संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|

त्रेतायुगसन्तानः - अध्यायः २४१

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
शृणु त्वं राधिके चान्यं चमत्कारं प्रभोस्ततः ।
मार्गशीर्षस्य पञ्चम्यां कृष्णपक्षे तु योऽभवत् ॥१॥
अक्षराधिपतेस्तस्य कृष्णनारायणस्य यः ।
वासुदेवाभिधश्चास्तेऽवतारो व्यूहसंज्ञकः ॥२॥
तस्यांऽशः सृष्टिसंहारनेयापारः समकर्षणः ।
संकर्षणो यः शास्त्रेषु वर्ण्यते स तु जायते ॥३॥
रुद्ररूपो मुहुश्चापि शंभुरूपस्तथा मुहुः ।
प्रलयात्मा स एवाऽऽस्ते स चास्ते शेषसंज्ञकः ॥४॥
हरिर्यत्र प्रशेते च शेषनारायणः स हि ।
स एव तु महायोगी पतञ्जलिः प्रजायते ॥५॥
योगादेष्टा हरेरंशः पतञ्जलिमुनिः स वै ।
दिव्यदेहोऽत्र भूमौ स काश्यामास्ते सदा प्रभुः ॥६॥
नित्यं प्रातर्योगदृष्ट्या दर्शनार्थं हरेः स च ।
पूजनार्थॆ समायाति त्वश्वपट्टसरःस्थलीम् ॥७॥
प्रपूज्य परमात्मानमनादिश्रीनरायणम् ।
आरार्त्रिकं विधायैव प्रसादं प्राप्य वै ततः ॥८॥
प्रयात्येव निजावासं क्षणात् काश्यां समाधिना ।
एवं नित्यं समायाति महामुनिपतञ्जलिः ॥९॥
राधिके तं मुनिं तत्र पूजयन्तं हरिं प्रभुम् ।
ददर्श चमसो नाम्ना व्योम्ना चरन् हि योगिराट् ॥१०॥
अवातरत् स वै पुथ्व्यां पप्रच्छ तं पतञ्जलिम् ।
भगवन् पूज्यते त्वत्र त्वया श्रीपुरुषोत्तमः ॥११॥
साक्षात्सर्वावताराणामधीशो बालकृष्णकः ।
पुनश्च गम्यते काश्यां कथं त्यक्त्वा महाप्रभुम् ॥१२॥
वद मे कारणं विद्वन् तीर्थार्थं त्वहमागतः ।
कृत्वा तीर्थं ततश्चाहं गमिष्यामि रेवया सह ॥१३॥
पूजयामि प्रभुं चाहं ततो यास्यामि वै त्वया ।
इत्युक्त्वा दण्डवच्चक्रे पुपूज बालकृष्णकम् ॥१४॥
पूजयित्वा ह्युभौ चाज्ञामासाद्याऽश्वसरस्तटम् ।
ययतुः पूर्वसेतौ तौ धात्रीवृक्षमुपाश्रितौ ॥१५॥
पतञ्जलिमुनिः प्राह कारणं काशिकास्थितेः ।
चमसः त्वं शृणु हेतुं यतो यामि वराणसीम् ॥१६॥
अनादिश्रीकृष्णनारायणस्य परमात्मनः ।
महैश्वर्यस्वरूपा या त्वर्धस्वरूपधारिणी ॥१७॥
सर्वशक्त्यग्रगण्या या सर्वासां परमेश्वरी ।
कृष्णनारायणी याऽनादिनी त्वर्धांगना हरेः ॥१८॥
जगतां ब्रह्मलोकानां माताऽवतारयोगिनाम् ।
दुःखहर्त्री सुखकर्त्री मुक्तानां शक्तिदायिनी ॥१९॥
नारायणानां सर्वेषां सर्वसामर्थ्यरूपिणी ।
ब्रह्मप्रियाणां सर्वासां मूर्धन्या या तु वक्षसि ॥२०॥
अनादिश्रीकृष्णनारायणस्यैव विराजते ।
क्षणं दूरे न सा याति विमुक्ता नहि जायते ॥२१॥
दृश्याऽदृश्यस्वरूपा याऽविनाभावनियोजिता ।
राधारमादिदेवीनां सेवनीया परेश्वरी ॥२२॥
सा त्वास्ते धृतदेहाऽद्य कुमारी श्रीहरेः प्रिया ।
शिवस्वामिगृहे बाला सती पुत्री नरायणी ॥२३॥
नाम्ना तु सा धनलक्ष्मीः सर्वदुःखविनाशिनी ।
वर्तते सा महीदेवी समुत्था दिव्यमानवी ॥२४॥
विजयस्यापि शशिनः कृष्णाया साऽनुजा शुभा ।
प्रतीक्षन्ती हरेर्वाटं कृष्णनारायणस्य सा ॥२५॥
तस्याः पूजां तथा सेवां कर्तुं दास्यं प्रयामि हि ।
अनादिश्रीकृष्णनारायणाऽऽज्ञया प्रयामि वै ॥२६॥
चमस! त्वं विजानासि योगाल्लभ्यस्तु यो हरिः ।
स एवाऽयं परमात्मा राजते कुंकुमक्षितौ ॥२७॥
अस्य वै दर्शनं नित्यं समाधिर्निर्विकल्पकः ।
अस्य साक्षात्प्रसेवा च समाधेः फलमुत्तमम् ॥२८॥
यमास्त्वस्याऽनुवृत्तौ वै वर्तनं सम्मता मम ।
अहिंसा श्रीहरेर्ग्राह्या प्रसन्नता तदात्मिका ॥२९॥
सत्यं सत्यस्वरूपस्य हरेः सदावलम्बनम् ।
अस्तेयं श्रीहरेरग्रे दास्यभावेन वर्तनम् ॥३०॥
ब्रह्मचर्यं हरेर्मूर्तौ प्रेम्णा तल्लग्नता मता ।
अपरिग्रह एवापि तं विनाऽऽप्तिर्न चेतरा ॥३१॥
नियमा अपि कृष्णस्य परिचर्यात्मका मम ।
शौचं तस्य स्पर्शनेन हृदये धारणेन च ॥३२॥
सन्तोषः श्रीहरेः प्राप्त्या प्रसादेन सदा हृदि ।
तपस्तत्रैव वृत्तीनां निरोधयत्न एव ह ॥३३॥
स्वाध्यायस्तस्य वचनं स्तवनं भजनादिकम् ।
प्रणिधानं च तन्मूर्तौ मनसो न्यास एव तु ॥३४॥
इत्येवं श्रीहरिकृष्णे यमाश्च नियमाः शुभाः ।
आसनं वै तदाज्ञायां संस्थानं सन्निधौ तथा ॥३५॥
प्राणायामः प्राणनाथे प्राणानां प्रसमर्पणम् ।
प्रत्याहारश्चेन्द्रियाणामाहारः परमेश्वरः ॥३६॥
धारणा धार्यतेऽनादिकृष्णो निजात्मनि प्रभुः ।
ध्यानं हरौ सदा मे च प्रत्ययस्यैकतानता ॥३७॥
रूपध्यानं हरेर्मूर्तेः रसध्यानं हरेः रसे ।
गन्धध्यानं हरेर्गन्धे स्पर्शध्यानं हरेः स्पृशि ॥३८॥
शब्दध्यानं हरेर्वाक्ये हस्तध्यानं हरेः कृतौ ।
पादध्यानं हरेरर्थे वाचो ध्यानं हरेर्गुणे ॥३९॥
रतिध्यानं हरेर्योगे विघ्ननाशो विसर्जनम् ।
चिन्तनं हृदये तस्य मननं मानसे हरेः ॥४०॥
बोधनं श्रीहरेर्नित्यं चाऽहंभावो हरौ सदा ।
वासनाभावनालग्नवृत्तिः कृष्णनरायणे ॥४१॥
भोगस्तस्मान्महानन्दो नारायणात्परेश्वरात् ।
गुणत्यागो गुणानां दिव्यता तद्योगतश्च या ॥४२॥
नैर्गुण्यं श्रीहरेरर्थे या सेवा गुणतोऽपि वा ।
पुरुषख्यातिरेवाऽपि यद्धरेर्नित्यदर्शनम् ॥४३॥
गुणवैतृष्ण्यमेवापि हरेर्गुणेषु लोभनम् ।
वैशारद्यं च वै बुद्धेर्हरेः स्मृतिस्तु या ध्रुवा ॥४४॥
वृत्तिरोधः स एवाऽस्ति सर्वत्र हरिभासनम् ।
समाधिश्च सविकल्पः स्वार्थमिश्रं हि सेवनम् ॥४५॥
सवितर्कः स्थूलपूजा निर्वितर्को हि मानसी ।
सविचारः स्तोत्रभक्तिर्निर्विचारोऽङ्गभावनम् ॥४६॥
सानन्दश्च रसाऽऽदानं निरानन्दो रसार्पणम् ।
सास्मिता स्वामिभृत्यत्वे भेदेन भासनं हरौ ॥४७॥
नास्मिता भृत्यभावस्य लयः कृष्णे सनातने ।
ऐक्यं कृष्णावेशितस्य पार्थक्यं न यदा मम ॥४८॥
फलं कृष्णस्वरूपाप्तिः सालोक्यं सार्ष्टिरित्यपि ।
सामीप्यं चाऽविनाभावः सदा तत्र विलीनता ॥४९॥
सर्वैश्वर्यचमत्काराद्याप्तिस्तस्मान्न भिन्नता ।
इत्येवं चमसः प्राप्त सर्वं योगमयं मया ॥५०॥
श्रीहरौ न ततोऽन्यद्वै भासते च मयि त्वयि ।
भज त्वं तेन भावेन वसाऽत्राऽश्वसरोवरे ॥५१॥
इत्यादिष्टश्चमसरतु पतञ्जलिप्रयोगिणा ।
अश्वपट्टसरस्तीरे सदा वासमवाचरत् ॥५२॥
पतञ्जलिर्ययौ काशीं चमसश्च पतञ्जलेः ।
प्रत्यक्षं विश्रमार्थं च गोष्ठ्यर्थं सरसस्तटे ॥५३॥
पातञ्जलीं कुटीं श्रेष्ठां चकार काष्ठपर्णजाम् ।
पातञ्जलं तु तत्तीर्थं ख्यातं लोकेऽभवत्ततः ॥५४॥
यत्र वै चमसो नित्यं करोति योगगोष्ठिकाम् ।
सह स्थित्वा श्रीमत्पतञ्जलिना योगवेदिना ॥५५॥
अथाऽऽयात् तत्र तीर्थार्थं राजा वैवस्वतो मनुः ।
दृष्ट्वा स्थानं चमसस्य पतञ्जलेश्च पावनम् ॥५६॥
मन्दिरे कारयामास दृढं पाषाणजं तदा ।
विशालं द्रुसमूहे वै तत्र शेषं पतञ्जलिम् ॥५७॥
प्रतिष्ठाविधिना राजा मनुरस्थापयन्मुनिम् ।
शेषनारायणं फणासहस्रव्रातशोभितम् ॥५८॥
फणासु विद्यते स्वस्तिकस्य चिह्नं फणे फणे ।
सौवर्णं राजतं चापि हरिद्वर्णं च पाण्डुरम् ॥५९॥
रक्तास्यं मौक्तिकनेत्रं शेषिकाभिः प्रसेवितम् ।
शोभनं मृदुलं रम्यं कृतकुण्डलिकासनम् ॥६०॥
एवं शेषं तथा दिव्यं मुनिं पतञ्जलिं गुरुम् ।
महर्षिं मन्दिरे तत्र योगिनं चाप्यतिष्ठिपत् ॥६१॥
तत्पार्श्वे तत्प्रियां कुण्डलिनीं सिद्धिमतिष्ठिपत् ।
तथा पुत्रं च योगाख्यं चातिष्ठिपन्मनुर्हि सः ॥६२॥
तथा संकर्षणं देवं गदापद्मादिराजितम् ।
संकर्षणीप्रियायुक्तं मन्दिरे समतिष्ठिपत् ॥६३॥
रुद्रं रुद्राणिकायुक्तं त्रिनेत्रं चाप्यतिष्ठिपत् ।
ईशानं चेशिनीयुक्तं मन्दिरे समतिष्ठिपत् ॥६४॥
जीविकार्थं महाक्षेत्रवाटिकाः प्रददावपि ।
विप्राँस्तेषां पूजनार्थंं न्ययुङ्क्त वेतनादिभिः ॥६५॥
प्रतिष्ठायां मनुस्तत्र महारुद्रं मखं शुभम् ।
कारयामास विधिना जापयामास रुद्रिकाः ॥६६॥
कारयामास कुण्डानि मण्डपानि शुभान्यपि ।
आह्वयामास योगीन्द्रान् मुनीन् महर्षिसत्तमान् ॥६७॥
विप्रान् क्षत्रप्रवराँश्च सुरान् देवान् प्रजापतीन् ।
गणाँश्च पार्षदाँश्चापि रुद्रशिष्यान् समस्तकान् ॥६८॥
कैलासस्थान् समस्ताँश्च क्षीरस्थानपि सर्वशः ।
शेषजातीयनागाँश्च शांभवान् योगिसत्तमान् ॥६९॥
योगिनीदेविकाश्चापि सतीः साध्वीश्च सर्वशः ।
अवधूतानिकाश्चापि मातृकाश्च समस्ततः ॥७०॥
वीरभद्रादिकाँश्चापि नन्द्यादींश्च समस्ततः ।
गणेशान् कार्तिकेयाँश्चाऽऽह्वयामास मखे मनुः ॥७१॥
अग्रगश्च महाचार्यः पुलस्त्यस्तत्र चाऽभवत् ।
महारुद्रप्रद्रष्टा वै सर्ववैद्यविशारदः ॥७२॥
कर्मठाः ऋषयस्तत्र सामग्रीः सुसमर्ज्य च ।
स्वस्तिवाचोऽवदन् मांगलिकस्वनास्तथाऽभवन् ॥७३॥
देहशुद्धिश्च संकल्पः कलशाराधनं तथा ।
गणेशपूजनं मातृकार्चनं च ततोऽभवन् ॥७४॥
नान्दीश्राद्धं मधुपर्कस्तथा पुण्याहवाचनम् ।
वर्धिनीकलशन्यासो जलयात्रा ततोऽभवन् ॥७५॥
वास्तुन्यासो मण्डपार्चा मण्डलदेवपूजनम् ।
पीठपूजा कुण्डपूजा वह्निन्यासोऽभवँस्ततः ॥७६॥
गृहन्यासो योगिनीस्थापनं क्षेत्रपस्थापनम् ।
भूतशुद्धिस्तथा प्राणप्रतिष्ठा मातृकान्यसिः ॥७७॥
शतरुद्रीयपाठश्च रुद्रनीराजनं तथा ।
क्रमहोमः सर्वदेवहोमश्चोर्ध्वाऽर्हणाऽभवन् ॥७८॥
अजाक्षीरेण वा मृगीक्षीरेण चेष्टिकोपरि ।
वायव्ये कोणभागेऽर्कपत्रेण हवनं तथा ॥७९॥
अध्वर्युश्च पठन् शतरुद्रीयं घृतधारया ।
अर्कक्षीरधारया च हवनं शंभवे ददौ ॥८०॥
रुद्रादिभ्यः समेतेभ्यो देवेभ्यो हवनं ददौ ।
पुष्पाञ्जलिर्महापूर्णाहुतिर्होमोऽभवत्ततः ॥८१॥
मन्दिरे देवतानां च दर्शनं च निवेदनम् ।
अभवच्च ततो महादक्षिणा सम्प्रदानकम् ॥८२॥
भोजनान्यभवँश्चापि सर्वेषां मखवर्तिनाम् ।
महीमानस्वागतं चाऽवभृथं च ततोऽभवत् ॥८३॥
इत्येवं राधिके वैवस्वतो मनुर्हि शंकरम् ।
शेषं पतञ्जलिं संकर्षणमीशानमित्यपि ॥८४॥
मन्दिरे नूतने प्रतिष्ठापयामास सोत्सवम् ।
अश्वपट्टसरःपूर्वदिशायां पावनी स्थली ॥८५॥
अर्कायनी महादिव्या शेषस्थली ततोऽभवत् ।
अश्वपट्टसरस्येव तीर्थं पातञ्जलं परम् ॥८६॥
चामसं तीर्थमेवाऽपि शेषतीर्थं तथा महत् ।
सांकर्षणं परं तीर्थं शतरुद्रीयतीर्थकम् ॥८७॥
अवभृथं महत्तीर्थं शंभुतीर्थं सुखप्रदम् ।
वैवस्वतं तथा तीर्थमित्येवमादिकानि च ॥८८॥
तीर्थानि चाभवन् भुक्तिमुक्तिप्रदानि सर्वदा ।
सुप्रख्यातानि जातानि त्वश्वपट्टसरोवरे ॥८९॥
गणाः स्नाता यत्र यत्र गणतीर्थानि तानि तु ।
गणेशतीर्थमेवापि स्कन्दतीर्थं तथाऽभवत् ॥९०॥
नागतीर्थं तथा तत्र पार्षदतीर्थमित्यपि ।
सतीतीर्थं च देविकासुतीर्थं पावनं ह्यभूत् ॥९१॥
इत्येवं राधिके पूर्वदिग्भागे तीर्थमण्डलम् ।
समुद्भूतं शेषयोगात् सर्वसिद्धिप्रदं शुभम् ॥९२॥
यत्र स्नानाज्जलपानादाचमनादपि स्पृशेः ।
योगस्य फलदं तीर्थं चात्मप्राप्तिकरं ह्यभूत् ॥९३॥
तत्र दानाद्भवेत्प्राप्तिर्नित्यकैलासकस्य वै ।
तत्र दीक्षाग्रहणाच्च वैकुण्ठवासमृच्छति ॥९४॥
तत्र यज्ञाविधानाच्च स्वर्गं वै शाश्वतं लभेत् ।
तत्र मूर्तेः प्रतिष्ठानाद्धाम सांकर्षणं लभेत् ॥९५॥
तत्र नित्यनिवासाच्च महाकालभयं न वै ।
तत्र व्रतादिकरणात् फलं त्वनन्तकं भवेत् ॥९६॥
यतीनां योगिनीनां च वैष्णवानां विशेषतः ।
वृत्तिदानाद् भवेन्मुक्तिः शाश्वती ब्रह्मयायिनी ॥९७॥
राधिके रजसा तस्य स्नानेन पापनाशनम् ।
तत्प्रदेशे मृतानां च तिरश्चां देवजनुर्मतम् ॥९८॥
पतञ्जले हर शंभो रुद्र संकर्षण प्रभो ।
मनो शेष चमस प्रकुर्वन्तु मम मंगलम् ॥९९॥
इत्युक्त्वा प्रस्वपेद् रात्रौ दुष्टस्वप्नं न जायते ।
तान् स्मृत्वा व्यवहरेद् यस्तस्य लाभः पदे पदे ॥१००॥
प्रातस्तान् संविचिन्त्यैव क्रयविक्रयवस्तुषु ।
हस्तं दत्वाऽऽचरेत् पण्यं लाभस्तस्य क्षणे क्षणे ॥१०१॥
अन्नपूर्णा सती देवी पार्वती शेषिणी शिवा ।
सांकर्षणी योगिनी च कुर्वन्तु मम मंगलम् ॥१०२॥
इत्युक्त्वा व्यवहरेत् स्त्री कुमारी युवती च वा ।
सुवासिनी वा विधवा तस्य लाभः क्षणे क्षणे ॥१०३॥
दुःखदारिद्र्यनाशश्च पूर्णकामत्वमित्यपि ।
सुखसम्पद्वंशवृद्धिर्जायते तत्कृपालवात् ॥१०४॥
पठनाच्छ्रवणाच्चाऽस्य श्रावणान्मननादपि ।
सर्वपापविनाशश्च भुक्तिर्मुक्तिश्च राधिके ॥१०५॥
मानसेष्टप्रलाभश्च मायानाशोऽपि सत्वरम्
आत्मसिद्धिः प्रजायेत संकर्षणकृपावशात् ॥१०६॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने पतञ्जलिचमसयोगेऽश्वपट्टसरसः पूर्वे तटे वैवस्वतकृतं संकर्षणपतञ्जलिशेषादिमन्दिरं जले च संकर्षण-
शेषादितीर्थजातमित्यादिनिरूपणनामैकचत्वारिंशदधिकद्विशततमोऽध्यायः ॥२४१॥

N/A

References : N/A
Last Updated : May 02, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP