संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः ७१

त्रेतायुगसन्तानः - अध्यायः ७१

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
शृणु त्वं राधिके यच्च ज्यामघः प्राह भामिनीम् ।
सर्वमोक्षप्रदं ज्ञानं यत्कृत्वा नावशिष्यते ॥१॥
ज्यामघः स्वप्रियामाह शृणु देवि धनालसे ।
श्रीकृष्णस्य परा शक्तिर्माया मोहकरी मता ॥२॥
श्रीकृष्णरूपिणी माया ययेदं धार्यते जगत् ।
अनयैव जगत् सर्वं सदेवाऽसुरमानुषम् ॥३॥
सृजति पोषयत्येव ग्रसति श्रीपतिः स्वयम् ।
अस्यास्त्वंशानधिष्ठाय शक्तिमन्तोऽभवन् सुराः ॥४॥
ब्रह्मेशानादयः सर्वेऽनया शक्त्या सुरेश्वराः ।
सैषा सर्वजगत्सूतिः प्रकृतिस्त्रिगुणात्मिका ॥५॥
नाऽलं देवा न पितरो मानवा वासवोऽपि च ।
मायामेतां समुत्तर्तुं ये चान्ये भुवि देहिनः ॥६॥
तदाशीस्तन्नमस्कारस्तन्निष्ठस्तत्परायणः ।
आराधयन् कृष्णनारायणं तरति तां जनः ॥७॥
एकदा परमो भक्त इन्द्रद्युतिश्च भूसुरः ।
सदा विष्णुपरो भूत्वा मायां द्रष्टुं मनोऽकरोत् ॥८॥
तस्यैवं चेहमानस्य कदाचित्परमा कला ।
स्वरूपं दर्शयामास दिव्यं नारायणोद्भवम् ॥९॥
दृष्ट्वा प्रणम्य शिरसा नारायणप्रियां सतीम् ।
तुष्टाव तु ततो देवीं पप्रच्छ विनयान्वितः ॥१०॥
का त्वं मातर्विशालाक्षि विष्णुचिह्नांकिते शुभे ।
याथातथ्येन रूपं स्वं वदेदानीं कृपामयि ॥११॥
श्रुत्वाऽस्य साऽवदल्लक्ष्मीः श्रीरहं श्रीहरेः प्रिया ।
न मां पश्यन्ति मुनयो न देवा मानवाः कुतः ॥१२॥
नारायणात्मिका त्वेका मायाऽहं तन्मयी परा ।
न मे नारायणाद् भेदस्तन्मय्यहं परमेश्वरी ॥१३॥
स च सर्वेश्वरः परब्रह्म कृष्णनरायणः ।
तन्मयास्तत्कृतार्हाश्च पुरुषोत्तमसेवकाः ॥१४॥
ज्ञानेन कर्मयोगेन ये भजन्ति परेश्वरम् ।
ते तस्य परमा भक्ता न तेषां प्रभवाम्यहम् ॥१५॥
अनादिश्रीकृष्णनारायणं सर्वसमर्पणैः ।
ज्ञानेनाऽऽराधयन् भक्तोऽवश्यं मोक्षमवाप्स्यति ॥१६॥
श्रुत्वा पप्रच्छ च पुनरिन्द्रद्यतिः श्रियं तदा ।
कथं स भगवानीशो ज्ञातव्यश्चेति मे वद ॥१७॥
एवमुक्ता तु सा माया कराभ्यां तं तु भूसुरम् ।
संस्पृश्याऽऽह कृष्णनारायणो वक्ष्यति तेऽनघ ॥१८॥
इत्युक्त्वा श्रीकृष्णनारायणे चान्तरधीयत ।
विप्रः स श्रीहरिं द्रष्टुं तस्थौ तत्र समाधिना ॥१९॥
तद्भक्त्याऽनुग्रहं कुर्वन् साक्षात् कृष्णनारायणः ।
प्रादुरासीत् पीतवासाः किशोरश्च जगन्मयः ॥२०॥
इन्द्रद्युतिर्हरिं वीक्ष्य नेमे तुष्टाव तं प्रभुम् ।
कृष्णनारायण विष्णो पुरुषोत्तम केशव ॥२१॥
अनादिश्रीहरे स्वामिन् हृषीकेश च ते नमः ।
विश्वात्मन् सृष्टिकृत्कृणानन्तशक्ते च ते नमः ॥२२॥
निर्गुणाऽनन्तदिव्यानां गुणानां पूर्णमूर्तिक ।
ज्ञानगम्य कृपालभ्य पुरुषोत्तम ते नमः ॥२३॥
अनन्तमूर्तये तुभ्य नमोऽस्प्वानन्दरूपिणे ।
नमस्त परमेशाय ब्रह्मणे परमात्मने ॥२४॥
त्वं पिता सर्वभूतानां माता बन्धुः सुहृत् सखा ।
त्वमक्षरं परं धाम चिन्मात्रं व्योम ३बृहत् ॥२५॥
सर्वत्याऽऽधारमव्यक्तमनन्तं तमसः परम् ।
त्वां पश्यन्ति परात्मानं ज्ञानदीपेन सेवकाः ॥२६॥
प्रपद्ये तं भवेद्रूपं सच्चिदानन्दविग्रहम् ।
यत्रास्ते भगवौस्तद्वै श्रीहरेः परमं पक्ष ॥२७॥
त्वमेव नयसि श्रीमत्कृष्णनारायणप्रभो ।
शानं देहि पदं देहि त्वन्माया मा प्रदेहि मे ॥२८॥
इत्युक्त्वा प्रपतन्तं तं पादयोः स्वकरेण ह ।
पस्पर्श प्रहसन् कृष्णनारायणः पुनः पुनः ॥२९॥
स्पृष्टमात्रो भगवता दिव्यचक्षुस्तदाऽभवत् ।
यथावप्परमं तत्त्वं ज्ञातवाँस्तत्प्रसादतः ॥३०॥
उवाच त्वत्प्रसादान्मे चाऽसंदिग्धं च शाश्वतम् ।
ज्ञानं ब्रह्मैकविषयं जातमानन्दसिद्धिदम् ॥३१॥
शाधि मां भगवन्नत्र कथं सेव्योऽसि सर्वथा ।
किं कार्य च मया लोके त्वद्भक्तेन परेश्वर ॥३२॥
श्रुत्वा भक्तं हरिः प्राह भक्तानां धर्मशालिनाम् ।
ज्ञानेन भक्तियोगेन पूजनीयोऽहमेव तु ॥३३॥
विज्ञाय मां परं तत्त्वं विभूतिं कार्यकारणम् ।
प्रवृत्तिं मे परां ज्ञात्वा मोक्षार्थी मां समर्चयेत्। ॥३४॥
सर्वसंगान् परित्यज्य ज्ञात्वा मन्मायिकं जगत् ।
एकं मां स्वात्मनि ध्यायेत् स पश्येन्मां परात्परम् ॥३६॥
त्रिविधां भावनां कृत्वा भज मां त्वं सदा द्विज ।
एका मद्विषया तत्र परब्रह्मसुगोचरा ॥३६॥
व्यतिरेकेण भगवान् परे धाम्नि विराजते ।
अनादिश्रीकृष्णनारायणः स्वामिपतिः प्रभुः ॥३७॥
स्वराट् सर्वावताराणां कारणं सर्वशक्तिमान् ।
द्वितीया भावना तत्र सर्वाऽचिच्चिच्छरीरिणी ॥३८॥
जडं च चेतनं सर्वं व्याप्यं श्रीपरमाप्मनः ।
अधीनं च नियाम्यं च सर्वं श्रीपरमात्मनः ॥३९॥
तेषु सर्वेषु तत्त्वेषु चान्तरात्मा विराजते ।
सोऽयं श्रीमत्कृष्णनारायणः श्रीकृष्णवल्लभः ॥४०॥
तद्विनाऽणुरपि नास्ति तदात्मकं च तन्मयम् ।
तं व्यतिरिच्य न चास्ति जडं चेतनमित्यपि ॥४१॥
तस्मात् सर्वा तस्य मूर्तिर्मूर्तिमानत एव सः ।
दिव्यो दिव्यो यथा चास्ते तथा जडेऽपि दिव्यकः ॥४२॥
निर्बद्धो निष्कलंकश्चाऽसँगोऽन्तर्यामिसंस्थितः ।
त्वयि मयि तथाऽन्यत्र सर्वत्राऽयं विराजते ॥४३॥
इत्येवं मां सर्वतत्त्वे विलोक्य परिसेवय ।
तृतीया भावना चाथ नैजे ब्रह्मस्वरूपिणी ॥४४॥
ब्रह्मस्वरूपः स्वयं चाऽस्मीत्येवं मन्येत देहवान् ।
सा ब्राह्मी निजरूपस्य गुणातिगा प्रवर्तते॥४५॥
अहं ब्रह्मास्मि जीवात्मा जीवत्वं कर्मयुक्तता ।
कर्माणि ब्रह्मणि नैव सन्ति ब्रह्मात्मता हि सा ॥४६॥
सर्वं कर्म प्रकर्तव्यं ब्रह्म तेन न लिप्यते ।
एवं त्रेधा भावयित्वा परं पदमवाप्नुयात् ॥४७॥
अशक्तो मूढवच्चापि हरेः शरणमाश्रयेत् ।
ततः सर्वप्रयत्नेन तन्निष्ठस्तत्परायणः ॥४८॥
आराधयेत् परब्रह्म तेन मोक्षो भवेद् ध्रुवम् ।
तस्य श्रीमत्कृष्णनारायणस्य परमात्मनः ॥४९॥
ऐश्वर्याणि समस्तानि नित्या विभूतिरुच्यते ।
प्रभ्वाराधनया भक्ते विभूतिः प्रतिपद्यते ॥५ ०॥
कार्ये जगति चाऽव्यक्ते व्यक्ताऽव्यक्तात्मकेऽप्यहम् ।
कारणं चाऽक्षरं ब्रह्म विशिष्टं चाऽस्मि सर्वथा ॥५१॥
अहं नारायणस्तत्राऽन्तर्यामीश्वरपूजितः ।
सर्गस्थित्यन्तकर्ताऽस्मि विज्ञायैवं भजस्व माम् ॥५२॥
ततस्त्वं ज्ञानकर्मभ्यां मामुपैष्यसि योगतः ।
अहं नारायणः स्वामी पूर्वमासं महान् विराट् ॥५३॥
चतुर्मुखस्ततो ब्रह्मा मया सृष्टः पितामहः ।
रुद्रः सृष्टस्तथा विष्णुस्ततो मया ममाङ्गतः ॥५४॥
सृष्टा श्रीर्विष्णुशक्तिश्च कमलायतलोचना ।
सुरूपा सौम्यवदना मोहिनी सर्वदेहिनाम् ॥५५॥
शुचिस्मिता सुप्रसन्ना दिव्यकान्तिः सुशोभिता ।
दिव्यमालाम्बरभूषाधारिणी महिमास्पदा ॥५६॥
नारायणी महामाया मूलप्रकृतिवैष्णवी ।
तां दृष्ट्वा तु तदा ब्रह्मा मामुवाच पुनः पुनः ॥५७॥
मोहायाऽशेषभूतानां नियोजय सुरूपिणीम् ।
येनेयं विपुला सृष्टिर्वर्धेत मम केशव ॥५८॥
तथोक्तोऽहं श्रियं देवीमवोचं प्रहसँस्तदा ।
देवीदमखिलं विश्वं सदेवाऽसुरमानुषम् ॥५९॥
मोहयित्वा ममाऽऽदेशात् संसारे विनिपातय ।
केवलां त्वां ये भजेरन् तान् त्वयि सन्निरोधय ॥६०॥
ज्ञानयोगरतान् दान्तान् ब्रह्मिष्ठान् ब्रह्मवादिनः ।
अक्रोधनान् सत्यपरान् दूरतः परिवर्जय ॥६१॥
वेदविज्ञानवेदान्तज्ञानशमितसंशयान् ।
ब्रह्मयज्ञपरान् विप्रान् दूरतः परिवर्जय ॥६२॥
ये यजन्ति जपैर्होमैर्भजनैः परमेश्वरम् ।
स्वाध्यायेनेज्यया दूरात्तान् प्रयत्नेन वर्जय ॥६३॥
भक्तियोगसमायुक्तानीश्वरार्पितमानसान् ।
मयि सर्वार्पणकर्तॄन् दूरात्परिहराऽमलान् ॥६४॥
मन्नामाऽऽसक्तमनसो मन्मूर्तिध्यानपरायणान् ।
मत्साधुसेवकान् भक्तान् धर्मिष्ठान् परिवर्जय ॥६५॥
बहुनाऽत्र किमुक्तेन साधून् साध्वीर्विवर्जय ।
मदाराधनसंमग्नान् मन्नियोगान्न मोहय ॥६६॥
एवं मया मम माया प्रेरिता मम वल्लभा ।
यथादेशं करोतीयं न बध्नाति ममाऽनुगान् ॥६७॥
तां मद्भक्तः पूजयेच्च लक्ष्मीं श्रियं समर्चयेत् ।
श्रियं ददाति विपुलां पुष्टिं मेधां यशो बलम् ॥६८॥
अर्चिता भगवत्पत्नी ददाति सम्पदः शुभाः ।
कृष्णसेवां ददात्येषा तस्माल्लक्ष्मीं समर्चयेत् ॥६९॥
विना कर्म न वै देही तिष्ठते च निसर्गतः ।
प्रवृत्तं च निवृत्तं च द्विविधं कर्म जायते ॥७०॥
ज्ञानपूर्वं निवृत्तं स्यात् प्रवृत्तं यदतोऽन्यथा ।
निवृत्तं सेवमानस्तु याति तत्परमं पदम् ॥७१॥
क्षमा दमो दया दानमलोभस्त्याग इत्यपि ।
आर्जवं चानसूया च तीर्थानुसरणं तथा ॥७२॥
सत्यं सन्तोषमास्तिक्यं श्रद्धा चेन्द्रियनिग्रहः ।
देवताभ्यर्चनं पूजा साधूनां वै विशेषतः ॥७३॥
अहिंसा प्रियवादित्वमपैशुन्यं सुनम्रता ।
सर्वमनुष्यजातीनां धर्मोऽयं मोक्षदो भवेत् ॥७४॥
प्राजापत्यं तु विप्राणां स्वर्गस्थानं क्रियावताम् ।
स्थानमैन्द्रं क्षत्रियाणां तथाधर्मैः प्रवर्तताम् ॥७५॥
वैश्यानां मारुतं स्थानं तथाधर्मेषु वर्तिनाम् ।
गान्धर्वं शूद्रजातीनां तथादास्येषु वर्तिनाम् ॥७६॥
अष्टाशीतिसहस्राणां यतीनामूर्ध्वरेतसाम् ।
यत्स्थानं तत्तु वैराजं स्थानं वै गुरुसेविनाम् ॥७७॥
सप्तर्षीणां तु यत्स्थानं तत् सधर्मिवनौकसाम् ।
प्राजापत्यं गृहस्थानां तथाधर्मेषु वर्तताम् ॥७८॥
यतीनां न्यासिनामूर्ध्वरेतसां त्यागिनां सताम् ।
सतीनां ब्रह्मसाध्वीनां वैराजं स्थानमुच्यते ॥७९॥
योगीनाममृतं स्थानं भूम्नश्चाव्याकृतं तु यत् ।
भक्तानां तु तदूर्ध्वं च व्योमाख्यं परमक्षरम् ॥८०॥
आनन्दमैश्वरं धाम यस्मान्नावर्तते पुनः ।
अनादिश्रीकृष्णनारायणस्वाम्यर्पितात्मनाम् ॥८१॥
परमं धाम एवास्ति परमेश्वरराजितम् ।
सर्वैब्रह्ममयैर्युक्तैः सच्चिदानन्दलक्षणैः ॥८२॥
शृणु चान्यत् प्रवक्ष्यामि मोक्षदं ज्ञानमुत्तमम् ।
सर्वेषामाश्रमाणां तु द्वैविध्यं चान्तरे मतम् ॥८३॥
ब्रह्मचार्युपकुर्वाणो नैष्ठिको ब्रह्मतत्परः ।
योऽधीत्य विधिवद् वेदान् गृहस्थाश्रममाविशेत् ॥८४॥
उपकुर्वाणको ज्ञेयो नैष्ठिको मरणान्तिकः ।
साधकश्चाऽप्युदासीनो गृहस्थो द्विविधो मतः ॥८५॥
कुटुम्बभरणायत्तः साधकोऽसौ गृही भवेत् ।
ऋणानि त्रीण्यपाकृत्य निःसंगः स्यादुदासवान् ॥८६॥
वानप्रस्थस्तापसश्च मौक्षिकश्च द्विधा मतः ।
तपोहोमयजनस्वाध्यायनिष्ठस्तु तापसः ॥८७॥
ततश्चाग्रे ध्याननिष्ठो कृष्णसेवस्तु मौक्षिकः ।
सन्न्यासो ज्ञानभाक् चाद्यो द्वितीयो भक्तिभागपि ॥८८॥
ज्ञानाय वर्तते भिक्षुर्देहात्मनोर्विवेकवान् ।
आत्मरतिश्चात्मतृप्तः सन्यासो ज्ञानभागयम् ॥८९॥
सम्यग्दर्शनसम्पन्नः कृष्णसेवापरायणः ।
कृष्णरतिः कृष्णतृप्तः सन्यासौ मौक्षिकः स हि ॥९०॥
योगी तु चाश्रमः सर्वाश्रमेषु विद्यते सदा ।
गृहेऽनासक्त एवाऽऽद्यो विवेकी स तु योगिराट् ॥९१॥
अहं ब्रह्माऽक्षररूपो निर्लेपः स तु योगिराट् ।
परब्रह्मण एवाऽहं प्रपन्नः स तु योगिराट् ॥९२॥
एवं त्रेधा भवेद् योगी मोक्षमार्गानुयोगवान् ।
एवं मया प्रजाभ्यश्चार्पितं वै मोक्षसाधनम् ॥९३॥
ब्रह्मणे शिक्षितं सर्वं ब्रह्मा ददौ ततश्च तत् ।
ऋषिभ्यो निजपुत्रेभ्यस्तैर्मार्गैर्मोक्षमाप्नुवन् ॥९४॥
गुणास्त्रयो गृहीताश्च मयैव जगतो हिताः ।
अन्योन्यमनुरक्तास्ते ह्यन्योन्यमपजीविनः ॥९५॥
अन्योन्यप्रणताश्चैव लीलया पारमेश्वराः ।
सत्त्वरजस्तमोयोगान्ममैव परमात्मनः ॥९६॥
तिस्रस्तुमूर्तयः प्रोक्ता ब्रह्मविष्णुमहेश्वराः ।
अहं ब्रह्मा, महादेवो, न भिन्नाः परमार्थतः ॥९७॥
विभज्य स्वेच्छयाऽऽत्मानमन्तर्यामी स्थितोऽप्यहम् ।
तस्मात् सर्वप्रयत्नेन वन्द्यस्त्रेधाऽपि माधवः ॥९८॥
यदीच्छेदचिरात्स्थानं यत्तन्मोक्षाख्यमव्ययम् ।
वर्णाश्रमस्य धर्मेण भक्त्या मां सेवयेत् द्विजः ॥९९॥
पूजयेद् भावयुक्तेन यावज्जीवं प्रतिज्ञया ।
आश्रमे वैष्णवे ब्राह्मे शांभवे वा स्थितोऽपि माम् ॥१००॥
तच्चिह्नधारी नियतस्तद्भक्तजनवत्सलः ।
ध्यायेन्मामर्चयेद् देवान् पराविद्यापरायणः ॥१०१॥
यस्तु नारायणं देवं प्रपन्नः शरणागतः ।
धारयेदूर्ध्वपुण्ड्रं तु ललाटे चन्दनादिभिः ॥१०२॥
अग्रे शंभुर्मध्ये विष्णुर्मूले ब्रह्मा प्रतिष्ठति ।
प्रपन्नो या जगद्बीजं ब्रह्माणं परमेष्ठिनम् ॥१०३॥
धारयेत् स महाबिन्दुं ललाटे भालमध्यगम् ।
ऊर्ध्वरेखा शांभवी च मध्ये विष्णुर्व्यवस्थितः ॥१०४॥
अधोरेखा तु सा ब्राह्मी त्रिदेवाः सन्ति तत्र च ।
शंभुं प्रपन्नो भक्तस्तु भस्मना वै त्रिपुण्ड्रकम् ॥१०५॥
ललाटे चन्द्रमस्तुल्यं चार्धभागेन धारयेत् ।
उपरि वर्तते शंभुर्मध्ये विष्णुरधो ह्यजः ॥१०६॥
संवर्तते ततश्चैतद् ब्रह्मविष्णुशिवात्मकम् ।
सूर्यतुल्यं रुद्रभालं चन्द्रतुल्यं तु वैष्णवम् ॥१०७॥
वह्नितुल्यं ब्रह्मभालं तिलकेनोज्ज्वलं सदा ।
भवत्येव सुरस्थानमैश्वरं तिलके कृते ॥१०८॥
एवं चिह्नं परं धृत्वा कृत्वा विवेकमात्मनः ।
दत्वाऽऽत्मानं प्रभोः पादे शाश्वतं पदमाप्नुहि ॥१०९॥
इत्येवं राधिके श्रीमत्कृष्णनारायणाऽऽश्रयम् ।
ज्ञानं विज्ञानसम्पन्नं स्वपत्न्यै ज्यामघो ददौ ॥११०॥
कृष्णनारायणस्वामी पुरेन्द्रद्युतये ददौ ।
मोक्षदं सर्वमेवैतद् विज्ञानं कर्मिणामपि ॥१११॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने ज्यामघनृपः स्वपत्न्यै धनालसायै भगवता इन्द्रद्युतिविप्राय पूर्वमुक्तं सर्वमुक्तवानित्यादिनिरूपणनामैकसप्ततितमोऽध्यायः ॥७१॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP