संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|

त्रेतायुगसन्तानः - अध्यायः २५४

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
राधिकेऽश्वपाटलश्च पप्रच्छ देवतोषणम् ।
आत्मनो रमणं चापि निर्विघ्नं येन जायते ॥१॥
अश्वपाटल उवाच-
महर्षे सुरलोकेषु वासो वै सुरयाजिनाम् ।
ब्रह्मलोके निवासश्च जायते ब्रह्मयाजिनाम् ॥२॥
ईश्वराणां तु लोकेऽपि तत्तदीश्वरयाजिनाम् ।
धामसु चावताराणां यजनाद्वसतिर्भवेत् ॥३॥
देवानां तोषणं येन येनोपायेन जायते ।
वदाऽत्र मे कृपां कृत्वेतरेषामपि धामिनाम् ॥४॥
श्रीलोमश उवाच-
देवास्तुष्यन्ति यज्ञेन पूजयोपास्तिभिस्तथा ।
नैवेद्यबलिभिश्चापि मन्त्राराधनतद्व्रतैः ॥५॥
सत्येनाऽहिंसया शुद्ध्या शीलेन च वृषेण च ।
आत्मसमर्पणेनाऽपि मानताशरणादिभिः ॥६॥
अनुष्ठानेन कृच्छ्रेण दानेन स्मरणेन च ।
उत्सवेन कीर्तनाद्यैर्देवास्तुष्यन्ति भूपते ॥७॥
आत्मशुद्ध्या विवेकेन पुण्यकर्मभिरादरात् ।
तुष्टा देवा ददत्येवैहिकं स्वर्ग्यं सुखं निजम् ॥८॥
ईश्वराः पितरः श्राद्धैर्महोद्यापनकर्मभिः ।
पारायणैर्वेदविद्याध्ययनैः प्रतिमार्हणैः ॥९॥
मन्दिरे विधितः प्रतिष्ठापनैः पूजनादिभिः ।
महोत्सवैर्वेदधर्मैस्तुष्यन्तीश्वरकोटयः ॥१०॥
अवतारा हरेर्भावा भक्त्याराधनया तथा ।
पूजया मूर्तिसेवाद्यैस्तीर्थतद्व्रतभावनैः ॥११॥
आज्ञयाऽर्पणरीत्या च तत्कथाश्रवणदिभिः ।
अनन्यशरणागत्या निष्ठ्यैकैकतानया ॥१२॥
सततं चानुवृत्त्या च स्मृत्या ध्यानेन सेवया ।
पवित्रतया वृत्त्या च नैर्मल्ययुतयाऽनिशम् ॥१३॥
तच्छक्तितत्पार्षदादिसेवयाऽर्पणताश्रयैः ।
तत्तच्छृंगारदानाद्यैर्मानसैः पूजनादिभिः ॥१४॥
तद्भक्तानां स्त्रीनराणां सेवनैर्भोजनार्पणैः ।
अवताराः प्रतुष्यन्ति तत्तदैश्वर्यदायिनः ॥१५॥
तत्तद्धामप्रदातारो भवन्ति भक्तितोषिताः ।
परमात्माऽनादिकृष्णनारायणस्तु भूपते ॥१६॥
सर्वार्पणात्मभक्त्यैव तुष्यत्यत्र श्रियः पतिः ।
विश्वासभक्त्या न्यासेन दास्येन स्थिरसेवया ॥१७॥
आनुकूल्यानुवृत्त्या च वरणेनाऽर्हणेन च ।
कैंकर्येणाऽप्यसंगेन पूजनेन वृषेण च ॥१८॥
ध्यानेन भजनेनापि चाऽऽत्माऽर्पणेन तुष्यति ।
भावना तु महान् हेतुः स्नेहस्तस्य प्रतोषणे ॥१९॥
स्वल्पं वापि महद्वापि पूजनं भावनान्वितम् ।
तोषयत्येव गोविन्दं सर्ववृत्त्यैकनिर्मितम् ॥२०॥
येन केनापि भावेन सततस्मरणेन च ।
तन्मयवित्प्रवाहेण प्रेमरज्जुमयेन च ॥२१॥
सर्वान्तरात्मदृष्ट्या च सर्वतृप्तिक्रियादिभिः ।
तदीयानां स्वागतैश्च साधूनां सेवनादिभिः ॥२२॥
सात्त्वतानां तोषणैश्च दीनानामुपकारतः ।
अनाथानां पोषणैश्चाऽद्रोहैश्च सर्वदेहिनाम् ॥२३॥
सर्वैर्भागवतैर्धर्मैस्तत्त्वज्ञानैः स्ववेदनैः ।
तत्कथाकरणैश्चापि तद्गुणानां च वर्णनैः ॥२४॥
तन्नामरटणैश्चापि तदर्थन्यासयोजनैः ।
तन्मयाकारवृत्त्या च तत्सृष्टिधर्मरक्षणैः ॥२५॥
तत्स्नेहार्पणसर्वस्वैः परब्रह्म प्रतुष्यति ।
जडचेतनवर्गाणां यथापेक्षप्रदानकैः ॥२६॥
दानधर्मैः सत्त्वव्रतैरद्रोहाऽवञ्चनादिभिः ।
सतां धर्मैश्च भक्तानां भक्तानीनां च तोषणैः ॥२७॥
सर्वेषु संस्थितश्चास्ते हरिः श्रीकृष्णवल्लभः ।
सर्वास्त्वस्यैव कृष्णस्य प्रतिमा जडचेतनाः ॥२८॥
नरा नार्यश्चेतरच्च सर्वसृष्टिस्थदेहिनः ।
तत्र सर्वत्र तद्बुद्ध्या सत्त्वरजस्तमस्स्वपि ॥२९॥
तन्मूर्तिं सेवयाम्येव स वै तुष्यतु मत्पतिः ।
अनादिश्रीकृष्णनारायणः श्रीकम्भरासुतः ॥३०॥
गोपालनन्दनः कृष्णस्य वल्लभो प्रेष्ठ ईशिता ।
लक्ष्मीराधारमामाणिक्यारमापद्मजापतिः ॥३१॥
ब्रह्मप्रियापतिर्मुक्तपतिः श्रीपुरुषोत्तमः ।
सतां पतिश्चात्मपतिः सर्वपतिः पतिर्मम ॥३२॥
इतिकृत्वा भजेत्तं चाऽन्तर्यामिणं हि देहिषु ।
तद्दृष्ट्या तद्भावनया तदर्पणक्रियादिभिः ॥३३॥
अफलाकांक्षिणा भाव्यं तत्र सर्वत्र पूजने ।
तुष्यत्येव तथा कृष्णश्चादृतः सर्वदेहिषु ॥३४॥
तवाऽस्मीह परित्राहि रक्षेति प्रार्थयेत् सदा ।
हरेनाथ हरेकृष्ण बालकृष्ण तवास्म्यहम् ॥३५॥
यथा वर्तयसे मां च तथा वर्ते तवाऽऽज्ञया ।
तवैव सर्वमेवेदं नान्यत् त्वामन्तरा न्विह ॥३६॥
मम दृष्टिपथे सर्वं तवैव च त्वमेव च ।
इत्येवं भगवद्दृष्ट्या भावितस्य तु देहिनः ॥३७॥
कामात् क्रोधाच्च मोहाच्च स्वार्थाद् भक्त्याऽऽश्रयादपि ।
वर्तमानस्य शरणे पतितस्य तदात्मनः ॥३८॥
तूर्णं तुष्यति भगवान् दयालुर्भक्तवत्सलः ।
नाऽत्राऽन्यत् साधनं वापि द्रव्यं वा हवनादिकम् ॥३९॥
अपेक्षते तोषणार्थं यस्तस्य तस्य तुष्यति ।
अयं मे नाऽपरस्येति हरेः कृपा हि तत्प्रसूः ॥४०॥
कृपया लभ्यते कृष्णः कृपया नीयतेऽक्षरम् ।
कृपया स्वपदं चापि समर्पयति सत्पतिः ॥४१॥
हीनभावनया नैव भवन्ति वै सुरादयः ।
सन्तुष्टाः सर्वधर्मेभ्यो बहिष्कृतेन कर्मणा ॥४२॥
भक्तैः सह सुराद्या वै स्वामिनः सेवकैस्तथा ।
दासैर्नियामकाश्चापि तुष्टा रमन्त ईश्वराः ॥४३॥
अज्ञानावृतसत्त्वानां मात्सर्यादिमषीजुषाम् ।
लोभादिदोषकृष्टानां स्वर्गो मोक्षो न तोषणम् ॥४४॥
प्राज्ञो भक्तोऽक्षरं याति रमते सुखिभिः सह ।
बलं निजेष्टदेवस्य प्राप्य शान्तिं समश्नुते ॥४५॥
दैवत देहिनां कर्म कृष्णार्थं यत् कृतं हि तत् ।
देवत्वं कृष्णभजनं शुद्धिः स्वाध्याय इत्यपि ॥४६॥
व्रतं शीलं जयश्चापीन्द्रियाणां साधुना मता ।
कलहो निन्दनं चापि कापट्यं धूर्ततादिकाः ॥४७॥
असाधुत्वं वेदितव्यं मृत्युस्तैः सह वर्तते ।
परीक्ष्य मृत्युर्यत्रास्ते विहाय तानि बुद्धिमान् ॥४८॥
मृत्युं विवासयेद् दूरे हरेराश्रयणादिह ।
मृत्युभीतिरहितश्च चरेदाक्षरसाधनम् ॥४९॥
परब्रह्मालयलब्धिर्यथा स्यात्तच्चरेन्नृप ।
इत्येवं वर्तमानस्य यस्मान्नैव निवर्तते ॥५०॥
तदक्षरस्य लोकस्य प्राप्तिर्भर्वेद्धि शाश्वती ।
भक्त्या संप्राप्यते धाम वासो निरवधिर्यतः ॥५१॥
अश्वपाटल उवाच--
आत्मानात्मविवेकेन मुक्तिर्वै कीदृशी भवेत् ।
हरेरुपास्त्या मुक्तिश्च कीदृशी संभवेद् गुरो ॥५२॥
योगाभ्यासेन वा मुक्तिः कीदृशी स्याद् वदात्र मे ।
धर्ममात्राश्रयेणाऽपि मुक्तिर्वै कीदृशी मता ॥५३॥
गुरोराश्रयमात्रेण भवेद्वा न भवेच्च सा ।
निःसंशयो मोक्षलाभः केनेति वद मे गुरो ॥५४॥
श्रीलोमश उवाच-
देहो वै पञ्चभूतैश्चेन्द्रियैरान्तरिकैरपि ।
करणैः प्राणैस्त्रिगुणैस्तन्मात्रैः संहतो मतः ॥५५॥
आत्मा तेभ्यः पृथङ् नित्यश्चेतनश्चाऽविबन्धनः ।
नित्यमुक्तो नित्यशुद्धो नित्यबुद्धो वसन् सदा ॥५६॥
जडचेतनविज्ञानादृज्ञानक्षयकारणात् ।
तत्त्वाभ्यासान्नास्मि न मे नाऽहं चेति प्रकाशनात् ॥५७॥
कर्मक्षयेन देहाद्वै मुक्तो मुक्तो हि निर्गुणः ।
सच्चिदानन्दरूपो वै जन्यप्रकाशवर्जितः ॥५८॥
स्वरूपकल्पस्थितिको मुक्त्यात्मा चाभिपद्यते ।
न वै सुखी न चाकारः सदा जाड्याश्रयो भवेत्। ॥५९॥
जाड्यस्य हारिणं कृष्णं परमेशं भजेद् यदि ।
ब्रह्मधाम्नि परमेशस्वरूपोऽभिनिष्पद्यते ॥६०॥
यथा हरिस्तथा भक्तः सालोक्यं सार्ष्टिमन्तिकम् ।
सारूप्यं समवाप्नोति सर्वामोदान् समश्नुते ॥६१॥
ब्रह्मह्रदे कृतस्नानो ब्राह्मीं तनुं ह्यवाप्य च ।
ब्राह्ममुक्तो दिव्यगुणः सम्पद्यते हरीच्छया ॥६२॥
न तत्राऽयं हि संघातो देहः प्राकृतकारणः ।
आत्मैव तत्त्वमेकं च समूर्तं स्वप्रभावतः ॥६३॥
उपासितहरेर्योगात् समर्थो मूर्तिरूपकः ।
मुक्तो भवति मुक्तौ वै माया तत्र न वर्तते ॥६४॥
सर्वकामरसस्वादः सर्वगन्धसुखाश्रयः ।
सर्वैश्वर्ययुतो नित्यानन्दामोदस्य शेवधिः ॥६५॥
अव्ययानन्दमग्नश्च ब्रह्मणा सह मोदते ।
सर्वान् कामानात्मसंस्थान् भुंक्ते ब्रह्मस्वरूपवान् ॥६६॥
परब्रह्माप्तयोगश्च सर्वानन्दभृतो भवेत् ।
न न्यूनं श्रीहरेश्चास्ति भक्तमुक्तस्य तत्र ह ॥६७॥
एवं चोपास्तियोगेन मुक्तिं श्रेष्ठा भवेत्परा ।
योगिनो योगयत्नस्था यदि कृष्णमुपासते ॥६८॥
तदा चोक्तां परां मुक्तिं विन्दति नात्र संशयः ।
यदि चान्यानीश्वरादीन् वैराजादीनुपासते ॥६९॥
तदेश्वरकृतान् लोकानाप्नुवन्तीश्वरा यथा ।
प्राकृतैश्वर्यमुक्तिः सा महालये क्षयावहा ॥७०॥
सिद्धीः प्राप्य स्थितिं लब्ध्वा चान्ते निजाऽवशेषवत् ।
लयं वाऽन्येश्वरभावं देवत्वं वाऽभियन्ति च ॥७१॥
सहस्रधाभवनादिसमैश्वर्याणि भुंजते ।
सा निकृष्टा पातदा च मुक्तिर्निम्नस्थलात्परा ॥७२॥
ध्यानयोगाच्च वा मूर्तौ हरेर्लीनत्वरूपिणी ।
ऐकात्म्यमुक्तिरेतेषामभिन्नादिसमाधिभिः ॥७३॥
स्वामिसेवकभावादिवर्जिता सा प्रजायते ।
परमेशे सदा तिरोभावरूपा न वै पृथक् ॥७४॥
राजन् ध्यानवशात्ते च तल्लीनास्तन्मयाः खलु ।
परमेशे परमेशाः सम्पद्यन्तेऽभवाः पुनः ॥७५॥
एषा श्रेष्ठतरा मुक्तिर्या स्थितिः पारमेश्वरी ।
दासरूपेण सेवाऽत्र शिष्यते न कथंचन ॥७६॥
धर्ममात्रेण या मुक्तिः सा तु भोगाऽवियोगिनी ।
स्वर्गसत्यादिलोकेषु सदेहो वास एव ह ॥७७॥
धर्मं भुक्त्वा पुनः पृथ्व्यां जन्मना च वृषार्जनम् ।
पुनः स्वर्गं पुनः पृथ्वी पुनरेव प्रचक्रकम् ॥७८॥
एवं जातेऽपि धर्मः स यदि भागवतात्मकः ।
ब्रह्मसम्बन्धरूपो वा नैर्गुण्यनामधेयकः ॥७९॥
सेवात्मको हरेः स्याच्चेदध्वरे दक्षिणात्मकः ।
दानात्मको हरेस्तुष्ट्यै तदा मुक्तिर्हि शाश्वती ॥८०॥
धर्मो वै स्वार्थमात्रेण कृतो नैव हि मुक्तये ।
परार्थबुद्ध्याऽनुष्ठितः कल्याणाय स जायते ॥८१॥
परमेशाऽर्पणबुद्ध्या कृतश्चेन्मोक्षदोऽक्षरे ।
एवं राजन् क्रियाः सर्वाः शुभा वाऽप्यशुभास्तथा ॥८२॥
असंगभावजाः कृष्णार्पणभावेन निर्वृताः ।
कृष्णस्मरणसम्पाद्याः सर्वा मोक्षप्रदा हि ताः ॥८३॥
अपि क्षेत्राधिपः क्षेत्रं संस्कृत्योत्खात्य कर्षति ।
वपते सस्यकणिशान् लुनात्यपि च खादति ॥८४॥
सर्व ब्रह्मार्पणं कृत्वा करोति कुरुराजवत् ।
यद्वा जनकवच्चापि कूर्मिब्रह्मर्षिवच्च वा ॥८५॥
तत्सर्वं जायते निर्दोषकं कल्मषवर्जितम्।
स्वर्णकारः सत्यवृत्त्या सम्पादयति भूषणम् ॥८६॥
कृष्णार्पणं कृतं चेत्तत् शैल्प्यं मोक्षप्रदं भवेत्॥
हर्यर्थं यत्कृतं सर्वं निर्गुणं मोक्षदं मतम् ॥८७॥
हरिं विना कृतं सर्वं निष्फलं दुःखदं च वा ।
अभ्यस्यन्ति द्विजा वेदान् हर्यनुस्मृतिवर्जितान् ॥८८॥
चेत्तदाऽभ्यसनं शुनो भक्षणं चेव जायते ।
विना मणेर्हि माहात्म्यं गोपालो महिषीगले ॥८९॥
बध्नाति कंकरं मत्वा मूल्यं तस्य फलं न च ।
अपि शालग्रामशिलां मत्वा विष्णुं सनातनम् ॥९०॥
रक्षन्ति वैष्णवाः सन्तः सेवयन्ति दिवानिशम् ।
तेषां विष्णुर्हि तद्रूपः सेवां मत्वा विभाविताम् ॥९१॥
चतुर्भुजः प्राविर्भूय् दृश्यते चाक्षिगोचरः ।
स एव भावभिन्नश्चेत् तिरोभवति द्राक् ततः ॥९२॥
स एवाऽऽराधनास्नेहपाशितश्चेत् परेश्वरः ।
परब्रह्माऽवतार्येव कृष्णनारायणः प्रभुः ॥९३॥
अवतारावतार्येवाऽनाद्यनन्तस्तथाऽऽन्तरः ।
प्रकाशते हृदि चाग्रे ततो नयति चाक्षरम् ॥९४॥
तस्माद् राजन् क्रियायोगाः कृता देहेन्द्रियादिभिः ।
स्वार्थार्थं बन्धका ह्येते हर्यर्थं मोक्षदा हि ते ॥९५॥
सन्तः कृष्णप्रसंगेन दिव्याः कृष्णहृदात्मकाः ।
कृष्णैश्वर्यभृता मोक्षप्रदा भवन्ति सौख्यदाः ॥९६॥
दिव्यलोकप्रदा दिव्यानन्ददाश्चाक्षरप्रदाः ।
भगवत्प्रतिमायोगप्रदाश्च ज्ञानदायिनः ॥९७॥
विघ्नघ्नाः प्राकृतावर्तनाशका भ्रमवारकाः ।
दुःखदोषनिवाराश्च ब्रह्मलोकस्य दायकाः ॥९८॥
तेषां सेवा प्रकर्तव्याः सर्वाः संशयवर्जिताः ।
यथा ते भगवन्मूर्तिविशेषा इतिमत्य वै ॥९९॥
यथा पत्न्यां च पुत्रे च पित्रोश्च बान्धवे निजे ।
प्रीतिश्चास्ते स्वार्थपराऽहममत्वप्रयोजिता ॥१००॥
तथा प्रीतिः सदा कार्या सद्गुरौ मोक्षदा हि सा ।
धर्मो वा धर्मयज्ञो वा पुण्यं दानं शुभा क्रिया ॥१०१॥
अनादिश्रीकृष्णनारायणे सर्वं समर्पयेत् ।
तदा मुक्तिर्महामुक्तिर्ब्रह्मसायुज्यरूपिणी ॥१०२॥
ब्रह्मसार्ष्टिस्वरूपा च ब्रह्मलोकप्रदायिनी ।
परब्रह्मसममूर्तिकारिणी चोत्तमात्तमा ॥१०३॥
प्राप्यते मानवेनैव देहेन प्रभविष्णुना ।
प्रभुणा सह संयोगः प्राप्तव्यं नावशिष्यते ॥१०४॥
गोप्यः प्राप्ताः परं योगं तथा ब्रह्मप्रियाः खलु ।
मुक्ताः प्राप्ताः परं योगं नाऽन्ययोगस्य वाञ्छया ॥१०५॥
इत्येवं त्वं भूपतेऽत्र प्रत्यक्षं योगमावह ।
वपुः कृत्वा परं दिव्यं शाश्वतं योगमावह ॥१०६॥
राधिके! लोमशस्त्वेवं राज्ञे प्रदाय चान्तरम् ।
विररामोपदेशं च मुमुदे नृपतिर्बहु ॥१०७॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने लोमशगीतायां नृपकृतो देवादीनां तोषणहेतुप्रश्नः, विवेकोपासनायोगधर्मगुरुभिः कीदृशी मुक्तिरितिप्रश्नः, लोमशोक्तोत्तराणि चेत्यादिनिरूपणनामा चतुःपञ्चाशदधिकद्विशततमोऽध्यायः ॥२५४॥

N/A

References : N/A
Last Updated : May 02, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP