संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २८ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २८ Translation - भाषांतर श्रीकृष्ण उवाच-एवं वै राधिके दैत्यकन्याभ्यो लोमशो मुनिः ।उपादिदेश च वृषान् व्रतानि विविधानि च ॥१!।ताश्च चक्रुर्वृषाचारान् व्रताचरणमित्यपि ।अशून्यशयनं चापि चातुर्मास्यव्रतानि च ॥२॥वत्सरीयं शिवकालाष्टमीव्रतं च पुण्यकम् ।चक्रुः श्रीगुरुसेवां च भेजुः कृष्णनरायणम् ॥३॥भूत्वा पावनदेहाश्च पावनात्मान इत्यपि ।विमानैः पार्षदवरैर्वाहितैर्धाम चाक्षरम् ॥४॥गत्वा दृष्ट्वा दिव्यरूपाश्चाययुर्लोमशाश्रमम् ।प्रपूज्य कन्यकाः सर्वा लोमशं च गुरुं हरेः ॥५॥ज्ञात्वा पूर्णं महिमानं बालकृष्णस्य शार्ङ्गिणः ।परं कान्तं हरिकृष्णं भेजुस्तं पतिमीश्वरम् ॥६॥एवं तु वत्सरे याते तृतीये सुमहोत्सवे ।चतुर्थवर्षारम्भे च कृतजन्ममहोत्सवे ॥७॥पिता सुभोजयामास कोटिशो देहिनस्तदा ।दानानि दापयामास रत्नसौवर्णजानि च ॥८॥तत्राऽभूदेकमाश्चर्यं राधे शृणु वदामि ते ।पातालान्नागदेहश्च तथा मानवमस्तकः ॥९॥कृतहस्ताञ्जलिर्नागस्तालमानोऽतिदुःखितः ।स्वस्तिकाख्यो रुदन् कृष्णनारायणसमीपतः ॥१०॥त्राहि त्राहीत्यर्थयंश्चाययौ कुटुम्बशून्यकः ।अनादिश्रीकृष्णनारायणश्चास्ते गजासने ॥११॥तत्रागत्य च पतितः पादयोः श्रीहरेर्मुहुः ।उवाच भगवँस्त्राहि मां नागं शरणागतम् ॥१२॥त्वां विना रक्षको मे न विद्यते भुवनत्रये ।श्रीहरिः प्राह किं दुःखं त्वागतं ते निरूपय ॥१३॥नागः सर्वेषु शृण्वत्सूत्सवे समागतेषु च ।वर्णयामास दुःखं स्वं पाताले युद्धजं यथा ॥१४॥पाताले भगवन्नागा वसन्ति बहुजातयः ।शेषस्य जातिमन्तो ये ते राजानो भवन्ति च ॥१५॥वासुकेर्जातिमन्तश्च मन्त्रिणस्ते भवन्ति च ।तक्षकस्य च जातीया राजमान्या हि नागराः ॥१६॥अहं स्वस्तिकजातीयो ब्राह्मणोऽस्मि गुरुक्रियः ।धृतराष्ट्राः क्षत्रियास्ते कर्कोटका भटक्रियाः ॥१७॥कुहकस्य तु जातीया व्यापारिणो भवन्ति च ।सुषेणस्य तु जातीयाः शाकादिकृषिकारिणः ॥१८॥हारिता वनवासाश्चारण्यरक्षाकरा हि ते ।कार्बुरकाः सदा दास्यं कुर्वन्ति राजमण्डले ॥१९॥कृष्णजातीयनागाश्च सैन्याधिपत्यभोगिनः ।पुण्डीकास्तथा नागा भवन्ति वाटिकाकराः ॥२०॥अम्बरीषाः सूतकार्यकरा वाहनरक्षिणः ।गोधूमीयाश्च ते नागाश्चारणा वंशबोधकाः ॥२१॥भद्रजातीयनागाश्च पण्डिता ब्राह्मणा इमे ।वाचयन्ति कथाकाण्डान् बालानध्यापयन्ति च ॥२२॥कुमुदा भोगिनो दासा भवन्ति पारवश्यगाः ।पिशंगाः सूदकर्माणो भृत्या भवन्ति सर्वथा ॥२३॥केशीया नाट्यकुशलाः शैलूषा नृत्यकारिणः ।आमृतिका गीतिकारा डांडिका वृद्धसम्मताः ॥२४॥भूफालास्तु समुद्यानकराः शुकाः कथार्थिनः ।कपर्दजातीयकास्ते ग्रामशुद्धिकराः सदाः ॥२५॥एवमन्ये बहुसंज्ञा भवन्ति तत्र वासिनः ।तेषां राजा वर्ततेऽद्य नाम्ना कारण्डवो महान् ॥२६॥मन्त्री तस्य सुमध्वाख्यो विद्यते सर्पमण्डले ।मान्यः पूज्यो बुद्धिमांश्च महाबलपराक्रमः ॥२ ७॥अन्यायी स्वार्थमात्रेऽपि परार्थकृद्धि वर्तते ।प्रजानां हितकर्ताऽस्ति शरणागतमानकृत् ॥२८॥अतः प्रजास्तु त सम्यङ्मानयन्ति यथा नृपम् ।राजा महोत्सवं तत्र हाटकेश्वरशूलिनः ॥२९॥करोति श्रावणे मासि बिल्वादिभिः प्रपूजनम् ।दानं च दक्षिणायुक्तं ददाति द्विजतृप्तये ॥३०॥अस्मिन् वर्षे सुमधुना मन्त्रिणा तन्नृपस्य वै ।आहूता ब्राह्मणास्तत्र शतरुद्रीयजापने ॥३१॥सहस्रशोऽभवँस्तत्र जापकाः पाठकास्तथा ।पूजका होमकर्तारस्तत्राऽहं जापकोऽभवम् ॥३२॥मम पुत्राः शतं सन्ति कन्यका विंशतिस्तथा ।ते च तत्र पाठकाश्चाऽभवन् मन्त्रिकृपावशात् ॥३३॥कन्यका ब्राह्मणपुत्र्यश्चायान्ति यान्ति नित्यशः ।हाटकेशस्य पूजार्थं दर्शनार्थं वियन्ति च ॥३४॥मम विंशतिकन्याश्च सुरूपाः प्राप्तयौवनाः ।एकगर्भप्रसूताश्च सर्वा उर्वशीरूपिताः ॥३५॥विलोकिताः सुमधुना सर्वावयवशोभनाः ।रूपे चम्पकवर्णाभाः श्रीतुल्यादीर्घलोचनाः ॥३६॥पिंगनेत्राश्च शिरसः परितः कान्तिमण्डलाः ।पारदृश्याऽच्छदेहाश्च तेजोमणिनखान्विताः ॥३७॥कामरूपधराः सर्वास्तनुमध्याः सुकेशिकाः ।वह्निवस्त्रधरा मिष्टकण्ठा माधुर्यसंभृताः ॥३८॥सुगन्धपूर्णदेहाश्च पवित्रा द्विजकन्यकाः ।पद्मिनीलक्षणाः सर्वा विलोक्य सुमधुश्च माम् ॥३९॥प्रोवाचाऽऽहूय निलयं देहि विंशतिकन्यकाः ।मम योग्या राजयोग्या भवन्त्येताः प्रदेहि मे ॥४०॥मया विचार्य तु तदा प्रोक्तो मन्त्रिवरः प्रभो ।कन्यका मे यदीच्छेयुर्दास्याम्येव न संशयः ॥४१॥तासां मानसमिष्टं यत् कर्तव्यं तन्मया सदा ।ततः पृष्टा मया सर्वास्तन्मात्रा चापि बोधिताः ॥४२॥वरयोग्या भवत्यो वै वदन्त्विच्छन्ति कं वरम् ।ताः प्राहुर्वै श्रुतं तात मातर्मानवभूतले ॥४३॥अनादिश्रीकृष्णनारायणः सर्वपतिः प्रभुः ।वर्तते श्रीकम्भराया गृहे गोपालबालकः ॥४४॥रूपरूपानुवयवश्चातिकान्तमनोहरः ।श्रुतं चास्माभिरत्रैव सखीभ्य सर्वथा हि सः ॥४५॥वरयोग्योऽसि भगवान् श्रीपतिः पुरुषोत्तमः ।अन्या अपि च नागानां कन्यकास्तं परेश्वरम् ॥४६॥विवाहेन पतिं कर्तुं समिच्छन्ति सहस्रशः ।ततो वयं शेषपतिं श्रीपतिं श्रीधरं विना ॥४७॥नान्यं वरितुमिच्छामो यदि नः श्रेय इच्छसि ।इत्युक्तः कन्यकाभिश्च स्वस्तिकोऽहं च तत्पिता ॥४८॥मन्त्रिणे चोक्तवान् कन्याभिप्रायं मन्त्रिराट् ततः ।क्रुद्धाऽऽह मां पितुः कन्यास्त्वधीना न स्वतन्त्रिकाः ॥४९॥त्वं देहि मे वदाम्येवं सर्वसौख्यमवाप्स्यसे ।नो चेद् दुःखं भवेत्तेऽत्र सर्वस्वं ते हृतं भवेत् ॥५०॥यद्वा राक्षसविधिना हरिष्ये तव कन्यकाः ।ततो नम्रतया कन्याश्चानुसरन्तु मां तव ॥५१॥वद ता यदि नेच्छन्ति श्वो हरिष्ये शुभे दिने ।इत्युक्तवानहं पश्चात् पुनस्ता मम कन्यकाः ॥५२॥अकथयं च तत्सर्व तथापि ता न मेनिरे ।ततोऽहं गतवान् भूपं प्रत्यनिवेदयं च तत् ॥५३॥भूपोऽपि तत्पक्षपातीतल्लाभं प्रजगाद मे ।देहि त्वं कन्यकास्तस्मै मन्त्रिणे प्रसुखी भव ॥५४॥मम श्रुतं न वै राज्ञा मेऽनुमोदनमाहितम् ।मया श्रुत्वा पुनः सर्वं कन्यकाभ्यो निवेदितम् ॥५५॥ताः प्राहुः सप्रतिज्ञं वै वरयामो हरिं प्रभुम् ।अनादिश्रीकृष्णनारायणं बालस्वरूपिणम् ॥५६॥अन्यथा मरणं तात चाश्रयामस्तथैव तत् ।मया निवेदितं तत्तु ज्ञातिवर्गाय सर्वथा ॥५७॥ज्ञातिजनैश्चापि तथा देहीति चानुमोदितम् ।न राज्ञा तज्जनेनापि विरोधः श्रेयसां पदम् ॥५८॥तस्माद् देया मन्त्रिणे वै कन्यका विघ्ननाशनम् ।अथाऽहं प्रावदं सर्वं मम पत्न्यै तदा तु सा ॥५९॥प्रोवाच मां न वै देया मन्त्रिणे कुष्ठिने त्वया ।यद् भवेत् तद् भवत्वेव न देयाः कुष्ठिने पते ॥६०॥मयोक्तं स कथं कुष्ठी ज्ञायते तु त्वया प्रिये ।प्रिया प्रोवाच मां दासी तस्य नाम्ना करण्टिका ॥६१॥सुमधोः सेविका भृत्या तस्य सेवां करोति या ।पादसंवाहनं स्नानं तैलमर्दनकादिकम् ॥६२॥करोति नित्यशो मन्त्रिवर्यं पश्यति सा रहः ।तच्छरीरे गुप्तभागे वर्तन्ते रक्तकुष्ठकाः ॥६३॥रोगवार्ताप्रलापे सा मन्त्रिकुष्ठानवर्णयत् ।ततो न कन्यका देयास्तस्मै वै कुष्ठिमन्त्रिणे ॥६४॥इत्युक्त्वा विररामेयं भाविकष्टशुचं गता ।स्वस्तिकोऽहं शोकमाप्तो वैपरीत्यं भविष्यति ॥६५॥सहितव्यं च तत्कष्टं दैवाच्चेत् समुपागतम् ।दैवं तु भगवान् कृष्णनारायणः परेश्वरः ॥६६॥यस्माच्चायं हाटकेशः समुत्पन्नः स चाऽवतु ।एवं विचार्य चाऽहं वै दक्षिणां प्रतिगृह्य च ॥६७॥गृहं गतोऽपि निद्रां न लेभे न स्त्रीर्न कन्यकाः ।प्रातर्जातं तदा मन्त्रिभटास्तत्र समागताः ॥६८॥विंशतिकन्यकाः सर्वा मन्त्रिणा वाञ्छिता यतः ।आरोहन्तु रथान् दिव्यान् उद्वाहार्थं हि मन्त्रिणा ॥६९॥इत्येवं राजवचसा मन्त्रिवाक्येन वै वयम् ।राजभटाः कथयामोऽन्यथा नेष्याम आग्रहात् ॥७०॥कन्याः पिता च माता च पुत्रा दीनजना यतः ।रुरुदुश्च पुनर्योद्धुं कृतादरास्तदाऽभवन् ॥७१॥प्रहरं तत्र युद्धेन भटैः सर्वैर्धृता वयम् ।पाशिताः कन्यकाः पुत्रा नीत्वा काराग्रहे धृताः ॥७२॥मोचितोऽहं मम पत्न्या सहितो भाद्रमासि वै ।कन्या नेच्छन्ति वरितुं काराग्रहे वसन्ति ताः ॥७३॥त्राहि वै भगवन् पत्न्या प्रेषितोऽत्र समागतः ।त्वदर्थं कृतजीवास्ताः समुद्धारय केशव ॥७४॥इत्युक्तो बालकृष्णस्तं चाभयं प्रददौ हसन् ।प्रसस्मार च गरुडं भयानकसुदर्शनम् ॥७५॥तावुभौ द्राक् समायातौ कोटिसूर्यसमक्रमौ ।आज्ञापितौ ययतुश्च नीत्वा स्वस्तिकमेव तम् ॥७६॥पातालं यत्र ते सर्पाः कृतराज्या वसन्ति च ।गरुडः प्राह राजानं न्यायं करोतु सर्पराट् ॥७७॥प्रसह्य कन्याहरणं मन्त्रिणा धर्मविप्लवः ।कृतो राजन् विप्रकन्याः प्रयच्छ स्वस्तिकाय वै ॥७८॥साम्ना सर्वं प्रकर्तव्यं वैरं दुरन्तमेव यत् ।अनादिश्रीकृष्णनारायणेन भूतलादिह ॥७९॥प्रेषितश्चागतोऽस्म्यत्र गरुडः सर्पभक्षकः ।नारायणेन मे दत्तं प्रायुधं वै सुदर्शनम् ॥८०॥यदि नो मुञ्चसि कन्या युद्धं कुरु मया सह ।इत्येवं बोधितो राजा कारण्डवो रुषा ज्वलन् ॥८१॥मन्त्रिणं च समाहूय युद्धार्थं तत्परोऽभवत् ।शेषा वासुकयश्चापि तक्षकाः कुहकास्तथा ॥८२॥धृतराष्ट्राः सुषेणाश्च हारिताः कर्बुरादिकः ।कृष्णाश्च पुण्डरीकाश्चाऽम्बरीषा भद्रकास्तथा ॥८३॥कुमुदाश्च पिशंगाश्च केशीयाश्चामृतास्तथा ।शैलूषाश्च कपर्दाश्च भूफाला डाण्डिकाः शुकाः ॥८४॥एतेऽन्ये नृपतेर्वाक्यात् सैन्यान्यादाय संगरम् ।कर्तुं समाययुः सर्वे मृधे शस्त्रास्त्रहेतिभिः ॥८५॥ज्ञात्वा तु पक्षिणं स्वल्पं चक्रं स्वल्पबलं तदा ।किन्तु श्रीगरुडस्तत्र सस्मार परमेश्वरम् ॥८६॥रूपं दधार विपुलं दिगन्तव्याप्तिमत्तदा ।पक्षाभ्यां सर्वपातालं चच्छाद पिच्छकैरथ ॥८७॥देहेनापूरयद् व्योम पद्भ्यां पातालकं तलम् ।चञ्च्वा नखाभ्यां पक्षैश्च संहारमकरोत्तदा ॥८८॥युद्धारम्भं प्रकर्तॄणां नागानां हेतिघातिनाम् ।चञ्च्वा राजा धृतस्तूर्णं भक्षितो मन्त्रिणा सह ॥८९॥सैन्यानि घातितान्यस्य तीक्ष्णतुण्डेन पक्षिणा ।तीक्ष्णनखैस्तथा पक्षैर्घातितान्यपि लक्षशः ॥९०॥अन्ये प्रदुद्रुवुः पारे क्षीरोदस्य तटस्य वै ।शेषं निवेदयामासुरनन्तसंज्ञकं मृधम् ॥९१॥शेषस्तत्र समायातो दृष्टवान् गरुडं तथा ।सुदर्शनं विलोक्येव नेमे परमभावतः ॥९२॥सर्पान्निवारयामास योद्धॄन् तथापि ते यदा ।न न्यवर्तन्त वै चक्रं मुमोच गरुडो मृधे ॥९३॥प्रजज्वाल च पातालं सर्वसर्पकुलान्यपि ।हाहाकारो महानासीत् सम्मर्दोऽभून्महाँस्तदा ॥९४॥शेषस्तुष्टाव तच्चक्रं गरुडं चातिभावतः ।गरुडेन कृतं शान्तं चक्रं शेषस्य तुष्टये ॥१५॥समर्प्याऽनन्तशेषाय पातालराज्यमित्यपि ।स्वस्तिके तन्मन्त्रिपदं सन्न्यस्य गरुडस्ततः ॥९६॥स्वस्तिकस्य सुतान् पुत्रीर्मोचयामास बन्धनात् ।शेषस्वस्तिकगरुडाश्चक्रं सस्मरुरीश्वरम् ॥९७॥अनादिश्रीकृष्णनारायणं बालस्वरूपिणम् ।तावत् किशोररूपोऽयं भूत्वा श्रीभगवान् हरिः ॥९८॥ब्राह्मं गजं समारुह्य पाताले चाजगाम ह ।स्वागतं कृतवन्तस्ते भक्ताः कृष्णस्य वै ततः ॥९९॥हरिणा तिलकं तत्राऽनन्तशेषकपालके ।कृतं पातालराज्याभिषेचनं तस्य सर्वथा ॥१००॥मन्त्रिणा स्वस्तिकेनापि कृष्णनारायणाय वै ।अर्पिताः कन्यकाः स्वस्य मुदा विंशतिसंख्यिकाः ॥१०१॥चक्रं च गरुडं नीत्वा गजस्थाः कन्यकास्तदा ।नीत्वा श्रीभगवान् शीघ्रं चाऽश्वपट्टसरोवरम् ॥१०२॥कुंकुमवापिकाक्षेत्रं योगतः प्रसमाययौ ।स्नापयित्वा कन्यकास्तु चाऽश्वपट्टसरोवरे ॥१०३॥लोमशस्याऽऽश्रमे स्थातुं समादिदेश तं मुनिम् ।ताभ्यो मन्त्रान् ददौ माला लोमशश्चाश्रमे तथा१०४॥ररक्ष गरुडश्चाज्ञामाप्य वैकुण्ठकं ययौ ।चक्रं शान्तं हरेर्हस्ते कन्यास्तस्थुस्तथाश्रमे ॥१०९॥एवं श्रीभगवाँश्चक्रे चमत्कारं हि राधिके ।चतुर्थवत्सरारम्भे दिव्यसद्गुणशेवधिः ॥१०६।अथ पातालके तत्र शेषपत्नी सुनन्दिनी ।बालकृष्णं प्रसस्मार कार्तिके दर्शनाय वै ॥१०७॥श्रीहरिस्तन्मनो ज्ञात्वा ययौ किशोररूपवान् ।तया सम्पूजितश्चाऽयं ददौ तस्यै मनुं निजम् ॥१०८॥'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।मालां च तिलकं प्रादाद् भक्ताऽभजद्धरिं तु सा ॥१०९॥मृतानां भोगिनां कन्याः सहस्राणि दशाऽभवन् ।ताभ्यो मनुः सुनन्दिनीं ददौ मालादिकं ददौ ॥११०॥ताः सर्वा वैष्णवीश्रेष्ठतमा जाता हरेः प्रियाः ।श्रीहरिणा समं सर्वाश्चाययुर्भूतलं शुभाः ॥१११अनन्तेनाऽर्पिता व्योमयानस्थाः सोपदा हि ताः ।लोमशस्याऽऽश्रमे ताश्च रक्षिताः परमात्मना ॥११२॥धन्यास्ता योषितो राधे याः कृष्णाय प्रकल्पिताः ।परब्रह्म स्वयं यासु रमिष्यते सुमुक्तिकृत् ॥११३॥सर्वस्वं यत्र वै देयं दातव्यं नाऽवशिष्यते ।अवाप्तव्यं च यत् प्रोक्तं तेन चेद् यदि गृह्यते ॥११४॥को लाभोऽस्मात्परो लोके तन्वा प्रीणाति चेद्धरिः ।पठनाच्छ्रवणाच्चास्याऽऽनन्दप्रदो भवेत्प्रभुः ॥११५॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रभोश्चतुर्थवर्षारम्भोत्सवे पातालनागस्य स्वस्तिकस्य गरुडद्वारा पातालराजमन्त्रिणः सुमृधोः सकाशादागतकष्टमोक्षणम् , नागकन्यानां लोमशाश्रमानयनं चेत्यादिनिरूपणनामाऽष्टाविंशतितमोऽध्यायः ॥२८॥ N/A References : N/A Last Updated : April 30, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP