संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २१० त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २१० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २१० Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके प्रातः स्नात्वा कृष्णनरायणः ।कृत्वा तु नैत्यिकी पूजां यज्ञभूमिं जगाम ह ॥१॥लोमशाद्याः ऋषयश्च राजानो यजमानकाः ।प्रजा देवाः सुरेशाश्च कर्मठाश्चोपतस्थिरे ॥२॥यज्ञहव्यानि नव्यानि तत्राहृतानि सर्वतः ।कामद्रुमादिभिस्तत्र रसाः सम्प्रतिपादिताः ॥३॥स्वस्तिवाचोऽभवँश्चापि पुण्याहवचनान्यपि ।वाद्यघोषा अभवँश्च वेदध्वनय इत्यपि ॥४॥यजमानाश्च राजानो नवम्यां प्रातरेव ते ।यथास्थानं समागत्य कर्मकाण्डे कृतादराः ॥५॥सावधाना अभवँश्च जायन्ते क्रमशः क्रियाः ।प्रोक्षणानि पूजनानि नैवेद्यबलयोऽर्पिताः ॥६॥वह्नौ हव्यप्रदानानि जातान्याहुतयोऽभवन् ।देवतातर्पणं जातं सुराद्यास्तृप्तिमागताः ॥७॥ब्रह्मसृष्टीश्वरसृष्टिजीवसृष्टिस्थदेहिनः ।यज्ञाहुतिभिः प्रत्यक्षं तृप्तिं गतास्तदाऽध्वरे ॥८॥अन्त्याहुतिं तथा पुष्पाञ्जलिं ददौ हरिर्मखे ।परिहारं चकाराऽथ भोजनान्यददात् प्रभुः ॥९॥मेशुभान्नं मोहनस्थालान्नं मुद्गजलडडुऽकान् ।सुखदां चूर्णलडडूँऽश्च मौक्तिकान् शष्कुलीस्तथा ॥१०॥शाटकान् घृतपूराँश्चापूपाँश्च शतछिद्रकान् ।पिण्डकान् बर्फिकां मिष्टपूर्णपोलीश्च पूरिकाः ॥११॥खाजकान् पायसान् क्षीरं संयावं च बिरञ्जकम् ।कंसारं बुन्दिकालड्डून् शर्कराघृतलड्डुकान् ॥१२॥श्रीखण्डं राजिकाराद्धं क्वथिकां सूपमित्यपि ।ओदनं बहुशाकानि पत्रभाजाश्च भोजनाः ॥१३॥चणका माषकाश्चापि श्रपिता भर्जितास्तथा ।वटिकाः फुल्लवटका पोलिकाश्चामृतानि च ॥१४॥दिव्यभोज्यानि मुक्तानां सत्त्वभोज्यानि चेशिनाम् ।सुधाभोज्यानि देवानां चामभोज्यानि पितॄणाम् ॥१५॥रसभोज्यानि तत्त्वानां मदभोज्यानि रक्षसाम् ।यथायोग्यानि भोज्यानि सर्वेषां देहिनां तथा ॥१६॥यज्ञप्रसादरूपाणि तृप्तिदान्यभवँस्तदा ।तक्रं बहुविधं शुभ्रं चाम्ब्लमिष्टं सुगन्धि च ॥१७॥पाचकं शान्तिदं तत्रामीक्षाघं चाभवत्तथा ।मधूनि नैकरूपाणि मधुपर्काणि यान्यपि ॥१८॥तिक्ताम्ब्लकटुचूर्णानि चटन्यश्चाभवँस्तदा ।आरनालानि रम्याणि फलानि विविधानि च ॥१९॥ताम्बूलकानि दिव्यानि देहिभ्योऽदापयद्धरिः ।एवं सर्वान् भोजयित्वा ततः संबुभुजे प्रभुः ॥२०॥कुटुम्बसहितः श्रीशो विशश्राम क्षणं तथा ।मध्याह्ने रायमारीशो नृपः प्रार्थयदच्युतम् ॥२१॥निजद्वीपं समागन्तुं हरिः सज्जो बभूव ह ।अन्यान् यथापेक्षिताँश्च नित्ययोगस्थितान् प्रभुः ॥२२॥पित्रादीनीश्वरं शंभुं सतीं कुटुम्बकं निजम् ।ऋषीन् लोमशमुख्याँश्च नीत्वा विमानमास्थितः ॥२३॥तदा राजा च राज्ञी च दानवर्षिस्तथा पुरः ।विमानेन ययुश्चाग्रे द्वीपमालीस्मराभिधम् ॥२४॥ऋद्धीशा नगरी संशोभाभिश्चलंकृता तदा ।सैन्येन स्वागतार्थं चोपस्थितिः रचिता द्रुतम् ॥२५॥तावद् विमानं कृष्णस्य वर्धिमुल्लंघ्य खाडिकाम् ।द्वीपानुच्चावचाँश्चाप्युल्लंघ्य राष्ट्रं सुशोभनम् ॥२६॥आलीस्मरं हरिः प्राप विमानं भूतलेऽनयन् ।ऋद्धीशाया महोद्याने नृपालयस्य सन्निधौ ॥२७॥तदा वाद्यान्यवाद्यन्त जयध्वानास्तथाऽभवन् ।गीतिकाः स्मरनारीणां प्रजानां जयगर्जनाः ॥२८॥सुस्वागतैः पताकाद्यैर्ध्वजैर्लाजाऽक्षतादिभिः ।तोरणैः पुष्पहाराद्यैरञ्जल्यादिभिरेव च ॥२९॥नमनैः पुष्पदानैश्च सम्मानं श्रीहरेरभूत् ।विमानाच्छ्रीहरिस्तूर्णं बहिर्यदाऽऽययौ ततः ॥३०॥रायमारीशभूपस्त्री राज्ञी कुशलकुण्डला ।पादौ तीर्थजलैः संप्रक्षालयामास सत्वरम् ॥३१॥हरेस्तच्चरणोत्थं च जलं पपुर्नृपादयः ।कुंकुमैश्चरणौ रञ्जयित्वा मुद्राश्च जगृहुः ॥३२॥पुष्पहारान् गन्धवारि गन्धसारान् ददौ तथा ।दुःखहाञ्जलिभिर्नार्यः स्मारिकाः कृष्णमेव ताः ॥३३॥पुपूजुर्बहुभावेन कन्यका भावगर्भिताः ।अथ कृष्णं महासौधे राजा न्यषादयत् क्षणम् ॥३४॥सिंहासने स्वके नीत्वा ददौ धनं तु कोटिकम् ।सौवर्णं चाम्बराद्यं चीर्णं सर्वं कूप्यमित्यपि ॥३५॥रत्नलक्षं प्रददौ च तदा कन्यात्रयं शुभम् ।मुग्धं कृष्णगले मालात्रयं समार्पयत् पतिम् ॥३६॥मत्वा मातृवचोऽवाप्य कृष्णवल्लभमुत्तमम् ।पतिं कन्यात्रयं प्राप राजा सन्तोषितोऽभवत् ॥३७॥राज्ञी जाता कृतकृत्या ततो दुग्धं पपौ प्रभुः ।अन्ये दुग्धं पपुश्चापि द्रुतं कृष्णो विमानके ॥३८॥स्थित्वा स्वल्पे ऋद्धीशायां नगर्यां सैन्यवर्धितः ।प्रजाभिश्चार्थितः संविहृत्य गृहाणि सर्वतः ॥३९॥पावनानि तदा कृत्वा दत्वा स्वं दर्शनं शुभम् ।प्रजाभिश्च कृतं नैकविधोपदाभिरर्चनम् ॥४०॥गृहीत्वा राजसौधं चाऽऽययौ स्वामी हरिः प्रभुः ।राज्यसिंहासने स्थित्वोपादिदेश प्रजादिकान् ॥४१॥मम योगो महत्पुण्यैर्जातोऽस्त्यत्र महार्णवे ।भवतां भावनाकृष्टः समायातोऽस्मि दूरतः ॥४२॥मदर्थे दीयते सर्वं शाश्वतं जायते हि तत् ।निर्गुणं मम योगेन मोक्षदं जायते हि तत् ॥४३॥आशां विहाय चान्यस्मिन् मायिकेऽखिलवस्तुनि ।रमते चात्मयोगेषु मोक्षमार्गं स विन्दति ।ऽ। ४४॥आशा दुःखगृहं शश्वत् हिमवत्समनिश्चलम् ।महोदधिसमं चाप्यगाधं दोषसमन्वितम् ॥४५॥नभःसममपारं च रौरवं जीवतः स्थितम् ।अपि राज्यस्थितो राजा चाशया मृगयाकृते ॥४६॥वने दुःखं तथाऽऽप्नोति यथा क्षुद्रो हि लुब्धकः ।अपि सर्वेन्द्रियतृप्तः कामनाशाधृतो भवेत् ॥४७॥अन्यायकामभोगेन महद्दुःखमवाप्नुयात् ।अन्तरीक्षं तथा कामो द्वयोर्ज्यायान् नु को भवेत् ॥४८॥इति प्रश्नेऽन्तरीक्षं वै ज्यायः कामो न हि क्वचित् ।अन्तरीक्षस्य पारं वै यान्ति योगिजनाः क्वचित् ॥४९॥आशाया नैव पारं संलभन्ते तदनुसृताः ।ऋषभो नाम भक्तो मे पुरा श्रीबदरीवनम् ॥५०॥उपाययौ मम दिव्यं नरनारायणाश्रमम् ।यत्र मे बदरी रम्या ह्रदो वैहायसोऽमलः ॥५१॥अश्वशिरा ऋषिर्यत्र यत्र गंगाऽतिपावनी ।तत्रागत्याश्रमे रम्ये मण्डपे मम सन्निधौ ॥५२॥नत्वा वासार्थमेवाऽसौ दृष्ट्वाऽऽश्रमर्षिसत्कुटीम् ।पर्णकुटीं ययौ कर्तुं दीर्घवासेच्छया पुनः ॥५३॥तेन मार्गे ऋषिर्नान्ना तनुर्दृष्टस्तपोधनः ।ऊर्ध्वे त्वष्टगुणो देहे कृशतायां तृणेशवत् ॥५४॥कनिष्ठिकासमस्त्वस्य दर्शनं चाद्भुतं ह्यभूत् ।तं नत्वा ऋषभस्तस्थौ दत्तासने विवेश ह ॥५५॥पृष्टः कुशलमेवापि कथयामास सान्त्वनम् ।तथाऽऽह पर्णशालां च कर्तुमिच्छामि चात्र वै ॥५६॥तपः कर्तुं तथेच्छामि शान्तिं विन्दामि येन च ।तत्सर्वं कर्तुमिच्छामि शाधि मे त्वं तनो मुने ॥५७॥तनुः प्राह मया नैव कृताऽत्र पर्णसत्कुटी ।यतः सर्वं नश्वरं वै कस्यार्थे पर्णजा कुटी ॥५८॥यावदिच्छा च ते त्वास्ते पर्णशालाविधापने ।तावच्छान्तिर्न ते स्याद्वै तृष्णाशालावृतस्य वै ॥५९॥निस्तृष्णस्य निरीहस्य निरिच्छस्य महत्सुखम् ।तपसाऽपि सुखं नैव यदीच्छा तत्र जाग्रति ॥६०॥पर्णकुट्यां निविष्टस्य न स्याद् ब्रह्मप्रवेशनम् ।आशाकुटीविहीनस्य भवेद् ब्रह्मप्रवेशनम् ॥६१॥ब्रह्मावेशितलोकस्य शान्तिः शाश्वतयोगिनी ।तस्मादाशां परित्यज्याऽन्तरीक्षादपि दीर्घिकाम् ॥६२॥चिदाकाशे पर्णकुट्यां लभ विश्रान्तिमच्युते ।तनुनैवं समुक्तः स ऋषभो ज्ञानचक्षुषा ॥६३॥पर्णकुटीं परित्यज्याऽभजन्मां परमेश्वरम्।ममांऽशो मत्स्वरूपः सोऽभवन्मोक्षगतिस्ततः ॥६४॥तस्मादाशां परित्यज्य मनो मयि समर्पयेत् ।सर्वं मयि समर्प्यैव शाश्वतं सुखमाप्नुयात् ॥६५॥आशा कृता कृशा येन पुष्टात्मा स मतो मम ।आशा पुष्टा भवेद् यस्य कृशः स्यात् स न संशयः ॥६६॥या सक्ता सर्वभूतेषु कृतघ्नेष्वलसेषु च ।नृशंसेषु हिंसकेषु याऽपकारिषु विद्यते ॥६७॥पुत्रस्त्रीधनसौधेषु देहेन्द्रियेषु भुक्तिषु ।वार्धक्ये पुत्रहीनानां पुत्रे राज्ञां च राष्ट्रके ॥६८॥प्रदानकांक्षिणीनां च कन्यानां सुविलासने ।लुब्धानां प्रियविषये डिम्भानां मातरि ध्रुवा ॥६९॥याऽऽशा कृता कृशा येन स शान्तिमधिगच्छति ।षष्टिवर्षसहस्राणि गौतमस्तप आचरत् ॥७०॥उपायातो धर्मराजस्तमुग्रतपसं मुनिम् ।गौतमो धर्मराजाय नमस्कुत्याऽऽसनं ददौ ॥७१॥प्रपच्छ कुशलं चापि स्वागतं चाकरोत्ततः ।धर्मराजो गौतमं संपप्रच्छ तपसा मुने ॥७२॥किं ते प्रयोजनं चास्ते कथं करोषि दुस्तपः ।गौतमः प्राह शान्त्यर्थं तपश्चरामि दुश्चरम् ॥७३॥येन यास्ये पुण्यकृताँल्लोकान् सुखादिसंभृतान् ।यमः प्राह विचारस्ते विमार्गं प्रतिगच्छति ॥७४॥पुण्यकृतां तथाऽपुण्यकृतां लोकेषु सदृशम् ।तृष्णाजन्यं महादुःखं बाधते पुण्यशालिनः ॥७५॥धामाक्षरं विनाऽन्यत्र तार्ष्णं दुःखं प्रविद्यते ।तस्मादाशां विहायैव तिष्ठ ब्रह्मणि निश्चलः ॥७६॥सर्वां शान्तिं ब्रह्मयोगादविनाशामवाप्स्यसि ।आशावतः सुखं नास्ति यया ते तपतोऽपि वै ॥७७॥यावदाशा च तृष्णा च तथेहा स्वार्थगृध्निका ।इच्छाऽभिलाषा कामश्च तावद् व्यक्तेः कथं सुखम् ॥७८॥सर्वं चेष्टं निवृत्तं च यस्य भवति सर्वथा ।तस्याऽब्धिः शाश्वतश्चोपतिष्ठेदानन्दसंभृतः ॥७९॥तस्मान्नारायणः साक्षाद् येषामिच्छास्ववस्थितः ।सन्तोऽपि ब्रह्मवेत्तारस्त एव शान्तिसंभुजः ॥८०॥श्रुत्वैवं गौतमस्त्यक्त्वा तपो भक्तौ व्यवस्थितः ।निराशः शान्तहृदयः परां शान्तिं गतस्तदा ॥८१॥तस्मान्नृपैः प्रजाभिश्च नरैर्नारीभिरेव च ।यष्टव्योऽहं महायज्ञैः सन्तोषणीयः सेवया ॥८२॥इच्छार्पणेन साक्षाच्च भजनीयोऽहमेव च।एवं मां प्राप्य सेवाभिर्मोक्षं नैजं प्रसाधयेत् ॥८३॥भवन्तश्च जनाः सर्वे प्रजा राजादयोऽपि च ।मयि नारायणे कृष्णे कर्मणा मनसा गिरा ॥८४॥सर्वं समर्प्य मां कृष्णे भजन्तु गतलालसाः ।महाशान्तिं परमां मे दास्येऽक्षरे परे स्थिताम् ॥८५॥इत्युक्त्वा श्रीहरिः राधे चाह मन्त्रं प्रजादिषु ।भक्तिं ददौ निजां पश्चाद् विरराम महाप्रभुः ॥८६॥राजा राज्ञी प्रजाश्चापि भोजयामासुरच्युतम् ।सार्थान् संभोजयामासुः राजाद्याश्चक्रुरादनम् ॥८७॥ततः पूजां परिगृह्य विमानमध्यरोहयत् ।सर्वान् स्वयं चारुरोह गन्तुं च मखभूमिकाम् ॥८८॥सम्मानं बहुधा चक्रुः प्रजाः सैन्यानि योषितः ।ससार च ततः कृष्णो राज्ञा च ऋषिणा सह ॥८९॥द्वीपे द्वीपान्तरे चापि सायं वै काशिमं ययौ ।द्विवामं च ययौ पश्चान्मीलवीलं समाययौ ॥९०॥ततोऽध्वरप्रदेशं स आययौ च निशांशके ।स्नात्वा सन्ध्या तत्र चक्रे निजावासे च भोजनम् ॥९१॥विशश्राम च निद्रायां रायमारीशकन्यकाः ।तिस्रः सिषेविरे कान्तं भगवन्तं नवं पतिम् ॥९२॥प्रातःकाले वेदघोषैर्मंगलावहतूर्यकैः ।गीतिभिर्वाद्यघोषैश्च जजागार हरिः स्तवैः ॥९३॥राजाधिराजो भगवान् कृतस्नानविधिस्ततः ।पितरौ पूजयामास भक्तेभ्यो दर्शनं ददौ ॥९४॥कृताह्निकः सुवेषश्च मखभूमिं समागतः ।दानवर्षिं तथा रायमारीशभूपतिं तदा ॥९५॥प्राहेदं कोटिद्रव्यं यत् पूजायां मम चागतम् ।भवतोश्च प्रजानां च सर्वं मखेऽस्तु चार्पितम् ॥९६॥इत्युक्त्वाऽऽहूय कोशेशं कुबेरं प्रददौ च तत् ।मखे व्ययार्थं धनराडयुंक्त सर्वमेव तत् ॥९७॥इत्येवं राधिकेऽनादिकृष्णनारायणः स्वयम् ।पावयित्वा जनान् देशान् नराँश्च योषितस्तथा ॥९८॥संगृह्य शरणे मुक्तियोग्यान् करोत्यनुग्रहात् ।बालान् वृद्धान् मध्यरूपान् यूनः सर्वाश्च देहिनः ॥९९॥पावयित्वा मोक्षयोग्यान् करोति परमेश्वरः ।अपि कन्या भूभृतां च मुग्धाः समर्पिताः स्वयम् ॥१००॥परिगृह्यापि विधिना निजयोगं ददाति सः ।कृपापारावाररूपो दिव्योऽपि जनताश्रयः ॥१०१॥अदिव्यान् मानवान् देहान् स्वीकृत्यापि प्रमोक्षणम् ।ददातीति कृपा तस्याऽऽनन्दवार्धेर्हरेः प्रिये ॥१०२॥अलेप्यस्य न लेपोऽस्ति कालमायेशितुः क्वचित् ।सर्वं चास्य शरीरं वै भोग्यं चाधीनकं तथा ॥१०३॥विशेषेण परिगृह्य पावयत्येव भक्तिगम् ।नित्यतृप्तस्य नास्त्येव पराधीना हि तृप्तिका ॥१०४॥सर्वानन्दप्रदः सोऽयं सर्वत्र जयतेतमाम् ।राधे भक्त्यैव भगवान् भक्ताधीनो भवत्यपि ॥१०५॥यो यथा तं प्रपद्येत तं तथा भजते प्रभुः ।या यथा सेवत कृष्णं कृष्णस्तां सेवते तथा ॥१०६॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने नवम्यां यज्ञकार्योत्तरं रायमारीशभूपराष्ट्रे आलीस्मरद्वीपे ऋद्धीशापुरीं प्रतिगमनं भ्रमणं पूजनमुपदेशनं काशिमद्विवाममीलवील- द्वीपान् पावयित्वा मखभूमावागमनं रात्रौ विश्रान्तिश्चेत्यादिनिरूपणनामा दशाधिकद्विशततमोऽध्यायः ॥२१०॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP