संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २७६ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २७६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २७६ Translation - भाषांतर श्रीकृष्ण उवाच-राधिके नारदश्चैवं प्राह श्रीपतये तदा ।बालकृष्णाय वै सर्वं वृत्तं शिवगृहे तु यत् ॥१॥नारद उवाच-हरे मया विश्रमितं तावच्छ्रीशिवसर्जकः ।विश्वशूरो दिव्यदेहस्त्र्यक्षो गृहं समागतः ॥२॥धन्योऽहं कृतकृत्योऽहं वैष्णवो मद्गृहेऽद्य वै ।तत्रापि भ्रातृजो मेऽद्य वत्सलः समुपागतः ॥३॥अहो नारद पुत्र त्वं कुतः खलु समागतः ।शुभं च कुशलं चास्ते तव भ्रातुश्च मे तथा ॥४॥विष्णोश्च कुशलं चास्ते कच्चित् कुटुम्बिनः सुखाः ।इत्युक्त्वा सहसा मां स शिवो वै वक्षसाऽमिलत् ॥५॥मया वै सत्यलोकस्य पितुर्मे ब्रह्मणस्तथा ।मातुश्चापि च सावित्र्याः कुशलं परिकीर्तितम् ॥६॥ततो वै सनकादीनां रुद्रस्यापि प्रकीर्तितम् ।दक्षादीनां ततश्चापि कुशलं परिकीर्तितम् ॥७॥ततो विष्णोर्महालक्ष्म्या उदन्तं सर्वमेव तु ।सुखं च कुशलं चापि वैकुण्ठस्थं प्रकीर्तितम् ॥८॥ततो त्रैकुण्ठके जातं प्राग्वृत्तं स्मारितं पुनः ।शिवताण्डवकाले वै लक्ष्म्याः शापादिकं तु यत् ॥९॥शिवस्य भूतले जन्म शिवेश्वरो भवानिति ।लक्ष्म्याश्च त्यजनं चापि नारायणेन यत् कृतम् ॥१०॥भक्तार्थं त्वाययौ नारायणो वै भूतले ह्यनु ।अनादिश्रीबालकृष्णस्तन्मिषेण परेश्वरः ॥११॥परब्रह्म समायातश्चाश्वपट्टसरोवरे ।श्रावितं वै मया तत्तु लक्ष्मीश्चापि समागता ॥१२॥शिवस्वामिगृहे पुत्री जातेयं श्राविताऽपि सा ।शिवेयं पार्वती देवी तत्सर्वं श्रावितं मया ॥१३॥स्मारं स्मारं शिवेशश्चाऽश्रूण्यपि ह्यवासृजत् ।परिष्वज्य सः मां गाढं पुत्र पुत्रेत्यवाऽमिलत् ॥१४॥अहं वै शंकरं नत्वाऽऽश्रावयं मम हृद्गतम् ।कन्यामेतां भगवाँश्च स्मस्त्येवाऽगदं च तम् ॥१५॥प्रदानकालस्त्वस्या वै समुपस्थित एव ह ।योग्यं यथार्थं कर्तव्यं तेन सम्पत्स्यते सुखम् ॥१६॥कृष्णस्य तु भवान् शंभो पूजां करोति नित्यदा ।दृष्ट एव मुहुर्दिव्यः स एव सुन्दरो वरः ॥१७॥परब्रह्म स्वयं ते तु निश्चितोऽस्ति जनार्दनः ।मया दृष्टो भवताऽपि दृष्टो मानवरूपवान् ॥१८॥क्षेत्रपालस्वरूपेण द्रष्टव्यो नावशिष्यते ।तथापि चेत् समायाहि यदि वाञ्च्छा प्रविद्यते ॥१९॥इत्युक्तश्च मया शंभुः सस्मारैव बृहस्पतिम् ।स च तूर्णं समायातो मधुपर्कादिकं हरः ॥२०॥प्रददौ गुरवे सर्वं न्यवेदयन्मयोदितम् ।बृहस्पतिः शुभं प्राह सर्वं यथोत्तमं तथा ॥२१॥ततो निश्चित्य वै शंभुः कन्यादानं तु मौखिकम् ।ममाऽग्रे त्ववदच्चापि गुरोरग्रे पुनः पुनः ॥२२॥मया शुभं मुहूर्तं च दृष्ट्वा भूषाम्बराणि च ।श्रीफलं तिलकं चापि कन्यायै त्वर्पितानि वै ॥२३॥त्वत्तो जाता प्रसन्ना सा परिधायाऽम्बराणि च ।सद्भूषा विविधाश्चापि तदा साऽपि गुरूदिता ॥२४॥हर्षं गता वरार्थां स्वां मत्वा सखीषु शोभना ।हरो बृहस्पतिं प्राह कदा महोत्सवो भवेत् ॥२५॥बृहस्पतिश्चतुर्थ्यां वै मार्गे शुक्लेऽवदत्तु तम् ।श्रुत्वा मोदं गताः सर्वे बृहस्पतिवचःस्थिताः ॥२६॥निर्णीय च मया साकं ततो वाचस्पतिर्द्रुतम् ।योगपत्रं समादाय कन्यामनो विलोक्य च ॥२७॥पार्वत्याश्च मनो वीक्ष्य पूजयित्वा गणाधिपम् ।कुंकुमार्द्रं द्रवं कृत्वा दृष्ट्वा मुहूर्तकं शुभम् ॥२८॥अलिखत्पत्रमेवाऽपि नारदस्यैव साक्षिकम् ।वादित्राणि जनास्तत्राऽवादयन् वै हराज्ञया ॥२९॥मंगलानि तथा नार्यश्चागायन् देवतास्त्रियः ।गूडधानादिकं श्रीमान् नारदश्च बृहस्पतिः ॥३०॥शंकराद्यास्तथा सर्वे समाश्नन् मंगलावहम् ।ततोऽयं सुरगुरुराट् शिवेन योगपत्रयुक् ॥३१॥संप्रेषितो मया सार्धं कुंकुमवापिकाऽऽलयम् ।सोऽयं सुरगुरुर्देवः समायातोऽस्ति निश्चितः ॥३२॥वाग्दत्तां तां निजीकृत्वा कृष्णाऽऽनय प्रियामिह ।प्रतीक्षमाणा ते मार्गं वर्तते विह्वलेव सा ॥३३॥कदा कृष्णः समागच्छेत् कदा मां च निजां क्रियात् ।त्यक्ता पूर्वं कदा त्वेनं प्राप्नुयां प्राणजीवनम् ॥३४॥कदा सा कम्भरालक्ष्मीः प्रेम्णा मां समलोकयेत् ।द्विवारं या समागत्य मां विलोक्य गता गता ॥३५॥विमानेनाऽध्वरेभ्यश्च यदाऽऽयातो हरिस्तदा ।पुनः पूज्या न साऽऽयाति कथं मां न स्मरत्यपि ॥३६॥पूर्वं दृष्टा तया चाऽहं बालिका तु तदाऽभवम् ।मम पुत्रस्य योग्येयं कृत्वाऽङ्के मां न्यषादयत् ॥३७॥मन्ये सा वर्तते देवी सदा निश्चितनिर्णया ।तृप्ता प्रसन्ना सन्तुष्टा या मां नैव निषेधति ॥३८॥नारद त्वं समायातस्तदा सा कंभरा रमा ।किं मां मन्मातरं वा चाऽकथयद् वद तत्त्वतः ॥३९॥इत्येवं सा मुहुर्मां सम्पृष्टवती रहस्यकम् ।वक्तव्यं तन्मया सर्वं कम्भरायै समाह्वय ॥४०॥शीघ्रं कुरु कृपासिन्धो सर्वं हृद्यं फलिष्यति ।इत्युक्तो राधिके तत्र बालकृष्णः सुरर्षिणा ॥४१॥समुत्थाय गतः शीघ्रं मातरं कंभरां प्रति ।प्रणम्य मातरं प्राह नारदो मम मन्दिरम् ॥४२॥ज्ञापयितुं रहस्यं तु समाह्वयति सोत्सुकः ।सन्तुष्टां मत्स्वसारं च तथा भ्रातृवधूं सतीम् ॥४३॥अमृतां श्रीं सह नीत्वा समायाहि ममालयम् ।इत्युक्ता बालकृष्णेन माता स्वसृसमायुता ॥४४॥भ्रातृपत्नीसुयुक्ता च बालकृष्णेन संयुता ।आयात् समुत्सुका राधे! बालकृष्णालयं सती ॥४५॥नारदस्तां विलोक्यैव मन्दहासोऽनमत् सतीम् ।उत्थाय स्वागतं चक्रे वाण्या वै नम्रकंधरः ॥४६॥कृतहस्ताञ्जलिश्चापि तदा स प्रोत्थितोऽभवत् ।यावन्माता स्वर्णसिंहासने तूपाविशत् ततः ॥४७॥स्वसा भ्रातृगृहिणी च यावच्चोपाविशत्ततः ।सम्मानितः पूजितश्च वन्दितो नारदो मुनिः ॥४८॥नमस्कृत्य यथातथ्यमगदत् कृष्णसन्निधौ ।मातर्नमामि चरणौ रहस्यं प्रवदामि च ।यन्मामुक्तवती शैवी रहोऽर्थं वै पुनः पुनः ॥४९॥श्रीकंभरालक्ष्मीरुवाच-किं महर्षे बालिका सा नारायणी परेश्वरी ।उक्तवती मदर्थं यत् सर्वं त्वत्र निवेदय ॥५०॥किं सा रूपवती बाला ह्यव्यंगा पूर्णलक्षणा ।किंस्विदारोग्यमस्या वै किं स्वित् तन्निर्मलं मनः ॥५१॥किंस्विदिच्छति मत्पुत्रं किं स्विदास्तेऽत्र हृन्मयी ।कच्चित् सा स्नेहभावा मां किंस्विन्मत्पुत्रमानसा ॥५२॥प्रसन्नहृदया किंस्विदास्ते मां स्मृतवत्यपि ।यदा यज्ञोऽभवच्चापि पिंगाऽरण्ये तदा सतीम् ॥५३॥समागतां तु तां वीक्ष्य प्रसन्ना त्वभवं ह्यति ।स्नुषाभावं प्रदर्श्यैव स्वांऽके नीतवती च माम् ॥५४॥पुनः साऽहं निजं देशं गत्वा ततोऽध्वरान्तरे ।राशियानप्रदेशेषु गत्वा पुनश्च तां गता ॥५५॥निजपुत्रेण साकं वै तां दृष्ट्वा हर्षिताभवम् ।तां निजस्य सुतस्याऽर्थे विज्ञाप्य रहसि स्थिताम् ॥५६॥तन्मात्रेऽपि तदा सर्वं तत्सम्बद्धं प्रभाष्य च ।निर्णीतमिव निश्चित्याऽऽगता गता न तां पुनः ॥५७॥सा कन्या मत्पुत्रयोग्या किं निवेदितवत्यपि ।वद मे सर्वमेवाऽत्र किंगुणा किंप्रशिक्षणा ॥५८॥कीदृशी सा बुद्धियुक्ता कलायुक्ता ततोऽस्ति सा ।वद मे सर्वमेवाऽत्र यद्बोध्यं वै स्नुषाकृते ॥५९॥नारद उवाच-मातः सा कंभरालक्ष्मीर्नाम श्रुत्वाऽतिगौरवात् ।प्रेमभावाद्धर्षिता साऽभवत्तथाऽश्रुसंयुता ॥६०॥क्षणं भूत्वा धैर्ययुक्ता मां विहस्य समब्रवीत् ।कच्चित् सुखं ममाऽर्हायाः कच्चिन्मां सा स्मरत्यपि ॥६१॥किंवृत्तान्ता मम पूज्या कियद्भावा च मां प्रति ।सा किं मह्यं यत्नवती प्रसन्ना किं च मां प्रति ॥६२॥वद मह्यं महर्षे त्वं गुणस्थानां यथास्थिताम् ।यद्वा ज्ञातव्यमेवाऽन्यत् कथितं मां निवेदय ॥६३॥ततोऽहं चाऽवद् कन्यां श्रवणे दत्तमानसाम् ।लक्ष्मि! त्वां कंभरादेवी न वै विस्मरति क्वचित् ॥६४॥भोजने त्वां सदा स्मृत्वा कृष्णं त्वां स्मारयत्यपि ।क्वचित् क्वचिच्च ते वार्तामग्ना त्वद्गुणवर्णना ॥६५॥स्नेहाश्रुभृतनेत्रा वै जायते किं वदामि ते ।सुखं श्वश्र्वाः सदा चास्ते सुखिनीं त्वां प्रतीक्षते ॥६६॥सर्वशोभनवृत्तान्ता देहगेहसुतान्विता ।सर्वसम्पत्समृद्धा सा लक्ष्मि! त्वां सम्प्रतीक्षते ॥६७॥यथा पुत्रीं च सन्तुष्टां प्रति सा कम्भरा सदा ।तथा त्वां प्रति चाधिक्यभावाऽऽस्ते कम्भरा सती ॥६८॥त्वदर्थं सा यत्नवती कदाऽऽयान्मे सुतप्रिया ।सदा प्रसन्ना चास्ते त्वां प्रतीश्वरी हि कंभरा ॥६९॥क्वचिद् वदति कल्याणी स्नुषा मे किंव्रता भवेत् ।कृष्णो मे तां विना नैव शोभते सदृशीं प्रियाम् ॥७०॥इत्येवं वै मया मातः सर्वं तस्यै निवेदितम् ।आशीर्वादाः प्रदत्ताश्च त्वदुक्ताश्च तदाऽवदम् ॥७१॥प्रसन्ना सा स्नेहवती चास्ते सद्गुणशालिनी ।इत्येवं चाऽवदं तस्यै सा पुनः प्राह मां नमः ॥७२॥नमस्काराश्च मे तस्याः पादयोः सन्निवेदय ।प्राणास्त्वास्ते तव पुत्रे तथाऽऽर्यायै निवेदय ॥७३॥आत्मा तत्राऽऽगतोऽस्त्येव पूज्यायै सन्निवेदय ।क्षन्तव्या बाल्यभावा मेऽनार्यायाश्चेति वेदय ॥७४॥यादृशी तादृशी चास्मि पर्वतारण्यवासिनोः ।पुत्री जाड्यमयी चाऽहं क्षन्तव्या चेति वेदय ॥७५॥नाऽहं विद्यावती चार्ये नाऽहं कलानिधानिका ।नाऽहं विज्ञानसम्पन्ना नाऽहं चातुर्यशोभना ॥७६॥नाऽहं मायाकरी चापि नाऽहं तीक्ष्णप्रयोगिणी।नाऽहं कृष्णा कृष्णयोग्या तथापि मां न विस्मरेः ॥७७॥पूज्यायाः पुत्रिका चाऽहं पूज्यापुत्रस्य पत्निका ।कन्यकाऽस्मि द्रुतं स्नुषां विधेहि चाऽलमीदृशम् ॥७८॥वचनं कन्यकाप्रोक्तं दानकालो हि विद्यते ।इत्युक्त्वा प्रददौ मह्यं मिष्टाऽमृतफलानि हि ॥७९॥देयानि कम्भरालक्ष्म्यै तत्पुत्राय च विष्णवे ।इत्युक्त्वा प्राणमन् मह्यं रहस्यं कथितं तव ॥८०॥कृष्णं विना क्षणं नैव यापयत्येव सा सती ।लक्ष्मीतुल्या तु सा लक्ष्मीर्नान्यतुल्या कदाचन ॥८१॥सर्वतेजांसि पिण्डानि तत्स्वरूपे वसन्ति हि ।उज्ज्वला तादृशी चास्ते यौवनोद्भेदनांकुरा ॥८२॥साध्व्यवस्था सदा चास्ते चिदम्बराऽम्बरोत्तमा ।शाश्वतिकनिसर्गा च सच्चिदानन्दपिण्डिका ॥८३॥ब्रह्मसंस्थानिका चास्ते मुक्ताकृतिर्हरिप्रभा ।द्वादशोत्तमवर्षा च पुरुषोत्तममानिनी ॥८४॥स्नेहवेगा हरौ पातिव्रत्यभावा विराजते ।हृदो मध्ये हरिश्चास्ते कृष्णलक्षणलक्षिता ॥८५॥सर्वकलाऽभिसम्पन्ना किमु मातः प्रवर्णये ।जानाति पाकशास्त्रं सा जानाति ग्रथनक्रियाः ॥८६॥जानाति गृहकार्याणि गणकार्याणि यानि च ।बालशास्त्रं प्रजानाति कलाः शृंगारजा अपि ॥८७॥नेपथ्यरचनां सर्वां जानाति सुन्दरीक्रियाः ।भृत्यकार्याणि सर्वाणि दास्यकार्याणि यान्यपि ॥८८॥सेवाकार्याणि सर्वाणि मनोरञ्जनकानि च ।नाट्यकार्याणि सर्वाणि नृत्यकार्याणि यानि च ॥८९॥वाद्यकार्याणि सर्वाणि गीतिकार्याणि सर्वशः ।उत्सवादीनि यावन्ति सभाकार्याणि सर्वथा ॥९०॥व्याख्यानानि समस्तानि न्यायवाक्यानि वै तथा ।आत्मबोधान् समग्राँश्च कला योगोद्भवांस्तथा ॥९१॥जानाति सर्वसिद्धीश्च तत्त्वज्ञानं च वैद्यकम् ।आयुर्वेदं विजानाति यज्ञकर्माणि सर्वशः ॥९२॥सर्वान् वेदान् विजानाति सर्वान् विनिमयाँस्तथा ।सर्वान् हेतूनृतून् सर्वान् विवृत्तिं परिणामकान् ॥९३॥सर्वं शैल्प्यं विजानाति वक्ति सर्वाश्च नीतिकाः ।सर्वच्छन्दांसि जानाति वंशोद्भवं गृहिक्रियाः ॥९४॥आतिथेयं विजानाति पैत्र्यं दैवं समर्हणम् ।सत्कारं स्वागतं चापि विजानाति च माननाम् ॥९५॥परोपकारं दानं च विजानाति समुद्भवम् ।स्नेहं प्रीतिं स्वामिभक्तिं पातिव्रत्यं वृषं निजम् ॥९६॥प्रजानाति रसान् मिश्रान् मिष्टान्नानि समस्ततः ।तक्रसंस्कारकरणं पयःपाकादिकं तथा ॥९७॥विजानाति च वयनं शुद्धिं व्रतानि चांजसा ।पण्डावती समास्ते सा दृश्यते च बहुश्रुता ॥९८॥शारदा वा किमास्ते सा किं वा राधा हि रञ्जनी ।रंगकलां विजानाति धेनुसेवादि वेत्ति च ॥९९॥कृषिकार्यं सस्यपुष्टिं जानात्यपि वनानि च ।सर्वौषधानि समिधो जानात्यारोग्यमित्यपि ॥१००॥जलकलां विजानाति वह्निकलां प्रवेत्ति च ।मन्त्रकलाः समग्राश्च प्रवासान् संप्रवेत्ति च ॥१०१॥लाभाऽलाभौ सुजानाति पुरुषार्थचतुष्टयम् ।सामदानादिकं चापि विजानाति विवेचनाम् ॥१०२॥कथाः सर्वा विजानाति महोद्यानकलास्तथा ।मिष्टमाधुर्यकण्ठी सा मिष्टस्वराऽतिविद्यते ॥१०३॥स्वर्णवर्णा ब्रह्मवर्णा रक्तपत्करपल्लवा ।उज्ज्वला शारदी ज्योत्स्ना यद्देहे वसति ध्रुवा ॥१०४॥विशालोन्नतचन्द्राभभाला चन्द्रादिशोभना ।कृष्णकेशी च कृष्णात्मा कृष्णैश्वर्यादिसिद्धिका ॥१०५॥सर्वसम्पत्प्रभावा च ब्रह्मसौख्यसमन्विता ।परब्रह्मप्रभाना च परब्रह्मप्रबोधिनी ॥१०६॥स्मृद्धिकार्या हरौ भक्तिमती मुक्तानिका सदा ।बालकृष्णोऽन्तरे त्वस्या राजते मोक्षकृत्प्रभुः ॥१०७॥सा चास्ते कंभरे! चतुर्दशविद्यासमाश्रिता ।शंखचक्रगदापद्मधनुःशूलसमन्विता ॥१०८॥पूर्वोक्तचिह्नयुक्ता च कमलाचिह्नशोभिता ।लक्ष्मीचिह्नसहस्रैः शोभिता वर्ष्मणि सर्वतः ॥१०९॥द्वासप्ततिप्रमुख्यानि मुख्यानि सन्ति तत्र ह ।बालकृष्णस्य चाऽऽकण्ठं समुच्छ्रया विराजते ॥११०॥गजहंसगतिश्चास्ते परहंसगतिः सदा ।स्वर्णवासा सुगन्धा च कोट्यब्जसखिका तथा ॥१११॥राधारमासतीपद्मामाणिकीपद्मजाश्रियः ।शारदाद्याश्च सख्योऽस्या वर्तन्ते कृष्णपत्निकाः ॥११२॥सर्वाभरणसंयुक्ता सर्वसंघटनाश्रिता ।चमत्कारछटायुक्ता शीलकृष्णबलाऽस्ति च ॥११३॥शुद्धसत्त्वमयी ब्राह्मी ब्रह्मानन्दाऽदना सदा ।पायसाद्यदना साध्वी सती कृष्णार्थनिग्रहा ॥११४॥कृष्णध्यानतपोयुक्ता बालकृष्णार्थतोषिणी ।सर्वतृष्णाक्षयतोषा अमाया शुद्धिशोभना ॥११५॥वेदविद्यासमध्याया महासात्त्वतसद्वृषा ।मोक्षहार्ढा चात्मनिवेद्नहार्दा समर्पणे ॥११६॥निर्वाणप्रेमपात्रा श्रीकृष्णप्रेमपरायणा ।कृषासाधनकुशला चागामिबोधसन्मतिः ॥११७॥कृष्णांगा चाच्युतधना ह्यभक्ते चञ्चला सदा ।कृष्णचाञ्चल्ययुक्ता च तथा कृष्णार्थखेलना ॥११८॥मुक्तिरुचिः कृष्णकथाप्रवादा स्थिरवृत्तिका ।परब्रह्मप्रवृत्तिश्च पुरुषार्थत्रयान्विता ॥११९॥सृष्टित्रयविधात्री च यत्नभोगप्रहाफला ।यज्ञस्वर्गमोक्षफला चाऽऽपूरकक्रियावती ॥१२०॥ब्रह्मलाभविशेषा च सृष्टिसौख्यसमानिका ।सूक्ष्माऽऽत्मानन्दमध्या च माधवश्वासयोगिनी ॥१२१॥कृष्णयोगा सर्वबोधा सर्वज्ञोपासनावती ।वृद्धाराधनिका नित्यं कृष्णशृंगारशोभना ॥१२२॥कृष्णेतरे विरक्ता च नारायणे सुतोषिणी ।मुक्ता सत्संगगृध्ना च कृष्णाऽऽशा कम्भरेच्छुकी ॥१२३॥कदा वै कम्भरालक्ष्म्या गृहं पश्यामि चेच्छति ।यदि नाऽहं च कृष्णार्थां तदा मे जीवनं कुतः ॥१२४॥यतो मे जीवनं चास्ते कृष्णाऽर्थाऽस्मीति तर्कगा ।परब्रह्मोरुयुगलं गृहं मे चेतिनिश्चया ॥१२५॥अनादिश्रीकृष्णनारायणवादा पदे पदे ।प्रत्यक्षः श्रीबालकृष्णः प्रमाणं दिव्यशाश्वतम् ॥१२६॥तस्या वै वर्तते मातस्तन्मूलान्यपराण्यपि ।विशिष्टं सर्वमेवास्ते प्रमेयं तत्कृते सदा ॥१२७॥परब्रह्म महातत्त्वॆ यत्समं नाधिकं परम् ।तद्योगः सुप्रयोगोऽस्या कृष्णसिद्धान्तसिद्धिका ॥१२८॥कृष्णतन्त्रसुसिद्धान्ता सर्वस्वप्रतिवर्जिता ।बालकृष्णग्रहबन्धा कृषयाज्ञावेदसंभृता ॥१२९॥साध्यो नारायणश्चाऽस्याः साधनं न शमादिकम् ।बालकृष्णप्रिया कान्ता कान्तेतरवितर्जिनी ॥१३०॥महाभागवतधर्मयमा कृष्णयमान्विता ।कृष्णार्थं नियता कृष्णनियमा नाऽपराऽऽश्रिता ॥१३१॥बालकृष्णाननध्याना कुंकुमवापिकासना ।तव पुत्रे प्राणवती कृष्णे रतिक्रियावती ॥१३२॥अनादिश्रीकृष्णनारायणकामावसायिनी ।श्रीकृष्णस्यवल्लभातिप्रिया सा कृष्णवत्प्रिया ॥१३३॥वर्तते सा महालक्ष्मि! कम्भरे गुणसंभृता ।कृष्णवियोगो रोगोऽस्या मानसं तेन कल्मषम् ॥१३४॥त्वत्पुत्रेच्छाऽर्बुदयुक्ता हृदयेनाऽत्र राजते ।सर्वस्नेहा कंभरायां प्रेमस्नेहा सुते तव ।विवाहमानसा नित्यं प्रसन्नहृदयाऽपि च ॥१३५॥सदा स्मरति त्वां मातः पुत्रं नित्यं पुनः पुनः ।मां जगाद सा सद्वेगा शृणु त्वं कंभरे पुनः ॥१३६॥यदा यज्ञोऽभवत् पिंगाऽरण्ये श्वश्रूस्तदाऽऽगता ।स्नुषाभावं प्रदर्श्यैव स्वांके नीतवती च माम् ॥१३७॥राशियानप्रदेशेषु गत्वा पुनः समागता ।मां निजस्य सुतस्याऽर्थे विज्ञाप्य रहसि स्थिताम् ॥१३८॥साऽक्षतं चन्द्रकं गुप्तं कृत्वा गता गतैव सा ।नाद्याऽपि त्वागता माता पूज्याऽऽर्या पारमेश्वरी ॥१३९॥कदा चायास्यति श्रीशा वद मे नारद द्रुतम् ।कथनीयाः प्रणामा मे चेत्यवदत् पुनः पुनः ॥१४०॥मातः सर्वगुणोपेता सर्वकार्येषु शिक्षिता ।गृहकार्यनिपूणा सा दानयोग्या प्रकाशते ॥१४१॥तस्माच्छीघ्रं प्रगत्वैवोत्सवपत्रानुबोधितम् ।चतुर्थीदिवसं मत्वा कुरु तयोर्हि मंगलम् ॥१४२॥इत्युक्त्वा राधिके विप्रो नारदस्तां प्रणम्य च ।स्वासने सम्प्रयातश्च विश्रान्तिं चाप्तवान् पुनः ॥१४३॥कंभरा शान्तिमापन्ना सन्तुष्टा मुमुदे तदा ।अमृताऽपि प्रमोदं चानुमोदं प्रददौ तदा ॥१४४॥बालकृष्णः प्रसन्नश्चाऽभवत् श्रुत्वा ह्युदन्तकम् ।सुष्वुपुश्च ततः सर्वे सुखं चतुर्दशीनिशि ॥१४५॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने सरहस्यलक्ष्म्युक्तोदन्तं नारदो बालकृष्णाय प्राह, ततः कंभरादेव्यै प्राहेत्यादिनिरूपणनामा षट्सप्तत्यधिकद्विशततमोऽध्यायः ॥२७६॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP