संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २७२ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २७२ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २७२ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु राधे ततो राजा नरनारायणाह्वयम् ।तीर्थं गत्वा लोमशं च पप्रच्छ मुनिसत्तमम् ॥१॥अश्वपाटल उवाच-कथं कस्मादिदं तीर्थं नरनारायणाह्वयम् ।को विधिः किंफलं चात्र वद मे लोमश प्रभो ॥२॥श्रीलोमश उवाच-शृणु राजन् प्रवक्ष्यामि तीर्थं तीर्थोत्तमोत्तमम् ।अत्र गोपालकृष्णौ वै गोस्वामी च पिता हरेः ॥३॥प्रथमं खलु पुत्रार्थं तपश्चचार दारुणम् ।यश्च देवो नरनारायणश्चास्ते हिमाचले ॥४॥तपस्विनां धर्मपोष्टा ब्रह्मचर्यपरायणः ।तापसानां परं श्रेष्ठं ध्यात्वा तपश्चचार ह ॥५॥प्रथमं त्यक्तवानन्नं ततः कन्दपरोऽभवत् ।पत्राहारस्ततश्चापि शुष्कपर्णाशनस्ततः ॥६॥जलाहारस्ततो वाय्वाहारस्ततो व्यजायत ।जजाप श्रीनरनारायणं वै हृदये सदा ॥७॥एवं वर्षशतान्तेऽत्र नरो नारायणस्तथा ।कृष्णो हरिश्च चत्वारो भगवन्तः समाययुः ॥८॥प्रत्यक्षं ते समागत्योचुस्तं गोपालकृष्णकम् ।महाविष्णो कथं तपश्चरसि वै नरायण ॥९॥वासुदेव जगद्धाता किं ते तपसि कारणम् ।प्रसन्नाः स्मो वयं नारायणाश्चत्वार एव ह ॥१०॥यथेष्टं ब्रूहि दद्मोऽत्र वरदानं यथेप्सितम् ।श्रुत्वा गोपालकृष्णश्च प्राह कल्याणहेतवे ॥११॥लोकानां च सुराणां च पितॄणां योषितां तथा ।पक्षिणां च पशूनां च वल्लीनां शाखिनां तथा ॥१२॥स्तम्बानां च तृणानां च भवन्तु पुत्रका मम ।तथा चास्त्विति जगदुर्विविशुस्तत्तनौ तदा ॥१३॥चत्वारस्ते परमेशा नारायणो नरस्तथा ।कृष्णो हरिश्च ते पुत्रा बभूवुस्तस्य मानसाः ॥१४॥कंभराबालकाश्चांऽशा लोककल्याणहेतवे ।नारायणोऽभवज्ज्येष्ठो नाम्ना श्रीभगवानिति ॥१५॥नरस्ततोऽभवन्नाम्ना शुकदेवो द्वितीयकः ।कृष्णोऽनादिकृष्णनारायणः श्रीकृष्णवल्लभः ॥१६॥अक्षराधिपतिः सोऽयमवतारी तृतीयकः ।हरिश्चतुर्थो नाम्ना श्रीवल्लभश्चाऽभवत्तदा ॥१७॥समानाश्च समैश्वर्याः समदेहप्रभायुताः ।परमेशाश्चात्र ते वै ह्यभवन् बालका नृप ॥१८॥यत्र गोपालकृष्णेन तपस्तप्तं सुदारुणम् ।भूमिरियं पावनी सा मन्दिरं चेदमेव यत् ॥१९॥अत्र गोपालकृष्णः स नारायणं नरं तथा ।कृष्णं हरिं प्रतिमाख्यान् प्रातिष्ठिपद्धि मन्दिरे ॥२०॥तदिदं सर्वमूर्धन्यं तीर्थं तीर्थोर्ध्वधाम यत् ।विश्रान्तिं चात्र संगृह्य ध्याने गृह्ण चतुष्प्रभून् ॥२१॥स्मरणाद् दर्शनादत्र स्नानात्पानात् प्रपूजनात् ।दानात् प्रसेवनाच्चापि मुक्तिरेव फलं महत् ॥२२॥नैतत्तुल्यं मखानां वा व्रतानां फलमस्ति वै ।नैतत्तुल्यं दक्षिणानां दीक्षानां फलमस्ति च ॥२३॥अत्राऽऽसीद् भूतलं राजन् विशालं ब्रह्मसंज्ञितम् ।यदिदं दृश्यते त्वद्य अश्वपट्टसरोवरम् ॥२४॥अश्वपाटल उवाच-कदा मुनेऽत्र संजातं भूतले वै सरोवरम् ।सर्वतीर्थमयं रम्यं सर्वनारायणाश्रयम् ॥२५॥श्रीलोमश उवाच-अहमासं पुरा धाम्नि वैकुण्ठे तत्र चैकदा ।आश्रौषं चाक्षरेशो योऽनादिकृष्णनरायणः ॥२६॥चतुर्मुखाऽजब्रह्माण्डे गोपालकृष्णमन्दिरे ।मानवो भवितुं याति लोककल्याणहेतवे ॥२७॥तदा नारायणाः सर्वे मुक्ताः सर्वे तथेश्वराः ।ऋषयः पितरश्चापि पृथ्व्यामत्र समाययुः ॥२८॥देव्यश्चेश्वरपत्न्यश्च मुक्तान्यो गोपिकास्तथा ।नारायण्यो ब्रह्मपुत्र्योऽप्सरसः सुरयोषितः ॥२९॥ब्रह्मसरसः सर्वाश्च ब्रह्मप्रिया हरिप्रियाः ।वैष्णव्यः शक्तयश्चापि सर्वास्तत्र समाययुः ॥३०॥स्वागतार्थं च पूजार्थं सहवासार्थमित्यपि ।सेवनार्थं तथा ते ताः पुपूजुः परमेश्वरम् ॥३१॥ते च ताश्च तदा प्रतीक्षन्ते प्राकट्यमेव च ।तदा चाह सर्वमेनं व्यलोकयं समुत्सवम् ॥३२॥अक्षरे तु परे धाम्नि ज्ञातं माणिक्यया तदा ।पतिर्मे भगवान् सर्वेश्वरेश्वरेश्वरेश्वरः ॥३३॥अनादिश्रीकृष्णनारायणः प्रयाति भूतले ।सा पूर्वं धामतः पृथ्व्यां व्याघ्रारण्ये समागता ॥३४॥ब्रह्मचर्यव्रतस्याऽस्य वाहनं भवितुं सती ।समैच्छदश्विनीरूपं कन्यारूपं समैच्छिकम् ॥३५॥अश्वीभूत्वा पराऽज्ञाता भूभागेऽपर्यटत् सती ।अत्राऽक्षरे शुभे तीर्थे कृष्णनारायणार्थिनी ॥३६॥ईश्वराद्यैर्लोकिता सा दिव्यरूपा प्रिया हरेः ।यत्र यत्राऽभवत् सा च सा भूमिश्चाश्वपट्टिका ॥३७॥तीर्थरूपाऽभवच्चापि निर्णयोऽप्यभवच्च नः ।अनादिश्रीकृष्णनारायणश्चात्र निवत्स्यति ॥३८॥तावत्तत्र समायातो ब्रह्मह्रदोऽक्षरात्पदात् ।जलरूपो दिव्यधामा चाश्वपट्टसरोमयः ॥३९॥अत्र भूमौ जलात्मा सा दिव्यसरोवरोऽभवत् ।स्मर राजन् ब्रह्मह्रदो यश्च दिव्यसरोवरः ॥४०॥स एव सोमयागस्य कर्ता राजाऽश्वपाटलः ।त्वमेव मानवं रूपं धृत्वा पृथ्व्यां विराजसे ॥४१॥इत्युक्तः खलु राजाऽसौ राधिके स्वं व्यलोकयत् ।ब्रह्ममुक्तं ब्रह्मह्रदं सरोजलाऽवतारकम् ॥४२॥आश्चर्यं परमं मेने ज्ञानं क्षणं ह्यभूद्धि तत ।पुनर्लयं गतं सर्वं प्राकृतं स्वं ह्यमन्यत ॥४३॥ततः श्रीलोमशः प्राह राजँस्तीर्थमिदं परम् ।पावनीमाणिकीतीर्थं चाश्विनीतीर्थमित्यपि ॥४४॥ब्रह्मह्रदमहातीर्थं चाश्वपाटलतीर्थकम् ।मया दृष्टमिदं सर्वं प्रत्यक्षं च ततः परम् ॥४५॥अहमत्र सदावासं कृतवानाश्रमे शुभे ।अवतारास्तथा मुक्ता ईश्वरा देवतादिकाः ॥४६॥सर्वे न्यूषुर्हरेः क्षेत्रेऽक्षराऽश्वपट्टसागरे ।सर्वा देव्यश्च देवाश्च प्राविर्भावोत्तरं हरेः ॥४७॥पुपूजुः परया प्रीत्याऽनादिकृष्णनरायणम् ।राधा लक्ष्मीः पार्वती च पद्मा रमा जया रतिः ॥४८॥ललिता पद्मिनी रंभा माणिकी श्रीः सरस्वती ।गंगा दुर्गा च सावित्री संज्ञा यमुना रोहिणी ॥४९॥मंजुला सद्गुणा हासा हैमी शान्तिः सुपुष्पिका ।मनुः कस्तूरिका देवी चम्पाऽम्बोजस्वती वृजा ॥५०॥सर्वा देव्यो ब्रह्मपत्न्यः कोट्यर्बुदाब्जसंख्यकाः ।आगत्य न्यूषुश्चात्रैव सरस्येव हरेः पदे ॥५१॥गण्डकी स्वर्णरेखा च नर्मदा तुंगभद्रिका ।गोदावरी ब्रह्मपुत्रा कावेरी फल्गुरीश्वरी ॥५२॥कृष्णा शोणा गोमती च सिन्धुश्चोरलिका तथा ।शोणभद्रश्चेरावती साल्वीना मेनकांगिका ।मन्नाम्नी चांगशिक्षांगी तथा कांचनगंगिका ॥५३॥त्र्यंगहा चामूरका च वीना यानासना तथा ।ओम्बा च त्रिवली चामू वालगा नीपरा तथा ।देविका दीन्युबा चापि उत्क्रोशी नाइली तथा॥५४॥प्रपत्तिका सेविका च नास्तिजरा च कङ्गुकी ।क्युबगंगा रञ्जिका च विषतूरा च जम्पिका ॥५५॥श्वेता नारायणी चापि मत्कुंजा यूकनायिका ।निरशाणा मिश्रजला आमजना परानिका ।श्वाना च ग्रासकायाना विषतूर्या कलिंगिनी ॥५६॥मूरास्तथाऽन्या नद्यश्च सर्वास्तत्र सरोवरे ।आययुस्तीर्थरूपास्ताः सदा वासार्थमेव ह ॥५७॥मानसं चेन्द्रद्युम्नं च नारायणं च पुष्करम् ।पम्पा चेन्द्रप्रस्थरूपं सुदर्शनं च रेवतम् ॥५८॥शिवसरस्तथा चित्कृत्सरः कौलरकं सरः ।शिवशीलं मीनकंगुसरः साभरकं सरः ॥५९॥बालकृष्णसरश्चापि द्विकलं च सरोवरम् ।सटालफं सरश्चापि विषतूरसरोवरम् ॥६०॥उरलं च सरश्चापि त्रिगुणोरसकं तथा ।फेरुमण्डं लूरासरो मशकाख्यं सरस्तथा ॥६१॥रुक्मं त्रिनासिकं चापि एबालं च सरस्तथा ।सटाल्पकं चाल्परूक्षम् आर्द्रवार्तं सरस्तथा ॥६२॥किमु त्र्यंगानकं चापि मयोरसं सरस्तथा ।बन्गपालं न्यूनजामी शिरावासं सरस्तथा ॥६३॥ऐतसं चौनियागारं लेन्दुगं पायुगं तथा ।योनिगम् औरसं तूरोनसं गौरं सरस्तथा ॥६४॥गोग्रासं बालरीशं च उबरासं सरस्तथा ।जयशानं ग्रातवारं ग्रातस्लावं सरस्तथा ॥६५॥क्रीतस्लावं चेष्टवासं पीलिपार्श्वं सरस्तथा ।सुपारयारं कालीयम् ईतरीशं सरस्तथा ॥६६॥एतान्यपि सरांस्यत्र तस्थुस्तत्रागतानि वै ।वृन्दावनं महाकालवनं तपोवनं तथा ॥६७॥इन्द्रप्रस्थवनं धर्मारण्यं पौष्करकं वनम् ।सिंहारण्यं बदर्यारण्यकं सुन्दरकं वनम् ॥६८॥प्राग्ज्योतिषारण्यकं च काशमारण्यमित्यपि ।इरारण्यं तथा शिक्षारण्यं राशवनं तथा ॥६९॥उरलारण्यकं चापि खासीनारण्यकं तथा ।बालायनमहारण्यं सहारारण्यमित्यपि ॥७०॥वालजीवारण्यकं च शादयानवनं तथा ।अमरीवनमेवापि चाब्रिक्तारण्यकं तथा ॥७१॥सिंहारण्यं तथा दैववनानि चात्र चाययुः ।स्वागतं पूजनं कृत्वा हरेश्चात्र निवासनम् ॥७२॥प्रचक्रुः सर्वदा चाश्वपट्टसरसि तानि वै ।एवं राजन् परं तीर्थं चाश्वपट्टसरस्त्विदम् ॥७३॥तीर्थानां पावनं चापि शुभं ब्रह्मह्रदात्मकम् ।पृथिव्यां स्वर्गलोके च तथाऽन्यत्रापि यानि तु ॥७४॥सन्ति तीर्थानि तान्यत्र विरजादीनि सन्ति च ।समुद्रा दिव्यजलिनो वसन्त्यत्र जलेऽनिशम् ॥७५॥यत्राऽनादिकृष्णनारायणः श्रीकृष्णवल्लभः ।तत्र सर्वेऽवताराश्च मुक्ता धामानि यान्यपि ॥७६॥ईश्वरा ईश्वराण्यश्च देवा देव्यो वसन्ति च ।ऐश्वर्याणि समग्राणि सिद्धयः प्रवसन्ति च ॥७७॥अनादिश्रीकृष्णनारायणतीर्थं परं हि तत् ।अत्राऽऽवासं समालेभे भगवान् पुरुषोत्तमः ॥७८॥तदा तेन समं मूर्तौ सर्वास्तस्य प्रियाः शुभाः ।अनादिश्रीकृष्णनारायणस्य वामभागगाः ॥७९॥पट्टांगना आययुश्च शतं च पञ्चविंशतिः ।ताश्च सरोवरे रम्ये पश्चिमे सेतुभाजिते ॥८०॥न्यूषुस्तीर्थस्वरूपिण्यः शततीर्थं तदुच्यते ।अनादिश्रीकृष्णनारायणप्राकट्यके दिने ॥८१॥गोपगोपांगनायुक्तः श्रीकृष्णस्तत्र चाययौ ।गोपीतीर्थं गोपतीर्थं गोलोकतीर्थमित्यपि ॥८२॥कृष्णतीर्थं च तज्जातं परं गोलोकमुक्तिदम् ।श्रीकृष्णो राधिकां प्राह यदाऽत्र स समाययौ ॥८३॥राधिके त्वं निबोधाऽत्रेत्युवाच राधिकां प्रियाम् ।वैराजेन कृतान्येव ब्रह्माण्डानि सहस्रशः ॥८४॥तत्र तत्र प्रवेष्टुं च व्यवस्थापयितुं हरिम् ।अनादिश्रीकृष्णनारायणं प्रार्थयति स्म सः ॥८५॥हरेकृष्ण हरेकृष्ण नारायणेश्वरेश्वर ।सर्वेषु मन्निर्मितेषु ब्रह्माण्डेषु भवान् प्रभुः ॥८६॥यावन्नायास्यति तावद् व्यवस्थां धर्मकर्मिणाम् ।जीवानां व्यवहाराणां कः करिष्यति माधव ॥८७॥दैत्यानां तामसानां च कः शिक्षां प्रकरिष्यति ।पापिनां पापनाशानि त्वां विना कः करिष्यति ॥८८॥वेददीक्षाविधानादि त्वां विना कः करिष्यति ।यज्ञयागादिकं दैवं पैत्र्यं पुण्यप्रदं विधिम् ॥८९॥मर्यादां देहिनां चापि त्वां विना कः करिष्यति ।आत्मज्ञानप्रदानं च साधूनां धर्मरक्षणम् ॥९०॥सतीनां सुविधानं च वैवाह्यं कः करिष्यति ।रागद्वेषनिमग्नानां देहिनां भ्रमवर्तिनाम् ॥९१॥विना त्वां त्वत्प्रसंगं च को वा मुक्तिं करिष्यति ।पूजाधर्मं तथा रक्षाधर्मं चोत्पन्नधर्मकम् ॥९२॥सेवाधर्मं विना त्वां को मानवेभ्योऽभिधास्यति ।शीलधर्मं गृहिधर्मं वन्यधर्मं यतिक्रियाम् ॥९३॥त्यागधर्मं चात्मनिवेदनं नीतिं पुरातनीम् ।पद्धतिं वार्णिकीं चापि त्वां विना कः करिष्यति ॥९४॥विनाऽपि तव प्राकट्यं ब्रह्माण्डानि च तानि तु ।श्मशानभूमयः सर्वा जन्ममरणसूतिकाः ॥९५॥त्वां विना साधवो मुक्ता न यास्यन्त्यक्षरात्पदात् ।पार्षदाश्च तथा लक्ष्म्यो न यास्यन्त्यण्डकोटिषु ॥९६॥त्वां विना मंगलं नैव भविष्यति सुरादिषु ।त्वां विना रक्षणं नैव भविष्यति यथातथम् ॥९७॥विना त्वां भगवन् सर्वं गृहं शून्यं भविष्यति ।योगिनामपि वासाश्च भविष्यन्ति न सर्वथा ॥९८॥अवतारास्तथा तेऽपि गमिष्यन्ति न तेषु च ।विना सर्वसृष्टिसार्वभौमं कः प्रथमं व्रजेत् ॥९९॥मोक्षमार्गादिविज्ञानं तथोपास्त्यादिकं प्रभो ।सात्त्विका अपि देवाद्या ज्ञास्यन्त्येव न सर्वथा ॥१००॥मायापटलमासाद्य तदावृत्ता हि देहिनः ।दिव्यतां स्वां समुत्सृज्य पतिष्यन्ति तमोमये ॥१०१॥तस्मात्त्वं भगवन् सर्वब्रह्माण्डेषु प्रकाशताम् ।याहि नाथ कृपासिन्धोऽनादिश्रीपुरुषोत्तम ॥१०२॥इत्येवं प्रार्थितोऽनादिकृष्णनारायणोऽक्षरे ।परे धाम्नि स्थितः श्रुत्वा दिव्यवाण्या विराजकम् ॥१०३॥समुवाच तथाऽस्त्वेवं यामि ब्रह्माण्डकोटिषु ।इत्यभिधाय भगवान् परधाम्नः परेश्वरः ॥१०४॥समैच्छद् बहुभवितुं सर्वकल्याणहेतवे ।प्रत्यण्डं प्रतिमूर्तिः स बभूव परमेश्वरः ॥१०५॥अनेकाण्डेषु सर्वत्र गुणैश्वर्यविभूतिभिः ।पार्षदैर्दिव्यमुक्तैश्च पत्नीभिः शक्तिभिः सह ॥१०६॥भक्तैश्च धर्मभोगैश्चोपासनाभक्तिभिः सह ।स वै प्रादुर्बभूवाऽसौ राधे कृष्णनरायणः ॥१०७॥यत्र ब्रह्मा स्वयंभूश्च शंकरः सोमनाथकः ।नरनारायणो विष्णुस्तत्र कृष्णनरायणः ॥१०८॥नरनारायणखण्डे पश्चिमे तु सुराष्ट्रके ।भूतले त्वक्षरक्षेत्रे भाविरैवतप्राग्दिशि ॥१०९॥कुकुमवापिकातीर्थे चाश्वपट्टसरस्त८ए ।कुंकुमायां नगर्यां श्रीहरिः प्रादुर्बभूव सः ॥११०॥अयमेव परः कृष्णो यस्मात् कृष्णा अनन्तकाः ।आविर्भवन्ति राधे त्वं निबोधाऽस्य हि गौरवम् ॥१११॥इत्येवं वै स्वयं कृष्णस्तदा श्रीराधिकां प्रियाम् ।समुवाच मया तत्तु श्रुतं साक्षान्नराधिप ॥११२॥सोऽयं श्रीकम्भरापुत्रः श्रीशो गोपालनन्दनः ।यजते बालकृष्णोऽसौ कुमारः कृष्णवल्लभः ॥११३॥सर्वावतारा धामानि मुक्तास्तथेश्वरादयः ।देवास्तीर्थानि सन्तश्च सत्यश्चात्र वसन्ति वै ॥११४॥मोक्षो मुक्तिर्मूर्तिमन्तौ विराजेतेऽत्र भूतले ।तस्माद् राजन्नत्र तीर्थे यदल्पं तद्विधेह्यपि ॥११५॥इत्युक्तो लोमशेनैष राजा दीक्षां तु वैष्णवीम् ।जग्राह विधिना त्यक्त्वा मोहं राज्यं गृहाणि च ॥११६॥साधुर्बभूव राजा स वैष्णवीं प्राप्य दीक्षिकाम् ।राधिके! चित्प्रकाशेतिनाम्ना ऋषिस्ततोऽभवत् ॥११७॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने नरनायणतीर्थं हरिकृष्णतीर्थं माणिकीतीर्थमश्वपाटलप्राग्वृत्तान्तमश्वपट्टसंज्ञासर्वतीर्थागमः, वैराजस्तुत्या परब्रह्मागमः, अश्वपाटलस्य साधुदीक्षेत्यादिनिरूपणनामा द्वासप्तत्यधिकद्विशततमोऽध्यायः ॥२७२॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP