संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|

त्रेतायुगसन्तानः - अध्यायः १९२

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
राधिके नवमीप्रातर्मंगलैस्तूर्यनिःस्वनैः ।
बन्दिमागधसूतानां वाग्भिर्जागरितः प्रभु ॥१॥
जजागरुस्तथा सर्वे नित्यविधिं प्रचक्रिरे ।
राजा दुग्धादि भोज्यादि त्वानीय हरये ददौ ॥२॥
सर्वे चक्रुर्दुग्धपानं भोजनं च यथोचितम् ।
आशीर्वादान् ददौ तत्र भूभृते श्रीहरिः प्रभुः ॥३॥
जनताभ्यस्तथाऽऽशीर्वाग्गौरवादि ददौ हरिः ।
ततो गन्तुमभवच्च सज्जो लीनोर्णराष्ट्रकम् ॥४॥
लीनोर्णनृपतिस्तत्रागत्य चार्थयदच्युतम् ।
फलाशनेन ऋषिणा सार्धं प्रभुस्तदाऽवदत् ॥५॥
गण्डको नृपतिस्तत्र विदायं प्रददौ बहु ।
हरिर्विमानवर्यं च समारुरोह पूजितः ॥६॥
आरुरुहुस्तथाऽन्येऽपि प्रजाजयध्वनींस्तदा ।
शृण्वन्तः सर्व एवैते प्रेरयन् व्योमपत्त्रिणः ॥७॥
खाडिकां च समुल्लंघ्य वारुणीं नगरीं ययुः ।
लीनोर्णभूपतिः पूर्वमवतीर्य पुरं निजम् ॥८॥
फलाशनर्षिणा साकं हरेः स्वागतमाचरत् ।
भूपदर्शितमार्गेणाऽवातारयद् विमानकम् ॥९॥
हरिस्तथाऽन्ये यानान्यवातारयत्तदाऽम्बरात् ।
वाद्यानां गीतिकानां च निनादो व्यानशेऽभितः ॥१०॥
हरिर्यानात् समुत्तीर्य नरयाने सुशोभिते ।
राज्ञा प्रदर्शिते स्वर्णे व्यराजत जयध्वनैः ॥११॥
राज्ञा मालादिभिः सम्यक् पूजितः परमेश्वरः ।
कुटुम्बाद्यैः सह सर्वान् वारुण्यामविहारयत् ॥१२॥
राजसैन्येन सहितो भगवान् नागरैर्जनैः ।
अर्चितश्चाययौ सौधं राजालयं विशालकम् ॥१३॥
विशश्राम ततः सस्नौ भोजनं जगृहे तदा ।
अन्येऽपि भोजनं चक्रुस्ततो राज्ञी हरेः पुरः ॥१४॥
पूजनार्थं समायाता चतुःकन्यासमन्विता ।
कन्या हरिं प्रियं प्राप्य करग्रहं व्यधुर्मुदा ॥१५॥
राज्ञी पूजां यौतकं च प्रददौ विधिना ततः ।
विश्रम्य च ततः सज्जो बभूव भगवान् द्रुतम् ॥१६॥
राज्ञश्चाभिप्रायमाप्य सर्वान् सज्जान् व्यधात् प्रभुः ।
बृहच्छरनृपस्याऽग्रे राष्ट्रं वै खाडिगान्तिगम् ॥१७॥
वल्लीजीवनमुनिनाऽर्थितो हरिर्जगाम ह ।
बृहच्छरो नृपश्चाग्रे ह्यवातरन्निजां पुरीम् ॥१८॥
धीवराख्यां शोभितां च श्रीहरिं तु सहाऽऽनयत् ।
नगर्यां भवने रम्ये पुपूज परमेश्वरम् ॥१९॥
राजा राज्ञी कन्यके च प्रजाः स्वागतमाचरन् ।
कन्याद्वयं हरेः पाणिं जगृहतुः सुभावतः ॥२०॥
राजाऽभवत् कृतकृत्यो हरिर्निशां निनाय ह ।
प्रातर्नगर्यां परितो व्यभ्रमत् सैन्यशोभितः ॥२१॥
प्रजाभ्यो दर्शनं दत्वा कृत्वा तां पावनीं पुरीम् ।
दुग्धपानादिकं कृत्वा गन्तुं सज्जोऽभवत्प्रभुः॥२२॥
तावत्पश्चिमसामुद्रो राजा श्रुत्वा प्रभुं द्रुतम् ।
विमानैः सह वै शीघ्रं नेतुं तत्र समाययौ ॥२३॥
अंगराजो हरिं नत्वाऽप्रार्थयत्परमेश्वरम् ।
हरिस्तथाऽस्त्विति प्राह सज्जस्तूर्णं तदाऽभवत् ॥२४॥
अन्यान्यपि विमानानि सुसज्जानि तदाऽभवन् ।
खाडीमुत्तीर्य भगवान् मिलिन्दां नगरीं ययौ ॥२५॥
राज्ञा सम्मानितः शक्त्या वाद्यैः सैन्येन कीर्तनैः ।
पूजनैरुपदादानैस्तोषितो भ्रामितः पुरे ॥२६॥
भोजनं कारयामास मध्याह्ने सर्वमानवान् ।
सायं सर्वान् विमानेषु कृत्वा द्वीपानदर्शयत् ॥२७॥
पुनः सर्वं विलोक्यैव मिलिन्दामाययौ हरिः ।
ददौ तत्रोपदेशं च राजनीत्युपबृंहितम् ॥२८॥
द्विलीनायाः प्रजाश्चापि सुकौतुकीप्रजास्तथा ।
श्रुश्रवुस्तत्र चागत्योपदेशं सह चांगकैः ॥२९॥
दशमीरजनीभागे लक्षाधिजनसंसदि ।
हितं मोक्षकरं चाप्युपादिदेश च राधिके ॥३०॥
ईशानोऽयं परब्रह्म माननीयः सदा जनैः ।
ईशाने तु पराभक्तिः कर्तव्या वै मदात्मके ॥३१॥
अनृतं न हि वक्तव्यं शपथं तत्र नापि वै ।
सूर्यवारः पालनीयो हरस्याराधनाय वै ॥३२॥
पितरौ सर्वदा सेव्यौ घातः कार्यो न सर्वदा ।
स्तैन्यं वर्ज्यं मृषा साक्ष्यं वर्ज्यं न्यायालयेऽपि च ॥३३॥
परेषां धनवस्त्रादि कामनीयानि नैव तु ।
परसत्त्वं न हन्तव्यं पारक्यं ग्राह्यमेव न ॥३४॥
विश्वासघातनं नैव कर्तव्यं कस्यचित् क्वचित् ।
प्रजायां धर्मघातश्च कर्तव्यो नैव सर्वथा ॥३५॥
एवं धर्मान् पालयित्वा राजा नाकं समाप्नुयात् ।
सत्यवाक्यं क्रोधशून्यं क्षमापनं विभाजनम् ॥३६॥
स्वदारेस्वेव रमणं शौचं द्रोहविवर्जनम् ।
आर्जवं भृत्यभरणं कार्यं सर्वजनैः सदा ॥३७॥
दमं पुरातनं धर्मं जगृहुर्विप्रजातयः ।
स्वाध्यायं योगकरणं तपः सन्तानपालनम् ॥३८॥
मैत्र्यं हितकरं वाक्यं धर्तव्यं रक्षणं सदा ।
एवं वै वर्तयन् विप्रः स्वर्गं नित्यमवाप्नुयात् ॥३९॥
क्षत्रियस्तु समदद्यात् चाधीयीत यजेत च ।
प्रजाः प्रपालयेत् पराक्रमेदन्यायवर्तिनि ॥४०॥
क्षत्रकृत्यं दस्युजातेर्वारणं मुख्यमस्ति यत् ।
दानं चाध्ययनं यज्ञश्चेति राज्ञां सुखावहाः ॥४१॥
तैश्च तिष्ठन्निजे धर्मे राजा सर्वान् हि वर्तयेत् ।
एवं धर्मे स्थितो राजा राजन्येन्द्रः समुच्यते ॥४२॥
अथेतरः कृषिकर्मा व्यापारवान् च वा जनाः ।
दानमध्ययनं यज्ञं प्रकारयेद् धनार्जनम् ॥४३॥
पशून् वै पालयेत् सर्वान् पुत्रवात्सल्यभावतः ।
पशूनां रक्षया वैश्यः परमं सुखमाप्नुयात् ॥४४॥
प्रजापतिः पुरा सृष्ट्वा पशून् वैश्याय सन्ददौ ।
राज्ञे ददौ प्रजाः सर्वा विप्रेभ्यः शारदां ददौ ॥४५॥
सप्तमं भागमादाय जीवनं सर्वथा चरेत् ।
क्षत्रियश्चेत्तदा मह्यं समर्प्य मोक्षमाप्नुयात् ॥४६॥
सेवां च भृत्यतां दास्यं परिचर्या च दूतताम् ।
कुर्वाणा दासवर्गास्तु महत्सुखमवाप्नुयुः ॥४७॥
शुश्रूषा कल्पवल्ल्यस्ति शुश्रूषा कल्पपादपः ।
शुश्रूषा कामधेनुश्च चिन्तामणिश्च सा मता ॥४८॥
सेवया वशमायाति सिंहो राजा गुरुर्ग्रहाः ।
दास्येन वशतां यान्ति स्वामीपतिः सती प्रजाः ॥४९॥
शुश्रूषया वशं यान्ति शत्रुर्द्वेष्टा तमः खलाः ।
परिचर्यापरो लोको रञ्जयति नियामकान् ॥५०॥
रञ्जनाद् राजराज्यादि रञ्जकस्य न वै पृथक् ।
तस्मात् सर्वं प्रपद्येत सेवया रत्नसंभृतम् ॥५१॥
छत्रं वेष्टनमाभूषा चोपानद् व्यजनादिकम् ।
अम्बराणि सुभोज्यानि दीयन्ते परिचारिणे ॥५२॥
अनपत्यो हि भर्तव्यो भर्तव्यौ वृद्धदुर्बलौ ।
दासो दासी भत्यवर्गो भर्तव्या धर्मतस्तु ते ॥५३॥
यज्ञः पूजा ब्राह्मणानां यज्ञो धनेन भूभृताम् ।
वैश्यानां भरणं यज्ञः श्रद्धा यज्ञस्तु सेविनाम् ॥५४॥
अग्रे सर्वेषु यज्ञेषु श्रद्धा यज्ञोऽतिदुष्करः ।
दैवतं परमं श्रद्धा यया तुष्यामि माधवः ॥५५॥
श्रद्धामयाः कर्मकाराः सर्वफलैः समृद्धिनः ।
तस्मात् सर्वेषु लोकेषु श्रद्धायज्ञो विधीयते ॥५६॥
दैवतं परमं यत्र श्रद्धाख्यं तत्र देवता ।
कार्यसिद्धिश्चेशसिद्धिर्मयि न्यस्य समर्थ्यते ॥५७॥
स्तेनो वा यदि वा पापो यदि वः पापकृत्तमः ।
यष्टुमिच्छति यज्ञं यः साधुरेव यतो हि सः ॥५८॥
यष्टव्यं सर्वदा तस्माद् देवे वा चेतनेऽपि वा ।
दरिद्रेऽनाथवर्गे वा पाल्ये वा श्रद्धयोद्धृते ॥५९॥
सर्वथा सर्वदा सर्वैर्यष्टव्यमिति निश्चयः ।
नहि यज्ञसमं किञ्चित् फलदं सुखदं परम् ॥६०॥
ब्रह्मचर्यपरो वा स्याद् गृहधर्ममनाचरन् ।
ब्रह्मण्येव तु जुह्वानः परब्रह्माऽधिगच्छति ॥६१॥
यद्वा सदारकर्मापि मत्परायणधर्मवान् ।
ममाश्रये चरन् धर्मं बन्धनान्मुच्यतेऽपि सः ॥६२॥
कृतकृत्योऽथवा ज्ञानदृष्ट्या वने वसेदपि ।
मत्परः स सदा कर्मी व्रजत्यक्षरसाम्यताम् ॥६३॥
मम धर्मान् साधुभावानाश्रित्य द्वन्द्ववर्जितः ।
यतिश्चेत् प्राप्नुयान्मां स मद्भावायोपकल्प्यते ॥६४॥
भैक्षवृत्तिश्च यस्तिष्ठेन्निष्परिग्रह आत्मवान् ।
कर्मी वा कर्मशून्योऽपि मद्भावायोपकल्पते ॥६५॥
मितशायी मिताशी च निराशी चाप्यकेतनः ।
यथोपलब्धजीवी च मुनिर्मां समवाप्नुयात् ॥६६॥
निराशी ब्रह्मवत्प्रोक्तस्तृप्तः पूर्णसुखाश्रयः ।
निर्भोगो वृत्तिवर्ज्यश्च व्रजत्यक्षरसाम्यताम् ॥६७॥
गृहाश्रमी तरेन्मायां मायायां माययोषितः ।
अपि सर्वां मयि क्षिप्त्वा ततो बन्धाद् विमुच्यते ॥६८॥
स्वदारतुष्टः सन्तोषी शाठ्यजैह्म्यविवर्जितः ।
देवपूजापरः सत्यो दान्तो विभागकृत्तथा ॥६९॥
क्षमादयापरो दाता सर्वेभ्यश्च यथोचितम् ।
आर्जवं चातिथिपूजां भरणं श्रितदेहिनाम् ॥७०॥
यः कुर्याद् वर्तयेच्चापि वर्तेतापि स मोक्षभाक् ।
स्वर्गे शुद्धं फलं प्राप्य मोदित्वा शाश्वतीसमाः ॥७१॥
देहान्ते चाक्षयान् कामाननन्तान् सर्वतः स्थितान् ।
अवाप्नुयान्न सन्देहो मय्यर्पणे तु मद्गतान् ॥७२॥
यो यथा कुरुते चात्र तादृशं स समाप्नुयात् ।
पारक्यं प्रथमं कृत्वोपकाररूपमुत्सवात् ॥७३॥
ततो दैह्यं चान्तरं च ततो नैजं समाचरेत् ।
पारमेशं ततः कुर्यात् सर्वदोषनिवारकम् ॥७४॥
य एवं वर्तते राजा लोके प्रजाजनोऽपि वा ।
सर्वतन्तुप्रोतमणिर्मेरुकृष्णं स विन्दति ॥७५॥
तस्मात् प्रजाभिः सततं परमेशे समर्प्य च ।
निर्द्वन्द्वाभिर्निष्कर्माभिर्भाव्यं ब्राह्म्यधिलब्धये ॥७६॥
मत्कर्माणं मद्विश्रान्तं मद्धोमं मत्परायणम् ।
तारयामि न सन्देहो मृत्युसागरपूरतः ॥७७॥
अर्चयित्वा सर्वपितॄन् देवानृषीन् समाश्रितान् ।
आन्तरस्थं हरिं चापि यायादन्ते हरेः पदम् ॥७८॥
अकुर्वन् वा विकुर्वन् वा कुर्वन् वा मत्कृताश्रयः ।
मद्योगात्पारमाप्नोति कर्माऽसंख्याऽधिवारिधेः ॥७९॥
मां यजन्तु सदा प्रातर्मां स्मरन्तु क्रियादिषु ।
मामन्ते हृदये कृत्वा प्रयान्तु मेऽक्षरं पदम् ॥८०॥
इत्युक्त्वा विररामैव राधिके भगवान् स्वयम् ।
मिलिन्दाराजधान्याश्च राजा प्रजास्तथेतरे ॥८१॥
धर्ममासाद्य विज्ञानैर्मिश्रितं बन्धनाशकम् ।
प्रसन्ना जगृहुः सर्वान् धर्मास्तदोपदेशितान् ॥८२॥
लोमशश्च ददौ तत्र ताभ्यो मन्त्रं हरेरपि ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥८३॥
ततः प्रजाश्च राजा च पूजयामासुरीश्वरम् ।
स्वर्णरूप्यकमुद्राभिश्चोपदाभिस्तथाऽम्बरैः ॥८४॥
विभूषाभिश्चन्दनाद्यैरक्षतैः पुष्पहारकैः ।
विविधैर्दानयोग्यैश्च वस्तुभिः परमेश्वरम् ॥८५॥
हरिस्ताभ्यः प्रजाभ्यश्च राजभ्यश्च प्रसन्नहृत् ।
आशीर्वादान् ददौ यूयं भवत श्रेष्ठकीर्तयः ॥८६॥
श्रेष्ठराज्याः श्रेष्ठधर्माः श्रेष्ठन्यायपरायणाः ।
श्रेष्ठस्य मे महेशानस्यैव भक्तौ कृतादराः ॥८७॥
एवमुक्त्वा विशश्राम हरिर्निजनिवासने ।
जना नैजान् निवासाँश्च ययुः कृतात्मवेदिनः ॥८८॥
अंगराजो भोजनानि ददौ श्रीपरमात्मने ।
सर्वानभोजयच्चापि महीमानान् हरेःश्रितान् ॥८९॥
ईशानं पूजयामास लोमशं च पुपूज ह ।
हरेः कुटुम्बकं प्रार्च्य राजा जग्राह भोजनम् ॥९०॥
राज्ञी रंगरजानाम्नी चांगराजस्य पत्निका ।
गौरी प्रसन्नहृदयैकादशपुत्रिकायुता ॥९१॥
पौष्पकानकहाराँश्च चन्दनाक्षतगन्धिनः ।
आदायाऽर्चयितुं चायाद् बालकृष्णस्य सन्निधौ ॥९२॥
पुपूज प्रीत्या चरणौ पयसाऽक्षालयद्धरेः ।
पपौ पपुश्च गौर्यस्ताः कन्यास्त्वेकादशापि वै ॥९३॥
अनादिश्रीबालकृष्णं विलोक्य कान्तमीश्वरम् ।
करे जगृहुरत्यर्थं विवाहविधिना तु ताः ॥९४॥
कण्ठे हारान् ददुस्ताश्च हरिस्ताभ्योऽपि सन्ददौ ।
उत्सवः स महान् जातः कृतकृत्योऽभवन्नृपः ॥९५॥
अथ निद्रां जगृहुश्च विशश्रमुः सुखं निशाम् ।
गतां विलोक्य भगवान् श्रुत्वा मंगलनिःस्वनान् ॥९६॥
कृताह्निको हरिस्तूर्णं स्वस्थोऽभवद् यदा द्रुतम् ।
तावद् राजा सती राज्ञीश्चाजह्रतुः पयः शुभम् ॥९७॥
फलात्मभोजनाद्यं च जग्राह भगवाँश्च तत् ।
ब्रह्मप्रियाः कुटुम्बं चर्षयो जगृहुरुत्सुकाः ॥९८॥
फलानि जगृहुश्चापि ताम्बूलानि ततः परम् ।
विदायं जगृहुश्चापि सन्मानं प्राप्य तत्क्षणम् ॥९९॥
हरिश्चान्ये नृपं पृष्ट्वाऽऽरुरुहुः सज्जिता द्रुतम् ।
विमानानि तूर्यनादान् शृण्वन्तो व्योममार्गतः ॥१००॥
आकारणादिवचसो विचेरुश्चाग्रतस्तदा ।
इत्येवं राधिके कृष्णनारायणो ययौ पुरः ॥१०१॥
बललीननृपराष्ट्रं जरामौनर्षिभूतलम् ।
अम्बराद् भूतलं कृष्णो ददर्श बहुशोभनम् ॥१०२॥
राजा पुरो ययौ भूमौ बललीनो महर्षिणा ।
जरामौनेन साकं वै स्वागतार्थं हरेस्तदा ॥१०३॥
राधिके श्रावणे कृष्णैकादश्यां प्रहरद्वये ।
तदा वाद्यान्यवाद्यन्त जयध्वानास्तदाऽभवन् ॥१०४॥
यन्त्रशब्दा नाममाला भजनान्यभवन् भुवि ।
राजदर्शितमार्गेण विमानानि क्रमात्तदा ॥१०५॥
अवतेरुर्महोद्याने वालीनायास्तु सन्निधौ ।
विशालाया राजधान्या लक्षाधिजनसंकुले ॥१०६॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने हरेर्लीनोर्णराष्ट्रागमनं वारुण्यां नगर्यां भ्रमणं पूजनं भोजनं विदायं, ततो बृहच्छरनृपराष्ट्रागमनं धीवरायां नगर्यां भ्रमणं, ततोऽङ्गराजस्य मिलिन्दानगरीं प्रति गमनं भ्रामणमुपदेशनं भोजनं रात्रौ विश्रान्तिर्भाद्रकृष्णैकादश्यां प्रहरद्वये बललीननृपराष्ट्रगमनमित्यादिनिरूपणनामा द्वानवत्यधिकशततमोऽध्यायः ॥१९२॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP