संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २४४ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २४४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २४४ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके चाश्वसरस्येव ततः परम् ।मार्गकृष्णस्य चाष्टम्यां यज्ञारंभो बभूव ह ॥१॥नृपोऽश्वपाटलाख्यो वै वैष्णवस्त्वर्बुदाचलात् ।आययौ मखकार्यार्थे लोमशं प्रति सानुगः ॥२॥गजाः शतं गृहे यस्याऽरण्यं क्षेत्राणि भूरिशः ।राज्यं विशालं यस्यास्ते चार्बुदीयप्रदेशजम् ॥३॥सहस्रमानवैर्युक्तः सहस्रगोवृषैस्तथा ।बहुसामग्रिकाभिश्चाययौ सह मखार्थकः ॥४॥अश्वपट्टसरस्तीरे त्वैशाने पावने शुभे ।भागे सैन्यशिबिराणि चक्रे पालाशके वने ॥५॥आहूय लोमशं चापि कृत्वा च दर्शनं हरेः ।महर्षींश्च समाहूय क्रतुं श्रेष्ठं चकार सः ॥६॥राधिके सोमयज्ञं तं पञ्चाहं प्रचकार सः ।सोमलताः समाहृत्य सजीवाः कुण्डिकासु ताः ॥७॥वर्धिताः पायिताश्चापि राज्ञा त्वश्वसरस्तटे ।अहीनाख्यः सोमयज्ञः पञ्चाहोऽनुष्ठितस्तटे ॥८॥मण्डपे सुविशाले संकारितः कुण्डसत्तमः ।राजा सपत्नीक एव वृत्त्वा सोमप्रवाककम् ॥९॥सोमप्रवाकं विप्रं सम्प्रेषयामास ऋत्विजाम् ।वरणार्थं स विप्रोऽपि गत्वाऽऽनयत्तु भूसुरान् ॥१०॥राजा दत्वा मधुपर्कं वरणं प्रचकार ह ।अध्वर्युं च प्रतिप्रस्थातारं नेष्टारमित्यपि ॥११॥उन्नेतारं ततश्चापि ब्रह्माणं च समावृणोत् ।ब्राह्मणाच्छंसिनं चाग्नीध्रं पोतारं समावृणोत् ॥१२॥होतारं च तथा मैत्रावरुणं च समावृणोत् ।अच्छावाकं ग्रावस्तुतं चोद्गातारं समावृणोत् ॥१३॥प्रस्तोतारं प्रतिहर्तारं सुब्रह्मण्यमावृणोत् ।सदस्यानृत्विजश्चापि राजा तत्र समावृणोत् ॥१४॥देवताः समुपस्थायाऽरण्योश्चारोप्य चाऽनलम् ।सोमक्रतुस्थलीं गत्वा मथित्वा चारणी ततः ॥१५॥समुत्पन्नं गार्हपत्याऽऽयतनेऽनलमेव तम् ।प्रातिष्ठिपत् ततोऽध्वर्युः प्रणीयाऽऽहवनीयकम् ॥१६॥चतुर्विंशतिहोमाँश्च हुत्वा विसृज्य चाऽनलम् ।प्रणीय गार्हपत्याच्च पुनर्होमाँश्च सप्त च ॥१७॥कृत्वाऽग्निं तं समुत्सृज्य दीक्षणीयेष्टिमाचरत् ।एकादशकपालं च पुरोडाशं व्यधापयत् ॥१८॥अग्नये विष्णवे चापि होमं ददौ ततः परम् ।प्राचीनवंशशालां च निर्माय यजमानकः ॥१९॥उत्तरे च बहिर्देशे कारयित्वा तु मुण्डनम् ।तीर्थे स्नात्वाऽध्वर्युणा च दत्ते दुकूलके शुभे ॥२०॥पर्यदधत् तथा राज्ञी नखनिकृन्तनादिकम् ।स्नानं कृत्वा पर्यदधद् वस्त्रे दुकूलके शुभे ॥२१॥ततो जायापती चान्नं बुभुजाते हि मण्डपे ।नवनीतेन वै तत्र स्वाङ्गानि चानुलिम्पतः ॥२२॥अञ्जाते चाञ्जनेनाप्यक्षिणी नैजे ततः परम् ।अध्वर्युश्चानले तत्र हुत्वा दीक्षाहुतीश्च षट् ॥२३॥प्रददौ यजमानाय ततः कृष्णाजिनद्वयम् ।यजमानः परिगृह्याऽऽहवनीयसमीपगः ॥२४॥तदास्तीर्योपविश्यापि बद्ध्वा कट्यां च मेखलाम् ।मृगशृंगं तथोदुम्बरद्रुदण्डं दधार च ॥२५॥पत्नी तथेषिकाजालं मुञ्जयोक्त्रं दधार च ।यजमानो मुष्टिबन्धं चकाराऽध्वर्युराह च ॥२६॥दीक्षितो यजमानोऽयं दीक्षिता ब्राह्मणा इमे ।वाङ्यतो यजमानश्चाऽऽनक्षत्रोदयमेव ह ॥२७॥अवर्तताऽध्वर्युणा चार्पितं पयोऽपिबत्ततः ।पत्न्यपिबद् वाग्विसर्गं चक्रतुर्दम्पती ततः ॥२८॥दधि धानानुदुम्बरफलसक्तँश्च वोदनम् ।भोजनं दम्पती तत्र यथेष्टं सम्प्रचक्रतुः ॥२९॥याचका विप्रदेवाश्च यज्ञद्रव्योपलब्धये ।याचनार्थं गताश्चाऽथ दम्पती जागृतो निशि ॥३०॥व्रतं ररक्षतुश्चापि नानृतं संवदेदिति ।नाश्नीयान्मांसमद्यादि नोपेयाच्च स्त्रियं तथा ॥३१॥न खट्वादौ शयीतापि कृष्णाजिनादि धारयेत् ।अष्टम्यां सोमयागस्य कृत्यं राजा तथा व्यधात् ॥३२॥ततो रात्रौ सभायां च लोमशस्तूपदेशनाम् ।ददौ त्वात्मप्रलाभार्थां ज्ञानविज्ञानसंभृताम् ॥३३॥अध्वराः सर्वदा कार्या धनिकैः सुखहेतवे ।आत्ममोक्षकरा यज्ञाः कर्तव्या देहिभिः सदा ॥३४॥मोक्षयज्ञकरा लोकाः पुण्यहारा जितेन्द्रियाः ।प्राप्नुवन्ति हरेः स्थानं यत्परं प्रकृतेर्ध्रुवम् ॥३५॥न प्रीयन्ते वन्द्यमाना न कुप्यन्त्यपि निन्दिताः ।एतां प्रज्ञां तमाप्तास्ते प्राप्नुवन्ति हरेः पदम् ॥३६॥पक्वविद्या जितदोषा नापराध्यन्ति ये जनाः ।अनीर्षवो न हिंसन्ति तप्यन्ते न परर्द्धिभिः ॥३७॥निन्दाशंसे न कुर्वन्ति विक्रियन्ते न तत्र च ।प्रशान्ताः सर्वभूतानां रता भवन्ति ये हिते ॥३८॥न क्रुद्ध्यन्ति न हृष्यन्ति नापरान् वञ्चयन्त्यपि ।विमुच्य हृदयग्रन्थिं ते प्रयान्ति हरेः पदम् ॥३९॥न येषां बान्धवाः केचिद् ये चान्येषां न बान्धवाः ।अमित्राः सन्ति येषां न ये चाऽमित्रा भवन्ति न ॥४०॥ये धर्मं चानुरुद्ध्यन्ति सुख जीवन्त्यरोषिणः ।अमृतस्येव तृप्येरन्नवमानस्य योगिनः ॥४१॥विषस्येवोद्विजेयुश्च सम्मानस्य विचक्षणाः ।अवज्ञाताः सुखं चापि शेरते त्वकुतोभयाः ॥४२॥वियुक्ताः सर्वदोषेभ्यो ये ते यान्त्यक्षरं पदम् ।एतद्व्रतानि चासाद्य प्रैधन्ते साधवः सुखम् ॥४३॥सर्वान् क्रतून् समासाद्य कृत्वा मनोऽतिनिर्मलम् ।प्राप्नुवन्ति हरेर्धाम यत्परं प्रकृतेर्ध्रुवम् ॥४४॥नैषां देवा न गन्धर्वा नर्षयः पितरोऽपि वा ।पदं चान्ववरोहन्ति प्राप्तानां परमं पदम् ॥४५॥येषां नैवाऽस्त्यहंकारो गुणचारित्रकृत् तथा ।अभिन्नवाग्धृदयाश्च पूज्यन्तऽत्र परत्र च ॥४६॥अध्यात्मविधितत्त्वज्ञाः क्षान्ताः शक्ता जितेन्द्रियाः ।ऋजवः सत्यवाचश्च पूज्यन्तेऽत्र परत्र च ॥४७॥तेजसा यशसा बुद्ध्या ज्ञानेन विनयेन च ।जन्मना तपसा युक्ताः पूज्यन्तेऽत्र परत्र च ॥४८॥सुशीलाः सुखसंवेशाः स्वादरागताः ।सुवाक्याश्चाऽप्यनीर्ष्याश्च पूज्यन्तेऽत्र परत्र च ॥४९॥कल्याणं कुर्वतेऽन्येषां पापं यत्र न विद्यते ।न प्रीयन्ते परकष्टैः पूज्यन्तेऽत्र परत्र च ॥५०॥तितिक्षवः समवृत्ताः प्रियाऽप्रियसहास्तथा ।हितार्थवादिनः शान्ताः पूज्यन्तेऽत्र परत्र च ॥५१॥अदीनाः क्रोधहीनाश्चाऽलुब्धाः परोपकारिणः ।धने कामेऽप्यकलहाः पूज्यन्तेऽत्र परत्र च ॥५२॥दोषा येषां समुच्छिन्ना दृढभक्ता हरेस्तु ये ।वीतसम्मोहमानाश्च पूज्यन्तेऽत्र परत्र च ॥५३॥असक्ताः सर्वसंगेषु विनष्टसंशयाश्च ये ।नात्मस्तुतिपरा लोकाः पूज्यन्तेऽत्र परत्र च ॥५४॥नाऽसूयन्ति जनं कंचिन्न्यायमार्गे वहन्ति च ।अवन्ध्यकाला मृदवः पूज्यन्तेऽत्र परत्र च ॥५५॥कृतश्रमाः कृतप्रज्ञा न तृप्ता हरिकीर्तने ।नित्ययुक्ताश्चाऽप्रमत्ताः पूज्यन्तेऽत्र परत्र च ॥५६॥नाऽपत्रपाः परश्रेयोविधातारश्च दानिनः ।परगुह्याऽप्रभेत्तारः पूज्यन्तेऽत्र परत्र च ॥५७॥एवं सर्वगुणोपेतान् दक्षानात्महितार्थिनः ।कालज्ञाँश्च प्रियज्ञाँश्च पूजयन्ति सुरा अपि ॥५८॥अनाद्यन्तमजं दिव्यं परब्रह्म सनातनम् ।ते जना आप्नुवन्त्येव तदर्थास्तत्समर्पणाः ॥५९॥तपो निःश्रेयसं तस्य मूलं शमो दमस्तथा ।तेन सर्वमवाप्नोति यद्यदिष्टतमं भवेत् ॥६०॥तपसा जायते देही भूतानां धारणे प्रभुः ।ईश्वरास्तपसा जाता महर्षयोऽपि तेन च ॥६१॥शब्दब्रह्मपराश्चापि लभन्ते ब्रह्म चोर्ध्वगम् ।रक्षाध्वराश्च वै क्षत्त्रा हविर्यज्ञा विशो मताः ॥६२॥परिचर्यामखाः शूद्रास्तपोयज्ञाश्च भूसुराः ।त्रेतायां संहता यज्ञा ब्रह्मप्राप्तिप्रदाः शुभाः ॥६३॥तपसा विद्यया चापीज्यया दानेन वा जनाः ।यशस्त्वखण्डितं प्राप्य संस्थाप्य भुवि तद्यशः ॥६४॥ये प्रयान्ति परं स्वर्गं सुखाऽऽनन्त्यँ प्रभुञ्जते ।यज्ञे दातार एवात्र स्थापयन्ति यशोभुवम् ॥६५॥यावद्यशोभूर्विद्येत तावत् स्वर्गमखण्डितम् ।देवर्षिपितृगुर्वर्थे वृद्धातुरातिथिकृते ॥६६॥अनाथदीननार्यर्थे सतीसाध्वीसतां कृते ।नाऽदेयं विद्यते किंचिद्येषां ते दिवमागताः ॥६७॥गौतमोऽवग्रहे विप्रान् संसेव्याऽन्नादिभिः सदा ।प्राप्य दिव्यं दिवं पश्चान्नारायणपदं गतः ॥६८॥रन्तिदेवो वशिष्ठाय दत्वा वारि सुखप्रदम् ।आशीर्वादेन वै स्वर्गं भुक्त्वा प्राप हरेः पदम् ॥६९॥इन्द्रद्युम्नो मखे द्रव्यमनन्तं सम्प्रदाय च ।ययौ दिव्य दिवं भक्त्या नारायणपदं गतः ॥७०॥शिबिः पुत्रं ब्राह्मणार्थे दत्वा स्वर्गं परं ययौ ।प्रतर्दनः काशिकेशो दत्वा नेत्रे द्विजातये ॥७१॥भक्त्या स्वर्गं प्रभुक्त्वैव नारायणपदं ययौ ।धर्मांगदशिरो दत्वा स्वर्णांगदोऽक्षरं ययौ ॥७२॥देवावृधो नृपश्छत्रं सौवर्णं भूसुराय तु ।दत्वा सराष्ट्रः प्रययौ पारमेशं परं पदम् ॥७३॥सांकृतिकश्च शिष्येभ्यश्चोपादिश्यान्तरस्थितम् ।परब्रह्म ययौ दिव्यं परं पदं हरेः किल ॥७४॥अम्बरीषश्च विप्रेभ्यो दत्वा गोव्रजमित्यपि ।अर्बुदार्बुदमेवाऽपि स्वर्गं भुक्त्वाऽक्षरं गतः ॥७५॥वृषादर्भिः सर्वरत्नं विप्रायाऽऽर्प्याऽक्षरं गतः ।युवनाश्वः प्रियानारीः रम्याण्यावसथानि च ॥७६॥विप्रेभ्यो दानमादत्त्वा स्वर्गं ततोऽक्षरं गतः ।निमिः राष्ट्रं प्रदत्वैव वैदेहो जनकोऽभवत् ॥७७॥जामदग्न्योऽपि पृथिवीं दत्वा नारायणोऽभवत् ।गयो द्विजातये दत्वा स्वर्गं चेशपदं ययौ ॥७८॥मरुत्तो नाम राजर्षिः समर्प्याङ्गिरसे सुताम् ।दिव्यं जगाम दिव्यं स ततोऽक्षरपदं ययौ ॥७९॥ब्रह्मदत्तोऽपि पाञ्चाल्यो निधिं शंखं द्विजातये ।दत्वा स्वर्गं चिरं भुक्त्वा पारमेशपदं ययौ ॥८०॥मित्रसहश्च राजर्षिर्वसिष्ठाय निजां प्रियाम् ।मदयन्तीं प्रदत्वैव पत्न्या सहाऽक्षरं ययौ ॥८१॥सहस्रजित् तथा राजा प्रियान् प्राणान् ददौ शुचिः ।ब्राह्मणार्थे ययौ स्वर्गं भुक्त्वा मोक्षपदं ययौ ॥८२॥शतद्युम्नो नृपो दत्वा सोपस्करालयं निजम् ।हिरण्मयं मुद्गलाय स्वर्गं भुक्त्वाऽक्षरं ययौ ॥८३॥द्युतिमान्नृपतिः राज्यमृचीकाय प्रदाय च ।भुक्त्वा स्वर्गं चिरं भक्त्याऽक्षरं धाम ययौ ततः ॥८४॥लोमपाद सुतां शान्ताम् ऋष्यशृंगाय योगिने ।दत्वा दिव्यं दिवं भुक्त्वाऽक्षरं धाम ततो ययौ ॥८५॥मदिराश्वश्च राजर्षिः कन्यां दत्वा सुशोभनाम् ।हिरण्यकरऋषये ययौ स्वर्गं ततोऽक्षरम् ॥८६॥प्रसेनजिद् गवां लक्षं दत्वा दानं द्विजातये ।स्वर्गं भुक्त्वा ततो यातोऽक्षराख्यं श्रीहरेः पदम् ॥८७॥चतुर्दशस्तरावासाः पितरश्च महर्षयः ।देवा नृपाः प्रजाः कन्या निजा दत्वा तु शार्ङ्गिणे ॥८८॥पूर्वपूर्वषु कल्पेषु गोलोकं परमं गताः ।गमिष्यन्ति परं चापि दत्वा हर्यर्थमेव च ॥८९॥सर्वस्वं वापि किञ्चिच्च भक्त्या यास्यन्ति तत्पदम् ।दानैस्तपोभिर्भक्त्या च बहवो वै दिवं ययुः ॥९०॥येषां प्रतिष्ठिता कीर्तिर्ब्रह्मलोके सदाऽस्ति वै ।पृथ्व्यां कीर्तिस्तथा चास्ते यावत्सूर्यादयः स्थिता ॥९१॥सद्भ्य आगतविज्ञानाः शिष्टा नारायणार्पिताः ।हर्यर्थकृतसर्वस्वास्तिष्ठन्ते शाश्वताऽक्षरे ॥९२॥धृतिमन्तोऽप्रमत्ताश्च दान्ता धर्मविदो जनाः ।वीतहर्षमदक्रोधा नाऽवसीदन्ति वै कचित् ॥९२॥दानाध्ययनयज्ञैश्च तपोह्रीदमनार्जवैः ।वर्धयते निजं तेजः पाप्मा सर्वो विनश्यति ॥९४॥धूतपापा भक्तियुक्ताः प्रत्याहारजितेन्द्रियाः ।कामक्रोधाऽनभिभूताः प्रयान्ति ब्रह्म शाश्वतम् ॥९५॥अग्निं विप्रं सतीं सन्तं देवं वृद्धं नमेत् सदा ।वाचं क्रूरां वर्जयेच्च ब्रह्म सम्पद्यते ततः ॥९६॥प्रज्ञानिष्ठश्चात्मनिष्ठः कुर्वन्नपि न लिप्यते ।संसारवासनादेहां नदीं तर्तुं यतेत च ॥९७॥सर्वेन्द्रियजलाऽऽवाहां लोभमोहतटां तथा ।क्रोधपंकां कालदीर्घां कुटुम्बस्नेहसज्झषाम् ॥९८॥सेवाप्लवेन भक्त्या वा नावा सतां सहायतः ।तरन्ति सात्त्वताः शान्ता धीराः पारगदृष्टयः ॥९९॥अभक्ताश्चाप्यविज्ञाश्च नोत्तरन्ति नदीमिमाम् ।तस्मादुन्मज्जनार्थं वै यतेत दानधर्मवान् ॥१००॥यज्ञेन भक्त्या न्यासेन निस्तरेत्तां सदाश्रयः ।सतां धर्मेण वर्तेत क्रियां सतां समाचरेत् ॥१०१॥धर्मभक्तिविशेषज्ञा नदीं तरन्ति दुस्तराम् ।साधवः श्रीहरेर्भक्त्या तारयन्त्यबुधान् प्लवाः ॥१०२॥इत्येवं राधिके श्रीमान् लोमशो गुरुरेव तु ।उपादिश्य विरराम परिहारस्ततोऽभवत् ॥१०३॥भोजनान्यभवँश्चापि यथेष्टतृप्तिदानि वै ।ततोऽवापुश्च विश्रान्तिं राधिके सर्वशो जनाः ॥१०४॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने मार्गशीर्षकृष्णाष्टम्याम् अश्वपट्टसरोवरतटेऽश्वपाटलनृपतिः सोमयागमारब्धवान्, प्रथमदिवसीयाऽनुष्ठानम्, लोमशकृतोपदेशश्चेत्यादिनिरूपणनामा चतुश्चत्वा-रिंशदधिकद्विशततमोऽध्यायः ॥२४४॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP