संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः ११७ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः ११७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ११७ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके! चान्यद् वाराहं तीर्थमित्यपि ।कुंकुमाया अश्वपट्टसरस्येव पुराऽभवत् ॥१॥अक्षराधिपतिः श्रीमान् सर्वेशः पुरुषोत्तमः ।परब्रह्म स्वयं सृष्टिं यदाऽऽरेभे स्वमूर्तितः ॥२॥तत्त्वानि चिन्तयतोऽस्य मरवादग्निरजायत ।दिव्यो दिव्याक्षरमुक्तो दिव्यमुक्तस्वरूपधृक् ॥३॥द्विभुजः श्वेतवर्णश्च शीतलस्पर्शवाँस्तदा ।मूर्तितेजोमयः सोऽयमभवद् रूपवान् शुभः ॥४॥भगवानैक्षत वह्निं कर्तुं तत्त्वात्मकं तदा ।वह्निश्चेङ्गितमाज्ञाय तस्थौ पुरोहरेस्तदा ॥५॥हरिश्चाज्ञां चकाराऽस्य याहि त्वं चेश्वरादिषु ।मया वै सृज्यमानेषु तेजस्तत्त्वं सदा भव ॥६॥इत्याशां स समादाय महामायां विवेश ह ।गर्भरूपस्तदा माया क्षोभं त्ववाप वह्निवत् ॥७॥यथा यथा तु सा माया गुणत्रयात्मिका तदा ।सूक्ष्मा साम्यस्वरूपाऽपि क्षोभं त्ववाप वै मुहुः ॥८॥तथा तथा च मायाया मौष्ण्यं कार्यं व्यवर्तत ।तामसो वै स भागस्तु व्यवर्धत हरीच्छया ॥९॥मायया तत्त्वसंघातो वैराजः समपद्यत ।तत्रोष्णभावमासाद्योष्मात्मको वै महानलः ॥१०॥मुखतो बहिरायातश्चेश्वरो वह्निनामकः ।वं वैराजं समाश्रित्य हं हनुं मुखमार्गतः ॥११॥अभितो निर्गतो देवो वह्निरित्येव सोऽभवत् ।दिव्योऽयं शुभ्रवदनः शुभ्रवर्णः समुज्ज्वलः ॥१२॥ब्रह्मभावं तु विसृज्येश्वरभावमुपागतः ।वैराजो निजपुत्रं तं वह्निं पुरुषरूपिणम् ॥१३॥प्राह पुत्रान् सृष्टियोग्यान् सृज पुत्र समान् त्वया ।ओमित्याज्ञां शिरस्येव धृत्वा वह्निर्व्यतर्कयत् ॥१४॥पुत्रा मे सृष्टियोग्या वै भवन्तु मत्स्वरूपिणः ।संकल्पमात्रजाता वै पावनाः पवमानकः ॥१५॥पविः त्रयः समुत्पन्ना पविर्वज्रं तु वैद्युतम् ।इन्द्राय चार्पितः पुत्रो ब्रह्मणा परमेष्ठिना ॥१६॥पावकाख्यस्तु लोकेभ्यश्चार्पितः पाककर्मणे ।पवमानो महाज्वालायुतश्चातीव चञ्चलः ॥१७॥वेगवान् हानिदश्चेति दाहकोऽपि महोल्बणः ।इति ज्ञात्वा जनास्ते तु नाऽगृह्णन्त यदा तदा ॥१८॥क्रुद्धोऽरण्यं जगामाऽयं भोजनार्थं महावने ।बभ्राम स महारण्यप्रभृतिषु महाबलः ॥१९॥एवं सौराष्ट्रविषये पवमानः स्वयं भ्रमन् ।अन्वेषयन् भोजनं चाऽलभमानोऽतिदुःखितः ॥२०॥व्याघ्रारण्यं ददाहाऽसौ क्षुधयाऽतीव बाधितः ।ज्वालामालासमाव्याप्तं वनं जातं भयंकरम् ॥२१॥दह्यमानं दुष्प्रवेशं दुर्निर्गम्यं समन्ततः ।हरिणा पशवः पक्ष्यादयो मृगाः सरीसृपाः ॥२२॥दह्यन्ते वह्निना तत्र निबिडे वृक्षसंकुले ।तृणवल्लीघटाव्याप्तेऽदृश्यभूतलभूमिके ॥२३॥धावन्ति हरिणाः सर्वे धूमान्धाः पक्षिणस्तथा ।अशक्ताऽपत्यबालाद्या वन्यानां तिर्यगात्मनाम् ॥२४॥सहस्रशः प्राणधारा अशक्ता वह्निसंकुलाः ।दग्धास्तत्र वह्निपुत्रपवमानेन वै मृताः ॥२५॥वृक्षा दग्धाः सजीवाश्च वल्लिका भस्मतां गताः ।तृणानां च लतानां च स्तम्बानां गणना तु का ॥२६॥शिखराणि विलोक्यन्ते वृक्षाणां वह्निशैलवत् ।उच्छ्रया भूप्रदेशाश्च वने वह्निमयास्तदा ॥२७॥अल्पशृंगास्तथा शैला वुक्षारण्याम्बरास्तदा ।दह्यन्ति वह्निना ज्वालामुखाः शैला यथाऽभवन् ॥२८॥एवं क्रौर्ये संप्रवृत्ते वनवासिविनाशने ।व्यापके चानले जाते पवमानेऽनिलान्विते ॥२९॥नदीतीरेऽपि वृक्षाणां दग्धभावे ह्युपस्थिते ।आश्रमः पिच्छलर्षेश्च दाहवेगेन धर्षितः ॥३०॥पिच्छलर्षिर्बहुवर्षपुराणस्तपसि स्थितः ।ध्यायन्नारायणं देवं श्वेतवाराहरूपिणम् ॥३१॥तेपे तपो महाघोरं चारण्ये वनवासिषु ।यत्र कामदुघा गावो प्रवसन्ति तदाश्रमे ॥३२॥गोपालास्तत्र तिष्ठन्ति पार्श्वे वृक्षाश्रयेऽपि च ।ते ता वह्निप्रवेगेन दुद्रुवुश्च नदीजले ॥३२॥निपेतुर्जीवरक्षार्थे गोपालाः पेतुरप्सु च ।अथायं तु महर्षिर्वै पिच्छलाख्यो द्विजेश्वरः ॥३४॥विलोक्य पवमानस्य चेष्टितं क्रूरतामयम् ।दयापरः स्वयं भूत्वा पवमानमुवाच ह ॥३५॥रे रे वह्ने महाक्रूर महाहिंसकतोऽधिक ।क्षुधया पीडितश्चैतद्वनं ममाश्रमं तथा ॥३६॥गाः पशून् प्राणिनः पक्षिगणान् सरीसृपाँस्तथा ।विनाऽपराधं दहसि दीनं चापि न मुञ्चसि ॥३७॥बुभुक्षितः पापबुद्धिर्भवत्येवेति तत्तथा ।कथं विहाय मर्यादां सर्वं नाशयसे बलात् ॥३८॥पश्याऽपत्यानि पक्ष्यादिजन्तूनामपि निष्पदाः ।अपक्षाश्चापि दह्यन्ति पश्यतस्ते घृणाऽपि न ॥३९॥कथं त्वं क्रूरतां प्राप्तः शान्तिं नैवाऽधिगच्छसि ।पर्वतो भूच्छ्रयाश्चापि दग्धास्तव प्रभावतः ॥४०॥भोज्यं स्वं वै लब्धवता दग्धं सर्वाऽन्यभोजनम् ।क्षयं नीतं ममारण्यं क्षीणाः सर्वे हि जीविनः ॥४१॥तस्मात्त्वां क्षयकर्तारं शपाम्यत्र न संशयः ।इत्येव वह्निना क्लिष्टः पिच्छलर्षिस्तु राधिके ॥४२॥शशाप पवमान । त्वं क्षयमाप्नुहि वै द्रुतम् ।इत्युक्त्वा स्वकरस्थं च जलं मुमोच भूतले ॥४३॥यावत्तावच्चानलस्य ज्वाला मान्द्यमुपागताः ।दाहशक्तिर्विनष्टा च पाकशक्तिर्लयं गता ॥४४॥रसादनस्य सामर्थ्यं लीनं क्षणान्तरे तथा ।श्वैत्यं वह्नेर्विनष्टं च तथौष्ण्यं विलयं गतम् ॥४५॥नैसर्गवर्धनं चापि ह्रासं यातं तदा स्वयम् ।धूम्रभावः प्रवृद्धश्चाऽङ्गारा निस्तेजसाऽसिताः ॥४६॥अप्रकाशाः कृष्णवर्णाः काष्ठकूर्चास्तदाऽभवन् ।विना प्रयत्नं वह्निर्वै शमितः शापकारणात् ॥४७॥भक्षितास्तु रसाः सर्वे बीजानि पशुपक्षिणः ।पवमानस्य जठरादपक्वा निर्ययुर्बहिः ॥४८॥मन्दोदरो मन्दतेजा मन्दश्वासो बभूव सः ।मरणोन्मुखतां प्राप्तः पादशक्तिविहीनकः ॥४९॥ज्वालाशून्यश्चेन्द्रियाणां वृत्तिशून्यो बभूव च ।शुशोच बहुधा कर्मफलं प्राप्तो रुरोद च ॥५०॥किं कर्तव्यं क्व गन्तव्यं कथं शापो महर्षिकृत् ।निवर्तेत कथं सोऽपि प्रसन्नः स्याद् व्यचिन्तयत् ॥५१॥अथायं पवमानश्च निर्मानस्तमृषिं प्रति ।ययौ हृदा दण्डवच्च पतित्वा मनसा गिरा ॥९२॥तुष्टाव ब्रह्मरूपं तं दुःखमोक्षस्य कांक्षया ।हे साधो त्वं दयालुर्वै निर्दयोऽहं तु हिंस्रकः ॥५५॥सत्यव्रतो भवान् साधो न सत्यं विद्यते मयि ।निष्पापस्त्वं सदा त्वास्ते पापिष्ठोऽहं तु दुःखदः ॥५४॥असन्तुष्टोऽस्मि वै लुब्धस्त्वं सन्तोषी न लुब्धकः ।परिग्रहपरश्चाऽहं त्व विरागोऽपरिग्रहः ॥५९॥तापनोऽहं तु जीवानां त्वं तपस्वी न तापनः ।ब्रह्मभूतः सदा त्वं तु भ्रमात्माऽहं तु मायिकः ॥५६॥क्षमाशून्यो भवाम्येव त्वयि क्षमा सदाऽस्ति च ।सिद्धीनां मयि लेशो न सिद्ध्याश्रयो भवानिह ॥५७॥पापिनां पापनाशार्थं नाऽहं शक्तो भवानिव ।तीर्थरूपो भवानास्ते नाऽहं तीर्थं तरामि न ॥५८॥अहमाविद्यको जीवो भवान् विद्याश्रयः सदा ।ब्रह्मतनुर्भवानस्ति मायातनुर्भवाम्यहम् ॥५९॥दिव्यमोक्षप्रदस्त्वं च जन्मदोऽहं विनाशकः ।शान्तिप्रदो भवानास्तेऽहमुद्वेगप्रदोऽस्मि तु ॥६०॥नित्यं ब्रह्म परं सौम्यं चिन्तयानो भवानिह ।कर्तुमुद्धारमेवाऽऽस्ते समर्थो दीनदेहिनाम् ॥६१॥अज्ञानामपराधानां क्षमां कुरु महामते ।मया प्रज्वालितं यत्तज्जीवयितुं प्रभुर्भवान् ॥६२॥तपसा द्योतमानस्त्वं समुज्जीवय जङ्गलम् ।पशून् प्राणिगणाँश्चापि पक्षिणश्च वनस्पतीन् ॥६३॥जीवान् सरीसृपादीँश्च मामुद्धर तपोधन ।शापपात्रं पुनः स्याच्च साधूनां तोषपात्रकम् ॥६४॥शिक्षा प्राप्ता मया साधो मरणं मा विधेहि मे ।मृत्योः सान्निध्यमाप्तोऽस्मि मामुज्जीवय चार्तिहन् ॥६५॥साधूनां कृष्णभक्तानां साधुत्वं त्वेतदेव यत् ।क्षान्त्वाऽऽपराधान् जीवस्य तस्मै गुणान् ददाति च ॥६६॥वृश्चिकः कण्टकं युंक्ते साधुस्तं न विमुञ्चति ।मूषकः कृन्तति पक्षं हंसस्तं न विमुञ्चति ॥६७॥रक्षकाः कुर्वन्ति रक्षां दुष्टानामपि देहिनाम् ।मामुज्जीवय विप्रेन्द्र क्षमासारा हि साधवः ॥६८॥नैवं पुनः करिष्येऽहं चापराद्धं कदाचन ।सत्यं सत्यं पुनः सत्यं पतितस्तव पादयोः ॥६९॥इत्येवं स हृदा राधे! पवमानो मुहुर्मुहुः ।ऋषिं तं पिच्छलं तत्र तुष्टाव पतितो वने ॥७०॥ध्यानवृत्त्या महर्षिस्तज्ज्ञात्वा तत्स्तवनं ततः ।प्रसन्नः करुणावार्धिर्द्रागेवोत्थाय चासनात् ॥७१॥पवमानं स्तुवन्तं स्वं ययौ शीघ्रं शुभाश्रयः ।पवमान! शुभं तेऽस्तु मा शोकं कुरु वह्निज! ॥७१॥भवान् देवो वह्निपुत्रो यदि नैवं करोति चेत् ।जीवयामि भवन्तं वै मा प्रदह्यतु देहिनः ॥७३॥इत्युक्त्वा जलमादाय करे सम्मन्त्र्य पात्रतः ।गृहीत्वा पवमानस्योपरि चिक्षेप यावता ॥७४॥पवमानः सशक्तोऽभूदुत्तस्थौ च ननाम च ।तेजोयुक्तो दण्डवच्च चकार तम् ऋषिं तदा ॥७५॥पवमानश्च तं प्राह शापमोक्षं कुरु प्रभो ।ऋषिः प्राह मया शक्तिर्दत्ता गन्तुं विहायसा ॥७६॥याहि श्रीशैलसंज्ञं च पर्वतं यत्र सूकरः ।आस्ते मोक्षप्रदः श्रीमान् धरणिप्राणरक्षकः ॥७७॥सर्वरक्षाकरः क्रोडः स ते रक्षां करिष्यति ।इत्युक्तः पवमानः स ययौ श्रीशैलमादरात् ॥७८॥वल्मीकसन्निधौ तिष्ठन् स्मरत्येव च तं तदा ।राधिके भगवाँस्तस्माद् वल्मीकादुत्थितोऽभवत् ॥७९॥श्वेतवर्णः सुन्दरश्च पवमानस्तमानमत् ।सुखी भवेति भगवानाह वह्निसुतं तदा ॥८०॥पप्रच्छ कारणं तत्रागमनस्य ततोऽनलः ।अखिलं कथयामास कारणं शापमित्यपि ॥८१॥समुद्धारं मम विष्णो कुर्वित्याह विभावसुः ।तेजः शक्तिं बलं रूपं दिव्यतां व्यापितां तथा ॥८२॥गुणान् पुरा भवान् मेऽत्र ददातु परमेश्वर ।इत्युक्तः श्रीवराहश्च प्राह तं पवमानकम् ॥८३॥आयाहि पवमान त्वं मया सह सुराष्ट्रकम् ।कुंकुमवापिकाक्षेत्रं चाऽश्वपट्टसरोवरम् ॥८४॥सर्वावतारधर्ता यः साक्षात् स्वामी पुमुत्तमः ।अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ॥८५॥विराजतेऽक्षरक्षेत्रे स ते सर्वं प्रदास्यति ।मोक्षं चैश्वरभावं च सर्वं स ते प्रदास्यति ॥८६॥इत्युक्त्वा श्रीवराहस्तं निनायाऽक्षरभूमिकाम् ।सहसा व्योममार्गेण तथा चाऽश्वसरोवरे ॥८७॥स्नपयामास तं शीघ्रं दर्शनार्थं हरेः पुरः ।तं नीत्वा प्रययौ श्रीमान् वाराहो भगवान्प्रभुः ॥८८॥चकार दण्डवत् भूमौ पवमानस्तमादरात् ।अनादिश्रीकृष्णनारायणश्चोत्थाप्य वह्निजम् ॥८६॥निषाद्य त्वासने क्रोडं समाश्लिक्षत्तु वक्षसि ।सिंहासनं ददावस्मै वराहाय निजात्मने ॥९०॥तस्माच्च कारणं ज्ञात्वा मानुष्यं नाटयन् हरिः ।ऋषेः शापनिवृत्त्यर्थं प्रसादं प्रददौ प्रभुः ॥९१॥पवमानः प्रसादं तं बुभुजे चाऽमृतं फलम् ।जलं पपौ च यावद्वै तावत् सर्वगुणान्वितः ॥९२॥समपद्यत विश्वात्मा यथापूर्वगुणाश्रयः ।सर्वशापविनिर्मुक्तोऽभवत् सुख्यतिहर्षितः ॥९३॥वराहं पूजयामास तथा कृष्णनरायणाम् ।पवमानो हरेर्योगात्तीर्थरूपोऽभवत्ततः ॥९४॥तीर्थे वासं चकाराऽसौ वराहोऽपि सरोवरे ।अनादिश्रीकृष्णनारायणस्यैवाऽऽज्ञया प्रभोः ॥९५॥एवं वाराहतीर्थं तत् समभूत् तत्र नित्यदा ।वराहो भगवानास्ते पवमानयुतः प्रभुः ॥९६॥तत्र स्नानं करिष्यन्ति ये जनास्ते विरोगिणः ।भविष्यन्ति हरेर्योगात् सेचनात् तीर्थवारिणाम् ॥९७॥मुक्तिं भुक्तिं गमिष्यन्ति यास्यन्ति दिव्यतां तथा ।पठनाद् वाचनादस्याऽऽरोग्यं स्यात्सर्वदा प्रियम् ॥९८॥राधिके भगवानेवं त्वाह वाराहरूपिणम् ।फाल्गुने पूर्णिमायां वै प्रातर्वै पवमानकम् ॥९९॥ददौ वासं यज्ञभूमौ तथाऽरण्ये महाजले ।वृष्ट्याश्चापि जले वासं पवमानाय वै ददौ ॥१००॥भूगर्भे च तथाऽऽवासं ददौ कृष्णनरायणः ।प्रददौ निर्भयत्वं च् वैष्णवत्वं ददौ तथा ॥१०१॥कण्ठीं च तौलसीं चापि तिलकं चन्द्रकं तथा ।'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥१०२॥एवं मन्त्रं ददौ चाथ प्रणम्य पवमानकः ।प्रपूज्य च हरिं तीर्थे वासार्थं प्रययौ सरः ॥१०३॥वराहोऽपि प्रदत्तं सत्कारं जग्राह सर्वथा ।वाराहे तन्महत्तीर्थे वासं चकार राधिके ॥१०४॥इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने पिच्छलर्षिद्त्तशापनिवृत्तये वराहं प्रभुं गृहीत्वाऽश्वपट्टसरोवरं प्रति पवमानस्य गमनं, हरेर्योगाच्छापमुक्तिः,वराहतीर्थं पवमानतीर्थं चेत्यादिनिरूपणनामासप्तदशाधिकशततमोऽध्यायः ॥११७॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP