संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|

त्रेतायुगसन्तानः - अध्यायः २५९

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
समाकर्णय राधे त्वं ततश्चाश्वनृपः पुनः ।
पप्रच्छ लोमशं यत् तत् प्रवदामि सतां हितम् ॥१॥
अश्वपाटल उवाच-
गुरो! स्वीयप्रकाशस्य निर्वेदः शाश्वताश्रयः ।
कथं व्यजायत तत्त्वनिश्चयश्चाकृतेर्हरेः ॥२॥
श्रीलोमश उवाच-
ब्रह्मकल्लोलसंज्ञस्य पूर्वकल्पतपस्विनः ।
भक्तविप्रस्य पुत्रोऽभून्नाम्ना त्रिविक्रमः प्रभुः ॥३॥
श्रीहरेरवतारः स पुनः कल्पान्तरे हरिः ।
त्रिविक्रमो बभूवाऽयं प्रबलेः राज्यहृत् तदा ॥४॥
सोऽयं स्वर्णनदीतीरे ददर्शाऽमानवं नरम् ।
अकस्माद् हृदये योगे नारायणह्रदस्थले ॥५॥
शंखचक्रगदापद्मधनुःशूलशरान्वितम् ।
ध्वजस्वस्तिकवज्रादिचिह्नदक्षकरान्वितम् ॥६॥
हसन्तं तेजसा व्याप्तं प्रसन्नं दीर्घनेत्रकम् ।
आजानुभुजमत्यर्थं चोज्ज्वलं श्रीसमन्वितम् ॥७॥
स्वीयप्रकाशो भगवान् स्वं ददर्श तदन्तरे ।
ब्रह्मरूपं वामनं त्रिविक्रमं प्रबलेर्गुरुम् ॥८॥
निजां मूर्तिं विलोक्यैव श्रीमन्नारायणे तदा ।
क्षणं मुमोह सहसा कोऽयं पृथङ् व्यचिन्तयम् ॥९॥
ततो दिव्यदृशा नैजं मूलं रूपं बुबोध सः ।
तुष्टाव श्रीकृष्णदेवं स्वामिनं परमेश्वरम् ॥१०॥
अन्तरात्मन् परात्मँस्त्वं सर्वावतारधारक ।
सर्वाविर्भावहेतुस्त्वं सर्वेषां हृदये स्थितः ॥११॥
सर्वं ते हृदये चास्ते ब्रह्माऽब्रह्ममयं वपुः ।
अहं पृथङ्निवासोऽस्मि चाऽपृथङवासवाँस्त्वयि ॥१२॥
त्वमेव परमं तत्त्वं कृपया मेऽक्षि गोचरः ।
गोचरे मम रूपं चाऽपरोक्षानुभवाञ्चितम् ॥१३॥
आत्मदर्शनमासाद्य परमात्मप्रदर्शनम् ।
उभदर्शनमासाद्य कृतकृत्योऽद्य संवृतः ॥१४॥
आज्ञां देहि कृपासिन्धो जगद्बन्धो जनार्दन ।
प्राप्य त्वां परमात्मानं प्राप्तव्यं नाऽवशिष्यते ॥१५॥
कृत्वा त्वद्योगमुद्यानं कर्तव्यं नावशिष्यते ।
इति स्तुतः प्रभुः श्रीशोऽनादिकृष्णनरायणः ॥१६॥
स्वीयप्रकाशमूर्तौ तं निजस्थायां ततोऽधिकम् ।
सर्वं संसारचक्रं च दर्शयामास चैक्यतः ॥१७॥
ईश्वरान् ब्रह्मपुरुषान् मुक्तान् धामान्यनेकशः ।
देवानृषीन् पितृगणान् देवेश्वराँश्च मानवान् ॥१८॥
उरगान् राक्षसान् दैत्यान् दानवानासुरानपि ।
पशून् पक्षिण एवापि स्थावरान् जडचेतनान् ॥१९॥
महाभूतानि सर्वाणि तत्त्वानि प्रकृतिं स्थिराम् ।
विकारान् देहभाजश्च दर्शयामास तल्लयान् ॥२०॥
एवं प्रदर्शयित्वैव तिरोभावं चकार ह ।
तदिदं चाऽपरोक्षं च ज्ञानं शाश्वतमात्मगम् ॥२१॥
प्रकाशयित्वा तस्मै वै हृदयेऽस्थापयद् ध्रुवम् ।
वरदानं ददौ तस्मै नित्यं तेऽस्तु प्रभामयम् ॥२२॥
ज्ञानं चेदं स्वतःप्रकाशाख्यं मास्तु तिरोगतम् ।
ततः आरभ्य देवोऽयं त्रिविक्रमः स्वतःप्रभः ॥२३॥
स्वतःप्रकाशयोगी च ख्यातो बभूव योगिषु ।
स चार्थयत् विलोक्यैव क्षेत्रं चाक्षरसंज्ञकम् ॥२४॥
हृद्ये हरिवासाढ्यं चाश्वपट्टसरोन्वितम् ।
निजवासार्थमत्यर्थं रूपं दिव्यं तथाविधम् ॥२५॥
तथास्त्विति प्राह कृष्णनारायणश्च तत्क्षणम् ।
दिव्यदेहोऽभवत्तत्र चतुर्भुजो नरायणः ॥२६॥
मानसः श्रीहरेः शिष्यो नित्यज्ञानाश्रयः सुतः ।
नारायणह्रदे तत्र कृष्णनारायणेन वै ॥२७॥
साकं स्नात्वा ततस्तूर्णं कुंकुमवापिकास्थलीम् ।
प्राप योगेन वेगेन बलेन कृपया हरेः ॥२८॥
एवं जन्मान्तरं देहान्तरं वृत्त्यन्तरं तथा ।
कायाकल्पं ह्यवापासौ पुत्रत्वं मुक्तसंज्ञया ॥२९॥
अवतारस्वरूपेण विष्णुरूपेण सर्वदा ।
अनादिश्रीकृष्णनारायणमानसजाकृतिम् ॥३०॥
दिव्यामवाप्य सततं जातमात्रो नरायणः ।
धर्मवैराग्यसम्पन्नो भक्तः षोडशहायनः ॥३१॥
बभूव कुंकुमे क्षेत्रे प्रभुः कुंकुमवर्णकः ।
नैसर्गशेवधिः सर्वविद्यानां स बभूव ह ॥३२॥
सार्वज्ञ्याश्रय एवापि सर्वैश्वर्यसमन्वितः ।
सर्वकल्याणकर्ताऽसौ योगिधर्मपरायणः ॥३३॥
सर्वातिरेककार्यश्च सर्वातिरेकवर्णनः ।
विचचाराऽक्षरे क्षेत्रे तस्मै कृष्णनरायणः ॥३४॥
अन्वशात् सकलान् धर्मान् गुरुपूर्वीप्रसिद्धये ।
लौकिकान् वैदिकाँश्चापि मानसाँश्च तदुत्तरान् ॥३५॥
श्रीकृष्णनारायण उवाच-
पुत्र त्वं सात्त्वतान् धर्मान् निषेवस्व हितावहान् ।
प्राणं जय सहस्वाऽपि क्षुत्पिपासे हिमातपौ ॥३६॥
जित्वेन्द्रियाणि तपसा सत्यं दमं प्रपालय ।
अद्रोहमनसूयां चाऽऽर्जवं शीलं प्रपालय ॥३७॥
देवपित्रतिथिप्राप्तशेषान्नयात्रिकां हव ।
भज कृष्णं परेशं मां मा स्वपिहि तमोमये ॥३८॥
फेनबुद्बुदवत्स्थैर्ये चेतनाश्रितगत्वरे ।
आकस्मिकेऽज्ञवत्पुत्र मा विश्वासं विधेहि वै ॥३९॥
अप्रमत्ता विनिद्राश्च नित्ययत्ना हि शत्रवः ।
छिद्रं पश्यन्ति देहेऽस्मिन् मा त्वं तैर्धर्षितो भव ॥४०॥
दिवसाः क्रमशो यान्ति कृन्तन्ति वै जनायुषम् ।
जीवनं क्षीयते नित्यं गुरुं शरणमाव्रज ॥४१॥
अज्ञाश्चेच्छन्ति देहाद्यैर्मांसशोणितवर्धनम् ।
यदन्ते गत्वरं सर्वं प्रसुप्ता मोक्षसाधने ॥४२॥
मा तन्मात्रेण पुत्र त्वं प्रयाहि प्राकृतो यथा ।
प्रान्तदुःखैकमात्रेण याम्यभवनवाहिना ॥४३॥
याहि सतां वृषस्थानां योगिनां च महात्मनाम् ।
धर्म्यं पन्थानमेवाप्तं मोक्षदं चाक्षरान्तगम् ॥४४॥
उपासस्व ततः सम्यक् पृच्छ धारय तद्वचः ।
मनोमन्थं सन्नियच्छ स्थैर्यमावह सत्पतौ ॥४५॥
धर्मं निःश्रेणिकां धृत्वा चारुह्य भक्तिभूमिकाम् ।
आत्मनिष्ठाप्रवेगेण याहि धाम सनातनम् ॥४६॥
वामतः कुरु विप्रेन्द्र नास्तिकान् भक्तिवर्जितान् ।
आशां तृष्णां रुषं मोहं त्यज पुत्र च दूरतः ॥४७॥
नावं योगं समालम्ब्य तर संसारवारिधिम् ।
लोकोऽयं मृत्युना नीतो जरया मर्दितोऽभितः ॥४८॥
वहत्येव वैतरण्यां ज्ञानपोतेन तं तर ।
तिष्ठन्तं वा वहन्तं वा पिबन्तं शयने गतम् ॥४९॥
मृत्युरन्वीक्षते मर्त्यं मा त्वं तत्करगो भव ।
सञ्चिन्वानं सुखार्थांश्चाऽतृप्तं लुब्धं च मानिनम् ॥५०॥
अनिर्वृत्तं विघ्नमर्द्यं गर्विष्ठं च विमार्गगम् ।
आकस्मिकगतिर्मृत्युः सुप्तमादाय गच्छति ॥५१॥
अन्धकारमयः कोष्ठो ब्रह्माण्डोदरनामकः ।
तद्बहिर्गमनार्थं त्वं दीपं ज्ञानं प्रधारय ॥५२॥
अनेकदेहचक्रेषु गच्छत्सु निष्फलेषु वै ।
दिव्यपूण्येन ब्राह्मण्यं प्राप्तं ब्रह्ममयं वह ॥५३॥
ब्रह्मदेहो महान् श्रेयान् क्षुद्रकामाय नोचितः ।
मोक्षाय धर्मलाभाय तपसे श्रेयसे मतः ॥५४॥
अमूल्यस्तादृशो मणिश्चिन्तितार्थफलप्रदः ।
हेलनीयो न निर्मूल्यः क्षुद्रा कपर्दिका यथा ॥५५॥
गूहते मुखमुपरिष्टादन्तरे कामसंभृता ।
लज्जां प्रदर्शयत्यस्मै भोक्त्रे परजनान्तिके ॥५६॥
अन्तर्विषामृतव्याप्ता बन्धयितुं च तत्परा ।
यतते निजलाभार्थं भुक्त्वा दुःखाकरोति च ॥५७॥
त्यजन्तं न त्यजत्येषा याति स्थानान्तरं सह ।
तिरस्कृताऽपि संलग्ना वासनामूलबन्धना ॥५८॥
निरयाख्या स्वसौधेषु वासयत्यतिथिं चिरम् ।
प्रमत्तं मदपानेन पश्य मायाविचेष्टितम् ॥५९॥
को नु तत्र भवेद् बद्धो रक्तो वा दिव्यनेत्रकः ।
सुपात्रतां देहसंलग्नां माऽनुप्रसर कर्हिचित् ॥६०॥
देहः कर्मावनद्धश्च पुनः कर्माभिसर्जकः ।
कामनाशेवधिः कोपो मा तं नैजं निशामय ॥६१॥
यत्र राजभयं चास्ते यत्र चौरभयं तथा ।
तद्विहाय धनं दिव्यं पाथेयं चार्जयस्व ह ॥६२॥
परत्र जीव्यते येन न च कापि वियुज्यते ।
ध्रुवं तदक्षरं द्रव्यं समर्जयस्व पुत्रक ॥६३॥
माता पिता सुहृद् बन्धुः संकरे नानुयान्ति हि ।
कर्मैकं केवलं याति नैष्कर्म्यं तत्समाचर ॥६४॥
हिरण्यसञ्चया राज्यं दासा दास्यः प्रजाः प्रियाः ।
देहक्षये निवर्तन्ते प्रभुं सहचरं भज ॥६५॥
साक्षिणं चान्तरस्थं वै ब्रह्मानन्दप्रदं प्रभुम् ।
उद्धारकं मोदनिधिं परमेशं सदा भज ॥६६॥
गृहस्थधर्मिणो लोकाः प्रजापतेर्बृहस्पतेः ।
शतक्रतोश्च लोकान् संव्रजन्ति त्वान्तनाशिनः ॥६७॥
मा त्वं वृत्तिं समाधत्स्व गार्हस्थ्ये ब्रह्मपुत्रक ।
निर्भयं च निरन्तं च निधिं ब्रह्मव्रतं वह ॥६८॥
असंगो दिव्यदृष्टिस्त्वं ब्रह्मणः सन्निधिं कुरु ।
समर्प्य परमे कृष्णे मयि कर्म समस्तकम् ॥६९॥
नैर्गुण्यं परमं भुञ्जन् भव मुक्तोऽक्षरे यथा ।
ग्रामवासो बन्धनं वै तच्छित्त्वा वनमाविश ॥७०॥
किं ते धनेन सुहृदा बन्धुना च सुतेन च ।
स्वतःप्रकाशो भूत्वैव स्वीयं प्रकाशं संभज ॥७१॥
म्रियमाणान् समानाँश्च विलोक्य जगति स्थितान् ।
मरिष्यतश्च सञ्चिन्त्याऽन्विच्छाऽऽत्मानं गुहागतम् ॥७२॥
शुभ्रं शीघ्रं प्रकुर्वीत श्वः कार्यं चाद्य वै द्रुतम् ।
क्षणान्तरे न जाने यन्मृत्युरादाय यास्यति ॥७३॥
मृत्युशिखे हि संसारे महाकालस्य भक्षणे ।
गुर्वाश्रये विवेकी सन् मोक्षं सर्वात्मना व्रज ॥७४॥
मरणं चात्मनो मोक्षस्तमेव साधय प्रधे ।
विद्वान् मोक्षार्जनपरस्तद्धीनो जडवर्गगः ॥७५॥
स्वर्गसोपानकं वर्ष्म मानुष्यं दुर्लभं त्विह ।
तेन साधय मोक्षोयं चानन्तं शाश्वतं सुखम् ॥७६॥
यस्य मतिर्मोक्षमार्गादन्यत्र नैव धावति ।
स एव पुण्यकर्माऽस्ति चाशोच्यः सर्वमानवैः ॥७७॥
मोक्षार्थं यन्मतिः शुद्धा दृढा चारब्धतत्कृतिः ।
अन्यभावादिरिक्ता च न तस्य कालतो भयम् ॥७८॥
हतस्य पुण्यपापैश्च लुब्धस्य विषयात्मनः ।
स्नेहसम्बन्धमग्नस्य विद्यते कालतो भयम् ॥७९॥
मातापितृसहस्राणि पुत्रदाराऽयुतानि च ।
अतीतानि गते काले कस्य ते कस्य चाऽप्ययम् ॥८०॥
एकोऽहं त्वात्मसंज्ञोऽस्मि त्वं चात्मा चैकलः स्वयम् ।
अन्येऽन्यत्र गताः सन्ति पश्यन्त्येते न वै मिथः ॥८१॥
न तेषां भवतां कार्यं न कार्यं तव तैरिह ।
स्वकर्मभिर्गतान्येव त्वं स्वकृत्यैर्गमिष्यसि ॥८२॥
लोकोऽयं स्वार्थबहुलः स्वार्थस्निग्धः स्वयोगकृत् ।
स्वार्थं प्रसाध्य सहसा त्यजन्ति निर्गुणं जनम् ॥८३॥
समृद्धानां धनिनां हि विजनः स्वजनायते ।
दरिद्राणां निर्धनानां स्वजनो विजनायते ॥८४॥
कलत्रयोगमासाद्य जनोऽशुभं चिनोति च ।
ततः क्लेशभृतं जन्म पुनर्दुःखं पुनर्जनिम् ॥८५॥
एवमावर्तमग्नस्य वासनाप्रेरितस्य च ।
मध्यसागरभागाद्वै तीरयानं न जायते ॥८६॥
तत्पुत्र धर्ममासाद्य वैराग्यसहचारवान् ।
ज्ञानदीपातिनेत्रश्च भक्त्या याहि परं पदम् ॥८७॥
कालः पचति भूतानि कटाहे मोहसंज्ञिते ।
सूर्याग्निना दिवाकाष्ठैर्मासर्तुदर्विकादिभिः ॥८८॥
नात्र त्रातारमीक्षेऽहमीक्षसे त्वं न नेतरः ।
न तं पश्यामि यस्याऽहं न तं पश्यामि यो मम ॥८९॥
तस्मात् सदा परेशं श्रीपतिं श्रीपरमेश्वरम् ।
कर्मभूमौ भजस्वात्र येन धामाऽक्षरं व्रजेः ॥९०॥
किं जन्मना च देहेन ज्ञानेन च वृषेण च ।
तपसा वनवासेन येन मोक्षो भवेन्न चेत् ॥९१॥
अश्वपाटल इत्युक्तः स्वतःप्रकाश एव ह ।
अनादिश्रीकृष्णनारायणोक्तं चावधार्य च ॥९२॥
दधौ मोक्षे मनो नित्यं ब्रह्मचर्ये वसन् सदा ।
क्वचिद् दृश्यः क्वचिच्चाऽप्यदृश्योऽवर्तत वै क्षितौ ॥९३॥
कुंकुमवापिकाक्षेत्रे दिव्यदेहोऽतिभासुरः ।
चिरञ्जीवो महामुक्तश्चातिमानववर्तनः ॥९४॥
सर्वसंगवियुक्तश्च ब्रह्मसंगमुपागतः ।
द्वेधा भूत्वैकदेहेन ययावक्षरमुत्तमम् ॥९५॥
अपरेण सदा चास्ते क्षेत्रेऽत्राऽक्षरसंज्ञके ।
अनादिश्रीकृष्णनारायणे भावपरायणः ॥९६॥
सर्वविद्याश्रयो भक्त्याचार्यो ज्ञाननिधिः प्रभुः ।
चतुर्भुजो द्विभुजो वा यथेष्टानन्दशेवधिः ॥९७॥
राजंस्तत्त्वं मम योगाज्ज्ञानमासाद्य सत्वरम् ।
भजैनं परमात्मानं दिव्यदेहो भवाऽत्र च ॥९८॥
तीर्थं स्वतःप्रकाशाख्यं चाश्वसरोजले हि तत् ।
वर्तते दिव्यतादातृ स्नानपानादिभिर्नृप ॥९९॥
एतज्ज्ञानं समासाद्य मुक्तता स्यान्न संशयः।
सर्वविद्याप्रकाशश्च भवेदात्मप्रकाशिता ॥१००॥
देवप्रकाशिता स्याच्च चिच्चैतन्यप्रकाशिता ।
पुत्र ज्ञानेन यन्नैव धर्मेण तपसाऽपि च ॥१०१॥
प्राप्यते तल्लभ्यते वै गुरोः प्रसादलेशतः ।
इत्युक्त्वा राधिके श्रीमान् लोमशो विरराम ह ॥१०२॥
अथ राजातिसन्तृप्तो हरिं स्वे हृदि संस्मरन् ।
कृतानां फलविषये पप्रच्छ स्वादकर्षितः ॥१०३॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने लोमशगीतायां ब्रह्मकल्लोलात्मजस्याऽनादिश्रीकृष्णनारायणोपदेशजन्यपावनाध्ययनं मोक्षस्थितिश्चेति नव-
पञ्चाशदधिकद्विशततमोऽध्यायः ॥२५९॥

N/A

References : N/A
Last Updated : May 02, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP