संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १९१ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १९१ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १९१ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके पूर्तगण्डर्षिर्गण्डको नृपः ।राज्ञी कुमारिकाश्चापि कुमाराश्च तथाऽपरे ॥१॥बान्धवाश्चामात्यवर्गाः स्वागतार्थं पुरोऽभवन् ।विमानमम्बराद् राजोद्याने ह्यवातरद्धरेः ॥२॥अन्यान्यपि विमानानि चावतेरुः समन्ततः ।तदा वाद्यान्यवाद्यन्त तूर्यनादास्तदाऽभवन् ॥३॥अगायन्त च गीतानि जयशब्दा बभूविरे ।पटहानां विगुलानां दुन्दुभीनां रवोत्तमाः ॥४॥प्रजाहर्षभरैः शब्दैर्दिशो ह्यनादयन् दश ।हरिर्विमानादुत्थाय श्रेण्या बहिः समागमत् ॥५॥राजा ऋषिः कुटुम्बाद्याः पुष्पाद्यैः समवर्धयन् ।हारैरक्षतवर्यैश्च लाजाभिः स्वागतं व्यधुः ॥६॥गजयन्व्या हरिकृष्णं राजा न्यषादयत्तथा ।अन्यान् यथोचितवाहेष्वपि सद्वाहनेषु च ॥७॥गन्त्र्यादिषु पटोल्ले च शकटीषु न्यषादयत् ।वाद्यशब्दैः सह देवेश्वरं लीशवनां पुरीम् ॥८॥भ्रामयामास सोत्साहः प्रजाश्चक्रुः समर्हणम् ।दर्शनं पादपूजां च बहूपदाभिरादरात् ॥९॥समुद्रतीरशोभां च विलोक्य भगवाँस्ततः ।राजप्रासादके श्रेष्ठे समायात् सकुटुम्बकः ॥१०॥राजा राज्ञ्या च कन्याभिः पूजितः कृष्णवल्लभः ।चन्दनैर्गन्धसारैश्च कुसुमैरम्बरैः शुभैः ॥११॥शीतहारैश्चौर्णवेषै रत्नैराभूषणादिभिः ।द्रव्यैः फलैः प्रपूजां श्रीहरेश्चक्रुः प्रधानकाः ॥१२॥अथ गण्डस्य वै कन्या नव तत्र कुमारिका ।करग्रहं हरेश्चक्रुर्विवाहविधिना द्रुतम् ॥१३॥राजा बभूव च भाग्यात् कृतकृत्यो नृपी ह्यपि ।तदुत्सवं महान्तं च चक्रे पूजनमाननैः ॥१४॥भोजनं कारयामास राजा पक्वान्नपूरितम् ।नर्तनं गायनं तत्र कारयामास भूपतिः ॥१५॥राजा कृष्णाय बहुधाऽर्पयामास विभूतिकाः ।भगवान् पूर्णगण्डाय ऋषये ता ददौ तदा ॥१६॥भुक्त्वा विश्रान्तिमापुश्च पानताम्बूलचर्वणैः ।दुग्धपानैः स्वयं राजा महीमानानरञ्जयत् ॥१७॥अथ सायं सभास्थाने बालकृष्णः प्रजाजनान् ।उपादिदेश बहुधा शान्तिवाक्यानि चांजसा ॥१८॥राज्ये वा वाटिकायां वा गृहे वापि वनेऽपि वा ।अन्तर्वृत्तिपरो देही विवेकी शान्तिमृच्छति ॥१९॥तृष्गातन्तुं सुविच्छिद्य भोग्यवृत्तिं विहाय च ।आत्मस्थित्या सुतिष्ठेद् यः स शान्तिमधिगच्छति ॥२०॥ईहा चोपरता यस्य लिङ्गं निर्लिङ्गतां गतम् ।रसना नीरसा यस्य स शान्तिमधिगच्छति ॥२१॥शब्दास्त्वाकाशभागाश्च स्पर्शा दावानलोपमाः ।रूपाणि कुष्ठतुल्यानि यस्य शान्तिं स ऋच्छति ॥२२॥नार्यः प्राणहरा यस्य यस्या नरश्च राक्षसः ।दृश्यते मनसा त्यागात् स शान्तिं साऽभियाति वै ॥२३॥धातवो मलरूपाश्च कुटुम्बं वानरायितम् ।भृत्याः क्षयसमा यस्य स शान्तिमभियाति वै ॥२४॥शिष्याः शत्रुसमा यस्य पुत्रा भक्षणतत्परा ।देहो यस्य सदा रुग्णः स शान्तिमभियाति वै ॥२५॥वैराग्यं वर्तते यस्य रागस्थलं तु दुःखदम् ।स्नेहस्थलं नाऽनुकूलं स शान्तिमभियाति वै ॥२६॥बहुभोगे बहुदुःखे शान्तिं याति विवेकवान् ।नाऽहं देहो न मे भोग्यं नाऽहं भोक्ता हि दीनवत्। ॥२७॥नाऽहं जडाधीन एवं विवेकी शान्तिमृच्छति ।नदीनां रम्यभागेषु वनोद्यानेषु मन्दिरे ॥२८॥देवालयेषु तीर्थेषु निर्जने शान्तिभाग् भवेत् ।यदा यत्र न वै सन्ति शत्रवो बहिरान्तराः ॥२९॥आगन्तुकाश्च वा नित्यास्तदा शान्तिं प्रगच्छति ।क्षतदुःखो यथा निद्रावशो दुःखं न वेत्ति हि ॥३०॥जगद्धतोऽपि जीवात्मा तूर्यागतो न खिद्यति ।वासनाप्रहतः प्राणी साधुसंगतिमृच्छति ॥३१॥साधुसेवारतः स्याच्चेत् साध्वीं शान्तिं स गच्छति ।सतां गुणान् प्रगृह्णीयात् सतां शीलं समाचरेत् ॥३२॥अग्राह्यं वर्जयेन्नित्यं ग्राह्यं शुभं समार्थयेत् ।तरंगान् मानसान् देही शमयेत् शान्तिमान् भवेत् ॥३३॥विकल्पान् संशयान् मोहान् त्यजेत् गुरोरनुग्रहात् ।तर्कान् हेतून् विवादाँश्च त्यजेन्निजमनीषया ॥३४॥उद्वेगान् दावहेतूँश्च ज्ञात्वा दूराद् विवर्जयेत् ।आयतिं सुविचार्यैव वर्तयेत् निरभिप्लवः ॥३५॥हरिं शरणमासाद्य फलं तत्र समर्पयेत् ।आरभेत हरिं ध्यात्वा मां कर्तारं विभाव्य यः ॥३६॥मदनुस्यूतभावेन कुर्याद्धितं हितार्थदम् ।स्वस्य वाऽन्यस्य सुतरां श्रेयस्कृतं समाचरेत् ॥३७॥ज्ञानविज्ञानकोशेन धनाढ्यत्वं विचारयेत् ।अपरिग्रहसम्पन्नस्तृप्तोऽतिशान्तिमावहेत् ॥३८॥एवं विचार्य सततं राज्ञा राज्ञ्या प्रजादिभिः ।अन्योन्यहितमाश्रित्य वर्तितव्यं सुशान्तये ॥३९॥सेवां प्रजानां रक्षां च राजरक्षां परस्परम् ।आत्मबुद्ध्या सुतबुद्ध्या समाचरेत् सुशान्तिदाम् ॥४०॥बृहस्पतिर्विशालाक्षः काव्यः प्राचेतसस्तथा ।भरद्वाजो महेन्द्रश्च गौरशिरा मनुस्तथा ॥४१॥ब्रह्मवादास्त एवैते रक्षां धर्मं परस्परम् ।प्रशंसन्ति सदा कल्पे कल्पे राजप्रताहितम् ॥४२॥दानं सतां सदा सेवा सतां संग्रहणं तथा ।दाक्ष्यं सत्यं चार्जवं चाऽवेक्षा समन्ततस्तथा ॥४३॥सीदतां च समुद्धारः कुलीनानां प्रसञ्जनम् ।साधूनामपरित्यागः सेवा बुद्धिमतामपि ॥४४॥शत्रुमित्रौदास्यकानां निरीक्षणं परे स्वके ।नीतिधर्मानुसरणं चानार्यवर्जनं सदा ॥४५॥उत्थानं सर्वथा योग्यं लोके कार्ये हरौ मतौ ।मोक्षे त्यागे च वैराग्ये धर्मा रक्षापरा न्विमे ॥४६॥रक्षणीयाः सदा राज्ञा प्रजया चामृतेहया ।उत्थानेनाऽमृतं प्राप्ताः सुरा महेन्द्रसंहिताः ॥४७॥उत्थानेन विहीनस्य रक्षा दूरं प्रयाति हि ।धर्मोत्थानं सदा कार्यं धर्मिष्ठां चाचरेत् क्रियाम् ॥४८॥यद्यप्यस्य विपत्तिः स्याद् रक्षाधर्मस्य देहिनः ।सोऽप्यस्य विपुलो धर्मो यतो रक्षाऽहमेव वै ॥४९॥रक्षा च रक्षकश्चाहं रक्ष्यश्चाप्यहमेव च ।सदा रक्षाकरं चाहं रक्षयामि न संशयः ॥५०॥अरक्षकान् क्रूरभावान् न रक्षामि कदाचन ।रक्षको राजवर्गश्च मत्स्वरूपोऽस्ति भूतले ॥५१॥तस्माद् रक्षा मम धर्मो मत्कृता पाल्यतां जनैः ।इत्युच्यमाने श्रीकृष्णे नारायणे परात्मनि ॥५२॥राधिके गण्डको राजा पप्रच्छ श्रीनरायणम् ।राजशब्दः कथं कस्मात् कदा वै भवता कृतः ॥५३॥तुल्यशारीरभावेऽपि तुल्येन्द्रियात्मकेऽपि च ।तुल्यदुःखसुखे तुल्यविकारे तुल्यविग्रहे ॥५४॥तुल्यशुक्रास्थिमज्जे च तुल्यमांसादिसंभृते ।तुल्यप्राणशरीरे च तुल्यमृत्युभवान्विते ॥५५॥एवंविधेऽपि चैकस्मिन् राजता कथमूर्ध्वगा ।कथमेको विशिष्टाँश्च शूराँश्च पण्डितानपि ॥५६॥अधितिष्ठति सत्तावान् पृथ्वीं रक्षति चैकलः ।प्रसादेन तथैकस्य लोकः सर्वः प्रसीदति ॥५७॥एकस्मिन्नेव राष्ट्रं च देववद् याति सन्नतिम् ।भगवँस्तत्कथं साम्येऽप्येषा वै राजताऽतिगा ॥५८॥वर्तते सर्वमूर्धन्या वदात्र कारणं तु किम् ।श्रुत्वा प्राह हरिः राधे राजनियमजां कथाम् ॥५९॥आदौ कृतयुगे चात्र नासीद् राज्यं न राज्यपः ।न राजा न च दण्डोऽभूद् दण्ड्यो नासीच्च दण्डकृत् ॥६०॥सत्यधर्मैः प्रजा ब्राह्म्यो रक्षन्ति स्म परस्परम् ।कल्पवृक्षाः कल्पवल्ल्यश्चिन्तामणिश्च कामगौः ॥६१॥आसैंस्तेन प्रजाः सर्वाः स्वात्माधीनाः सुखास्तदा ।अथ काले कृतान्ते च कल्पनायां बलानि तु ॥६२॥क्षीणतां संगतान्येव तदा स्वत्वं प्रवर्तितम् ।ममेदं कल्पवृक्षं च न तवेदं विवादितम् ॥६३॥एवं ममतामोहौ च प्रजास्वाविशतां तदा ।चिन्ताः संकल्परूपाश्च निष्फलाश्च तदाऽभवन् ॥६४॥तृष्णादोषाऽभिवेशेन धर्मः सत्यो व्यनीनशत् ।लोभस्य वशमापन्ना अप्राप्तस्याऽभिमर्शिनः ॥६५॥कामोऽपरो महान् दोषः प्रजासु प्रत्यपद्यत ।कामपरान् जनान् रागोऽनिष्टकृद् वै समस्पृशत् ॥६६॥तेन कार्यं तथा कार्यं नाभ्यजानन्त मोहिताः ।अगम्यागमनं चापि वाच्यावाच्यं व्यजायत ॥६७॥भक्ष्याभक्ष्यं तथा दूष्यादूष्यं च प्रत्यपद्यत ।विप्लुते मानवे लोके ब्रह्मभावो ननाश ह ॥६८॥ब्रह्मनाशे धर्मनाशो देवास्त्रासं ततोऽगमन् ।ययुश्च पितरं चाऽजं प्रसाद्योचुः सुदुःखिनः ॥६९॥ब्रह्मन् मानवलोके वै सत्यं ब्रह्म लयं गतम् ।धर्मो नाशं गतस्तेन वयं स्वाहाविवर्जिताः ॥७०॥क्षीणतां च गताः स्मोऽद्य मानवैः समतां गताः ।अतो निःश्रेयसं यत्तद् ध्यायस्वेह पितामह ॥७१॥ब्रह्माऽऽह भवतां श्रेयश्चिन्तयामि भयापहम् ।ततस्त्रेतामुखे ब्रह्मा धर्मं चार्थं च कामनाम् ॥७२॥मोक्षं चेति चतुर्वर्गं धर्मं चक्रे पृथग्गुणम् ।धर्मरूपान् नियमाँश्च दण्डरक्षादिकल्पितान् ॥७३॥चक्रे यज्ञादिरूपाँश्च कर्मफलादिमिश्रितान् ।अर्थरूपान् पदार्थांश्च क्षेत्रवाटीगृहादिकान् ॥७४॥धनसम्पत्स्वरूपाँश्च चक्रे स्वत्वादिबोधकान् ।कामरूपान् नियमाँश्च ऋतून् परस्परान्वितान् ॥७५॥मोहादिनियमाँश्चक्रे स्वस्वभोग्यव्यवस्थितान् ।मोक्षधर्मं सामरूपं चार्पणं मयि माधवे ॥७६॥त्रिवर्गार्पणमेवापि मोक्षदं चेत्यनिर्णयत् ।अन्यानि बहुधान्येव प्रकाराणि ह्यनिर्णयत् ॥७७॥तां नीतिं शंकरः पूर्वं जग्राहेशानको ह्ययम् ।शंकरोक्तं च तच्छास्त्रं वैशालाक्षं तदाऽभवत् ॥७८॥इन्द्रस्तस्मात्प्रजग्राह बाहुदन्तकमेव तत् ।बृहस्पतिर्लिलेखेदं बार्हस्पत्यं ततोऽभवत् ॥७९॥औशनसं ततो जातं ततो नीतिः प्रवर्तिता ।देवैर्विष्णुश्चार्थितश्च नीतिशास्त्रविदं प्रति ॥८०॥ततो नारायणश्चाहं ददौ वै मानसं सुतम् ।विरजसं तत्पुत्रोऽभूत् कीर्तिमान् तस्य पुत्रकः ॥८१॥कर्दमोऽभूत् तस्य पुत्रोऽनंगनामा सुबुद्धिमान् ।प्रजारक्षयिता साधुर्दण्डनीतिविशारदः ॥८२॥तत्सुतोऽभूदंगराजो मृत्युपुत्रीं सुनीथिकाम् ।विवाह्य वेनं क्रूरं वै पुत्रमेकमजीजनत् ॥८३॥तं वेनं द्वेषिणं मन्त्रकुशैर्जघ्नुर्महर्षयः ।ममन्थुर्दक्षिणं चोरुमृषयो वेनदेहजम् ॥८४॥निषादं जनयामासुर्निषादाश्च ततोऽभवन् ।भूयोऽस्य दक्षिणं पाणिं ममन्थुस्ते महर्षयः ॥८५॥ततोऽहं पृथुरूपश्चाऽभवं शस्त्री च वर्मवान् ।नीतिशास्त्रज्ञ एवाऽहं राजशब्दमवाप्तवान् ॥८६॥मया देवैः सह भूमिः समपाटा विधापिता ।संकल्पेन मया सर्वा राज्यस्मृद्धिर्नवीकृता ॥८७॥आद्ये तु युगपर्याये राज्यं वै स्थापितं मया ।पृथ्वी दुग्धा प्रजार्थं च प्रजा दण्डेन रक्षिता ॥८८॥रञ्जनाद्वै प्रजाः प्राहुः राजा पृथुरिति क्षितौ ।क्षतत्राणात् क्षत्रियोऽहं ततोऽभवं द्विजोऽपि सन् ॥८९॥पृथिवीस्थापनं राज्यस्थापनं चाहमेव तु ।विष्णुः सनातनस्तत्राऽकरवं नीतियोजिम् ॥९०॥मल्ललाटात्तदा जातं कमलं कानकं शुभम् ।श्रीःसंभूता ततो देवी कमला धर्मपत्निका ॥९१॥श्रीरर्थरूपाऽभूद् राज्ये कामदा मोक्षदा अपि ।वैष्णवी श्रीर्यदा राज्ये वर्तते मोक्षदा तु सा ॥९२॥एवं ततः समारभ्य देवाश्च नरदेवताः ।बुधैस्तुल्याः शब्दिताश्च मदंशा भूभृतो यतः ॥९३॥श्रैष्ठ्यमेवं मया न्यस्तं राज्ञि राजत्वसंज्ञकम् ।तेन राज्ञा प्रजाभिश्च द्रष्टव्योऽहं निजात्मसु ॥९४॥पूजनीयो वन्दनीयश्चार्पणीयोऽतिभावतः ।मय्यर्पितास्तु मामेव प्राप्स्यन्ति नात्र संशयः ॥९५॥मां विहायाऽभिमन्तारो नैजं पदं तु ये नृपाः ।क्षयं यास्यन्ति ते न्यूनं राजवंशा दरिद्रकाः ॥९६॥इत्येवं निर्णयं ज्ञात्वा भजन्तु मां जनार्दनम् ।राजराजेश्वरं नित्यं चतुर्वर्गं निधाय च ॥९७॥मय्येवेति हरिः प्राह राधिके च सभाजनाः ।जगृहुस्तद्वचांस्येव नेमुः सर्वे ततो ययुः ॥९८॥हरिः प्राप निजावासं राजसौधे च भोजनम् ।चकाराऽन्ये महीमानाश्चक्रुर्भोजनमादरात् ॥९९॥विश्रान्तिं च ततः प्रापुः रात्रौ सर्वेऽपि निद्रिताः ।राधिके राजकन्यास्तं कृष्णकान्तं सिषेविरे ॥१००॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने गण्डकराजधानीं प्रति गमनं लीशवनानगर्यां भ्रमणं पूजनं भोजनमुपदेशनं रात्रौ विश्रमणं चेत्यादिनिरूपणनामैकनवत्यधिकशततमोऽध्यायः ॥१९१॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP