संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १९३ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १९३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १९३ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु राधे ततो राजाऽवतरन्तं विमानतः ।भगवन्तं बालकृष्णं पुष्पहारं गले ददौ ॥१॥रत्नहारं ददौ कण्ठे करे गुच्छं तु पुष्पजम् ।राज्ञी साक्षतचन्द्रं च कौंकुमं प्रचकार ह ॥२॥कुमारिकाः कृष्णपादौ प्रक्षाल्याऽमृतमापपुः ।राज्ञः कुटुम्बं चामात्याः प्रधानाद्याः प्रजास्तथा ॥३॥श्रीहरेः स्वागतं चक्रुः पूजाभिस्तत्र सादरम् ।जलपानं च हरये राजा ददौ सुगन्धिमत् ॥४॥अन्यानपि जनान् सर्वान् जलपानमकारयत् ।हरिं राजा गजयाने सौवर्णे सन्न्यषादयत् ॥५॥कुटुम्बं गजयानेषु महर्षीन् वृषवाजिभिः ।वाहितेषु रम्यपट्टीगन्त्रीषु स न्यषादयत् ॥६॥ब्रह्मप्रियास्तु दिव्यासु पट्टगन्त्रीषु भूपतिः ।न्यषादयत्ततो राजा हस्तियाने त्वरूरुहत् ॥७॥वालीनायां नगर्यां ससैन्यो राजा हरिं प्रभुम् ।अभ्रामयद् राजमार्गेणान्यरथ्यादिचत्वरे ॥८॥अग्रे डंककनादो वै याति चोष्ट्रस्य पृष्ठके ।ततो वाजिवरो याति सध्वजो वाहकान्वितः ॥९॥ततो हस्ती महान् याति दुन्दुभिध्वानबोधनः ।शृंगारितास्तु ते वाहाः शोभन्ते देवता यथा ॥१०॥ततो याति रथो दिव्यः पुत्तलीचक्रशोभितः ।पुष्पहारादिदानार्थं प्रजायै कृष्णपूजने ॥११॥ततः स्वर्णमयी गन्त्री विशाला यन्त्रवाहिता ।यत्र झांझपखाजादिमण्डली कीर्तनार्थिनी ॥१२॥यत्र ध्वानकराश्चाश्ववाराः सकुन्तसद्ध्वजाः ।ततो याति महान् हस्ती यत्र राजकुमारकाः ॥१३॥ततो यान्ति चोष्ट्रगन्त्र्यो यत्र प्रधानजाः प्रजाः ।ततो यान्ति सिंहवेषा वादित्रनादिनो जनाः ॥१४॥ततो व्याघ्रप्रवेशाश्च विगुलादिनिनादिनः ।अथ सप्तगजा यान्ति ब्रह्मर्षिवाहनास्तदा ॥१५॥ततोऽश्ववारयुगलाः स्वर्णवेषाश्च शस्त्रिणः ।वाद्ययुक्तगणा यान्ति दुन्दुभ्यानकधारिणः ॥१६॥पटहध्रास्ततो यान्ति पट्टघाश्च ततः परम् ।ततो गणा यथा शंभोः शतशो भृत्यपार्षदाः ॥१७॥ततो भृत्या राजगन्त्रीवर्यासु वै सहस्रशः ।ततो वाद्यानि चान्यानि मिष्टमधुरसद्रवैः ॥१८॥बोधयन्ति जनान् पश्चाद् यान्ति ब्रह्मप्रिया इमाः ।ततो गन्त्रीषु सर्वासु गौर्यः शृंगारिता ययुः ॥१९॥ततः कुटुम्बं कृष्णस्य गजेषु याति शोभितम् ।तत ईषानदेवश्च गजपृष्ठे विराजते ॥२०॥ततो राज्ञी राजमाता स्वर्णगन्त्र्यां विराजते ।ततः कुमारकाः सर्वे कुमारिकास्ततः परम् ॥२१॥गजयन्त्रीषु राजन्ते ततो राजा सुशोभितः ।बललीनो महाराजः श्रीकृष्णेन तु सत्कृतः ॥२२॥हस्तियाने बालकृष्णसन्निधौ राजते पुरः ।धृतछत्रः पार्श्वभागे चामरध्रौ प्रतिष्ठतः ॥२३॥पृष्ठे महाश्ववाराश्च गजवाराः प्रयान्ति च ।ततो गौर्यः स्वर्णवेषाः प्रयान्ति मंगलस्वराः ॥२४॥मस्तके कृतकलशाः फलपत्रजलान्विताः ।यान्ति गीतिपराः सर्वा रक्षकाश्च ततः परम् ॥२५॥यन्त्रध्वानकराश्चापि चान्ते प्रयान्ति वै तदा ।गौर्यः प्रजाप्रियाश्चापि प्रयान्ति संघशस्तदा ॥२६॥राजमार्गाः संकुलितास्तदाऽऽसन् मानवैरति ।चत्वराश्चन्द्रशालाश्चालयाः सौधाः प्रतर्दिकाः ॥२७॥वितर्द्यः संगमा रथ्यायोगाः पार्श्वपदसृतिः ।वल्लभ्यश्चांगणान्यगाराणि गोपुरभूमिकाः ॥२८॥वृक्षशाखा दुर्गभागा भित्तिका गृहवेषकाः ।कोणाः कफोणाश्चोत्ताना मध्यभारा नलाजलाः ॥२९॥उच्छ्रया जीर्णभागाश्च गण्डोर्ध्वा गृहभूमयः ।उद्याना मार्गभागाश्च पार्श्वप्राकारवृत्तिकाः ॥३०॥सर्वं संकुलितं चासीन्मानवैर्दर्शनार्थिभिः ।नगरी कोटिमानुष्यैर्मर्दिता दर्शनार्थकैः ॥३१॥स्वर्गस्येन्द्रावतीनाम्नी यथाऽशोभत सा पुरी ।चत्वराः पुष्पस्तबकैः कृत्रिमोद्यानकीकृताः ॥३२॥रथ्याद्वाराणि च शृंगारितानि गोपुरादिभिः ।हट्टांगणानि सर्वाणि शोभितानि च तोरणैः ॥३३॥मार्गपार्श्वप्रभागाश्च शोभिताः कदलीवनैः ।अगाराणि रङ्गवल्लीस्वस्तिकाद्यैः कृतानि च ॥३४॥मार्गोपर्यन्तरीक्षं शोभितं पताकिकाध्वजैः ।वावटाभिस्तोरणैश्च संशोभिताः सुभूमिकाः ॥३९॥कलशैः श्रीफलैश्चापि द्वारशाखाः सुशोभिताः ।कन्याभिर्गौरवर्णाभिः शोभिता वल्लभीभुवः ॥३६॥शोभितानि गवाक्षाणि मृगाक्षीणां मुखाब्जकैः ।सौधा धवलवर्णाश्च वावटाभिः सुशोभिताः ॥२७॥शिखराणि घूम्मटानि स्तूपानि वेधकानि च ।घटीशृंगाणि सर्वाणि शोभितानि शुभध्वजैः ॥३८॥जयशब्दैर्वाद्यशब्दैर्यन्त्रीध्वानैः सुगीतिभिः ।गर्जिता दशदिक्ष्वेषा पुरी वाल्गनिकाऽभवत् ॥३९॥गोपुरे रक्षिभिः कृष्णः पूजितश्च प्रधानकैः ।अग्रे सैन्यैः पूजितश्च राजकीयैर्जनैस्ततः ॥४०॥श्रेष्ठिभिः सत्कुलैश्चाप्यापणिभिः स्थानिभिस्तथा ।पूजितः सर्ववर्गैश्च योषिद्भिश्च नरैस्तथा ॥४१॥उपदाभिः फलाद्यैश्च कणाद्यैर्भूषणादिभिः ।अम्बरैः कम्बलाद्यैश्च हारैः स्रग्भिः सुवर्णजैः ॥४२॥अक्षतैः कुंकुमैश्चापि रत्नहीरकहारकैः ।पुष्पैश्च वर्धितः कृष्णनारायणोऽतिभावतः ॥४३॥एवं भ्रमित्वा नगरीं राजसौधं समाययौ ।राजा संपूजयामास कोटिरत्नार्पणैर्हरिम् ॥४४॥रात्रौ पूजां व्रतस्यैवैकादश्यां प्रचकार ह ।जागरणं सभायां च धर्मादेशयुतं हरिः ॥४५॥प्रचकारोत्सवयुक्तं कृष्णकीर्तनसंयुतम् ।राधिके च महीमानाश्चक्रुर्विश्रान्तिमादरात् ॥४६॥हरिश्चोपादिदेशैव सर्वान् जागरणस्थितान् ।जाग्रत्येव नरे व्रतस्थिते निद्रोत्थदूषणम् ॥४७॥व्रतघ्नं नोपसंयाति चैतज्जागरणे फलम् ।व्रतं पूर्णं भवेच्चापि तमोभावो निरुद्ध्यते ॥४८॥प्रसह्यापि भवेद् भक्तिर्हरौ सन्तोषकारिणी ।श्रीहरौ तोषिते सर्वं सफलं मानवं जनु ॥४९॥तदर्थं वै व्रतं लोके कर्तव्यं सावधानिना ।उदये या तिथिस्त्वास्ते सैकादशी व्रतर्थिनी ॥५०॥सूर्यस्योदयनं मत्वा कार्या त्वेकादशी सदा ।मम जन्माष्टमी प्रातर्जन्मन्यष्टमिकोदये ॥५१!।ऊर्जे कृष्णे सदा ग्राह्या शरत्पूर्णोत्तराऽऽगता ।एवं चान्याश्च तिथयो ग्राह्या सूर्योदये स्थिताः ॥५२॥नक्षत्रं वासरं वाप्यालम्ब्य सेत्स्यन्ति मानवाः ।तन्न मुख्यं मतं मे वै तिथिर्मे ह्युदये मतम् ॥५३॥व्रतं तत्रैव कर्तव्यं यद्व्रते यत्र या तिथिः ।तिथेः क्वापि क्षयो नास्ति क्षीणा चन्द्रोदये मता ॥५४॥चन्द्रोदये च वा सूर्योदयेऽस्तित्वं तिथेर्ध्रुवम् ।रात्रावुत्सवकार्ये तु तिथिश्चन्द्रोदया मता ॥५५॥दिने तूत्सवकार्ये तु सूर्योदया मता तिथिः ।एवं व्रतानि कार्याणि मद्बलात्तानि सर्वथा ॥५६॥पुण्यदानि पूर्णकानि भवन्ति नात्र संशयः ।मोहिनी ब्रह्मजा वेधा मत्सम्बन्धे न हानिदा ॥५७॥इति ममाज्ञां ज्ञात्वैव व्रतानि चोत्तमानि वै ।कर्तव्यानि सदा भक्तैर्मदाज्ञा फलदायिनी ॥५८॥यत्काले यस्य देवादेरुत्सवो जन्म वा लयः ।तत्क्षणे या तिथिश्चास्ते सा व्रते शोभना सदा ॥५९॥सूर्योदयस्तथा चन्द्रोदयो वा तारकोदयः ।गौणस्तत्रैव मन्तव्यः क्षणं मुख्यं दिवानिशम् ॥६०॥एतद् विहाय मनुजाः करिष्यन्ति व्रतानि चेत् ।भिन्नमतानि तत्रैव भविष्यन्ति न संशयः ॥६१॥व्रतच्छेदकराण्येव भविष्यन्ति तु तानि वै ।तस्मात् क्षणः सदा ग्राह्यो व्रते सर्वविधोत्सवे ॥६२॥तेन धर्मो वर्धते वै नान्यथा तु कदाचन ।श्रद्धया वर्धते पुण्यं कालयुक्तं विशेषतः ॥६३॥पात्रयुक्तं ततोऽप्यति वर्धते पात्रसद्बलात् ।पात्रं चाहं परब्रह्म सेवनीयो व्रतं महत् ॥६४॥मातापित्रोर्गुरोश्चापि शुश्रूषा व्रतमुत्तमम् ।आचार्यसाधुशुश्रूषा व्रतं पुण्यप्रदं महत् ॥६५॥जनसेवाः प्रपाः कूपाः शयनानि शुभानि च ।दानानि कारयेद् भक्त्या व्रतं पुण्यप्रदं हि तत् ॥६६॥अहिंसा सत्यमक्रोधो वृत्तिदानं प्रपालनम् ।वृद्धानां सेवनं पुत्रदाराणां भरणं व्रतम् ॥६७॥दक्षिणा यज्ञकार्येषु दातव्या भूतिमिच्छता ।पाकयज्ञाः प्रकर्तव्याः कणयज्ञाश्च भूतिदाः ॥६८॥अर्हान् पूजयतो नित्यं संविभागेन सर्वथा ।व्रतं तस्य भवेत्तद्वै स्वर्गदं नात्र संशयः ॥६९॥ज्ञातिसम्बन्धिमित्राणामापदुद्धर्तुरत्र तु ।पुण्यं स्वर्गप्रद्ं स्याद्वै व्रतमेतत्परं सदा ॥७०॥सर्वसत्कारकर्तुस्तु स्वर्गं ध्रुवं न संशयः ।पितृयज्ञं भूतयज्ञं चातिथेः पूजनादिकम् ॥७१॥देवयज्ञं कुर्वतस्तु स्वर्गं ध्रुवं न संशयः ।दीक्षाया ग्रहणं चापि शिष्टानां पूजनं सदा ॥७२॥देवानां स्मरणं चापि शरणागतरक्षणम् ।अकौटिल्येन वृत्तिश्च व्रतं ब्रह्म दिवः प्रदम् ॥७३॥सर्वभूतेषु दयया प्रवृत्तस्य तु देहिनः ।परित्राणपरस्याऽत्र व्रतं स्वर्गप्रदं भवेत् ॥७४॥आगतानां स्वागतादिकर्तुर्योग्यक्रियावताम् ।पूजयितुर्विनम्रस्य व्रतं स्वर्गप्रदं भवेत् ॥७५॥कुटुम्बस्य वशे स्थातुः साधूनां वचनेऽपि च ।शास्त्राणां वचने स्थातुर्व्रतं मोक्षप्रदं भवेत् ॥७६॥आश्रमे यत्र कुत्रापि तद्वृषेऽवस्थितस्य तु ।व्रतं धर्ममयं स्वर्ग्यं भवत्येव न संशयः ॥७७॥स्थानमानं कुलमानं वयोमानं गुणार्हणम् ।कुर्वन् वर्तेत लोके यस्तस्य नाकं सुनिश्चितम् ॥७८॥देशधर्मान् ज्ञातिधर्मान् प्रजाधर्मान् विलोक्य च ।तत्तथा वर्तते यश्च व्रतं तस्येदमुत्तमम् ॥७९॥गृहस्थोऽपि न वै लुब्धः स्मृद्धौ च विषये धने ।देहे वा दैहिके वाऽपि व्रतं साधुसमं भवेत् ॥८०॥धर्मारामा धर्मपरा धर्मसाहाय्यदा जनाः ।धर्मावासा भवन्त्येव गार्हस्थ्येऽपि हि साधवः ॥८१॥आत्मोपमश्च यो लोके भूतेषु वर्तते सदा ।परदुःखहरो देही प्रत्येह लभते सुखम् ॥८२॥धर्मोदया धर्मवीर्या धर्मपालाध्वरक्षकाः ।त्यागधर्माश्रिताः शीघ्रं तरन्त्येव भवाम्बुधिम् ॥८३॥यदा दुत्स्थोऽस्य संकल्पो निवृत्तो मूलतो भवेत् ।देही सत्त्वगतिं प्राप्तस्ततो ब्रह्म समश्नुते ॥८४॥तस्मात् सर्वेऽपि संकल्पा न्यसनीया मयि प्रभौ ।आत्मा निवेदनीयश्च दास्ये मोक्षं तु धाम मे ॥८५॥इत्युक्त्वा विररामाऽसौ बालकृष्णः परेश्वरः ।राजा पुपूज देवं च लक्ष्मीनारायणं तथा ॥८६॥सतीशानं महेशं सपुपूज परमादरात्॥प्रातः स्नानादिकं कृत्वा पूजनादि विधाय च ॥८७॥राजा प्रकारयामास मिष्टान्नाद्यैश्च पारणाम् ।श्रीहरिः पारणां कृत्वा विश्रान्तिं चाप यावता ॥८८॥तावद् राज्ञी श्रीरतीशा पूजोपकरणान्विता ।चत्वारिंशत्कन्यकाभिर्गौरीभिः सह चाययौ ॥८९॥पुपूज परमात्मानं पादामृतं पपौ ततः ।चत्वारिंशत्कन्यकाश्च हरेः पाणिं प्रजगृहुः ॥९०॥तदा वाद्यान्यवाद्यन्त राजाज्ञया च गीतयः ।अगायन्त च गौरीभिरुत्सवो नृत्यसंयुतः ॥९१॥अजायत नृपश्च स्वं कृतकृत्यममन्यत ।उपदा यौतकं चापि राजा ददौ तु शार्ङ्गिणे ॥९२॥रत्नहारान् स्वर्णभूषाः कम्बलाम्बरभूतिकाः ।हरिः प्राप्य च तत्सर्वं नृपाज्ञया द्रुतं तदा ॥९३॥गन्तुं सज्जोऽभवच्छीघ्रं राजाऽभोजयदच्युतम् ।महीमानान् समग्राँश्चाऽभोजयत्पायसादिकम् ॥९४॥सैन्यं ततोऽभवत्सज्जं प्रस्थाने मानदं तदा ।अवादयच्च तूर्याणि चक्रे जयनिनादनम् ॥९५॥विमानानि तदा सर्वाण्येवाऽभवन् विहायसि ।आरुरोह महाराजः पूजितः प्रजयाऽभितः ॥९६॥आरुरुहुस्तथा सर्वे पालनादर्षिबोधिताः ।वरसिंहनृपेणापि निमन्त्रिताश्च ते तदा ॥९७॥गतिमन्तोऽभवन् व्योम्नि शृण्वन्तो वै जयध्वनीन् ।हरेर्विमानमगमद् वरसिंहस्य राष्ट्रकम् ॥९८॥राजा पूर्वं वरसिंहोऽवाततारर्षिसंयुतः ।स्वागतार्थं हरेः सैन्यं सज्जं चास्थापयत्पुरः ॥९९॥विष्णुतुल्यानदीतीरे वाशीलानगरीतटे ।हरेर्विमानमालोक्य सैन्यं स्वागतमाचरत् ॥१००॥विचित्रवाद्यध्वनिभिर्यन्त्रगर्जनया तथा ।गीतिकाभिश्च गौरीणां व्योम नादमयं ह्यभूत् ॥१०१॥राजदर्शितमार्गेण विमानं भुवमागतम् ।हरेश्चान्यानि च विमानानि चाप्यागतानि वै ॥१०२॥विमानोपरि पुष्पाणां वृष्टिः प्रजाकृताऽभवत् ।राधिके जनता चाभूद् विह्वला दर्शनाय च ॥१०३॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने वालीनानगर्यां श्रीहरेर्धमणं पूजनं जागरणं व्रतोपदेशनं द्वादश्यां पारणं ततो वाशीलानगरीं प्रति गमनमित्यादिनिरूपणनामा त्रिनवत्यधिकशततमोऽध्यायः ॥१९३॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP