संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २३१ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २३१ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २३१ Translation - भाषांतर श्रीकृष्ण उवाच-चतुर्दश्याः प्रगे राधे आश्विनकृष्णपक्षके ।मांगलिकैस्तूर्यनादैर्गीतिभिः प्रबुबोध सः ॥१॥बालकृष्णः कृतस्नानपूजः स्वासनमाविशत् ।राजारायपतिः कृष्णं पूजयितुमुपाययौ ॥२॥ननाम पादयोर्भक्त्याऽभिषेकं पयसा तदा ।पादयोः प्रचकाराऽथ प्रसादाऽमृतमापपौ ॥३॥सकुटुम्बः श्रीपतिं तं चान्दनं तिलकं व्यधात् ।सचन्द्रकं तथा रम्यनेत्रयोः कज्जलं ददौ ॥४॥मुकुटं मस्तके चापि कुण्डले कर्णयोर्ददौ ।कण्ठे सुवर्णरत्नाढ्यहारान् प्रशृंखलां ददौ ॥५॥भुजबन्धौ च कटकावङ्गुलीयकमूर्मिकाः ।रशनां नूपूरकौ च कट्यां पादप्रकोष्ठयोः ॥६॥निधारयामास राजा भगवन्तं रमापतिम् ।सुगन्धिगन्धसारादि व्यलेपयत्तदाऽङ्गके ॥७॥यथोचितं पुष्पहारान् प्रददौ च सुगन्धिनः ।राजवेषं रमणीयं धारयामास भूपतिः ॥८॥हरिर्दधार प्रमुदा राज्ञः स्नेहाभिवृद्धये ।ततो नीराजनं चक्रे राजा राज्ञीसमन्वितः ॥९॥कन्याश्चास्य त्रयस्त्रिंशन् महानीराजनं व्यधुः ।वरमाला ददुर्मुग्धा बालकृष्णस्य वक्षसि ॥१०॥पतिं प्राप्य प्रभेशं ताः कृतकृत्यास्तदाऽभवन् ।राजा तं कानके सिंहासने रम्ये नृपार्चिते ॥११॥निषाद्य श्रीहरेः राज्यमुकुटं मस्तके ददौ ।राज्यं च कन्यकाः कृष्ण! मोक्षार्थं ते प्रदीयते ॥१२॥अत आरभ्य राज्यं ते वयं ते दासदासिकाः ।अत्रैव भगवँस्तिष्ठ कृपासिन्धो परात्पर ॥१३॥त्वमात्मा त्वं त्वन्तरात्मा परमात्मा प्रभुर्मतः ।सर्वप्राणपते विष्णो पाहि संसारसागरात् ॥१४॥भवद्दत्तं मया राज्यं निर्वाहितं मखावधि ।अथ श्रीभगवान् स्वामी समायातो धुरं वह ॥१५॥त्वन्निदेशं पालयिष्ये भृत्यवत् तिष्ठ राज्यपः ।अनायासेन भगवान् कृपयाऽस्माभिरर्जितः ॥१६॥योगिनो यस्य लब्ध्यर्थं तपःसु कृच्छ्रसाधिषु ।होमं निजायुषः प्रकुर्वन्त्यपि त्वं न चाप्यसे ॥१७॥सिद्धाः समाधिभाजोऽपि सततं त्वामुपासते ।साक्षात्तथापि त्वं तेषामक्षिदृश्यो न जायसे ॥१८॥सोऽयं विना तपो मेऽत्र गृहेऽनुग्रहतः प्रभो ।समागतो ममोद्धारकृते कुटुम्बिनश्च मे ॥१९॥सर्वं समर्प्य ते हस्ते कृतकृत्यो भवामि तत् ।गृहाण भगवन् दत्तं राज्यं मे मोक्षमर्पय ॥२०॥मया ज्ञातो दिव्यरूपस्तथा मानुषवर्तनः ।अवतारावतारी त्वं श्रुत्युक्तः परमेश्वरः ॥२१॥ब्रह्मप्रियापते त्वं वै सांख्ययोगिनिकापते ।लाक्ष्मणीकान्त कृष्ण त्वं चारक्तानां पतेऽव माम् ॥२२॥उष्णोनां कान्त कृष्ण त्वं पिशंगीनां पते प्रभो ।प्राचीनीनां पते कृष्ण हारितीनां पतेऽव माम् ॥२३॥गौरीणां कान्त भगवन्नमरीणां पते विभो ।ब्राह्मीलीनां परीणां च पते राधापतेऽव माम् ॥२४॥लक्ष्मीपते कृपासिन्धो रमास्वामिन् सतां पते ।राजपते सुरादीनां पते चेशपतेऽव माम् ॥२५॥कमला चरणौ ते या सेवते ललिताऽपि यौ ।बहुपुण्येन मिलितौ पुत्रीणां मम केशव ॥२६॥सेवते दुःखहालक्ष्मीर्जया यौ मंजुला च यौ ।नारायणी सद्गुणा यौ तौ दिव्यौ मिलितौ मम ॥२७॥माणिक्या सेवते यौ च मुक्ता यौ सेवते सखी ।पद्मावती सती हासा सेवते यौ प्रमुक्तिदौ ॥२८॥चत्वारिंशत् शतं चापि तथाऽपरास्तु कोटिशः ।सृष्टित्रयनिवासिन्यस्तव दास्यो भवन्ति हि ॥२९॥ईश्वरा अवताराश्च मुक्ता देवा महर्षयः ।चरणौ यौ प्रसेवन्ते ते कृपाप्लाविता यदि ॥३०॥तौ सुप्राप्तौ मया कृष्ण चरणौ पावनौ गृहे ।यत्र सर्वार्पणं पूर्वे राजानश्चक्रुरात्मनः ॥३१॥आसादितौ मया तौ वै ततोऽर्पयेऽव मां विभो ।महाकालभयं मायाभयं कर्मप्रबन्धनम् ॥३२॥दूरयितुं समर्थं नेतरत् ततो भजेऽव माम् ।शरणागतरक्ष त्वं शरण्योऽसि जनार्दन ॥३३॥भवप्रवाहपतितं मामुद्धर महेश्वर ।तव योगेन दिव्यं मे राज्यं गृहं धनादिकम् ॥३४॥तीर्थरूपं महज्जातं धामाऽक्षरसमं भुवि ।अहो भाग्यमहो भाग्यं राजारायस्य भूतले ॥३५॥यद्गृहे कन्यकाकान्तः स्वयं श्रीपुरुषोत्तमः ।अहो भाग्यमहो भाग्यं परीनासरितोऽपि च ॥३६॥यत्र तीर्थानि सर्वाणि समायान्ति ते बलात् ।आर्षजतन्तुराष्ट्रस्य महाभाग्यं प्रवर्तते ॥३७॥यत्र नारायणः साक्षाद्वर्तते परमेश्वरः ।व्येनोजराशानगरी तवोपस्थितितः प्रभो ॥३८॥सार्थकाऽद्य तु सञ्जाता सर्वपापविनाशिनी ।मृत्युजरादिरहिता तव वासादजायत ॥३९॥सदा तिष्ठ हरेऽचात्र करिष्ये तव सेवनम् ।इत्युक्त्वा श्रीहरेश्चाऽग्रे दण्डवत् प्रचकार ह ॥४०॥राधिके सा ततो राज्ञी चकार दण्डवद्धरिम् ।महोत्सवं ततश्चक्रे चतुर्दश्यां महत्तमम् ॥४१॥प्रजाः प्रधाना नार्यश्च नराः समन्ततस्तदा ।आययुर्दर्शनार्थ वै दूरातिदूरदेशतः ॥४२॥तेभ्यो हरिर्ददौ मन्त्रान् सुखं दर्शनजं तथा ।मानसानां निजमूर्तावाकर्षणेन सर्वथा ॥४३॥भगवद्भावनां चापि कारयामास शाश्वतीम् ।तत्कृतां सुप्रपूजां च जग्राह परमेश्वरः ॥४४॥तेभ्यः प्रासादिकं दत्वा तोषयामास केशवः ।दिव्यं स्वदर्शनं चापि प्रददौ पारमेश्वरम् ॥४५॥अक्षरस्य तथा गोलोकस्थं वैकुण्ठगं तथा ।अव्याकृतस्थं रूपं स्वं चामृतस्थं तथा विभुः ॥४६॥हिरण्मयं तथा वह्निमण्डलस्थं तथा पुनः ।विशालास्थं श्वेतधामगतं क्षीराब्धिवासिनम् ॥४७॥तथा कुंकुमवापीस्थं बालकृष्णं च गोचरम् ।एवं त्वनेकरूपैर्वै परेशं स्वमदर्शयत् ॥४८॥तेन ते कृतकृत्या वै नरा नार्योऽभवँस्तदा ।तेभ्यो मन्त्रान् ददौ श्रीमत्स्वामिश्रीकृष्णवल्लभः ॥४९॥राजा प्रपूज्य देवेशं भोजयामास वै ततः ।पर्यः सर्वाः कृतकृत्याः पर्यसेवन्त तं पतिम् ॥५०॥हरिः प्राह च राजानं मम राज्यं न संशयः ।त्वयाऽर्पितं मया लब्धं पुनर्ददामि ते नृप ॥५१॥ममाज्ञया महद्राज्यं प्रपालय यथोचितम् ।दृढं च मन्दिरं साप्तशिखरं संप्रकारय ॥५२॥तत्र मां श्रीसमेतं वै प्रतिष्ठापय कानकम् ।स्वर्णमूर्तौ सदा स्थास्ये ग्रहिष्ये च त्वया कृतम् ॥५३॥पूजनं सर्वदा राजन् ममाज्ञां परिपालय ।तथाऽस्त्विति नृपः प्राह राधिके द्रुतमेव ह ॥५४॥सुवर्णमूर्तिं तत्रैव कारयामास सन्निधौ ।श्रीसहितां तत्र कृष्णो विवेश गोचरः स्वयम् ॥५५॥राजा गृहे ररक्षैव ततः कालेन मन्दिरे ।न्यवेशयद्धरिं चैवं सिषेवे परमादरात् ॥५६॥चतुर्दश्यां च मध्याह्ने भोजयामास भूपतिः ।सायकाले पितृपूजां परीनासरितस्तटे ॥५७॥श्राद्धानि विविधान्येव चकार भगवान् स्वयम् ।पितॄणां जलपिण्डाद्यैस्तृप्तिं चकार केशवः ॥५८॥ततः सन्ध्यां प्रचकार ततः सौधं समाययौ ।रात्रौ कन्यास्तु ताः सर्वाः पतिं नैजं सिषेविरे ॥५९॥प्रातर्हरिः प्रबुबोध मांगलिकप्रगीतिभिः ।प्रवाद्यैश्च यशोभिश्च ततः सस्नौ नदीजलैः ॥६०॥अमावास्यादिने पितृजलदानं चकार ह ।प्लक्षमूले ददौ वारि सर्वसृष्टिभ्य एव सः ॥६१॥आगताः पितरस्तत्र तृप्त्यर्थं हरिहस्ततः ।मुक्ता अक्षरसंज्ञाश्च गोलोकावासगोपकाः ॥६२॥पार्षदा वैकुण्ठवासा अव्याकृतनिवासिनः ।अमृतस्थास्तथा मुक्ता अन्यवैकुण्ठवासिनः ॥६३॥सत्यस्था ब्राह्मसंज्ञाश्च सिद्धा महर्षयस्तथा ।ब्रह्मविष्णुमहेशाद्या मुनयो देवतादयः ॥६४॥अर्यमाद्याश्च पितरो मातृकाः पितृयोषितः ।तथान्ये याम्यलोकस्थास्त्रिलोकिस्थाश्च सर्वतः ॥६५॥तृप्त्यर्थं त्वाययुस्तत्र नारायणजलेच्छया ।श्रीहरिं स्वकराभ्यामञ्जलिभिः सलिलं ददौ ॥६६॥पपुः सर्वेऽपि पितरो मुक्तिं गताश्च मोक्षिणः ।स्थानिनस्तृप्तिमापुश्च जग्मुर्निजं स्वरादिकम् ॥६७॥सर्वे तृप्तिं गता ये ये पितृयोनिस्थितास्तदा ।अथ श्रीभगवान् स्वस्यालयं सौधं समाययौ ॥६८॥पितृश्राद्धानि विविधप्रकाराणि ततोऽकरोत् ।पिण्डदानैः पायसाद्यैः क्षीरान्नभोजनादिभिः ॥६९॥फलपुष्पौदनाद्यैः शर्कराद्यैर्मिष्टसद्रसैः ।सुधामिष्टान्नकैश्चापि मुन्यन्नैस्तानतर्पयत् ॥७०॥श्राद्धानि विधिना कृत्वा परिहारं ततोऽकरोत् ।प्रासादिकानि भोज्यानि भोजयामास वाडवान् ॥७१॥दीनाऽनाथान् कृपणांश्च सतीः साध्वी सतो यतीन् ।आश्रितान् कन्यकाश्चापि कुमारान् कर्मचारिणः ॥७२॥भक्तान् सर्वांश्च भृत्यान् संभोजयामास वै प्रभुः ।राज्ञश्च राजवर्गाश्च वैश्यान् सेवापरायणान् ॥७३॥भोजयामास भगवान् स राजाऽप्याज्ञया हरेः ।बुभुजे तत्प्रसादान्नं मध्याह्नोत्तरमेव तु ॥७४॥हरिः सभां सुमहतीं चक्रे तूपादिदेश वै ।गृहस्थैः सर्वदा माता सेवनीया पिता तथा ॥७५॥गुरुश्च सेवनीयोऽथ तदाज्ञायां यथोचितम् ।स्थातव्यं मनसा वाण्या देहेन च धनेन च ॥७६॥दशश्रोत्रीयसदृशश्चैकोपाध्याय उच्यते ।दशोपाध्यायसदृशः पिता लोके महान् मतः ॥७७॥माता दशगुणी श्रेष्ठा पितुः पुत्रप्रपालिनी ।मात्रा धृतः स गर्भे वै बाल्येऽपि सेवितस्तथा ॥७८॥यौवने योजितः पत्न्या तस्मान्माता गरीयसी ।गुरुर्दशगुणो मातुर्गरीयान् ज्ञानदो मतः ॥७९॥जन्ममृत्युजराहो यो वासनाबन्धनाशनः ।पापनाशकरः पूज्यो गुरुर्जीवस्य मोक्षकृत् ॥८०॥माता पिता गुरुर्मान्याः पूजनीया हितैषुभिः ।त्रयस्ते पूजिता येन तस्य स्मृद्धिर्न रिष्यति ॥८१॥त्रयस्ते देवरूपा वै त्रयोऽग्नयश्च ते मताः ।तेषां सेवा कृता येन प्राप्तं जन्मफलं शुभम् ॥८२॥भर्त्सनीया न ते पुत्रैस्ताडनीया न वै क्वचित् ।उद्वेजनीया नाऽप्यत्र पोषणीयास्त्रयोऽपि ते ॥८३॥मातरं यः प्रकुर्याद्वै प्रदक्षिणां नमस्तथा ।तेन प्रदक्षिणा पृथ्व्याः कृता स्यान्नात्र संशयः ॥८४॥पिता संपूजितो येन विष्णुस्तेन प्रपूजितः ।गुरुश्च पूजितो येन तेनार्चिताः सुरादयः ॥८५॥तेभ्यो देयं यथाशक्ति धनमन्नं तथाऽम्बरम् ।यद्यद्योग्यं तथाऽपेक्ष्यं तत्तद्देयं हि सर्वथा ॥८६॥वृथा क्लिश्यन्ति तीर्थेषु येषां तीर्थत्रयं गृहे ।त्रयाणां सेवया सर्वाध्वरपुण्यं भवेद् ध्रुवम् ॥८७॥त्रयाशीर्वादलाभेन याम्याः प्रयान्ति दूरतः ।लक्ष्म्यः सर्वविधास्तस्य गृहे त्वायान्ति चान्यतः ॥८८॥त्रयस्ते पितरः प्रोक्ताः सजीवाः सेवनाय वै ।अत्रैते सेविता येन परलोकोऽस्य शोभनः ॥८९॥एते दुःखीकृता येन स दुःखी स्यात्परत्र च ।पुत्रादिभिः सेविताश्च तृप्ता मृत्युं प्रयान्ति ये ॥९०॥पितरस्ते भवेयुर्वै मुक्ताः स्वर्गादिगामिनः ।प्रेतत्वं नहि तेषां वै नैव कनीयसी गतिः ॥९१॥न जन्म दुःखकृत् तेषां प्रसन्ना ये मृतिं गताः ।अप्रसन्ना दुःखिताश्च मृतिं गताश्च ये जनाः ॥९२॥क्रूरभावा हि ते वंश्यस्थानां रक्तं पिबन्ति वै ।तेषां सद्गतिलाभार्थं श्राद्धं दद्यात् सुतादिभिः ॥९३॥वंशे विघ्नानि नश्येयुर्वंशवृद्धिर्भवेत् तथा ।अद्य कृतं प्रदत्तं च श्राद्धमन्नं जलं फलम् ॥९४॥स्वर्गं प्रयाति यत्रैव सन्ति पितर एव ह ।तृप्यन्ति पितरस्तत्र गृहीत्वा सुखिनः सदा ॥९५॥तस्माच्छ्राद्धं प्रकर्तव्यं पितॄणां मोक्षसिद्धये ।तन्नाम्नाऽन्नं जलं वस्त्रं फलं पायसमित्यपि ॥९६॥शय्या पात्राणि धान्यानि रसा देया विशेषतः ।भोजनानि प्रदेयानि पितृतृप्त्यर्थकानि हि ॥९७॥तीर्थेषु सत्सु पात्रेषु देयं शक्त्या यथोचितम् ।स्वर्णं च रजतं ताम्रं धनं देयं विशेषतः ॥९८॥वाहनं यानमेवापि यदासीत्तस्य वै प्रियम् ।तत्तद्देयं हि पात्राय तत्पुण्यं स्यादनन्तकम् ॥९९॥इत्युक्त्वा विररामाथ प्रजाः पूजां प्रचक्रिरे ।धनान्नाम्बरपात्राद्यैश्चन्दनाक्षतपुष्पकैः ॥१००॥ततो धनं विशेषेणाऽऽगतं पूजात्मकं तु यत् ।राजगिरर्षये कृष्णः प्रददौ दानरूपकम् ॥१०१॥रात्रौ निद्रां च विश्रान्तिं प्राप गोपालनन्दनः ।राधिके सेवितः सर्वप्रियाभिः परमेश्वरः ॥१०२॥प्रातर्मंगलवाद्यैश्च नारीणां गीतिभिस्तथा ।प्रबुबोध हरिकृष्णो ध्यानं स्वहृदयेऽकरोत् ॥१०३॥कृतस्नानादिकः कृताह्निकः कृतगुरुस्तवः ।निषसादाऽऽसने दिव्ये तावद् राजा समाययौ ॥१०४॥कृतवान् स महापूजां श्रीहरेश्चन्दनादिभिः ।पायसं पाययामास महीमानान् समस्तकान् ॥१०५॥राज्ञी पूजां चकारापि पुपूजुश्च ततः प्रजाः ।राजा चेयेष नगरान्तराणि नेतुमच्युतम् ॥१०६॥हरिस्तथाऽस्त्विति प्राह सद्यः सज्जो बभूव ह ।राधिके स्वविमानस्थोऽभवत् सह कुटुम्बकैः ॥१०७॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने हरेः पूजनमुपदेशनम् पितृश्राद्धदानवारिदानादिकममावास्यायां कृत्वा रात्रौ विश्रम्याऽऽश्विनशुक्लप्रतिपदि प्रातःपूजनादिकं चेत्यादिनिरूपणनामैकत्रिंशदधिकद्विशततमोऽध्यायः ॥२३१॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP