श्रीमन्महालक्ष्म्येकबालकम् ॥१०५॥ततोऽनेकस्वरूपं च बह्ववतारधारिणम् ।ततो धर्मसुतं भक्तिसुतं कृष्णं हरिं च तम् ॥१०६॥नरं नारायणं चापि ब्रह्मशीलपरायणम् ।स्वामिनं त्यागिनं चापि सर्वज्ञं देशिकं तथा ॥१०७॥आचार्यं सद्गुरुं धिष्ण्याधिपं सन्मण्डलेश्वरम् ।ब्रह्मव्रतं सहाजीवं सर्वालोचकमच्युतम् ॥१०८॥भज राजन् परां मुक्तिं व्रज तन्मत्कृपाकणात् ।इत्येवं राधिके चाश्वपाटलं नृपतिमृषिः ॥१०९॥उपादिश्य विरराम स्मरन् श्रीकृष्णवल्लभम् ।राजाऽप्यानन्दसन्दोहात् संभृतान्तरहर्षितः ॥११०॥अधिकस्वादमासाद्य परब्रह्मकथामृते ।सतृष इव पिपासुः पुनः पप्रच्छ लोमशम् ॥१११॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने लोमशगीतायां नृपकृतो योगस्य बलाऽबलप्रश्रः क्षराऽक्षरलोकप्रश्नः, लोमशकृतोत्तराणि चेत्यादिनिरूपणनामापञ्चपञ्चाशदधिकद्विशततमोऽध्यायः ॥२५५॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP