संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १६३ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १६३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १६३ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके चान्यं चमत्कारं हरेः शुभम् ।अनादिश्रीकृष्णनारायणस्य प्रवदामि ते ॥१॥कुंकुमवापिकाक्षेत्रे पावने काम्यके पुरे ।कर्षुको भगवद्भक्तो द्युविश्रामाऽभिधोऽभवत् ॥२॥धर्मं कर्म न जानाति नैव जानाति पूजनम् ।नैव जानाति शास्त्रोक्तं विधानं दैवकर्म च ॥३॥गवां संरक्षणं चैव गोवृषाणां प्रपालनम् ।जानात्येव परं कर्म कृषिं जानाति चोत्तमाम् ॥४॥स्नानं गोपादरजसा सन्ध्या गोकवलार्पणम् ।गायत्री गोनामजपः पूजनं गोप्ररक्षणम् ॥५॥वैश्वदेवो निजभुक्तिः स्वाध्यायः कृषिरेव तु ।होमो रोटकनिर्माणं तर्पणं सस्यपोषणम् ॥६॥एवं तस्य कर्मकाण्डः कृषिकार्ये प्रवर्तते ।नान्यत् किञ्चित् स जानाति तथापि शुद्धमानसः ॥७॥न चौर्यं नाऽनृतवृत्तिर्न द्रोहो जन्तुहिंसनम् ।न प्रतारणकार्यं च विद्यतेऽस्य हृदि क्वचित् ॥८॥अकल्मषो वृद्धसेवी गोसेवापुण्यभाग् व्रती ।क्षेत्रे वाट्यां समागच्छेदतिथिश्चेत् स पूज्यते ॥९॥दीयतेऽतिथये चेक्षुदण्डः शाकदलादिकम् ।फलं मूलं दलं कन्दः वासोऽपि पूलकगृहे ॥१०॥साधुर्वा भगवद्भक्तः कश्चिदायात्तु वाटिकाम् ।सस्त्रीपुत्रः सेवते तं पादसंवाहनादिभिः ॥११॥रात्रौ क्षेत्रे द्रुमाऽधो भूतले वह्निखले शुभे ।वह्निं प्रज्वाल्य विश्रान्तिं तत्प्रकाशे प्रविन्दति ॥१२॥मानस्यै तु प्रतिमायै समर्पयति भोजनम् ।जलं फलं मूलकन्दं कणान् दलादिकं च यत् ॥१३॥रात्रौ नारायणं देवं स्मृत्वा निद्रां प्रगच्छति ।प्रातरुत्थाय शारीरं कृत्वा शुद्धिमयं ततः ॥१४॥गृहीत्वा भोजनं क्षेत्रे कृषिकार्ये प्रवर्तते ।एवं वै वर्तमानस्य निष्पापस्य गृहे क्वचित्। ॥१५॥अश्वपट्टसरस्तीर्थं कर्तुं वै भक्तमण्डलम् ।समायातं निशारंभे ज्ञात्वाऽऽश्रयपदं तु तम् ॥१६॥सोऽप्याश्रयं ददौ काण्डशालायां भावभक्तिमान् ।भक्तेभ्यः स ददौ वारि दुग्धं च रोटकादिकम् ॥१७॥तार्णासनानि प्रददौ विश्रान्तिं चापुरेव ते ।निशायां भजनं चक्रुः कीर्तनं चक्रुरुत्सुकाः ॥१८॥कीर्तनेऽनादिकृष्णश्रीपतिनारायणो हरिः ।कीर्तितः कंभरापुत्रः प्रभुर्गोपालनन्दनः ॥१९॥स्वरूपाऽद्वैतरूपः स योऽक्षरे धाम्नि वै परे ।वर्तते दिव्यरूपः श्रीपतिः श्रीकृष्णवल्लभः ॥२०॥सर्वावतारधर्ता च सर्वान्तर्यामी माधवः ।जडचेतनजातात्मा बालकृष्णः पुमुत्तमः ॥२१॥ईश्वराणामीश्वरो यो देवानामपि दैवतम् ।प्राणिनां प्राणरूपो यो बालकृष्णः स एव सः ॥२२॥इन्द्रियाणां तु यश्चेन्द्रो वस्तूनां वास्तवं बलम् ।कर्मणां फलदो यश्च बालकृष्णः स एव सः ॥२३॥विप्राणां पावनो धर्मः क्षत्रियाणामधृष्यता ।वैश्यानां सस्यसम्पत्तिर्बालकृष्णः स एव सः ॥२४॥वृक्षाणां रससम्पत्तिर्वल्लीनां फलपुष्पिता ।दासानां सेविकावृत्तिर्बालकृष्णः स एव सः ॥२५॥वर्णिनां ब्रह्मचर्यं यद् गृहस्थानां सपुत्रता ।यतीनां च सतां ब्रह्म बालकृष्णः स एव सः ॥२६॥राज्ञां नीतिः प्रजानां च दास्यं परोपकारिता ।अनुग्रहश्च देवानां वालकृष्णः स एव सः ॥२७॥ग्रहनक्षत्रताराणां वह्नेश्च विद्युतामपि ।मणीनां चक्षुषा तेजो बालकृष्ण स एव सः ॥२८॥या तृप्तिर्देहिनां भोज्ये भोग्ये तृप्तिश्च या मता ।या शान्तिः प्राप्यलाभेऽस्ति बालकृष्णः स एव सः ॥२९॥विश्वासे फलवत्ता या दाने श्रद्धा च या मता ।कथायां चान्तरो बोधो बालकृष्णः स एव सः ॥३०॥यज्ञे यद्धवनं प्रोक्तं विप्रेषु सत्त्वभावना ।यजमाने ददद्वृत्तिर्बालकृष्णः स एव सः ॥३१॥गर्भतन्तुर्यस्य हस्ते दौर्हृदत्वं च यत्कृतम् ।नालपुष्टेर्विधाता च बालकृष्णः स एव सः ॥३२॥चिदाकाशाजडाकाशं कृतवान् यो निरञ्जनः ।रचयामास चाण्डानि बालकृष्णः स एव सः ॥३३॥कुलालान् ब्रह्मसंज्ञाँश्च कर्षुकान् विष्णुसंज्ञितान् ।लुनकान् रुद्रकाँश्चक्रे बालकृष्णः स एव यः ॥३४॥दुग्धयन्त्रात्मकपशून् रसयन्त्रात्मपादपान् ।ज्ञानयन्त्रनराँश्चक्रे बालकृष्णः स एव यः ॥३५॥आर्तवं च जगच्चक्रं चालयन्नियमेन यः ।विश्वकर्मत्वमापन्नो बालकृष्णः स एव सः ॥३६॥एकस्माद् भूस्तरात् खाद्यं भक्षयित्वाऽपि पादपाः ।बीजभेदाद् भिन्नभावाः बालकृष्णः स बीजकः ॥३७॥भोज्यं चैकविधं न्यस्तं जठरे भिन्नरूपि यत् ।भिन्नगुणं येन देहे बालकृष्णः स जाठरः ॥३८॥अदृश्याद् दृश्यभावास्तु सजातीयात् सजातिकाः ।भवन्त्येव यदावेशाद् बालकृष्णः स एव सः ॥३९॥मन्त्राधीनास्तथा देवा वागधीनाऽर्थशेमुषी ।आत्माधीनं जडं येन बालकृष्णः स एव सः ॥४०॥इष्टाधीनश्चेच्छुकश्च कर्माधीनं तथा जगत् ।यदधीना परामुक्तिर्बालकृष्णः स एव सः ॥४१॥अतिथीन् सेवते यश्च तस्मै सेवाफलप्रदः ।बीजवच्छतधा दाता बालकृष्णः स एव सः ॥४२॥सर्वसौख्यप्रदाता यः सर्वरक्षाकरश्च यः ।सर्वमानसपूरश्च बालकृष्णः स एव सः ॥४३॥रात्रिर्विश्रान्तिदा येन दिनं प्रवृत्तिदं कृतम् ।निद्रा श्रमहरा क्लृप्ता बालकृष्णः स एव सः ॥४४॥साधुरूपं धृतं येन वैराजं च तथा धृतम् ।परमाणुः कृतो येन बालकृष्णः स एव सः ॥४५॥मार्दवं दिव्यवस्त्रादौ काठिन्यं चोपलादिषु ।देहे द्वयं कृतं येन बालकृष्णः स एव सः ॥४६॥महाकालः कृतो येन महामाया यमाश्रिता ।पुरुषो योजितो येन बालकृष्णः स एव सः ॥४७॥प्रलयश्च कृतो येन सर्गो येन कृतो मुहुः ।निर्लेपस्तत्र यश्चास्ते बालकृष्णः स एव सः ॥४८॥कामं क्रोधं महालोभं मोहं मद्ं च मत्सरम् ।आकुर्वन्नपि चाऽसक्तो बालकृष्णः स एव सः ॥४९॥सदृशेष्वपि बीजेषु विभिन्नशक्तिधायकः ।भिन्नपाकप्रदाता यो बालकृष्णः स एव सः ॥५०॥कृष्णो नारायणो विष्णुर्वासुदेवोऽक्षराधिपः ।अन्तरात्मेश्वरो यश्च बालकृष्णः स एव सः ॥५१॥भगवान् परमात्मा च हरिः श्रीपुरुषोत्तमः ।राधालक्ष्मीपतिर्यश्च बालकृष्णः स एव सः ॥५२॥कुंकुमवापिकाक्षेत्रे सहस्रकलशालये ।ब्रह्मप्रियाऽसंख्यसेव्यो बालकृष्णः स एव सः ॥५३॥भजनीयः पूजनीयश्चिन्तनीयश्च यो हृदि ।सेवया प्रापणीयश्च बालकृष्णः स एव सः ॥५४॥एवं वै कीर्तनं चक्रुः सर्वे भक्ता निशोत्सवे ।द्युविश्रामः कर्षुकश्च श्रुत्वाऽऽनन्दं ललाभ ह ॥५५॥जिज्ञासां कृतवान् मन्त्रग्रहणेऽतिथिमण्डलात् ।अतिथिस्तत्र विप्रश्च षड्गुणाख्य उवाच तम् ॥५६॥गृहाण मन्त्रं देवस्य कृष्णनारायणस्य मत् ।'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥५७॥इतिमन्त्रं ददौ तस्मै कर्षुकाय तु षड्गुणः ।सुकण्ठीं तौलसीं चापि ददौ नाम नरायणम् ॥५८॥मालिकां प्रददौ तस्मै जपार्थं प्रतिमां तथा ।ददौ दर्शनकार्यार्थं कृष्णनारायणस्य च ॥५९॥मालायां जपनार्थं च कृष्णनारायणेति च ।ददौ नाम तदा सर्वे प्रातस्तस्मात्प्रतस्थिरे ॥६०॥आययुः कुंकुमवापीक्षेत्रं श्रीलोमशाश्रमम् ।अश्वपट्टसरश्चापि सहस्रघटमन्दिरम् ॥६१॥उद्यानं सर्वतीर्थानि व्यधुस्ततो नरायणम् ।बालकृष्णं ययुः सर्वे राजमानं गृहान्तरे ॥६२॥सम्पूज्य विधिवत्तीर्थं कृत्वा देशं निजं ययुः ।द्युविश्रामः कृषीवलः सकुटुम्बो मुदान्वितः ॥६३॥विचार्य तीर्थयात्रार्थं निर्ययौ काम्यकात्पुरात् ।गोभिर्गोवृषभैः साकं चाश्वपट्टसरोवरम् ॥६४॥आययौ श्रीकृष्णनारायणं गृणन् समुत्सुकः ।चारयन् वै वने गाश्च वृषभान् सायमाप तत् ॥६५॥सरस्तीरे पूर्वदक्षे विश्रान्तिं निशि चाकरोत् ।पाययित्वा जलं गाश्च वृषभान् पादपाश्रये ॥६६॥व्यसर्जयन्निषेदुस्ते पशवः सुखतोऽन्तिके ।रात्रौ निद्रावशं याताः पशवो मानवाश्च ते ॥६७॥परिश्रमं चाध्वजं ते व्यपानुदन् सुनिद्रया ।अविशंकास्तीर्थभूमौ स्वपन्ति सरसस्तटे ॥६८॥अर्धरात्रौ व्यतीतायां शान्ते मानवसञ्चरे ।ग्रामशब्दे प्रशान्ते च निद्राप्तपशुपक्षिषु ॥६९॥सिंहानां मण्डलं चायात् सप्तानां व्याघ्रजंगलात् ।अकस्माद् गोवृषान् तद्वै जग्राहाऽतिभयंकरम् ॥७०॥गावश्च वृषभाश्चाप्याक्रोशाँश्चक्रुः प्ररंभणान् ।आक्रन्दनानि विश्रुत्य जना बुबुधिरे द्रुतम् ॥७१॥भगवन्तं सस्मरुश्च रक्षार्थं परमेश्वरम् ।भक्तोऽनादिकृष्णनारायणं सस्मार वै हृदा ॥७२॥आयाहि भगवन् कृष्णनारायण परात्पर ।सर्वजीवाऽधिवास त्वं रक्ष त्राहि च पाहि च ॥७३॥गोधनं मे दुर्बलस्य बलं कृषीवलस्य यत् ।सिंहैर्विनाश्यते चेत्ते दासो दुःखी भविष्यति ॥७४॥शीघ्रं कुरु महाराज यावन्नैवाभिधर्षितम् ।धर्षणे नैव जीवेयुर्गावो वा वृषभास्तव ॥७५॥त्वच्छरणेऽर्पिताश्चेमे पशवो मे न सन्ति वै ।त्वमेव रक्ष भगवन् दुग्धं पिब यथोचितम् ॥७६॥गा दास्ये ते महाराज शीघ्रं पाहि च रक्षय ।इत्युच्चार्य महाकाष्ठं वह्निदग्धं सवह्निकम् ॥७७॥समुत्तोल्य स्थितो भक्तः सिंहानां सन्निधौ हठात् ।सिंहास्तु गर्जनाश्चक्रुर्मुहुर्नादैर्भयंकरैः ॥७८॥सरःक्षेत्रं समस्तं तन्नादितं गर्जनामयम् ।त्रेसुश्च देहिनः सर्वे विनिद्रा गर्जनादिभिः ॥७९॥विदुद्रुवुरितस्ततो बहिरन्तो भयार्दिताः ।साग्निकं तन्महाकाष्ठं दृष्ट्वा सिंहा भयान्विताः ॥८०॥नोपाजग्मुः सन्निधौ वै किन्तु गावो भयान्विताः ।सरःसेतुं परित्यज्य दुद्रुवुर्दूरमेव यत्। ॥८१॥तत्पृष्ठे दुद्रुवुः सिंहा दध्रुर्दूरं गताश्च ताः ।रुरोद भक्तवर्यश्च पशवो ज्ञानवर्जिताः ॥८२॥सिंहवज्रपराभूताः किं करोम्यत्र सोऽरुदत् ।भक्तरक्षाकरस्तावद् बालकृष्णः कृपानिधिः ॥८३॥गोपालबालको देवश्चक्रधार्यभवत् क्षणात्॥हर्षनादं नदन् कृष्णो मुमोच चक्रमुल्बणम् ॥८४॥वेगाद्गतं भ्रमच्चक्रं जघानसिंहमण्डलम् ।यत्र यत्र पशूनां तु नखस्पर्शोऽभवत्तदा ॥८५॥विदारणं त्वचां चाऽभूत् सिंहकृतं च भञ्जनम् ।तत्र तत्र पशुदेहे पस्पर्श स्वकरेण सः ॥८६॥दयालुर्भगवान् शीघ्रं रुजं न्यवारयत् क्षणात् ।सन्धानं च त्वचां स्पर्शमात्रेण पूर्ववद्धरिः ॥८७॥प्रचकार यथा स्पर्शो नखानां नैव विद्यते ।नवा रक्तस्य संस्रावस्तत्र तत्राऽभवद्ध्यपि ॥८८॥श्रीहरेः करसंस्पर्शाद् रक्तस्रावोऽपि नाऽभवत् ।यथा देवशरीरं वै नीरुजं तादृशानि वै ॥८९॥गवां च वृषभाणां च शरीराणि कृतानि वै ।गोधनं रक्षितं चैवं ततो वंशीं व्यनादयत् ॥९०॥भक्तस्य सन्निधौ गत्वा भक्तं च समभावयत् ।गोधनं सहसा श्रुत्वा वंशीं बालहरेस्तदा ॥९१॥तूर्णं चायात् सरस्तीरे द्युविश्रामस्य सन्निधौ ।भगवान् चक्रधार्येव निषसादाऽसनेऽर्पिते ॥९२॥गोवृषाश्च समागत्य लिलिहुर्हरिपत्कजम् ।दुग्धधाराः प्रमुञ्चन्त्यो गावश्चक्रुर्हि रंभणम् ॥९३॥भक्तो दुग्धानि तत्कालं दोहयित्वा हरिं प्रभुम् ।पाययामास रुचिरं मिष्टं श्रेष्ठं पयो मुहुः ॥९४॥प्रशंसन् भगवान् दुग्धं पपौ भक्तसमर्पितम् ।शंखचक्रगदापद्मधरं हस्तचतुष्टयम् ॥९५॥दर्शयामास रूपं स्वं हर्यवताररूपिणम् ।सिंहेभ्यश्च ददौ मुक्तिं वैकुण्ठं प्राहिणोद्धि तान् ॥९६॥द्युविश्रामं च तत्पत्नीं पुत्रान् पुत्रीः कुटुम्बकम् ।दिव्यं रूपं दर्शयित्वा हरिस्तूर्णं तिरोऽभवत् ॥९७॥फाल्गुने कृष्णपक्षस्यैकादश्यां रात्रिमध्यके ।सिंहेभ्यस्तु गवां रक्षां चकार बालकृष्णकः ॥९८॥द्वादश्यां च ददौ भक्तो दानानि विविधान्यपि ।पूजयामास भावैश्च श्रीपतिं पुरुषोत्तमम् ॥९९॥द्युविश्रामो ददौ बालकृष्णाय गोधनं तदा ।हरिः प्रत्यर्पयामास भक्तोऽपि मुमुदे ह्यति ॥१००॥हर्याज्ञया च गाः प्राप्य ययौ स्वं काम्यकं पुरम् ।तत्तीर्थं हरितीर्थाख्यं गोतीर्थं ख्यातमप्यभूत् ॥१०१॥एवं तत्र कृषीवलैः कारितं हरिमन्दिरम् ।हरिं च स्थापयामासुश्चतुर्भुजं परेश्वरम् ॥१०२॥बालकृष्णं च गास्तत्र स्थापयामासुरुत्सुकाः ।श्रवणात्पठनाच्चास्य भुक्तिर्मुक्तिस्तथा भवेत् ॥१०३॥गोदानं तत्र दातव्यं कोणेऽग्नावाश्वसारसे ।अनादिश्रीकृष्णनारायणः प्रसन्नतां व्रजेत् ॥१०४॥राधिके यमदूतेभ्यो रक्षां कुर्याद्धि तीर्थिनः ।गोदातुर्वृषदातुश्च बालकृष्णो दयानिधिः ॥१०५॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने द्युविश्रामाख्यकृषिकारस्य सिंहप्रधर्षितगोधनस्याऽवनं हरिरूपेण भगवता कृतं हरितीर्थं गोतीर्थं चेतिनिरूपणनामात्रिषष्ट्यधिकशततमोऽध्यायः ॥१६३॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP